ॐ तदनन्यत्वमांरभणशब्दादिभ्यः ॐ

ॐ तदनन्यत्वमांरभणशब्दादिभ्यः ॐ (२.१.१५)

भोक्तृभोग्यलक्षणं विभागं व्यावहारिकमङ्गीकृत्य स्याल्लोकवदिति परिहारोऽभिहितः । भोक्तृभोग्यविभागः परमार्थतो नास्ति । तदनन्यत्वं = यस्मात्तयोः कार्यकारणयोरनन्यत्वं अवगम्यते । कार्यमाकाशादिकं बहुप्रपञ्चं जगत्, कारणं परं ब्रह्म, तस्मात्कारणात् परमार्थतोऽनन्यत्वं= व्यतिरेकेणाभावः कार्यस्यावगम्यते । कुतः ? आरम्भणशब्दादिभ्यः ; आरम्भणशब्दस्तावत् एक विज्ञानेन सर्वविज्ञानं प्रतिज्ञाय दृष्टान्तापेक्षायामुच्यते ।यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्' (छां. ६.१.१) इति । एतदुक्तं भवति । एकेन मृत्पिण्डेन परमार्थतो मृदात्मना विज्ञातेन सर्वं मृण्मयं घटशराबोदञ्चनादिकं मृदात्मकत्वाविशेषाद्विज्ञातं भवेत् । यतो वाचारम्भणं विकारो नामधेयं' वाचैव केवलं अस्तीत्यारभ्यते विकारो घटश्शराव उदञ्चनं चेति । न तु वस्तुवृत्तेन विकारो नाम कश्चिदस्ति । नामधेयमात्रं ह्येतदनृतं मृत्तिकेत्येव सत्यमित्येष ब्रह्मणो दृष्टान्त आम्नातः । तत्र श्रुताद्वाचारम्भण शब्दाद्दान्तिकेऽपि ब्रह्मव्यतिरेकेण कार्यजातस्याभाव इति गम्यते । आरम्भण शब्दादिभ्य इत्यादिशब्दात् 'ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि (छां.६८) 'इदं सर्वं यदयमात्मा' (बृ.२.४.२) 'ब्रह्मैवेदं सर्वं' (मु.२.२.११) 'आत्मैवेदं सर्वं' (छां.७.२५.२) 'नेह नानास्ति किंचन' (बृ.४.४.१९) इत्येवमाद्यप्यात्मैकत्वप्रतिपादनपरं वचनजातमुदाहर्तव्यम् । न चान्यथैकविज्ञानेन सर्वविज्ञानं सम्पद्यते । तस्माद्यथा घटकरकाद्याकाशानां महाकाशानन्यत्वं यथा च मृगतृष्णकोदकादीनां ऊषरादिभ्योऽनन्यत्वं दृष्टनष्टस्वरूपत्वात्स्वरूपेणानुपाख्यत्वात् । एवमस्य भोग्यभोक्रादिप्रपञ्चजातस्य ब्रह्मव्यतिरेकेणाभावः इति द्रष्टव्यम्' इति यद्व्याख्यातं तदत्यन्तमयुक्तम् । तथा हि कार्यभूताकाशादिप्रपञ्चस्य कारणात्परब्रह्मणः परमार्थतोऽनन्यत्वं व्यतिरेकेणाभावोऽवगम्यते इति प्रतिज्ञाय आरम्भण- शब्दादिभ्य इति हेतुः कथितः । तत्र प्रतिज्ञा तावन्न युक्ता । कारणं द्विविधम् । निमित्तकारणमुपादानकारणम् (परिणामिकारणम्) चेति । तत्र ब्रह्मणो निमित्तकारणत्वे यथा घटस्य निमित्तकारणकुलालात् भेदः तथा कार्यस्य प्रपञ्चस्य निमित्तकारणाद्ब्रह्मणो भेद एव न त्वैक्यम् ।

उपादानकारणात्कार्यस्यैक्यं यद्यपि लोके दृष्टं तथापि परिणामि- कारणत्वरूपमुपादानत्वं 'निर्विकारोऽक्षरः शुद्धः' इत्यादि श्रुतिसिद्धनिर्वि- कारस्य ब्रह्मणः न संभवत्येवेति कार्यस्य प्रपञ्चस्य कारणाद्ब्रह्मणो व्यतिरेकेणाभावकथनमयुक्तमेव । न च ब्रह्मणः परिणामित्वरूपोपादान- कारणत्वासंभवेऽपि शुक्तिकाया रजतभ्रमाधिष्ठानत्वरूप- रजतोपादानकारणतेव ब्रह्मणो जगदुपादानत्वं विवर्ताधिष्ठानत्वरूपं (जगत्प्रकारकभ्रमविशेष्यत्वरूपम्) संभवतीति रजतस्य शुक्तिकाव्यतिरेकेणाभाव इव जगतोऽपि ब्रह्म- व्यतिरेकेणाभावः सम्पत्स्यत इति वाच्यम् । निर्गुणं ब्रह्मैकमेव सत्यम् । तदन्यत्सर्वमध्यस्तं (कल्पितं ) इत्यद्वैतिमतरीत्या निर्मर्धके ब्रह्मणि अध्यासकारणस्यैकस्याप्यसम्भवेन अध्यासाङ्गीकारे अनेकानुपपत्तीनां सत्वेन चाध्यासासम्भवात् (भ्रमासम्भवात्) जगत्प्रकारकभ्रमविशेष्यत्व- रूपजगदुपादानत्वस्य अद्वैतब्रह्मणोऽयोगात् । अङ्गीकृतं च भामतीकृता वाचस्पतिमिश्रेण 'न विभ्रमो नाम कश्चित् न च संसारो नाम किंतु सर्वमेतत् सर्वानुपपत्तिभाजनत्वेन अनिर्वचनीय' मिति वदता, स्पष्टं अध्यासाङ्गीकारे सर्वा अनुपपत्तयः सन्तीति । तुष्यत्विति न्यायेन जगद्भमविशेष्यत्वेऽङ्गीकृतेऽपि शास्त्रे लोके वा रजताध्यास (भ्रम) विशेष्या शुक्तिः न रजतकारणमिति व्यवहरन्तीति न ब्रह्म जगत्कारणमिति शक्यते वक्तुम् । किं च द्वैतिमतरीत्या असत्यतयाऽङ्गीकृतस्याद्वैतिमतरीत्या प्रातिभासिकतयाऽङ्गीकृतस्य शुक्तिरूप्यस्य द्वैतिमतरीत्या पारमार्थिक- सत्यतयाङ्गीकृतया अद्वैतिमतरीत्या व्यावहारिकतयाऽङ्गीकृतया शुक्त्या विरुद्धधर्माधिकरणत्वात् यथा आवयोर्मते नाभेदस्तथा 'कथं त्वसत्येन वेदान्तवाक्येन सत्यस्य ब्रह्मात्मकत्वस्य प्रतिपत्तिरित्याद्यनेकवाक्यजालेन एतदधिकरणभाष्ये, द्वैतस्य असत्वादिति गौडपादकारिकाभाष्ये च जगतः असत्वं शङ्करेणोक्तमिति असतो जगतः सत्यभूतब्रह्मणा अभेदस्यासम्भवात् ।

न च अनन्यत्वमित्यस्य व्यतिरेकेणाभाव इत्यर्थस्य कृतत्वेन अनन्यत्वशब्देन कार्यस्य जगतोऽभेदो नोक्तः किंतु यथा शुक्तिव्यतिरेकेण रजतस्याभावः तथा ब्रह्मव्यतिरेकेण जगतोऽभावः एव विवक्षित इति वाच्यम् । जगतो ब्रह्मव्यतिरेकेणाभाव इत्यनेन जगतोऽभाव (असत्वं) एव विवक्षितः स्यात्तर्हि जगतोऽभाव इत्येव वक्तव्यं स्यात् । न तु ब्रह्मव्यतिरेकेणाभाव इति । चैत्रे द्रव्यं नास्तीति कथनाभिप्राये चैत्रे द्रव्यस्याभावः इत्येवोच्यते न तु चैत्रे द्रव्यस्य सुवर्णव्यतिरेकेणाभाव इति । द्रव्यस्य सुवर्णव्यतिरेकेणाभाव इत्युक्तौ सुवर्णात्मकं द्रव्यमस्ति न तु तदतिरिक्तमिति यथा ज्ञायते तथा जगतः ब्रह्मव्यतिरेकेणाभाव इत्युक्तौ न हि जगतोऽभावः (असत्वं ) बोध्यते किन्तु ब्रह्मात्मकं जगदिति (जगतः ब्रह्मरूपत्वं=ब्रह्माभेद इति) तच्च पूर्वं विरुद्धधर्माधिकरणत्वेन निरस्तम् । भामती कारा - ननु न खल्वनन्यत्वमित्यभेदं ब्रूमः किं तु भेदं व्यासेधामः । अतो नाभेदाश्रयदोषप्रसङ्ग इति चेन्न । भेदाभेदयोर्विरुद्धत्वेन भेदनिषेधे अभेदस्यावर्जनीयत्वात् । ननु ब्रह्मव्यतिरेकेण जगतोऽभाव इति शब्दैस्तथा अबोधनेऽपि मम (अद्वैतिनः) जगतोऽभावकथन एव तात्पर्यमिति चेत्तर्हिनाभाव उपलब्धेः' (ब्रसू. २. २.२८) इत्यादिसूत्रेषु जगतोऽभाववक्त्रोः शून्यविज्ञानवादिनोर्मते उक्तानां प्रत्यक्षादिप्रमाणविरोधादिरूपदोषाणां प्राप्तेः । तस्मादद्वैतिमतरीत्या असद्भूतजगतः सत्यभूतब्रह्मणा ऐक्यासम्भवात् । ब्रह्मणि जगतोऽध्यासासम्भवात् ब्रह्मणो जगत्प्रति उपादानकारणत्वासम्भवात् न ब्रह्मजगतोरनन्यत्वं=व्यतिरेकेणाभाव इति कार्यकारणयोर्जगद्ब्रह्मणो- रनन्यत्वमिति प्रतिज्ञाया अप्रामाणिकत्वात् प्रमाणविरुद्धत्वाच्च तदनन्यत्वमिति सूत्रखण्डस्य तयोर्जगद्ब्रह्मणोः कार्यकारणयोरनन्यत्वं व्यतिरेकेणाभाव इत्यर्थकथनमयुक्तम् ।

आरम्भणशब्दादिभ्य इति हेतुभागाविचार:-यदुक्तं 'आरम्भण-शब्दादिभ्य' इति सूत्रखण्डगतेन आरम्भणशब्देन 'वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्' इति श्रुतिं गृहीत्वा अनया श्रुत्या जगतो मिथ्यात्वसिद्धिरिति, तदप्ययुक्तम् । अस्यां श्रुतौ जगतो मिथ्यात्व- बोधकपदाभावात् । न च 'वाचारम्भणं ' 'नामधेयं' इति पदे मिथ्यात्वबोधके स्त इति वाच्यम् । वाचारम्भणपदस्य वाचा आरभ्यत इति व्युत्पत्या वाग्जन्यव्यवहारविषय इत्यर्थकत्वेन, तथा नामधेयमिति पदस्य नामार्थ- कत्वेन मिथ्यार्थकत्वाभावात् । न च वाचारम्भणपदोत्तरं मात्रं इति पदे संयोजिते वाचारम्भणमात्रमिति सम्पत्त्या तस्य वाचैव केवलमस्तीत्यारभ्यते विकारो घटःशराव उदञ्चनं चेति न तु वस्तुवृत्तेन विकारो नाम कश्चिदस्ति इत्यर्थकत्वप्राप्त्या मिथ्यात्ववोधकत्वं, तथा नामधेयपदोत्तरं मात्रपदे संयोजिते नामधेयमात्रमिति सम्पत्त्या तस्य च नामैव केवलं न विकारो नाम कश्चिदस्ति ( ह्येतदनृतं) इत्यर्थकत्वप्राप्त्या मिथ्यात्वबोधकत्वमिति वाच्यम् । श्रुतावविद्यमानमात्रपदं संयोज्यार्थकरणस्य अयुक्तत्वात् । अन्यथा ( अविद्यमानपदे संयोज्य अर्थकरणस्य युक्तत्वे) 'सत्यं ज्ञानमनन्तं ब्रह्म, इति श्रुत्या ब्रह्मणोऽपि असत्यत्वाज्ञान रूपत्वपरिच्छिन्नत्वसिध्द्यापत्तेः तत्रापि सत्यादिपदात्पूर्वं न, , , इति पदानि संयोज्य, ब्रह्म न सत्यं=मिथ्या, न ज्ञानं इत्याद्यर्थकथनसम्भवात् ।

