ॐ तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम् ॐ
भेदपराण्येव खलु ब्रह्मसूत्राणि
तृतीयाध्यायप्रथमपादशाङ्करभाष्यविचारः
(अधिकरणं १ )
ॐ तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम् ॐ । (३.१.१)
ॐ त्र्यात्मकत्वात्तु भूयस्त्वात् ॐ । (३.१.२)
ॐ प्राणगतेश्च ॐ । (३.१.३)
ॐ अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ॐ । (३.१.४)
ॐ प्रथमेऽश्रवणादिति चेन्न या एव ह्युपपत्तेः ॐ । (३.१.५ )
ॐ अश्रुतत्वादिति चेनेष्टादिकारिणां प्रतीतेः ॐ । (३.१.६)
ॐ भाक्तं वानात्मवित्त्वात्तथाहि दर्शयति ॐ । (३.१.७)
इति सप्तसूत्रात्मकमेकमधिकरणम् । तथ जीवः देहबीजभूतैः असम्परिष्वक्तो गच्छत्याहोस्वित् सम्परिष्वक्तः (युक्तः) गच्छति इति संशेये, करणस्वीकारवत् भूतस्वीकारश्रवणात् भूतैरसम्परिष्वक्त एव गच्छतीति पूर्वपक्षे वा प्राप्ते, तदन्तरप्रतिपत्ताविति प्रथमसूत्रेण देहान्तरप्रतिपत्त्यर्थं जीव: भूतसम्परिष्वक्त एव गच्छति कुतः प्रश्ननिरूपणाभ्यां 'वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति' इति प्रश्नेन, 'इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति' इति निरूपणेन च (उत्तरेण च) अभिः परिवेष्टितो गच्छतीति ज्ञायमानत्वात्' इति यदुक्तं तद्युक्तमेव । परन्तु अद्वैतमतस्याननुकूल । देहादीनां मरणस्य भूतानां च सत्यत्वसिद्धेः । न हि कल्पितस्य रंहणादिकमुपपद्यते ।
उदाहृताभ्यां प्रश्ननिरूपणाभ्यां केवलाभिरभिः सम्परिष्वक्तो गच्छतीत्येवावगम्यते । अपूशब्दश्रवणादित्याशङ्कायां प्रवृत्तस्य 'त्र्यात्मकत्वात्तु भूयस्त्वादि’ति द्वितीयसूत्रस्य अपां त्र्यात्मकत्वात् पृथिवीतेजोजलरूपत्वात् बाहुल्याच्च मरणकाले अभिः सह गमनसिद्धौ भूतत्रयेण गमनं सिध्यतीति व्याख्यानमपि भूतानां त्रिवृत्करणादीनां च सत्यत्वसाधकतया अद्वैतिनां प्रतिकूलमेव ।
‘प्राणगतेश्चे' ति तृतीयसूत्रेण 'तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति' (बृ. ४-४-२ ) इति श्रुत्या जीवः यदा उत्क्रामति तदा जीवोत्क्रमणमनुसृतय प्राण उत्क्रामति उत्क्रामन्तं प्राणमनुसृत्य सर्वे प्राणा उत्क्रामन्ति इति जीवेन सह प्राणोत्क्रमण-श्रवणात् प्राणस्य चाश्रयमन्तरा स्थित्यसम्भवेन आश्रयोभूतानां भूतान्तरोप- सृष्टानामपामपि गतिः सिध्यतीति कथनमपि प्राण, प्राणगति, भूताश्रयत्वादिनां सत्यत्वसाधकतया अद्वैतिनां प्रतिकूलमेवेति । न हि सर्वेषां मिथ्यात्वे मिथ्याभूतप्राणगत्यादिना भूताश्रयत्वं सिध्यति ।
‘तमुत्क्रामन्तं प्राणोऽनूत्क्रामति' इति श्रुतिः जीवोत्क्रमणमनुसृत्य प्राण उत्क्रामति इति जीवोत्क्रमणं पूर्वं अनन्तरं प्राणोत्क्रमणं बोधयतीति सिध्या जीवस्य विभुत्वमङ्गीकृत्य कथं तस्योत्क्रमणादिकं? न हि विभोरुत्क्रमणं सम्भवतीत्याशंक्य उपाधिभूतप्राणोत्क्रमणे जाते तदुपाधिके जीवे उत्क्रमणं गौणमिति जीवोत्क्रमणस्य प्राणोत्क्रमणानन्तरभावित्ववक्तारोऽद्वैतिनो निरस्ताः । तमुत्क्रामन्तं प्राणोऽनूत्क्रामति' इति श्रुतौ प्राणोत्क्रमणस्य जीवोत्क्रमणानुसारित्वोक्त्या तद्विरुद्धत्वादिति ।
‘अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात्' इति चतुर्थसूत्रे ‘यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राण:' (बृ. ३-२-१३) इति श्रुत्या प्राणानां अग्न्यादीन् प्रति गमनश्रवणात् जीवस्य प्राणेन सह गमनाभावात् प्राणाश्रयाणामपां जीवेन सह गमनमयुक्तमिति 'अग्न्यादिगतिश्रुतेरिति चेत्' इति पूर्वभागेन आक्षिप्य, 'न भाक्तत्वात्' इत्युत्तरभागेन प्राणानामग्न्यादीन् प्रति गमनश्रुतिर्न मुख्या किन्तु भाक्ता, 'उपकारकं न भवती, त्यभिप्रायेण गौणी । तस्मात् प्राणानां जीवेन सह गतिर्युक्तेति तदाश्रयतया अपामपि जीवेन सह गमनं स्वीकर्तव्यमिति कथनमपि प्राणगत्यादीनां सत्यत्वस्थापकतया अद्वैतिनां प्रतिकूलम् ।
‘प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्ते:' इति पञ्चमसूत्रे ‘तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुव्हति' (छां. ५-४-२ ) इति प्रथमाग्नौ होमकाले श्रद्धाया एव श्रवणेन अपामश्रवणात् न जीवः अव्विशिष्टः गच्छतीत्ययुक्तमिति चेत्, इति प्रथमेऽश्रवणादिति प्रथमभागेनाक्षिप्य 'न ता एव ह्युपपत्ते' रित्युत्तरभागेन आप एव श्रद्धाशब्देन अभिप्रेयन्ते कुतः ? उपपत्तेः=श्रद्धाशब्देनापां ग्रहणे उपक्रमोपसंहारमध्यस्थवाक्यानां एकार्थत्वोपपत्तेः इत्युत्तरभागेन प्रथमाग्नौ होमकाले अव्विशिष्टत्वं समर्थितम् । इदमप्यद्वैतिनां अपां सहगमनादिकथनादिना सत्यत्वप्रापकतया प्रतिकूलम् । द्वैतिनामनुकूलम् ।
‘अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीते' रितिषष्ठसूत्रेण 'भूतसम्परिष्वक्ता जीवा गच्छन्तीति न युक्तं जीवस्य गमनाश्रवणात् इति अश्रुतत्वादिति वाक्येनाशंक्य 'न इष्टादिकारिणां प्रतीते' रित्युत्तरभागेन जीवानां गमनप्रतीतेः इति समाहितम्-इदमपि पूर्ववदेव अद्वैतिनां प्रतिकूलं, द्वैतिनामकूलम् ।