ननु वाचारम्भणनामधेयपदयोः पुरतः मात्रपदसंयोजने पूर्ववाक्यं ज्ञापकमस्ति । अतस्तत्र मात्रपदसंयोजनं कर्तव्यम् । सत्यं ज्ञानमनन्तं ब्रह्मेति वाक्ये न इति पदसंयोजने ज्ञापकाभावात् नात्र न इति पदसंयोजनं कार्यम् । तथा हि- एकब्रह्म विज्ञानेन सर्वजगद्विज्ञानं 'येनाश्रुतं श्रुतं भवति' इत्यादिवाक्येन प्रतिज्ञाय दृष्टान्तापेक्षायामिदमुच्यते 'यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्यात् वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्' इति । यद्यस्य वाक्यस्य घटादेः मृद्व्यतिरेकेणा- भावरूपमिथ्यात्वं नाभिमतं स्यात्तर्हि मृद्विज्ञानेन सर्वमृण्मयज्ञानं न स्यात् । तथा च जगतो ब्रह्मव्यतिरेकेण अभावरूपमिथ्यात्वं विना अनुपपद्यमानायां एकविज्ञानेन सर्वविज्ञानप्रतिज्ञायां दृष्टान्तत्वं न स्यात् । उक्तं च एकब्रह्मविज्ञानेन जगज्ज्ञाने दृष्टान्तत्वमिति वाचारम्भणनामधेयशब्दयोः पुरतो मात्रपदे संयोज्य मृद्व्यतिरेकेणाभावरूप मिथ्यार्थकत्वं स्वीकरणीयम् इति चेन्न । अनेकदोषयुक्तत्वात् । तथा हि-

येनाश्रुतं श्रुतं भवतीति प्रतिज्ञायेति यदुक्तं तत्तावदयुक्तम् । लोके शुत्त्यादितत्त्वं विजानतां यतोऽध्यस्तं रूप्याद्यविज्ञातं भवति अजानतामेव त्वध्यस्तं विज्ञातं भवतीति सिद्धम् । तथा ब्रह्मणि ज्ञेयत्वस्याध्यस्तत्वादेव तत्त्वविदो न ज्ञातं पश्यन्तीति केनोपनिषच्छाङ्करभाष्यटीका- वाक्यैरधिष्ठानाज्ञान एवाध्यस्तज्ञानं भवति । अधिष्ठानज्ञानेऽध्यस्तज्ञानं न भवति । प्रत्युत विद्यमानमपि नश्यति । विज्ञेयत्वादिरूपजगतो ब्रह्मण्यध्यस्तत्वेन ब्रह्मज्ञानिना ब्रह्मणि ज्ञेयत्वाद्यध्यस्तजगज्ज्ञानं न भवति इति 'अविज्ञातं विजानतां विज्ञातमविजानतां' (केन.२.११) इति मन्त्रव्याख्यानावसरे अद्वैतिभिरेवोक्तत्वेन अधिष्ठानभूतब्रह्मज्ञानेन अध्यस्तजगज्ज्ञानासम्भवात् । किं च ब्रह्मविज्ञानेन सर्वविज्ञाने ब्रह्मविदः घटपटादिषु कुत्रापि संशयो न स्यात् । तथा ब्रह्मव्यतिरेकेण जगतोऽभावात् ब्रह्मज्ञानेन जगतो ज्ञातत्वेन अश्रुतममतमिति विशेषगानाममुपपत्तिश्व स्यात् । दृष्टान्ते मृदादिज्ञाने सति तत्कार्यघटादिविषयकसंशयश्च न स्यात् । अस्ति च संशय इति न कारणीभूतब्रह्मज्ञानेन कार्यभूतजगज्ज्ञानविषयोऽयं दृष्टांन्तः सम्भवति । मृत्पिण्डलोहमणिनखनिकृन्तनानामपि घटकटककुद्दालादिवत् मृल्लोहाय:कार्यविशेषतया घटादीन्प्रत्युपादानकारणत्वाभावाच्च उपादान-कारणज्ञानेनोपादेयज्ञाने नायं दृष्टांन्तः ।

ननु मास्तुयेनाश्रुतं श्रुतं भवति' इति पूर्ववाक्यं ज्ञापकं, मृत्तिकेत्येव सत्यमित्युत्तरवाक्यं मात्रपदसंयोजने ज्ञापकं भविष्यति । मृत्तिकेत्येव सत्यमिति मृत्तिकायाः सत्यत्वावधारणेन मृत्तिकाकार्यस्य घटादेर्मिथ्यात्वस्याभिप्रेततया मात्रपदसंयोजनस्य सूचनादिति चेन्न । त्वन्मते घटादेर्मृत्तिकाकार्यतया मिथ्यात्वस्याङ्गीकारे मृत्तिकाया अपि जलकार्यत्वेन तन्मिथ्यात्वस्यापि त्वन्मतरीत्या अङ्गीकार्यत्वात् । मृत्तिकायास्त्वन्मतरीत्या पारमार्थिकसत्यत्वाभावेन मृत्तिका सत्यमित्यस्य व्यावहारिकसत्यं=मिथ्या इत्यर्थस्यैवाङ्गीकरणीयतया मृत्तिकाकार्यघटादेरपि व्यावहारिकसत्यत्वस्य त्वन्मतसिद्धतया मृत्तिकेत्येवेत्येवकारेण ( अवधारणेन) मृत्तिकाकार्यघटादेः व्यावहारिकसत्यतानिषेधायोगेन वाचारम्भणनामधेयपदोत्तरं मात्रपदयोजनेन तन्निषेधासम्भवान्नेदमपि मात्रपदसंयोजनस्य ज्ञापकमिति ।

यदुक्तं आरम्भणशब्दादिभ्य इत्यादिशब्दात् 'ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो' (छां. ६.८.८) इति वाक्यं जगतो ब्रह्मव्यतिरेकेणाभावे (मिथ्यात्वे) प्रमाणमिति तदप्ययुक्तम् । अस्यां श्रुतौ जगतो मिथ्यात्वबोधकपदाभावात् । न च तत्सत्यमिति परमकारणस्य ब्रह्मणः सत्यत्वकथनात् ब्रह्मातिरिक्तस्य जगतो मिथ्यात्वं ब्रह्मव्यतिरेकेणाभावः सिध्यतीति वाच्यम् । यतः तत्सत्यमिति वाक्येन तद्ब्रह्म सत्यमिति ब्रह्मणः सत्यत्वसिद्धावपि न तु जगतो मिथ्यात्वं सिध्यति । अवधारणाभावात् (एवकाराभावात्) । न हि वसिष्ठो ब्राह्मण इत्युक्ते गौतमस्याब्राह्मणत्वं सिध्यति । तथा च परमकारणस्यैकस्यैव सत्यत्वावधारणात् इति शङ्कराचार्योक्तिस्तामसजनमोहमूला वा स्वमताग्रहमूला वेत्युपेक्षणीयैव सुधीभिः ।

इदं सर्वं यदयामात्मा’ (बृ.२.४.६) 'ब्रह्मैवेदं सर्वं' (मु. २.२.११) 'आत्मैवेदं सर्वं (छां.७.२५.२) 'नेह नानास्ति किंचन' (बृ. ४.४.१९) इत्यादिश्रुतीनां यथा जगतः ब्रह्मव्यतिरेकेणाभावबोधकत्वाभावस्तथा दर्शितः वाक्यान्वयाद्यधिकरणविचारावसरे इति नेह पुनर्विचार्यते । तथा एकविज्ञानेन सर्वविज्ञानं श्रुत्यादिषु नोक्तम् । न वा जगतो मिथ्यात्वसाधकमित्येतदपि पूर्ववाक्येषु बहुवारमुक्तं तत्रैव द्रष्टव्यम् । अतस्तेनापि न जगतो मिथ्यात्वसिद्धिरित्यलम् ।

ननु अनेकात्मकं ब्रह्म यथा वृक्षोऽनेकशाख इत्यादिना ब्रह्मण एकत्वं नानात्वं च सत्यमेवेति भेदाभेदवादिमतमनूद्य नैवं स्यादित्यादिना यत् तस्यायुक्तत्वं वर्णितं तत्समीचीनमेव । परन्तु अयुक्ततावर्णनप्रकारस्त्वयुक्तः-तथा हि 'मृत्तिकेत्येव सत्यम्' इति प्रकृतिमात्रस्य दृष्टान्ते सत्यत्वावधारणात् इति यदुक्तं तन्न युक्तम् । अद्वैतिमते अधिष्ठानसत्तापेक्षया अध्यस्तस्य न्यूनसत्ताकत्वाङ्गीकारेण पारमार्थिकसत्ताके ब्रह्मणि अभ्यस्तस्यैव व्यावहारिकसत्ताकत्वप्राप्तिः न तु व्यावहारिके आरोपितत्ववत् मृदोऽपि स्वकारणे व्यावहारिके आरोपितत्वात् अधिष्ठानभूतस्वकारणगत- व्यावहारिकसत्तापेक्षया न्यून सत्ताकत्वं (प्रातिभासिकसत्वं) स्यात् न तु व्यावहारिकसत्त्वमिति । एवं तत्तत्कारणानामपीति प्रकृतिमात्रस्य (कारणमात्रस्य मृदादेः) सत्यत्वावधारणात् इत्युक्तेरसङ्गतत्वात् ।

न च मृदः ब्रह्मैव कारणं ब्रह्मण्येवारोपितत्वमिति ब्रह्मसत्तापेक्षया न्यूनसत्ता (व्यावहारिकी सत्ता ) मृद उपपद्यते इति वाच्यम् । तर्हि घटोऽपि ब्रह्मकारणकः ब्रह्मण्येवारोपित इति घटस्यापि मृद्वत् व्यावहारिकसत्यत्वमेव स्यात् इति मृद्घटयोः भिन्नसत्ताकत्वासिध्या श्रुतौ मृदः सत्यत्वं, घटस्य मिथ्यात्वं उच्यते इत्युक्तेरसङ्गतत्वापत्तेः ।

एतेन वाचारम्भणशब्देन च विकारजातस्यानृतत्वाभिधानादित्युक्तिरपि परास्ता । वाचारम्भणशब्दस्य वाग्जन्यव्यवहारविषयत्वार्थकत्वेन अनृतार्थकत्वाभावाच्च ।

न च वाचारम्भणशब्दस्य पुरतः मात्रपदसंयोजने कृते वाचारम्भण- मात्रं=वाग्जन्यव्यवहारविषयमात्रं न तु वस्तुवृत्तेन विकारो नाम कश्चिदस्ति इति वाचारम्भणशब्देन विकारस्य मिथ्यात्वं सिध्यतीति वाच्यम् । यतः स्वचित्तप्रभवाः एवमादिकल्पनाः अक्षरवाह्याः (वेदाक्षराप्रतिपाद्याः) । नहि अक्षरवाह्यो वेदार्थ : वेदार्थोपकारी वा (भवितुमर्हति ) इति (बृ.शां. भा. २.३.६) शङ्करोक्तदिशा अविद्यमानमात्रपदसंयोजनेन कृतस्यार्थस्य वेदाक्षरबाह्यत्वात् । (वेदाक्षराप्रतिपाद्यत्वात्) वेदार्थत्वाभावात् । तथा च दृष्टान्तवाक्येन मृत्तिकादीनां सत्यत्वस्य घटादीनां मिथ्यात्वस्य चासिद्ध्या दाष्टन्तिकेऽपि ब्रह्मण एव सत्यत्त्वमन्येषां मिथ्यात्वमिति न सिध्यति । तस्मात् ।

न च दाष्टन्तिकेऽपि 'ऐतदात्म्यमिदं तत्सर्वं तत्सत्यं' इति परमकारणस्यैव सत्यत्वावधारणात् ब्रह्मण एव सत्यत्वमन्येषां मिथ्यात्वं सिध्यतीति वाच्यम् । तत्सत्यमित्यत्र परमकारणस्यैकस्यैव सत्यत्वावधारकैवकाराभावेन तदर्थस्य वेदाक्षरवाह्यत्वेन वेदार्थत्वाभावात् ।

स आत्मा तत्त्वमसि श्वेतकेतो' इति शारीरस्य ( जीवस्य ) ब्रह्मभावोपदेशात् संसारस्य मिथ्यात्वं, सत्यत्वे जीवब्रह्मणोरैक्यायोगात् ' इत्युक्तिरपि स्वव्याहत्याद्यनेकदोषयुता । तत्त्वमसीत्यादिवाक्येन निर्विषयकं ब्रह्मरूपं ज्ञानमेवाभिव्यज्यते न तु यत्किञ्चिद्विषयकं ज्ञानं जायते इति 'एकधैवानुद्रष्टव्यं एतदप्रमेयं ध्रुवम्' (बृ.४.४.२० ) इत्युपनिषच्छाङ्करभाष्ये, दशश्लोकीसिद्धान्तविन्दुटीकायां चोक्तत्वेन अद्वैतमतरीत्या तत्त्वमसीति वाक्येन बोधस्यैवानुत्पत्तेः ।