इष्टादिकारिणां स्त्रकर्मफलभोगाय रंहणप्रतिज्ञा न युक्ता-'एष सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ति' (छां. ५-१० ४) ते चन्द्रं प्राप्यानं भवन्ति तांस्तत्र देवा यथा सोमं राजानमाप्यायस्वापक्षीयस्वेत्येवमेनांस्तत्र भक्षयन्ति' (बृ. ६-२-१६ ) इत्यादिश्रुतिभिः इष्टादिकारिणां देवान्नत्वं (देवभक्ष्यत्वं) कथ्यते । न च व्याघ्रादिभिरिव देवैः भक्ष्यमाणानामुप- भोगस्सम्भवति इति शंकायां प्रवृत्तं ' भाक्तं वाऽनात्मवित्त्वात्तथाहि दर्शयति' इति सूत्रम्-अस्य च सूत्रस्य " इष्टादिकारिणां यदन्नत्वमुक्तं तन्न मुख्यम् । किं तु भाक्तं (गौणं) यथा विशोऽन्नं राज्ञां पशवोऽन्नं विशामिति राज्ञोऽन्नत्वं तु वैश्यानां वैश्यानामन्नत्वं पशूनामुपभोगसाधनत्वं न मोदकादिवच्चर्वणीयत्वं एवमेव इष्टस्त्रीपुत्रमित्रभृत्यादिभिरिव गुणभावोपगतैः इष्टादिकारिभिर्यत्सुख- विहरणं देवानां तदेवैषां भक्षणमभिप्रेतं न मोदकादिवच्चर्वणं निगरणं वा । अत एव ‘न ह वै देवा अश्नन्ति न पिबन्त्येनदेवामृतं दृष्ट्वा तृप्यन्ति’ (छां. ३-६-१) इति देवानां चर्वणादिव्यापारं वारयति तेषां चेष्टादिकारिणां देवान् प्रति गुणभावोपगतानामप्युपभोग उपपद्यते राजोपजीविनामिव परिजनानाम् । अनात्मवित्त्वच्चेष्टादिकारिणां देवोपभोग्यभाव उपपद्यते । तथा हि श्रुतिरनात्मविदां देवोपभोगत्यतां दर्शयति-'अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानाम्' (बृ. १-४ -१० ) इति स चास्मिन्नपि लोक इष्टादिभिः कर्मभिः प्रीणयन् पशुवद्देवानामुपकरोत्यमुष्मिन्नपि लोके तदुपजीवो तदादिष्टं फलमुपभुञ्जानः पशुवद्देवानामुपकरोति इति गम्यते इति तस्माद्भूतैः सम्परिष्वक्तो गच्छति इति यद्व्याख्यानं तदप्यद्वैतिनां प्रतिकूलमेव । तेन परलोक, देव, भोग्यभोजकत्वादीनां सत्यत्वसिद्धेः । किं च ' अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशु' रिति वाक्यं जीवब्रह्मणोर्भेदनिषेधकमिति तत्र तत्र यद्वदन्ति अद्वैतिनः तदप्यनेन भाष्यवाक्येन उपनिषच्छाङ्करव्याख्यानेन च निराकृतं भवति । ‘अथ योऽन्यां देवतामुपास्ते' इति कर्मिणां परब्रह्माज्ञानवतां पशुवद्देवभोग्यत्वं दर्शयतीति अनात्मविदां कर्मिणां निन्दाश्रवणेन भेदस्य निषेधासिद्धेः । विशेषविचारस्तु एतच्छु तिविचारावसरे कृतोद्रष्टव्यः ।
(अधिकरणम् २)
ॐ कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च ओम् (३.१.८) ॐ
इति सूत्रस्य ‘“चन्द्रमण्डलमधिरूढाः कर्मफलमशेषं भुक्त्वा कर्मरहिताः आयास्यन्ति उत शेषकर्माण आयास्यन्तीति संशये, कर्मरहिता एवायास्यन्तीति पूर्वपक्षे, कृतात्यये=कृतस्येष्टादेः कर्मणः फलभोगेनोपक्षये सति सानुशया:= कर्मसहिता एव अवरोहन्ति । दृष्टस्मृतिभ्यां=तथा श्रुतेः स्मृतेश्च" इति यद्व्याख्यानं तदपि कर्मणां फलस्य भोगस्य अवरोहणारोहणयोः सत्यत्वव्यवस्थापकत्वात् अद्वैतिनां प्रतिकूलं, द्वैतिनामनुकूलमेवेति ।