तुष्यत्विति न्यायेन तत्त्वमसीति वाक्यस्य बोधजनकत्वेऽङ्गीकृतेऽपि अखण्डार्थबोधकत्वाङ्गीकारेण चित् एतावद्बोधोत्पत्त्या तद्बोधस्य शारीरस्य ब्रह्मभावाविषयकत्वात् न शारीरस्य ( जीवस्य ) ब्रह्मभावसिद्धिः इत्यादि- तत्त्वमस्यादिश्रुतिविचारप्रकरणोक्तानेकदोषयुक्तत्वात् ।

यदुक्तं दर्शयति च-'यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत्' (वृ. ४.५.१५) इत्यादिना ब्रह्मात्मत्वदर्शिनं प्रति समस्तस्य क्रियाकारक- फललक्षणस्य व्यवहारस्याभाव इति, तदप्ययुक्तम् । यत्र त्वस्येति वाक्ये ब्रह्मात्मत्वदर्शिनः व्यवहाराभावस्याकथनात् । प्रत्युत क्रियाकारक फल- लक्षणसर्वव्यवहारस्यैवोक्ते: जीवब्रह्मणोर्भेदस्यापि कथितत्वाच्च । तथा हि-पूर्वोत्तरवाक्यसहितं यत्र त्वस्येति वाक्यं त्वित्थं 'यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति तदितर इतरं जिघ्रति तदितर इतरं रसयते तदितर इतरमभिवदति तदितर इतरं शृणोति तदितर इतरं मनुते तदितर इतरं स्पृशति तदितर इतरं विजानाति यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्तत्केन कं जिघ्रेत् तत्केन कं रसयेत्तत्केन कमभिवदेत्तत्केन कं शृणुयात्तत्केन कं मन्वीत तत्केन कं स्पृशेत् । ' तत्केन कं विजानीयाद्येनेदं सर्वं विजानाति तं केन विजानीयात्स एष नेति नेत्यात्माऽगृह्यो नहि गृह्यतेऽशीर्यो नहि शीर्यतेऽसङ्गो नहि सज्यतेऽसितो न व्यथते न रिष्यते विज्ञातारमरे केन विजानीयात् ' (बृ. ४.५.१५) इति ।

तस्यार्थः-निर्विशेषचैतन्यभावमापन्नस्य मुक्तस्य न विज्ञानादिकमस्तीति वदतां मायावादिनां मते अनिष्टं प्रसङ्गं वक्तुं तस्य व्याप्तिसापेक्षत्वात् व्यतिरेकव्याप्तिं तावदाह यत्र हीति । यत्र=यदा, द्वैतं=भिन्नं वस्तु, भवति=विद्यते, तत्= तदैव, इतरः=पुरुषः, इतरं=गन्धं, जिघ्रति, तत्=तदा, इतरः = पुरुषः, इतरं=घटं, पश्यति........ तत्=तदा,इतरः पुरुषः इतरं विजानाति' इति वाक्येन यदा द्वैतसद्भावः तदैव दर्शनादिभोगः इति वक्ष्यमाणतर्फे व्यतिरेकव्याप्तिमभिधाय तस्या हिशब्देन प्रमाणप्रसिद्धतामुपदर्श्य प्रसङ्ग (तर्क) माह-यत्र=यस्यामवस्थायां (अविद्यानिवृत्तिरूपायां मुक्तौ ) अस्य = ज्ञानिनः, सर्वं=कारणादिकं आत्मैवाभूत्=आत्मव्यतिरेकेण नाभूत्, तत्= तस्यामवस्थायां, केन=कारणेन, कं=विषयं, जिघ्रेत् (गन्धादिज्ञानं न स्यात् एवमेव तत्तत्पदार्थविषयकज्ञानं न स्यात्) येन परमात्मना इदं सर्वं विजानाति (जीव) तं वक्ष्यमाणमूर्ता- मूर्तविलक्षणत्वाशीर्यत्वादिगुणयुक्तं परमात्मानं, केन विजानीयात् स एष आत्मा इति न, मूर्तं न इति न अमूर्तं न, अगृह्यः साकल्येन ज्ञानाविषयः हि=यस्मात् न गृह्यते प्रमाणेन, अशीर्यः = अनाश्यः हि यस्मात् न शीर्यते, असङ्गः=असम्बद्धः हि यस्मात् न सज्यते असितः-अबद्धः, न व्यथते न रिष्यति इति, तथा अरे ! विज्ञातारं आत्मानं केन विजानीयात् इति (गन्धादिज्ञानं अशीर्यत्वादिगुणविशिष्टपरमात्मज्ञानं स्वात्मज्ञानं च तस्मात् गन्धादिज्ञानाभावस्य परमात्मज्ञानाभावस्य स्वात्मज्ञानाभावस्य चानिष्टत्वेन, (प्रमाणविरुद्धत्वेन) नाङ्गीकार्यं गन्धादिज्ञानाभावपरमात्मज्ञाना- भावस्वात्मज्ञानाभावादिकम् । अतः मुक्तौ आत्मातिरिक्तं किंचिदपि नास्तीति न वक्तव्यमिति । मोक्षे ज्ञानाभावाद्यङ्गीकर्त्रद्वैतमतं निराकरोतीयं श्रुतिरिति जगतः मिथ्यात्वविषये वा जीवस्य ब्रह्मात्मत्वदर्शने वा, दर्शने सति क्रियाकारकफललक्षणव्यवहाराभावे वा, विद्याविषये दर्शनादिलक्षणस्य विशेषविज्ञानस्याभावे वा विद्यावस्थायां कर्तृत्वभोक्तृत्वनिवारणे वा, प्रमाणं भवितुं नार्हतीति । स्वभाष्ये शङ्कराचार्यैः एतेषां विषये 'यत्र हि द्वैतमिव भवति' यत्र त्वस्य सर्वमात्मैवाभूत्' इति श्रुत्युदाहरणमयुक्तम् ।

न च यदा भोजनं कृतं स्यात्तदा तृप्तिः स्यात् तृप्त्या नैव भाव्यमतो भोजनं न कर्तव्यं इति अस्माकं तृप्तेरिष्टत्वेन यथा वक्तुं न शक्यते तथा विद्यावस्थायां (मोक्षे) गन्धादिज्ञानाभावपरमात्मज्ञानाभावस्वज्ञाना-भावादेरस्माकं (अद्वैतिनां ) इष्टत्वेन मोक्षे आत्मातिरिक्तं किंचिन्न स्यात्तदा गन्धादिज्ञानं, येनेदं सर्वं विजानाति तस्य परमात्मनो ज्ञानं, स्वज्ञानं च न स्यात् । गन्धादिज्ञानाद्यभावो नैव युक्तः । अतस्तज्ज्ञानसाधनमात्मातिरिक्तमङ्गीकरणीयमिति वक्तुं न शक्यते । युष्मदीयतर्फे आपाद्यस्थानिष्ट त्वरूपाङ्गभावादिति वाच्यम् । गन्धादि ज्ञानाद्यभावरूपाद्यस्य अनिष्टत्वेन गन्धादिज्ञानाभावो नाङ्गीकार्यः । अत आत्मातिरिक्तं वस्त्वङ्गीकरणीयमिति वक्तुं शक्यत्वात् कथं गन्धादिज्ञानाभावस्यानिष्टत्वमिति चेत् । आपाद्यस्यानिष्टत्वं नाम प्रमाणविरुद्धत्वं (प्रमाणगृहीताभावप्रतियोगित्वम्) न तु युष्मदनिष्टत्वम् । तच्च प्रमाणविरुद्धत्वरूपमनिष्टत्वं मोक्षे गन्धादि- ज्ञानाभावस्य वर्तत एव ।

तथाहि-'अथ यदि गन्धमाल्यलोककामो भवति सङ्कल्पादेवास्य गन्धमाल्ये समुत्तिष्ठतस्तेन गन्धमाल्यलोकेन सम्पन्नो महीयते' (छां.८.२.६).

अथ यद्यन्नपानलोककामो भवति सङ्कल्पादेवास्यान्नपाने समुत्तिष्ठतस्तेनान्नपानलोकेन सम्पन्नो महीयते' (छां.८.२.७)

'अथ यदि गीतवादित्रलोककामो भवति सङ्कल्पादेवास्य गीतवादित्रे समुत्तिष्ठतस्तेन गीतवादित्रलोकेन सम्पन्नो महीयते ।। ८.२.८ ।।

'अथ यदि स्त्रीलोककामो भवति सङ्कल्पादेवास्य स्त्रियः समुत्तिष्ठन्ति तेन स्त्रीलोकेन सम्पन्नो महीयते' (छां.८.२.९)

यं यमन्तमभिकामो भवति यं कामं कामयते सोऽस्य सङ्कल्पादेव समुत्तिष्ठति तेन सम्पन्नो महीयते' (छां.८.२.१०)

स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति तेन पितृलोकेन सम्पन्नो महीयते' (छां.८.२.१)

'अथ यदि मातृलोककामो भवति सङ्कल्पादेवास्य मातरः समुत्तिष्ठन्ति तेन मातृलोकेन सम्पन्नो महीयते' (८.२.२)

अथ यदि भ्रातृलोककामो भवति सङ्कल्पादेवास्य भ्रातरः समुत्तिष्ठन्ति तेन भ्रातृलोकेन सम्पन्नो महीयते' (८.२.३)

अथ यदि स्वसृलोककामो भवति सङ्कल्पादेवास्य स्वसारः समुत्तिष्ठन्ति तेन स्वसृलोकेन सम्पन्नो महीयते' (८.२.४)

अथ यदि सखिलोककामो भवति सङ्कल्पादेवास्य सखायः समुत्तिष्ठन्ति तेन स्वसृलोकेन सम्पन्नो महीयते' (८.२.५)

एवमेवैष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरूपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः स तत्र पर्येति जक्षन् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा' इत्याद्यनेकैः वेदवाक्यैर्मोक्षे गन्धमाल्यान्नपानगीतवादित्रस्त्रीपितृमातृभ्रातृस्वसृसख्यादीप्सितकामनावान् भवति सर्वस्यापि प्राप्तिर्भवति सर्वमनुभवति । पर्यटनजक्षणक्रीडनस्त्रीकर्मकरमणयान-करणकगमनादिकं सर्वं करोति इति मोक्षे गन्धादिज्ञानस्य विद्यमानत्वबोधनेन प्रामाणिकत्वात्, गन्धादिज्ञानाद्यभावः प्रमाणगृहीताभावप्रतियोगित्व- रूपानिष्टत्ववानेवेति नाङ्गीकार्यो हि गन्धादिज्ञानाभावः । अतस्तत्कारणीभूतानां आत्मातिरिक्तानां इन्द्रियादीनां विद्यावस्थायां मोक्षेऽपि स्वीकार्यत्वमेवेति इयं श्रुतिः मोक्षावस्थायामपि आत्मातिरिक्तवस्तु (द्वैत) सद्भावं गमयति ।