ॐ चरणादिति चेन्नोपलक्षणार्थेति कार्ष्णाजिनिः ॐ (३.१.९)
इत्यस्य सूत्रस्य “तद्य इह रमणीयचरणाः रमणीयां योनिमापद्यन्ते" इति श्रुतिः चरणाद्योन्यापत्तिं दर्शयति न कर्मण इति अवरोहणे न कर्मशेषज्ञापिकेति न तया श्रुत्या कर्मसहितानां आगमनसिद्धिरिति पूर्वपक्षे, चरणशब्दः कर्मोपलक्षणार्थं इति कर्मसहितस्यैवावरोहणं गमयतीति कार्ष्णाजिनिः” इति व्याख्यानमपि पूर्ववदेवाद्वैतिनामननुकूलं द्वैतिनामनुकूलम् ।
ॐ आनर्थक्यमिति चेन्न तदपेक्षत्वात् ॐ (३.१.१०)
इति सूत्रस्य ‘“चरणशब्दस्य कर्मोपलक्षणार्थत्वं न वक्तव्यम् । चरणशब्दोक्तशीलस्यापि शुभाशुभयो निप्राप्तिः फलं भविष्यति, अन्यथा शीलस्यानर्थक्यमिति चेन्न । तदपेक्षत्वात्=कर्मणोऽपि शुभाशुभकारणत्वे चरणापेक्षत्वात्'आचारहीनं न पुनन्ति वेदा:' इति स्मृतेः तस्मात् कर्मैव शीलोपलक्षितं (आचारोपलक्षितं) योन्यापत्तौ कारणमिति” इति यद्व्याख्यानं तदपि शास्तृ, शासन, पुण्य, पाप परलोक, कार्यकारणभावादीनां सत्त्वं वदत् 'न शास्ता न शास्त्रं' ‘न पुण्यं न पापं' इत्यादिना शास्त्रपुण्यपापतत्फलानामसत्त्वं वदतां अद्वैतिनां प्रतिकूलमेव । जगत्सत्यत्ववादिनां द्वैतिनामनुकूलमेवेति ।
ॐ सुकृतदुष्कृते एवेति तु बादरिः ॐ (३.१.११)
इति सूत्रस्य "सुकृतदुष्कृते एव कपूयचरणाः रमणीयचरणा इति श्रुतिघटकचरणशब्देन बोध्येते इति चरणशब्दोक्तकर्मावशेषः सन्नेव आयास्यति इति वादरिराचार्यो मन्यते " इति व्याख्यानमपि अद्वैतिनां प्रतिकूलं, द्वैतिनां पूर्ववदेव अनुकूलम् ।
(अधिकरणम् ३)
ॐ अनिष्टादिकारिणामपि च श्रुतम् ॐ (३.१.१२)
इष्टादिकारिणः (यज्ञं कुर्वन्तः ) चन्द्रमसं गच्छन्तीत्युक्तम् । अनिष्टादिकारिणः चन्द्रमसं गच्छन्ति न वेति सन्देहे, ' ये वैकेचास्माल्लोकात् प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति' (कौषी. १.२) इति श्रुतौ सर्वेषां चान्द्रमसलोकप्राप्तिश्रवणात्, पुरुषस्योत्पत्तौ 'पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति' इति आहुतिसंख्यानियमश्रवणेन चान्द्रमसलोकं प्रति प्राप्तिमन्तरा आहुतिनियमानुपपत्तेश्च इष्टादिकारिणः अनिष्टादिकारिणः सर्वे चान्द्रमसलोकं गच्छन्ति इति ‘अनिष्टादिकारिणा' मिति सूत्रेण पूर्वपक्षे—
ॐ संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् ॐ (३.१.१३)