न च स तत्र पर्येति जक्षन् क्रीडन् रममाणः इति, स यदि पितृलोककामो भवति इत्यादिश्रुतयः संसारावस्थायां क्रीडादिकं वदन्ति न तु मोक्षे इति कथं गन्धादिज्ञानस्य क्रीडावत्वस्य च मोक्षे सत्त्वसिद्धिरिति वाच्यम् । मोक्ष एव गन्धादिज्ञानवत्वबोधनात् । तथा हि-' तद्यथेह कर्मजितो लोकः क्षीयत एवमेवामुत्र पुण्यजितो लोकः क्षीयते तद्य इह आत्मानमननुविद्य व्रजन्त्येतांश्च सत्यान्कामांस्तेषां सर्वेषु लोकेषु कामचारो भवति अथ य इहात्मानमननुविद्य व्रजन्त्यतांश्च सत्यान्कामांस्तेषां सर्वेषु लोकेष्वकामचायो भवति । (छां.८.१.६) इति राजादिसेवाजनितो लोकः यथा क्षीयते यथा अग्निहोत्रादिपुण्यचितोऽपि लोक: स्वर्गादिः क्षीयते तथा आत्मानं=परमात्मानं, अननुविद्य=अज्ञात्वा, एतान्=परमात्मसम्वन्धिनः सत्यान् कामान्= सत्यकामादिगुणांश्रा अज्ञात्वा गच्छन्ति । तेषां परमात्माज्ञानिनां परमात्मगुणाज्ञानिनां च सर्वेषु लोकेष्वकामचारो भवति । ये जनाः परमात्मानं ज्ञात्वा एतान् परमात्मसम्बन्धिनः सत्यकामत्वादींश्च ज्ञात्वा गच्छन्ति तेषां सत्यकामत्वादिगुणविशिष्टपरमात्मज्ञानिनां सर्वेषु लोकेषु कामचारो भवतीति अज्ञानिनां क्षयफलवत्वमुक्त्वा ज्ञानिनां मुक्तानामक्षयफलवत्वमुक्तम् । तदेवाक्षयफलवत्वं स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति तेन पितृलोकेन सम्पन्नो महीयते' इत्याद्युत्तरवाक्यैः य आत्मानं यथोक्तलक्षणं परमात्मानं साक्षात्कृतवान् वक्ष्यमाणब्रह्मचर्यादिसाधन सम्पन्नः सन् तत्स्थान् (परमात्मस्थितान्) सत्यान् कामान् साक्षात्कृतवान् स त्यक्तदेहः मुक्तः पितृलोककाम :: पितृदर्शनकामो भवति । अस्य सत्यकामत्वादिगुणविशिष्टपरमात्मा- परोक्षज्ञानिनः सङ्कल्पादेव इच्छामात्रादेव पितरः समुत्तिष्ठन्ति तेन इच्छितेन पितृलोकेन पितृदर्शनेन सम्पन्नः महीयते स्वावरैः पूज्यते वर्धते वा महिमानमनुभवति । एवं मातृलोककामः भ्रातृलोककामः स्वसृलोक-कामः सखिलोककामः गन्धमाल्यलोककामः गीतवादित्रलोककामः स्त्रीलोक-काम एवं यद्यत्कामः तेन तेन कामितेन सम्पन्नः महीयते स्वावरैः पूज्यते वर्धते वा महिमानमनुभवति इति विवृतमिति मोक्ष एव गन्ध- माल्यवादित्रादिज्ञानं तथा पितृमातृस्वसृसख्यादिज्ञानं भवतीति कथ्यते इति ।

एवं परंज्योतिरुपसम्पद्येति वाक्यमपि परंज्योतिरुपसम्पद्य प्राप्य स्वरूपेणाविर्भूय (प्राकृतदेहं परित्यज्य मुक्तो भूत्वा ) स मुक्तस्तत्र पर्येति जक्षन् क्रीडन् रममाणः इति मोक्षे जक्षणादीन् बोधयति इति मोक्ष एव क्रीडादिबोधनात् ।

शङ्कराचार्यैरपि १ स्वकृतब्रह्मसूत्रभाष्ये २ तथा वृहदारण्यकोपनिषद्भाष्ये ३ छान्दोग्यभाष्ये च स तत्र पर्येतीति वाक्यं स यदि पितृलोककामो भवतीति वाक्यं च मोक्षावस्थाप्रतिपादकमिति स्पष्टमुक्तम् । तथा हि तद्वाक्यानि -

'परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते यः स किं परस्मादात्मनः पृथगेव भवत्युताविभागेनैवावतिष्ठत इति वीक्षायाम्स तत्र पर्येति' (८.१२.३) इत्यधिकरणाधिकर्तव्यनिर्देशात 'ज्योतिरूपसम्पद्य' (छां.८.१२.३) इति च कर्तृकर्मनिर्देशाद्भेदेनैवावस्थानमिति यस्य मतिस्तं व्युत्पादयत्यविभक्त एव परेणात्मना मुक्तोऽवतिष्ठते' (ब्र.सू.शां.४.४.४) इति भाष्यवाक्येन मोक्षावस्थायां भेदेनैवावस्थानं बोधयतीत्युक्तम् । न चास्य शाङ्करभाष्यस्य पूर्वपक्षवाक्यत्वात् कथं शङ्कराचार्यैरिदं वाक्यं मोक्षावस्थाप्रतिपादकमिति स्वीकृतमित्युच्यते इति वाच्यम् । सिद्धान्तेऽपिभेदनिर्देशस्तु अभेदेऽप्युपचर्यते' इति वाक्येन स तत्र पर्येतीति वाक्यस्य मोक्षावस्थायां भेदप्रतिपादकत्वं स्वीकृत्य परं स्वमताग्रहेण मोक्षे भेदनिर्देश: औपचारिकतया नेय इत्युक्तम् ।

तथा 'अत एव च जक्षणादिसङ्कीर्तनमपि दुःखाभावमात्राभिप्रायं स्तुत्यर्थमात्मरतिरित्यादिवत् । न हि मुख्यान्येव रतिक्रीडामिथुनान्यात्मनि शक्यन्ते वर्णयितुं द्वितीयविषयत्वात्तेषाम्' (ब्र.सू.शा.४.४.६) इति वाक्येन स तत्र पर्येति जक्षन् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वेत्यादिवाक्यं मोक्षे क्रीडनादिकं वक्तीति स्वीकृत्य अज्ञजनमोहनाय वा स्वमताभिनिवेशेन वा क्रीडनादेर्द्वितीयवस्तुसापेक्षत्वान्मोक्षे द्वितीयवस्तुनोऽभावात् भक्षणक्रीडादिकं दुःखाभावमात्रविषयतया योजनीयम्; इत्युक्तत्वेन इदं वाक्यं मोक्षावस्थां प्रतिपादयतीत्यत्र न विवादोऽद्वैतिनाम् ।

मोक्षे आत्मातिरिक्तं द्वितीयं वस्तु विद्यते इति द्वैतिनः, न विद्यत इत्यद्वैतिनः । एतद्विचारस्यैव प्रक्रान्तत्वेन मोक्षे द्वितीयवस्तु नास्तीति सिद्धवत्कथनमनुपपन्नमेव । ' स यदि पितृलोककामो भवति' 'सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता' (तै.२.१) इत्याद्यनेकश्रुत्यादिवाक्यैः मोक्षे द्वितीयवस्तुसिद्धेः । न चैतेषां वाक्यानां मोक्षपरत्वाभाव इति वाच्यम् ।जक्षन् क्रीडन् रममाणः’ 'स यदि पितृलोककामो भवति’ ‘सर्वान् कामान् समश्नुते इत्यादिश्रुतिभ्यो मोक्षे सुखं संवेद्यमिति' (बृ.शा.भा.३.९.२८) इति भाष्यवाक्येन मोक्षे भक्षणक्रीडापितृदर्शनादिकं सिध्यति' इत्युक्त्वा स्वमताग्रहेण मोक्षे ज्ञानकारणाभावेन ज्ञानं न सम्भवतीति कथयित्वा तर्हि (भक्षणक्रीडापितृदर्शनाद्यनङ्गीकारे) जक्षन् क्रीडन्नित्यादिश्रुति- विरोधोऽसंवेद्यत्वे इति चेत् इति वाक्येन मोक्षे जक्षणादिप्रतिपादक- श्रुतिविरोधमाशंक्यसर्वात्मैकत्वे यथाप्राप्तानुवादित्वात् । मुक्तस्य सर्वात्मभावे सति यत्र क्वचिद्योगिषु देवेषु वा जक्षणादिप्राप्तं तद्यथा प्राप्तमेवानूद्यते तत् तस्यैव सर्वात्मभावादिति सर्वात्मभावमोक्षस्तुतये' (बृ.शा.३.९) इति वाक्येन मुक्तस्य स्वतो जक्षणाद्यभावेऽपि सर्वात्मस्वरूपत्वात् (संसारिभिरभेदात्) ये योगिनो देवा वा अमुक्ता जक्षणक्रीडादिकं कुर्वन्ति तदभेदान्मुक्तस्य मुक्तोऽपि जक्षणक्रीडापितृदर्शनादिमानिति मोक्षस्तुतये कथ्यते इति समाधानमुक्तं शङ्कराचार्यैः । एवं च जक्षन् क्रीडन् रममाण इति श्रुतिः मोक्षे मुक्तस्य जक्षणक्रीडापितृदर्शनादिकं कथयतीत्यत्र विवादाभावोऽद्वैतिनाम् । परन्तु यदुक्तं - योगिभिर्देवैर्वा अभेदान्मुक्तस्य, देवादिकर्तृकजक्षणादिकं मुक्तस्य कथ्यते इति । तदसङ्गतम् । अद्वैतमतविरुद्धत्वात् । तथा हि मुक्तस्य सर्वात्मभावो नाम सर्वैर्विशिष्टैर्योगिभिर्देवैर्वा अभेदो वा शुद्धैर्वा । नाद्यः । विशिष्टैर्योगिभिर्देवैर्वा अद्वैतिनां मते मुक्तेन ऐक्यानङ्गीकारात् । न द्वितीयः । शुद्धानां देवानां योगिनां वा क्रीडाद्यभावेन तदभिन्नस्य मुक्तस्य जक्षणक्रीडादिकथनमद्वैतमतविरुद्धम् । किं च संसारे विद्यमानं जक्षणक्रीडादिकं अद्वैतमते इष्टं वा दृष्टं वा । इष्टं चेन्मोक्षे इष्टक्रीडाद्यभावेन इष्टविघातकत्वान्मोक्षो नापेक्षणीयः स्यात् । दुष्टत्वे मोक्षे देवादि निष्ठदुष्टजक्षणादिप्रापकदेवादितादात्म्यस्यानिष्टत्वेन मोक्षस्तुतिर्न स्यात्, प्रत्युत निंदैव स्यात् । अतोऽनिष्टं देवादिनिष्ठजक्षणादिकम् । मुक्तस्य सर्वात्मभावात् अनूद्यते मोक्षस्तुतये इत्युक्तिरयुक्तैव ।

किं च मुक्तस्य सर्वात्मभावे सति यत्र वचिद्योगिषु देवेषु वा जक्षणादि प्राप्तं तद्यथाप्राप्तमेवानूद्यते तत् तस्यैव सर्वात्मभावादिति सर्वात्मभावमोक्षस्तुतये (बृ.शा.भा.३९) इति शङ्कराचार्योक्तिरयुक्तैव । 'यथाप्राप्तानुवादित्वे दुःखित्वमपीति चेत् योग्यादिषु यथाप्राप्तजक्षणादिवत् स्थावरादिषु यथाप्राप्तदुःखित्वमपीति चेत् (बृ.शा.भा. ३९) इति शङ्कराचार्योक्तदिशैव संसारिणो ये ये दोषाः दुःखादयस्तेषां सर्वेषां मोक्षे मुक्तस्य प्राप्त्या स्वस्वकृतदुष्टकर्मजन्यदुःखादि यत्किञ्चिदनिष्टयुक्तसंसारापेक्षया मोक्षे सर्वदुष्टकर्मप्रयोज्यदुःखादिसर्वानिष्टप्रसङ्गेन मोक्षस्यात्यन्तहेयत्वप्राप्तेः । तथा च मोक्षः कैरपि नापेक्ष्यो भवेदिति मोक्षे संसारिनिष्ठभक्षणादिकं सर्वात्मभावनिमित्तं तिष्ठतीत्युक्तिरसङ्गतैव ।

न च स्थावरनिष्ठदुःखित्वादीनां मिथ्यात्वात् न मुक्तस्य वस्तुतो दुःखित्वमिति वाच्यम् । योगिदेवनिष्ठजक्षणक्रीडानन्दादीनामपि मिथ्यात्वेन मुक्तस्य मोक्षे अवक्तव्यत्वात् । 'मिथ्याभूतस्यापि योगिनिष्ठजक्षणक्रीडा- स्त्रीरमणादेः इष्टत्वेन मोक्षस्तुतये मुक्तस्य वर्ण्यत्वे दुःखादेस्तु अनिष्टत्वेन मोक्षस्यातिहीनत्वप्राप्तेः न मोक्षे वर्ण्यता' इति आनन्दगिर्युक्तिरप्ययुक्तैव । संसारिगतदुःखादेरिव संसारिगतजक्षणस्त्रीरमणादेः तज्जन्यसुखस्यापि हेयत्वेन तत्कथनेन मोक्षवर्णनायोगात् संसारसुखस्य हेयत्वाभावे मोक्षार्थं कोऽपि न यतेतेति पूर्वोक्तदोषात् ।

तथा च मोक्षे गन्धादिज्ञानस्य परमात्मज्ञानस्य स्वज्ञानस्य च प्रामाणिकत्वेन प्रामाणिकपरित्यागस्यानिष्टत्वेन मोक्षे गन्धादिज्ञानार्थं तत्कारणभूतानामात्मातिरिक्तानामङ्गीकार्यत्वेन विद्यावस्थायामात्मातिरिक्तं नास्तीत्यद्वैतिभिरुक्तमयुक्तमेवेति यत्र त्विति वाक्यं जीवब्रह्मणोर्भेदं जगतः सत्यत्वमेव बोधयति ।