इति सूत्रस्य " इष्टादिकारिण एव चन्द्रमसं गच्छन्ति न त्वनिष्टादि- कारिणः । तेषां तत्र भोगाभावात् । किं तु संयमने स्वकृतपापानुसारेण यमकृताः यातनाः अनुभूय अवरोहन्ति । एवंरूपावेवारोहागरोहौ इतरेषामनिष्टादिकारिणां "न साम्परायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम् । अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे ।।” ( कठ. २.६ ) इति तद्गतिदर्शनात्=मृत्वा गच्छतां मम प्राप्तिश्रवणात्" इति यद्व्याख्यानं तदद्वैतिनामत्यन्तं प्रतिकूलम् । उदाहृतश्रुतौ अद्वैतिनां यमप्राप्तिश्रवणात् । श्रुत्यर्थस्तु साम्परायः=(सम्यक् परस्तात् प्राप्यते इति सम्परायः परलोकः तदुपायः) परलोकसाधनं, बालं = मूर्ख प्रति, प्रमाद्यन्तं=अज्ञं प्रति वित्तमोहेन मूढं प्रति, न प्रतिभाति = न भासते. (बालः कः इत्याशमयां) अयं लोको नास्ति = दृश्यमानं जगन्नास्ति (मिथ्या) परलोकः=स्वर्गवैकुण्ठादिलोकः पुण्यप्राप्यः, पापप्राप्यो नरकादिलोकः, नास्तीतिवादी, (तस्य किमनिष्टं भवतीत्याशङ्कायाम्) ‘पुनः पुनर्वशमापद्यते मे' यमाधीनतां प्राप्नोति ( यमलोकं प्राप्य यातनाः अनुभवति ) इति । तथा च अनया श्रुत्या दृश्यादृश्यजगतः मिथ्यात्वं वदतां परलोकप्राप्त्युपायमविजानतां यमनियम्येषु रौरवकुम्भीपाकादिनरकेषु यातना भवन्ति इति निन्दा सिध्यति । एतल्लोकपरलोकादीनां नास्तित्वं (मिथ्यात्वं) वदन्तः अद्वैतिन एव खलु ! इति ।
ॐ स्मरन्ति च ॐ (३.१.१४)
इति सूत्रस्य ‘“अपि च मनुव्यासप्रभृतयश्शिष्टाः संयमने पुरे यमायत्तं कपूयकर्मविपाकं स्मरन्ति नाचिकेतोपाख्यानादिषु" इति व्याख्यानमपि पूर्ववदेव अद्वैतिनां प्रतिकूलम् ।
ॐ अपि च सप्त ॐ (३.१.१५)
इति सूत्रस्य ‘“अपि च सप्तनरका रौरवप्रमुखा दुष्कृतफलोपभोगभूमित्वेन न स्मर्यन्ते पौराणिकैः -ताननिष्टादिकारिणः प्राप्नुवन्ति कुतस्ते चन्द्रं प्राप्नुयुरित्यभिप्रायः” इति व्याख्यानमपि पूर्ववदेवाद्वैतिनां प्रतिकूलम् ।
ननु विरुद्धमिदं यमायत्ता यातनाः पापकर्माणोऽनुभवन्तीति । यावता तेषु रौरवादिष्वन्ये चित्रगुप्तादयो नानाधिष्ठातारः स्मर्यन्त इति - इति शङ्कानिरासकतया प्रवृत्तमिति अवतारितस्य-
ॐ तत्रापि च तद्वयापारादविरोधः ॐ (३.१.१६)
इति सूत्रस्य ‘“तेष्वपि सप्तसु नरकेषु तस्यैव यमस्याधिष्ठातृत्व- व्यापाराभ्युपगमादविरोधः-यमप्रयुक्ता एव हि ते चित्रगुप्तादयोऽधिष्ठातारः स्मर्यन्ते” इति व्याख्यानमपि सप्तनरकाणां, यमस्य मुख्यनियन्तृतायाः, चित्रगुप्तादीनां तदधीननियन्तृतायाश्च ( नानापदार्थानां ) सत्त्वसाधकत्वेन अद्वैतिनां प्रतिकूलमेव ।
ॐ विद्याकर्मणोरिति तु प्रकृतत्वात् ॐ (३.१.१७)
इति सूत्रस्य अनिष्टादिकारिणां चन्द्रमसोऽप्राप्तिः कथ्यते इति व्याख्यानं–देहलाभाय आहुतिसंख्यानियमात् अनिष्टादिकारिणां चान्द्रमसलोकाप्राप्तौ आहुतिसंख्यापूर्त्यभावेन देहलाभो न स्यात् । तदर्थं अनिष्टादिकारिणामपि चान्द्रमसलोकप्राप्तिर्वक्तव्येत्याशङ्कानिवर्तकतया अवतारितस्य ।
ॐ न तृतीये तथोपलब्धेः ॐ (३.१.१८)
इति सूत्रस्य तृतीये=कृमिकीटादिक्षुद्रजन्तौ देहलाभार्थं न पश्चाहुति नियमः तथा=आहुतिसंख्यानियमं विना उपलब्धेः = जायस्व म्रियस्वेत्येतत् तृतीयं स्थानं (छां. ५.१०.८) इति तृतीयस्थानप्राप्तेः उपलब्धेरित्यादिव्याख्यानं-
ॐ स्मर्यतेऽपि च लोके ॐ (३.१.१९ )
इति सूत्रस्य द्रोणधृष्टद्युम्नप्रभृतीनां सीताद्रौपदीप्रभृतीनां च अयोनिजत्वं स्मर्यते । द्रोणस्य योषिद्विषया एकाहुतिर्नास्ति धृष्टद्युम्नादीनां योषित्पुरुषविषये द्वे अप्याहुती न स्तः- बलाकाऽप्यन्तरेणैव रेतस्सेकं गर्भं धत्त इति यथा तत्र तत्र आहुतिसंख्यानादरः एवमन्यत्रापि भविष्यतीति पञ्चाहुतिसंख्या- नियमसिध्द्यर्थम् अनिष्टादिकारिणां चान्द्रमसगतिर्न वक्तव्ये'ति यत् व्याख्यानम्—
ॐ दर्शनाच्च ॐ (३.१.२० )
इति सूत्रस्य “स्वेदजोद्भिज्जयोः ग्राम्यधर्ममन्तरा उत्पत्तिदर्शनात् आहुतिसंख्यानादरः” इति यत् व्याख्यानम् ।
ननु तेषां खल्वेषां भूतानां त्रीण्येव वीजानि भवन्ति 'अण्डजं जीवजमुद्भिज्जम्' (छां.६.३.१) इति त्रिविधभूतग्रामस्य श्रवणात् कथं जरायुजाण्डजस्वेदजोद्भिज्जानां चतुर्णां ग्रहणमित्याशङ्कानिवर्तकतया अवतारितस्य-
ॐ तृतीयशब्दावरोधः संशोकजस्य ॐ (३.१.२१)
इति सूत्रस्य ‘संशोकजस्य= स्वेदजस्य, तृतीयशब्दावरोधः=तृतीयेन उद्भिशब्देन स्वीकार इति न विरोध" इति यत् व्याख्यानं तदेतत्सर्वं व्याख्यानं पूर्ववदेव अद्वैतिनां प्रतिकूलम् । अनेकेषां पदार्थानां सत्त्वव्यवस्थापकत्वात् । न हि श्रुतिः तदर्थनिर्णायकसूत्रैः तात्पर्येण प्रतिपादिता अर्थाः मिथ्या इति वक्तुं शक्यते ।
(अधिकरणम् ४)
ॐ साभाव्यापत्तिरुपपत्तेः ॐ (३.१.२२)
इति सूत्रस्य इष्टादिकारिणश्चन्द्रमसमारुह्य तस्मिन् यावत्सम्पातमुषित्वा ततः सानुशया अवरोहन्तीत्युक्तम् । अवरोहप्रकारस्तु ‘अथैतमेवाध्वानं पुनर्निवर्तते यथेतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति' (छां.५.१०.५) इति तत्र अवरोहन्तः आकाशादिस्वरूपमेव प्रतिप्रद्यन्त इति किं वा आकाशादि साम्य मिति संशये आकाशादिस्वरूपमेव प्रतिपद्यन्ते । पूर्वपक्षे, आकाशादिसाम्यं प्रतिपद्यन्ते, अन्यस्य अन्यभावासम्भवात् आकाशादि- साम्याङ्गीकार एव उपपत्तेरिति व्याख्यानमपि पूर्ववदेव अद्वैतिनां प्रतिकूलम् । द्वैतिनामनुकूलम् । तेन अनेकेषां सत्यत्वसिद्धेः ।
(अधिकरणम् ५)
ॐ नातिचिरेण विशेषात् ॐ (३.१.२३)