अद्वैतिभिरपि ब्रह्मविद्याभरणकारै: - 'विज्ञातारमरे केन विजानीयात् ' इत्यतः पूर्ववाक्ये 'येनेदं सर्वं विजानाति तं केन विजानीयात्' इति जीवात् भिन्नतया परमेश्वरः किमर्थं प्रतिपाद्यते येनेश्वरेण जीवः इदं सर्वं विजानाति तं परमेश्वरं केन विजानीयात् इति तदर्थः । तस्मादिदं वाक्यं अत्यन्ताभेदवादिनोऽ (अद्वैतिनोs) ननुगुणम्' इति ( ब्र.सू.१.४.२२) इति ब्रह्मसूत्रशाङ्करभाष्याव्याख्यावसरे यत्र त्वस्येति श्रुतिः जीवब्रह्मणोर्भेद बोधिकेत्युक्तम् ।

तथा अप्पय्यदीक्षितैरपि न्यायरक्षामणौ-' एवं जीवे परमात्मनि च प्राक् प्रस्तुतेऽङ्गीकृते 'येनेदं सर्वं विजानाति तं च केन विजानीयात् ' इत्युपसंहारवाक्यं येनेति तृतीयांतस्य परामर्शनीयं परमात्मानं विजानातेः कर्तारं जीवं चासाद्य समंजसं भवति । जीवस्य ब्रह्माभेदेन प्रस्तुतत्वाङ्गीकारे तु येनेति तृतीया प्रथमार्थे योजनीयेति क्लेशः स्यात्' इत्यादिवाक्येन जीवब्रह्मणोर्भेदवोधिकेत्युक्तमिति नैतद्वाक्यं जीवब्रह्मणोरैक्यविषये उदाहरणीयं नापि जगतः मिथ्यात्वविषये ।

न च उभाभ्यां अद्वैतिभ्यां पूर्वपक्षतया उक्तं वाक्यं संगृह्य येनेति वाक्यं जीवब्रह्मणोर्भेदं बोधयतीति द्वैतिनां कथनमयुक्तम् । सिद्धान्ते अप्पय्यदीक्षितैः 'एवमादौ मध्ये च जीवपरामर्शस्य जीवविषयत्वमङ्गीकृत्यैव भेदपक्षे तदुपपादनस्य कर्तुं शक्यत्वेऽपि तस्य ब्रह्मविषयत्वं सिद्धं कृत्वा यत्तदुपपादनाय यत्नमास्थितवान् सूत्रकारः तेन ज्ञायते जीवपरयोरभेद एवास्य सिद्धान्तः ।येनेदं सर्वं विजानाति' इत्यस्य योजनाक्लेशोऽपि अद्वैतप्रस्तावानुरोधार्थत्वान्न दोषायेत्याशय इति वाक्येन; एवमेव ब्रह्मविद्याभरणकारैरपि- 'येनेति तृतीया प्रथमार्थे भविष्यति' इति वाक्येन च, येनेति पदस्य य इति प्रथमान्तत्वं स्वीकृत्य 'येनेदं सर्वं विजानाति ' इत्यस्य यः=जीवः इदं सर्वं विजानाति तं जीवं केन विजानीयात् इति येनेति पदेन जीव एव ज्ञानकर्तृतया बोध्यते, न तु ब्रह्म जीवकर्तृक- ज्ञानकरणतयेति अस्य वाक्यस्य यथा अभेदाविरुद्धता तथा अर्थस्य कथितत्वात् इति वाच्यम् । अभेदाविरुद्धतया अर्थकथनस्यासम्भवात् । ताभ्यामेवाभेदाविरुद्धतया योजनस्य क्लेशकरत्वं भेदपरतया योजने क्लेशाभावः (समञ्जसः) इति तथा अर्थकथनस्य अयुक्तताया वर्णनाच्च । तथार्थकथनस्यासम्भवस्त्वित्थम् - 'यत्र वा सर्वमात्मैवाभूत् तत् केन कं जिघ्रेत् केन कं पश्येत्.... तत्केन कं विजानीयात् येनेदं सर्वं विजानाति तं केन विजानीयात् । य एष नेति नेत्यात्माऽगृह्यो न हि गृह्यतेऽशीर्यो नहि शीर्षतेऽसङ्गो न हि सज्यते असितो न व्यथते न रिष्यति । विज्ञातारमरे केन विजानीयात्' (बृ. ४.५.१५) इति वाक्यम् । तस्य च अद्वैतिमतरीत्या अर्थः-

अविद्यायामेव सत्यां क्रियाकारकफलव्यवहारो न ब्रह्मविदः । यत्र=यस्यां विद्यावस्थायां सर्वं आत्मैवाभूत् आत्मव्यतिरिक्तं नास्ति, तत्=तदा, केन=घ्राणेन्द्रियेण, कं=गन्धं जिघ्रेत्, केन=चक्षुषा कं=रूपादिकं पश्येत् केन= श्रोत्रेन्द्रियेण कं= शब्दं श्रुणुयात्' इति गन्धादिज्ञानानि निषिध्य इतरज्ञाननिषेधार्थं प्रवृत्तं येनेदं सर्वं विजानाति तं केन विजानीयात्... विज्ञातारमरे केन विजानीयात्' इत्युत्तरवाक्यम् । तस्य च येनेतिपदं प्रथमांततया विपरिणम्य, यः = जीवः इदं सर्वं विजानाति तं जीवं केन विजानीयात् विज्ञातारं जीवं केन विजानीयात् इति । स चार्थोऽसम्भावितः । तथा हि- 'येनेदं सर्वं विजानाति तं केन विजानीयात् =विज्ञातारमरे केन विजानीयात्' इति वाक्ययोर्मध्ये 'स एष नेति नेत्यात्माऽगृह्यो नहि गृह्यते अशीर्यो नहि शीर्यतेऽसङ्गो न सज्यतेऽसितो न व्यथते न रिष्यति' इति वाक्यमस्ति । तथा च येनेदं सर्वं विजानाति तं च केन विजानीयात् स एष नेति नेत्यात्माऽगृह्यो नहि गृह्यतेऽशीर्यो नहि शीर्यते असङ्गो न हि सज्यतेऽसितो न व्यथते न रिष्यति विज्ञातारमरे केन विजानीयादिति समग्रं वाक्यम् । तत्र स एष नेति नेति आत्मा अगृह्यो नहि गृह्यतेऽशीर्यो नहि शीर्यतेऽसङ्गो नहि सज्यतेऽसितो न व्यथते न रिष्यति इति वाक्यस्य तुस एष आत्मा परं ब्रह्म, नेति नेति=सर्वधर्मरहितः, अगृह्यः ज्ञानाविषयः, हि = यस्मात् न गृह्यते, अशीर्यः हि=यस्मात् न शीर्यते, असङ्गः न हि सज्यते, तथा, असितः:-अबाह्यः न व्यथते, न रिष्यति, हिंसां नापद्यते ; इति अद्वैतमतरीत्याऽर्थः । तथाच-स एष नेति नेति' इति वाक्यस्थाभ्यां स एष इति पदाभ्यां परब्रह्मैव ग्राह्यं न जीवः तस्य नेति नेतीत्यादिवाक्योक्तसर्वधर्मनिषेधादीनामयोगात् । एकवाक्यघटकयत्तच्छब्दयोः एकार्थकत्वेन स एष नेति इति वाक्योक्तेन स इति शब्देन परब्रह्मणः ग्रहणे यच्छव्देन परमात्मग्रहणं कर्तव्यम् । अत एव ब्रह्मविद्याभरणकारैः अपेयदीक्षितैरपि येनेति यच्छब्देन परमात्मग्रहणं स्वरसमित्युक्तम् । एवं च येन परमात्मना इदं सर्वं विजानाति तं परमात्मानं केन विजानीयात् इति भेदानुकूलार्थ एव स्वीकार्यो न तु येनेति पदस्य यः इति विभक्तिविपरिणामं कृत्वा यः जीवः इत्यर्थः स्वीकार्यः । उत्तरवाक्यस्थेन स इति शब्देन जीवस्यैव ग्रहणापत्या तस्मिन् नेति नेत्याद्युक्तसर्वधर्मनिषेधायोगात् । विभक्तिविपरिणामादिक्लेशकरत्वात् । येनेति वाक्यस्य जीवज्ञाननिषेधकत्वे स्वीकृते विज्ञातारमरे केन विजानीयात् इत्यस्यापि जीवज्ञाननिषेधकत्वस्य वक्तव्यतया पौनरुत्तयापाताच्च । न चाद्वैतप्रस्तावानुरोधित्वात् अगतिकागतिकतया पौनरुक्त्यं विभक्ति- विपरिणामादिक्लेशोऽपि सह्य इति वाच्यम् । अस्यामुपनिषदि अन्यत्र कुत्रापि वा अद्वैतप्रस्तावस्याभावात् ।

तथा च 'येनेदं सर्वं विजानाति तं केन विजानीयात्' इति वाक्यं येन परमात्मना इदं सर्वं विजानाति जीवः तं परमात्मानं केन विजानीयात् इति एकज्ञानक्रियायां परमात्मनः करणत्वस्य जीवस्य कर्तृत्वस्य बोधकतया, विज्ञातारं स्वात्मानं (जीवं) केन विजानीयादिति पृथगुत्त्या च, जीवस्य परमात्मना भेदबोधकमेव । अभेदवादिनामद्वैतिनामननुगुणं (विरुद्धमेव) इदं वाक्यं इति ब्रह्मविद्याभरणकारैरपेयदीक्षितैरुक्तं युक्तमेवेति ।

विज्ञातारमरे केन विजानीयादिति वाक्यं मोक्षेऽपि जीवस्य विज्ञातारमितिपदेन विज्ञातृत्वं (ज्ञानकर्तृत्वं ज्ञानाश्रयत्वं) वक्तीति मोक्षे जीवस्य ज्ञानमङ्गीकरणीयमेव । न च विज्ञातारमिति पदेन जीवस्य भूतपूर्वगत्या विज्ञानकर्तृत्वमुच्यते न तु मोक्षे इति शङ्कराचार्यैः स्वभाष्ये उक्तमिति वाच्यम्। शङ्कराचार्यैस्तथा उक्तत्वेऽपि विज्ञातारमिति पदेन तथा अप्रतीत्या शब्दार्थत्वाभावेन स्वमताभिनिवेशमूलकत्वेन च उपेक्षणीयत्वात् ।

शङ्कराचार्यानन्दगिरिवार्तिककारसुरेश्वरादिभिः यत्र त्वस्य सर्वमात्मैविभूदिति वाक्यात्पूर्वं विद्यमानं यत्र हि द्वैतमिव भवति इति वाक्यं द्वैतप्रपञ्चस्य पारमार्थिकत्वं बोधयतीत्युक्तं च । विशेषविचारः वाक्यान्वयाधिकरणे कृतः तत्रैवानुसन्धेयः । तथा च ' दर्शयति च ' 'यत्र त्वस्य सर्वमात्मैवाभूत्’ ‘तत्केन कं पश्येत्' (बृ.४.५.१५) इत्यादिना ब्रह्मात्मत्वदर्शिनं प्रति समस्तस्य क्रियाकारकफललक्षणस्य व्यवहारस्याभावं, न चायं व्यवहाराभावोऽवस्थाविशेषनिबद्धोऽभिधीयत इति युक्तम् । तत्त्वमसीति ब्रह्मात्मभावस्यानवस्था विशेषनिबन्धनत्वादिति शङ्करोक्तिरयुक्तैव । यत्र त्वस्येति वाक्ये ब्रह्मात्मत्वदर्शी जीवब्रह्माभेद ज्ञानी कः । तस्य क्रियाकारकफललक्षणव्यवहाराभावो नोक्तः ।

क्रियाकारकफललक्षणव्यवहाराभावस्यानुक्तत्वेन तस्य व्यवहाराभावस्य अवस्थाविशेषनिबद्धत्वशङ्का सुदूरमपास्ता । 'तत्त्वमसि' इति वाक्यं बोधमेव न जनयति इत्यद्वैतिभिरुक्तत्वेन तुष्यत्विति न्यायेन वोधजनकत्वाङ्गीकारेऽपि चित् इति चिद्विषयकाभेदाद्यविषयक बोधजनकत्वस्याद्वैतसिध्यादिग्रन्थकृद्भिः स्वीकृतत्वेन च तेन वाक्येन ब्रह्मात्मत्व (जीवब्रह्माभेद) प्रतीतेरेवाजननेन ब्रह्मात्मभावस्य अनवस्थाविशेषनिबन्धनत्वादित्युक्तिरप्ययुक्तैवेति ।

मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति' (बृ.४.४.१९) इति च भेददृष्टिमपवदन्नेवैतद्दर्शयति इत्युक्तिरप्यसङ्गतैव । अस्याः श्रुतेः भेददृष्ट्यपवादकत्वाभावात् इति पूर्वमेव दर्शितम् ।

यदप्युक्तम्न चास्मिन् दर्शने ज्ञानान्मोक्ष उपपद्यते.....सम्यग्ज्ञानापनोद्यस्य कस्यचिन्मिथ्याज्ञानस्य संसारकारणत्वेनावगमात्' इति, तदपि तुच्छम् । संसारस्य मिथ्याज्ञानकल्पितत्वेऽपि कथं ज्ञानेन निवृत्तिः (संसारः अज्ञानकल्पितो भूयात् । तथापि कथं ज्ञानेन निवृत्तिः ) इति शङ्कायां, यथा ज्ञानस्य विरोध्यज्ञाननिवर्तकत्वस्वाभाव्यात् ज्ञानेनाज्ञाननिवृत्तौ अज्ञानकल्पितः संसारोऽपि निवर्तते इति उच्यते अद्वैतिना, तथा 'सेतुं दृष्ट्वा समुद्रस्य ब्रह्महत्यां व्यपोहति' इत्यादिप्रमाणेन अवगतब्रह्म- हत्यादेर्निवर्तकत्वस्वभाववतो सेतुदर्शनादेः सत्यभूतस्य (सेत्वज्ञानाकल्पितस्य) अपि ब्रह्महत्यादेर्निवर्तकत्ववत् सत्यभूतस्यापि प्रकृतिबन्धस्य निवृत्तेः ।पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति, इति श्रुत्याऽवगत- बन्धनिवर्तकत्वस्वभाववता प्रेरकत्वभिन्नत्वादिना ज्ञातेन परमात्मना उपपत्तेः । किं च अद्वैतमत एव त्रैकालिकनिषेधप्रतियोगिनः (कालत्रयेऽप्यसतः) बन्धस्य संसारस्य निवृत्तिः (ज्ञानानन्तरकालीनः अभावरूपो ध्वंसः) नैवोपपद्यते । कदाचिद्विद्यमानस्यैव ध्वंसः । न हि कदाप्यविद्यमानस्य शशविषाणादेर्ध्वंसः ।

न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः । न मुमुक्षुर्न वै मुक्तः इत्येषा परमार्थता' इति गौडपादकारिकायां; तथा, न निरोधः निरोधनं निरोधः प्रलयः (नाश:) उत्पत्तिर्जननं, बद्धः संसारी जीवः, साधकः ... मुमुक्षुः मोचनार्थी, मुक्तः विमुक्तवन्धः उत्पत्तिप्रलययोरभावात् । बद्धादयो न सन्ति कथमुत्पत्तिप्रलययोरभावः इति उच्यते द्वैतस्यासत्वात् सतो ह्युत्पत्तिः प्रलयो वा स्यात् नासतः शशविषाणादेः' इति तद्व्याख्यानशङ्करभाष्ये च, बन्धादीनामसत्वात् बन्धध्वंसादीनामभाव एवोक्तः ? न तु बन्धस्य सत्यत्ववादिद्वैतमते परमात्मज्ञानात् प्रसादद्वारा मोक्षः (बन्धध्वंसः) सम्भवति इति श्रुत्यादिप्रमाणसिद्धत्वात् ।

एतेन उभयसत्यतायां हि कथमेकत्वज्ञानेन नानात्वज्ञानमपनुद्यते इत्युच्यते इत्युक्तिरपि परास्ता । असत्यस्य बन्धस्य शशविषाणादिवत् ध्वंसासम्भवस्याद्वैतिभिरेवोक्तत्वेन सत्यस्यैव ध्वंस इत्यङ्गीकार्यत्वात् । नन्वेकत्वैकान्ताभ्युपगमे (१) नानात्वाभावात् प्रत्यक्षादिलौकिकानि प्रमाणानि व्याहन्येरन्निर्विषयत्वात् स्थाण्वादिष्विव पुरुषादिज्ञानानि (२) तथा विधिप्रतिषेधशास्त्रमपि भेदापेक्षत्वात् तदभावे व्याहन्येत (३) मोक्षशास्त्रस्यापि शिष्यशासित्रादिभेदापेक्षत्वात् तदभावे व्याघातः स्यात् (४) कथं चानृतेन मोक्षशास्त्रेण प्रतिपादितस्यात्मैकत्वस्य सत्यत्वमुपपद्यते इति वाक्येन ब्रह्मातिरिक्तद्वितीयवस्त्वनङ्गीकारे अबाधितासन्दिग्धविज्ञानसाधनत्व रूपप्रमाणलक्षणाभावात् सर्वेषामप्रामाण्यं प्रसज्यते इति यदुक्तं शङ्कराचार्यैः तत्सत्यमेव ।तमेवं विद्वानमृत इह भवति' इत्यादिमोक्षशास्त्रमपि परमात्मज्ञानं मोक्षसाधनमिति बोधकं शिष्यशासितृज्ञेयज्ञान मोक्षादि- द्वितीयवस्तुसापेक्षं अप्रमाणं प्रसज्येत । 'ज्योतिष्टोमेन स्वर्गकामो यजेत ' इति विधिशास्त्रं यागस्वर्गयागोद्देश्यदेवतायागकर्त्रादिभेदसापेक्षमप्रमाणं च प्रसज्येत ।न सुरां पिवेत्’ 'न परदारान् गच्छेत्' इत्यादिनिषेधशास्त्राण्यपि अप्रमाणानि प्रसज्येरन् । कथं चानृतेन ( नास्ति नासीन्न भविष्यतीति त्रैकालिकनिषेधप्रतियोगिरूपमिथ्याभूतेन = कदाप्यसता ) आत्मैकत्वप्रतिपत्तिः स्यात् । आत्मैकत्वप्रतिपत्तेरेवाभावे अप्रतिपद्यमानस्य आत्मैकत्वस्य सत्यत्वं वा कथं स्यात् इत्यादयो दोषाः अद्वैतिमते वज्रलेपायिता एव ।(दुष्परिहारा एव) एतद्दोषपरिहारार्थं यदुक्तं शङ्कराचार्यैः-'अत्रोच्यते - नैष दोष:, सर्वव्यवहाराणां प्राक् ब्रह्मात्मताविज्ञानात् सत्यत्वोपपत्तेः । स्वप्नव्यवहारस्येव प्राक् प्रबोधात् । यावद्धि न सत्यात्मैकत्वप्रतिपत्तिः तावत्प्रमाणप्रमेय- फललक्षणेषु विकारेष्वनृतत्वबुद्धिर्न कस्यचिदुत्पद्यते । विकारानेव त्वहं ममेत्यविद्ययात्मात्मीयेन भावेन सर्वो जन्तुः प्रतिपद्यते स्वाभाविकीं ब्रह्मात्मतां हित्वा तस्मात्प्राग्ब्रह्मात्मताप्रतिबोधादुपपन्नः सर्वो लौकिको वैदिकश्च व्यवहारः यथा सुप्तस्य प्राकृतस्य जनस्य स्वप्न उच्चावचान् भावान् पश्यतो निश्चितमेव प्रत्यक्षाभिमतं विज्ञानं भवति प्राक् प्रबोधात् न च प्रत्यक्षाभासाभिप्रायस्तत्काले भवति, तद्वत्' इति । तदत्यन्तमयुक्तम् । अनेकदोषयुक्तत्वात् । तथा हि सर्वव्यवहाराणां नास्ति नासीन्न भविष्यतीति त्रैकालिकनिषेधप्रतियोगित्वं वदतामद्वैतिनां मते प्राग्ब्रह्मात्मताविज्ञानात् सत्यत्वकथनमयुक्तम् । नासीदिति पूर्वकाले सत्वं निषिध्य ब्रह्मात्मता- विज्ञानात् पूर्वकाले सत्वोक्तेः व्याहतत्वात् । स्वाप्नव्यवहारस्येव प्राक् प्रबोधादित्युक्तिरप्ययुक्तैव । दृष्टान्तासम्मतेः । स्वाप्नपदार्थानांस हि कर्ताइत्यादिश्रुतिभिः ईश्वरकर्तृकत्वोक्तेः सत्यत्वात् ।

शङ्कराचार्याः स्वकृतग्रन्थे 'स्वप्नव्यवहारस्यैव प्राक् प्रबोधात्, स्वप्नवन्मिथ्या' इत्यादिवाक्येन स्वप्नपदार्थानां मिथ्यात्वं प्रतिक्षणमाहुः । तत्र तत्र तत्साधनाभासांश्च प्रदर्शयामासुः । अतः स्वप्नपदार्थानां मिथ्यात्वे ये युक्त्याभासाः प्रदर्शिताः तेषां आभासतां प्रदर्श्य स्वाप्नपदार्थानां सत्यतां प्रमाणेन प्रदर्शयिष्यामः । तथा हि 'सन्ध्ये सृष्टिराह हि (ब्र.सू.३.२.१)स यत्र प्रस्वपिति' (बृ.४.३.९) इत्युपक्रम्य, ‘न तत्र रथा रथयोगाः न पन्थानो भवन्ति अथ रथान् रथयोगान् पथः सृजते ' (बृ. ४.३.१०) इत्यादि । तत्र संशयः किं प्रबोध इव स्वप्नेऽपि पारमार्थिकी सृष्टि: आहोस्विन्मायामयीति । तत्र तावत्प्रतिपद्यते संध्ये तथ्यरूपा सृष्टिरिति तस्मिन्संध्ये स्थाने तथ्यरूपैव सृष्टिर्भवितुमर्हति । कुतः । यतः प्रमाणभूता श्रुतिरेवमाहअथ रथान् रथयोगान् पथः सृजते (बृ.४.३.१०) इत्यादि । स हि कर्तेति चोपसंहारात् एवमेवावगम्यते (१) इति वाक्ये |

अपि चैके शाखिनः अस्मिन्नेव सन्ध्ये स्थाने कामानां निर्मातारमात्मानमामनन्ति य एषु सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः' (क.५.८) इति । पुत्रादयश्चात्र कामा अभिप्रेयन्ते....प्राज्ञं चैनं निर्मातारं प्रकरणवाक्यशेषाभ्यां प्रतीमः । प्राज्ञस्य हि इदं प्रकरणम् ।अन्यत्र धर्मादन्यत्राधर्मात् ' (क. २.१४) इत्यादि, तद्विषय एव च वाक्यशेषोऽपि ।तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते । तस्मिंल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन' (क. ५.८) इति प्राज्ञकर्तृका च सृष्टि: तथ्यरूपा समधिगता जागरिताश्रया तथा स्वप्नाश्रयापि सृष्टिर्भवितुमर्हति तस्मात्तथ्यरूपैव सन्ध्ये सृष्टिरिति वाक्येन च श्रुत्यादिप्रमाणानुकूलंसन्ध्ये सृष्टिराह हि, निर्मातारं चैके पुत्रादयश्चेति" सूत्राभ्यामुक्तं स्वाप्नपदार्थस्य पारमार्थिकसत्यत्वरूपं अर्थं पूर्वपक्षत्वेन स्वीकृत्य 'मायामात्रं तु कात्स्न्र्त्स्न्येनानभिव्यक्तस्वरूपत्वात्' (ब्रू.सू.३.२.३) इति सूत्रं सिद्धान्तसूत्रमिति मत्वा तस्येत्थं व्याख्यां चक्रुः शङ्कराचार्याः । तुशब्दः पूर्वपक्षं व्यावर्तयति । नैतदस्ति यदुक्तं सन्ध्ये सृष्टिः पारमार्थिकीति । मायैव सन्ध्ये सृष्टिः न परमार्थगन्धोऽप्यस्ति । कुतः कार्त्स्न्येनानभिव्यक्त- स्वरूपत्वात् । न हि कात्स्र्त्स्न्येन=परमार्थवस्तुधर्मेण अभिव्यक्तः स्वप्नः । कात्स्र्न्य नाम (१) देशसम्पत्तिः (२) कालसम्पत्तिः (३) निमित्तसम्पत्तिः (४) अबाधश्च । न हि परमार्थवस्तुविषयाणि देशकालनिमित्तानि अबाधश्च स्वप्रे सम्भाव्यन्ते । तथा हि

१. न तावत् स्वप्ने रथादीनामुचितो देशः सम्भवति । न हि संवृते देशे रथादयोऽवकाशं लभेरन् ।