इति सूत्रस्य ‘यथेतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति' इत्यादिना उक्तं आकाशसादृश्यानन्तरं वायुसादृश्यं दीर्घं दीर्घं कालं प्राप्नोति, उत अल्पमल्पमिति संशये, नातिचिरेण=अल्पमल्पं कालमाकाशादिसादृश्येन स्थित्वा वाय्वादिसादृश्यमाप्नोति, कुत: ? विशेषात्=त्रीहिभावान्निस्सरणस्य दुःखतरत्वप्रदर्शनेन आकाशादिभावान्निस्सरणे सुखं दर्शयति । आकाशादिभावान्निस्सरणे सुखं ब्रीह्यादिभावान्निस्सरणे दुःखं च निस्सरणयोः I
कालाल्पत्वबहुत्वप्रयुक्तमेवेति व्रीह्यादिभावान्निस्सरणस्य क्षिप्रत्वसिद्धिरिति यद्व्याख्यानं तदपि अनेकेषां सत्यत्वज्ञापनात् अद्वैतिनां प्रतिकूलमेवेति ।
(अधिकरणम् ६)
ॐ अन्याधिष्ठितेषु पूर्ववदभिलापात् ॐ (३.१.२४)
इति सूत्रस्य ‘“त इह व्रीहियवा ओषधिवनस्पतयस्तिला माषा इति जायन्ते" (छां. ५.१०.६) इति यदुक्तं तत्र संशयः = अनुशायिनः स्थावर- सुखदुःखभाजो भवन्ति जीवान्तराधिष्ठितेषु स्थावरशरीरेषु संश्लेषमात्रं वा गच्छन्तीति संशये; व्रीह्यादिस्थावरजात्यापन्नाः अनुशायिन: ( कर्मविशिष्टाः ) स्थावरसुखदुःखभाजो भवन्ति इति पूर्वपक्षे, अन्याधिष्ठितेषु=अन्यैर्जीवैः अधिष्ठितेषु व्रीह्यादिषु संसर्गमात्रमनुशायिनः प्रतिपद्यन्ते=न तत्सुखदुःखभाजो भवन्ति - पूर्ववत्=वायुधूमादिभावस्य संश्लेषमात्रत्ववत् तद्वदेवाभिलापात्” इति व्यशाख्यानमपि पूर्ववदेवाद्वैतिनां प्रतिकूलम् ।
ॐ अशुद्धमिति चेन्न शब्दात् ॐ (३.१.२५)
इति सूत्रस्य ‘“आध्वरिककर्मणः हिंसादियोगात् अशुद्धत्वात् इष्टादिकारिणः व्रीह्यादिजन्म अस्तु, इति शङ्कायां शब्दात् यागादिकर्मणः शास्त्रेण विहित्वात् न तस्याशुद्धत्वमिति न व्रीह्यादिजन्मकर्मिणः इति” इति व्याख्यानमपि पूर्ववदेवाद्वैतिनां प्रतिकूलम् ।
ॐ रेतस्सिग्योगोऽथ ॐ (३.१.२६)
इति सूत्रस्य “व्रीह्यादिभावो नाम व्रीह्यादिसम्बन्ध एव न तु व्रीह्यादिरूपत्वं यतः 'यो यो ह्यन्नमत्ति यो रेतस्सिंचति तद्भूय एव भवति' (छां.५.१०.६) इति श्रुतौ कर्मशेषवतः पुरुषस्य रेतस्सिग्भावः (रेतस्सेककर्तृपुरुषभावः) कथ्यते अद्यमानान्नानुगतोऽनुशायी चिरजात- प्राप्तयौवनरेतस्सिग्रूपो भवितुं नार्हति इति तत्र रेतस्सिक्संयोगो वक्तव्यः तथा व्रीह्यादिभावोऽपि व्रीह्यादिसम्बन्धरूप एव वक्तव्यः" इति व्याख्यानमपि पूर्ववदेवाद्वैतिनां प्रतिकूलम् ।
ॐ योनेश्शरीरम् ॐ (३.१.२७)
इति सूत्रस्य "अथ=रेतः सिग्भावस्यानन्तरं योनौ निषिक्ते रेतसि योनेश्शरीरमनुशायिनां (कर्मिणां ) अनुशयफलोपभोगाय जायते इत्याह शास्त्रम् । तथा च भोगार्थं शरीरप्राप्त्युक्त्या व्रीह्यादिभावावसरे व्रीह्यादिशरीरमेव भोगसाधनमिति न वक्तव्यमिति व्रीह्यादिसंश्लेष एव व्रीह्यादिभावः " इति व्याख्यानमपि पूर्ववदेवाद्वैतिनां प्रतिकूलमिति ।
। इति शङ्करकृतशारीरकमीमांसाभाष्यखण्डने तृतीयाध्यायस्य प्रथमः पादः।