२.कालसम्पत्तिरपि नास्ति । कालविसंवादोऽपि स्वप्ने भवति । रजन्यां सुप्तो वासरं भारते वर्षे मन्यते । तथा मुहूर्तमात्रवर्तिनि स्वप्ने कदाचिद्बहुवर्षपूगानतिवाहयति ।

३.निमित्तानि च स्वप्नपदार्थज्ञानकारणानि स्वाप्नपदार्थनिर्माणकारणानि चेति द्विविधानि । न तानि द्विविधान्यपि निमित्तानि उचितानि विद्यन्ते ।

(१) करणोपसंहाराद्धि नास्य स्वाप्नपदार्थरथादिज्ञानकरणानि चक्षुरादीनि सन्ति ।

(२) स्वाप्नपदार्थनिर्माणकारणमपि घटस्य कुलाल इव निमित्तकारणं मृदिव उपादानकारणं चेति द्विविधम् । उभयमपि स्वप्नपदार्थनिर्माणकारणं नास्ति ।

(१) निमेषमात्रेण रथादिनिर्वर्तने कुतोऽस्य (स्वप्नद्रष्टुः) सामर्थ्यमिति निमित्तकारणाभावः ।

(२) रथादिनिर्माणे उपादानकारणानि दारूणि न सन्ति इत्युपादानकारणाभावः ।

एवं स्वाप्नपदार्थज्ञानकरणचक्षुराद्यभावात् निमित्तकारणस्य स्वाप्नपदार्थ- सर्जनसमर्थस्य चाभावात् उपादानकारणदारूणामभावात् स्वप्ने न बुद्धये कर्मणे वोचितानि विद्यन्ते ।

(४) बाध्यन्ते चैते रथादयः स्वप्नदृष्टाः प्रबोधे इति स्वप्नदृष्टस्य प्रबोधकाले बाधः । स्वप्न एव चैते सुलभवाधा भवन्ति । रथोऽयमिति हि कदाचित् स्त्रप्ने निर्धारितः क्षणेन मनुष्यः सम्पद्यते मनुष्योऽयमिति निर्धारितः क्षणेन वृक्षः ।

स्पष्टं चाभावं रथादीनां स्वप्ने श्रावयति शास्त्रं (श्रुतिः) 'न तत्र रथा न रथयोगा न पन्थानो भवन्ति' (बृ.४.३.१०) इत्यादि । तस्मात् (१) स्वाप्नरथादीनामुचितदेशाभावात् (२) उचितकालाभावात् (३) ज्ञानकारणचक्षुरादीनामुपरतत्वेन स्वाप्नपदार्थज्ञानकारणाभावात् (४) निमेषमात्रेण स्वाप्नपदार्थसर्जनसमर्थपुरुषाभावात् (५) स्वाप्नपदार्थो - पादानकारणदार्वभावात् (काष्ठाभावात्) (६) प्रबोधकाले स्वाप्नपदार्थानां प्रत्यक्षबाधितत्वात् स्वप्नकालेऽपि वाधितत्वात् श्रुतिवाधितत्वाच्च स्वाप्नदर्शनं मायामात्रं मिथ्या । तस्मात् स्वाप्नपदार्थस्य सत्यत्वं नाङ्गीकारार्हमिति यच्छङ्कराचार्यैरुक्तं तदयुक्तम् । स्वाप्नपदार्थस्य मिथ्यात्वबोधनपरतया शङ्कराचार्यकृतस्य ‘“मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वादिति" सूत्रव्याख्यानस्य दुष्टत्वात् । तथा हिन तत्र रथा न रथयोगा न पन्थानो भवन्ति' (बृ.४.३.१० ) इत्यादिशास्त्रं स्वाप्नपदार्थानां रथादीनां स्वप्ने अभावं (बाधं) बोधयतीति यदुक्तं तत्तावदयुक्तम् । पदार्थस्य बाधो नाम नास्ति नासीन्न भविष्यतीति बोध्यमानत्रैकालिकनिषेधप्रतियोगित्वम् । स च कदाप्यसत एव सम्भवति । न पूर्वकालमात्रे असतः (प्रागभाव- प्रतियोगिनः) सम्भवति । विवाहानन्तरं जातानां पुत्राणां विवाहात्पूर्वमसतां प्रागभावप्रतियोगिनां पश्चाच्च भवतां इमे पुत्रा बाधिता इति व्यवहाराभावात् । एवं जातानां पुत्राणां नाशानन्तरमुत्तरकाले असत्वमात्रेण वाधितत्व- व्यवहाराभावात् । तथा च 'न तत्र रथा न रथयोगा न पन्थानो भवन्ति, अथ रथान् रथयोगान् पथः सृजते, न तत्र आनन्दा मुदः प्रमुदो भवन्ति, अथानन्दान् मुदः प्रमुदः सृजते न तत्र वेशान्ताः पुष्करिण्यः स्रवन्त्यो भवन्ति, अथ वेशान्तान् पुष्करिणीः स्रवन्तीः सृजते, स हि कर्ता' (बृ. ४.३.१० ) इति श्रुतिः 'तत्र = तस्मिन् प्रदेशे, रथाः रथयोजका अश्वाः मार्गाश्च स्वप्नात्पूर्वं न भवन्ति अविद्यमानाः अथ अनन्तरं (स्वप्नकाले) रथान् अश्वादीन् मार्गांश्च सृजते ईश्वरः, इति । तत्र आनन्दाः सुखविशेषाः, मुदः पुत्रादिलाभनिमित्ता: हर्षा, प्रमुदः = प्रकर्षोपेता हर्षा न भवन्ति ।

अथ अनन्तरं स्वप्नकाले आनन्दाः मुदः प्रमुदः सृजते सृष्टिं करोति ईश्वरः । तत्र वेशान्ताः पल्वलाः पुष्करिण्यः तडागाः स्रवन्त्यः नद्यः न भवन्ति । अथ अनन्तरं (स्वप्नकाले) पल्वलान् पुष्करिणीर्नदीः सृजते ईश्वरः । स हि यस्मात् कारणात् कर्ता= सर्वकर्ता तस्मात् ' इति । अथपदेन स्वप्नात्पूर्वं रथादीनामभावं (प्रागभावं) उक्त्वा, स्वप्नकाले रथादीन् सृजते ईश्वरः इति स्वप्नकाले रथादीनामीश्वरसृष्टत्वेन सत्त्वं वक्तीति न तत्र रथा ... अथ रथान् रथयोगान् सृजते' इति श्रुतिः, स्वाप्नरथादीनां नास्ति नासीन्न भविष्यति इति बोध्यमानत्रैकालिकनिषेधप्रतियोगित्वरूपमसत्त्वापरपर्यायं मिथ्यात्वं न वक्तीति नानया श्रुत्या स्वाप्नपदार्थस्य मिथ्यात्वसिद्धिः ।

। इतिस्वाप्नपदार्थमिथ्यात्वे शङ्कराचार्योक्तश्रुतिबाध्यत्वहेतुनिराकरणम् ।

स्वाप्नपदार्था मिथ्या स्वप्नकालेऽपि बाधितत्वात् इति सर्वेषां स्वाप्न-पदार्थानां मिथ्यात्वे स्वप्नकाले बाधितत्वोक्तिरप्ययुक्ता । सर्वस्वाप्नपदार्थानां बाधादर्शनात् । यथा शुक्तौ प्रतीयमानरजतस्य नेदं रजतमिति बाधदर्शनेन तस्य मिथ्यात्वेऽपि न अबाधितस्य सत्यरजतस्य घटादेर्वा मिथ्यात्वम् । तथा केषाञ्चित्स्वप्ने प्रतीयमानानां पदार्थानां बाधदर्शनेन मिथ्यात्वेऽपि न स्वप्ने दृश्यमानसर्वपदार्थानां मिथ्यात्वम् । अन्यथा ( यत्किञ्चिद्वस्तुनः बाधदर्शनमात्रेण सर्वस्य मिथ्यात्वे) स्वप्ने दृश्यमानात्मनोऽपि मिथ्यात्वं स्यात् । शुक्तिरजतस्य बाधदर्शनमात्रेणाबाधितस्य सत्यरजतादेरपि मिथ्यात्वं स्यात् । बाधस्य साधिष्ठानत्वनियमेन अयं रथः इति पूर्वजातस्वप्न- दर्शनस्यानन्तरं जातेन अयं मनुष्य इति ज्ञानेन तदनन्तरं जातेन अयं वृक्ष इति ज्ञानेन च पुरोवर्तिनि प्रतीयमानरथत्वमनुष्यत्वादीनां बाधेऽपि वाधविशेष्यीभूतमधिष्ठानभूतं इदं वस्तु न वाध्यते इति तस्य स्वाप्नपदार्थस्य मिथ्यात्वासिद्धेः । न हि वयं (द्वैतिनः) जाग्रत्काले वा स्वप्नकाले वा यद्यत्प्रतीयते तत्सर्वं सत्यं न मिथ्या इति ब्रूमः किं तु यत्प्रतीयते यस्य बाधो नास्ति तत्सत्यं, यस्य बाधोऽस्ति तन्मिथ्येति ।

तथा च स्वप्नकाले रथोऽयं मनुष्योऽयमित्यादिना ज्ञातस्य रथत्वादेः ज्ञानेन बाधेऽपि न पुरोवर्तिनः बाधः न वा रथत्वातिरिक्तानां सर्वेषां बाध इति नायं स्वाप्नबाधः स्वप्ने प्रतीयमानस्य सर्वस्य असत्त्वं बोधयति ।

एतेन 'वैधर्म्याच्च न स्वप्नादिवत्' इति सूत्रेण स्वाप्नपदार्थानां सर्वेषां बाधकथनात् स्वाप्नपदार्थाः सर्वे मिथ्या इति कस्यचिदुक्तिरपि परास्ता । यस्य स्वाप्नपदार्थस्य बाधोऽस्ति तस्य मिथ्यात्वेऽपि न सर्वस्य मिथ्यात्वं बाधाभावात् ।

॥ सर्वस्वाप्नानां मिथ्यात्वविषये स्वाप्नकालीनबाधस्य शङ्कराचार्योक्तहेतुत्वनिराकरणम् ॥

यच्चोक्तं शङ्कराचार्यैः 'बाध्यन्ते चैते रथादय: स्वप्नदृष्टाः प्रबोधे' इति वाक्येन स्वाप्नपदार्थानां प्रबोधकाले बाधदर्शनान् मिथ्यात्वमिति, तदप्ययुक्तम् । प्रबोधकाले स्वाप्नपदार्थानां रथादीनां बाधादर्शनात् । तथाहि सुप्तेरुत्थानानन्तरं स्वाप्न एवायं रथादिर्न जागरित इति हि खलु बाधः न तु नायं रथ इति । यथा कार्तिकमासे दृष्टं चैत्रं कालान्तरे अयं चैत्रः वैशाखमासे दृष्टः इति कदाचिद्रमो जायते । तदनन्तरं नायं वैशाखमासे दृष्टः किन्तु कार्तिकमासे इति बाधो जायते । स च बाधः, न हि चैत्रस्य नास्ति नासीन्न भविष्यतीति बोध्यमानत्रैकालिकनिषेधप्रतियोगित्वरूपमिथ्यात्वसाधको भवति किं तु वैशाखमासवृत्तित्वस्यैव बाधकः । तथा स्वाप्न एवायं रथादिः न जाग्रत् इति बाधोऽपि रथादीनां जाग्रत्कालवृत्तित्वस्यैव बाधकः (त्रैकालिकनिषेधप्रतियोगित्वरूपमिथ्यात्वग्राहकः ) न तु रथादीनाम् । बाधज्ञानं यस्याभावं (असत्त्वं) गृह्णाति तस्यैव बाधकं न तु स्वविषयस्य सर्वस्य बाधकं; बाधस्य साधिष्ठानत्वनियमात् अधिष्ठानातिरिक्तस्यैव । अन्यथा नेदं रजतमिति बाधज्ञानं इदंपदार्थस्यापि बाधकं (असत्त्वग्राहकं ) स्यात् । न भवति च इदंपदार्थस्यासत्त्वग्राहकं किं तु रजतस्यैवेति ।

यदि हि जाग्रत्काले नायं रथ इति बाधः स्यात् तदा रथादीनां अभावग्रहणात् रथादीनां मिथ्यात्वं स्यान्नायं न तथा (नायं रथ इति) बाध इति न स्वाप्नपदार्थानां रथादीनां सर्वेषां मिथ्यात्वसिद्धिः । तुष्यत्विति न्यायेन " नायं रथ" इति बाधाङ्गीकारेऽपि बाधस्य साधिष्ठानत्वनियमात् स्वाप्नरथस्य बाधेऽपि नाधिष्ठानस्य स्वप्नप्रतीतेदम्पदार्थस्येति 'बाध्यन्ते चैते रथादयः स्वप्नदृष्टाः प्रवोधे' इति शङ्कराचार्याणां रथादीनां सर्वेषां बाध्यत्वोक्तिरयुक्तैव ।

।। इति शङ्कराचार्योक्तस्वप्नदृष्टानां स्थादीनां मिथ्यात्वे प्रबोधकाले बाधितत्वहेतुभङ्गः ।।

स्वाप्नपदार्थानां मिथ्यात्वे स्वाप्नपदार्थोपादानकारणदार्वभावात् इति हेतुकथनमप्ययुक्तम् । दुष्टत्वात् । (व्यभिचारित्वात्) । मा हि भूत् एकस्य तत्पदार्थोपादानस्याभावेन अन्येनोपादानेन तत्पदार्थस्याभाव: ( मिथ्यात्वं ) ।

रथा हि बहवः । एकः सुवर्णोपादानकः अन्यो रजतोपादानकः अपरः काष्ठोपादानक इति । न हि सुवर्णोपादानकारणाभावमात्रेण रथसामान्या- भावः सिद्ध्यति । सुवर्णरूपोपादानाभावेन सौवर्णरथस्यानुत्पत्तावपि रजतरूपोपादानेन रजतरथोत्पत्तिसम्भवात् । एवं रजतरूपोपादानाभावे न रथसामान्याभावः सिद्ध्यति । सौवर्णस्य काष्ठस्य वा रथस्योत्पत्तिसम्भवात् । एवं काष्ठरूपोपादानाभावे न रथसामान्याभावः सिद्ध्यति । रजतस्य सौवर्णस्य वा रथस्योत्पत्तिसम्भवात् । तथा च स्वाप्नरथादिः मिथ्या (त्रैकालिकनिषेधप्रतियोगी) काष्ठरूपोपादानाभावात् यत् काष्ठ- रूपोपादानाभाववत् तन्नास्ति इति अनुमातुं नैव शक्यते । सौवर्णरथे राजतरथे वा व्यभिचारात् । काष्ठरूपोपादानाभावेऽपि सौवर्णस्य वा राजतस्य वा सत्त्वात् काष्ठरूपोपादानाभावात् इति हेतुर्व्यभिचरितत्वात् न रथादीनां सर्वेषां मिथ्यात्वं साधयितुमलम् (समर्थः) ।

ननु 'रथादिनिर्वर्तनेऽपि कुतो ..... दारूणि इति शाङ्करभाष्येण दार्वभावमात्रस्य हेतुत्वे बोधितेऽपि उपादानकारणमात्राभावकथन एव तात्पर्यात् । तथा च स्वाप्नरथादयः मिथ्या (न सन्ति) दारूप- लक्षितोपादानकारणसामान्याभावात् यत् उपादानकारणसामान्या- भाववत् तन्नास्ति (मिथ्या) यथा शशविषाणमिति अनुमातुं शक्यते व्यभिचारा- भावादिति चेन्न । दुष्टत्वात् । (हेत्वसिद्धेः) । न हि स्वाप्नरथादीनाम् उपादानकारणसामान्यस्य ( यत्किञ्चिदुपादानकारणस्यापि) अभावः । अन्तःकरणपरिणतानां वासनानां (संस्काराणां) सत्वात् । वासनाभिः (उपादानरूपाभिः) रथनिर्माणसम्भवात् । स्वीकृतं हि शङ्कराचार्य - प्रभृतिभिरद्वैतिभिः स्वाप्नरथादीनां वासनाया उपादानकारणत्वम् । तथा हि तेषां वाक्यानि – ‘कथं पुनः सृजते रथादिसाधनानां वृक्षादीनामभावे' इत्याशङ्कयतद्वासनामात्रं वेशान्तादीन् सृजते वासनामात्ररूपान्' इति । (बृ.शां. भा. ४।३।१०)

'वासनामयी सृष्टिः श्लिष्टेति उत्तरमाह उच्यते' इति । (बृ.शां. आनन्द. ४।३।१०)

'यथा तु जाग्रत्सृष्टेः बाह्यकरणापेक्षायाः तदनपेक्षान्तरकरण (वासना)-मात्रसाध्या दृष्टा स्वप्ने रथादिसृष्टिरशक्यापह्नोतुम् । एवं सर्वशक्तेः परस्या देवतायाः आन्तरकरणानपेक्षाया जगत्सर्जनं श्रूयमाणं न सामान्यतो दृष्टमात्रेण अपह्नवमर्हतीति' (ब्र.सू. शां. भामती २।१।३१ ) इत्यादीनि स्वाप्नरथादीनां वासना उपादानकारणमिति बोधकानि वाक्यानि ।

तथा च स्वाप्नरथादीनामुपादानकारणस्य सत्त्वात् उपादानकारण- दार्वभावादिति वा दारूपलक्षितोपादानकारणसामान्याभावादिति वा हेतुना स्वाप्नरथादीनां अभावः सूत्रेण कथ्यते इति कथनमयुक्तमेव शङ्कराचार्याणाम् ।

।। इति स्वाप्नपदार्थानां मिथ्यात्वे उपादानकारणाभावस्य हेतुत्वभङ्गः ।।

स्वाप्नरथादिपदार्थाः मिथ्या निमेषमात्रेण स्वाप्नपदार्थनिर्माणसमर्थ- पुरुषाभावादिति, ‘रथादिनिर्वर्तनेऽपि कुतोऽस्य निमेषमात्रेण सामर्थ्यंइति शाङ्करभाष्योक्तहेतुरप्ययुक्तः असिद्धत्वात् । निमेषमात्रेण सर्जन- समर्थस्येश्वरस्यप्राज्ञनामकपरमात्मनः ' सत्त्वात् । स्वीकृतं च शङ्कराचार्यैः 'सर्वोपेता च तद्दर्शनात् ' ( ब्र. सू. २।१।३० ) इति सूत्रव्याख्यावसरे 'सर्वशक्तियुक्ता च परा देवता' इति अभ्युपगन्तव्यम् । कुतः तद्दर्शनात् । तथा हि दर्शयति श्रुतिः सर्वशक्तियोगं परस्या देवतायाः - 'सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादरः' (छां. ३ | १४|४) सत्यकामः सत्यसङ्कल्पः (छां.८।७।१) 'य: सर्वज्ञः सर्ववित्' (मुं. १।१।९)एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः ' (बृ. ३ | ४ ।९) इत्येवं जातीयका' इति । स्वाप्नपदार्थ स्रष्टृत्वं सर्वशक्तियुक्तप्राज्ञनामकपरमात्मन एव वक्ति चय एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः' (का. ५।८) इति श्रुतिः । तथा च निमेषमात्रेण जगत्सर्जनकर्त्रीश्वरस्य सद्भावेन तेनैकनिमेषमात्रेण स्वाप्नपदार्थस्रष्टृत्वोपपत्तेः । निमेषमात्रेण स्वाप्नपदार्थनिर्माणसमर्थपुरुषाभावादिति हेतोः असिद्धत्वात् नायं हेतुः स्वाप्नपदार्थमिथ्यात्वसाधने समर्थ इति ।

।। इति स्वाप्नपदार्थानामभावे ( मिथ्यात्वे) सर्जनसमर्थपुरुषाभावस्य हेतुत्वभङ्गः ।।

निमित्तान्यपि च स्वप्नेन बुद्धये ..... उचितानि विद्यन्ते करणोपसंहाराद्धि नास्य रथादिग्रहणाय चक्षुरादीनि सन्ति इति वाक्येन शाङ्करभाष्ये स्वाप्नपदार्थाः मिथ्या स्वाप्नपदार्थदर्शनकरणाभावात् इति हेतुरुक्त: सोऽप्ययुक्तोऽसिद्धत्वात् । न तावत्सन्ध्ये स्थाने अत्यन्तमात्मनः करणविरमणमस्ति’ ‘सधीः स्वप्नो भूत्वेमं लोकमतिक्रामति' (बृ.४।३।७) इति तत्रापि धीसम्बन्धश्रवणात् । तथा च स्मरन्ति- 'इन्द्रियाणामुपरमे मनोऽनुपरतं यदि । सेवते विषयानेव तद्विद्यात्स्वप्नदर्शनम्' इति ।।कामादयश्च मनसो वृत्तय इति श्रुतिः, ताश्च स्वप्ने दृश्यन्ते तस्मात्समना एव स्वप्ने विहरति' (बृ.शां. भा. २ | | ४०) इति स्वाप्नपदार्थदर्शनकरणस्य मनसः स्वप्नकाले सत्त्वं शङ्कराचार्यैः स्वयमेव स्वीकृत्य स्वप्नपदार्थ-दर्शनकरणाभावोक्तेरयुक्तत्वात् ।

यत् जन्यं ज्ञानं तत् सकरणकमिति नियमात् जन्यस्वाप्नपदार्थज्ञानस्य करणं सर्वैरपि किञ्चित्कल्पनीयम् । अकारणकार्योत्पत्तेरयोगादिति करणाभाव- शङ्काकरणमेवानुचितं करणविशेषज्ञानाभावमात्रेण प्रमितकार्यायोगशङ्काया अयोग इति ।

।। इति स्वाप्तपदार्थमिथ्यात्वे स्वाप्नपदार्थज्ञानकरणाभावस्य हेतुत्वभङ्गः ।।

न हि रथादीनां उचितदेशः सम्भवति । न हि संवृते देहदेशे रथादयोऽवकाशं लभेरन्' इति वाक्येन शाङ्करभाष्योक्तः 'स्वाप्नपदार्थाः मिथ्या अवस्थातुमुचितदेशाभावात्' इति हेतुरप्ययुक्तः । पूर्ववदसिद्धत्वात् । तथा हियत् यदुपादानकं तत्तद्देशवृत्ति यथा घटः मृदुपादानकः मृदो देशे तिष्ठति तथा स्वाप्नरथादयोऽपि अन्तःकरणाश्रितवासनोपादानका इति

अद्वैतिभिरप्यङ्गीकृतत्वेन वासनापरिणतरथादीनां स्वोपादानवासनाश्रयमन एव उचितदेश इति स्वोपादानकारणवासनायाः प्रदेशभूते मनसि स्थातुमर्हन्तीति उचितदेशाभावादिति हेतुरसिद्ध एवेति न तेन हेतुना स्वाप्नपदार्थस्य मिथ्यात्वसिद्धिः । कालविसंवादोऽपि च स्वप्ने भवति । रजन्यां सुप्तो वासरं भारते वर्षे मन्यते तथा मुहूर्तमात्रवर्तिनि स्वप्ने कदाचिद्बहुवर्षपूगानतिवाहयति' इति ( ब्र. सू. शां. ३ । २।३) वाक्येन, स्वाप्नपदार्थाः मिथ्या स्वाप्नकाले स्वप्नपदार्थाधिकरणतया गृहीतकालाभावात् इत्युक्तानुमानमप्ययुक्तम् । ईश्वरनिर्मितवासनापरिणतकालस्य सत्त्वात् । किश्च स्वाप्नपदार्थाधिकरणतया गृहीतकालाभावे तादृशकालवृत्तित्वं बाध्यतां, स्वाप्नपदार्थास्तु अबाधितत्वात् सत्या एव । तथा च कात्स्नर्चेन देशकालनिमित्तसम्पत्त्यबाधरूपेण परमार्थवस्तुधर्मेणाभिव्यक्तस्वरूप एव स्वप्नः इति, 'देशकालनिमित्तसम्पत्त्यबाधरूपकात्स्नर्येनानभिव्यक्तस्वरूपत्वात् । मायैव सन्ध्ये सृष्टिर्न परमार्थगन्धोऽप्यस्ति' इति शाङ्कः रव्याख्यानमयुक्तम् ।

एवं स्वाप्नपदार्थसत्यत्वविषये बाधके परिहृते निर्वाधानि 'सन्ध्ये सृष्टिराह हि’ ‘निर्मातारं चैके पुत्रादयश्च' इत्याभ्यां सूत्राभ्यां प्रदर्शितानि प्रमाणानि इति तयोः सूत्रयोः पूर्वपक्षसूत्रत्वोक्तिरयुक्तैवअत्रैष देवः स्वप्ने..... दृष्टं चादृष्टं च श्रुतं चाश्रुतं च अनुभूतं चाननुभूतं च सच्चासच्च सर्वं पश्यति' (षट् ४।५ ) इति श्रुतौ स्पष्टं सच्च पश्यतीति स्वप्ने दृष्टस्य पदार्थस्य सत्त्वमुक्तम् । शङ्कराचार्यैरपिसच्च परामार्थोदकादि असच्च मरीच्युदकादि' इति स्वप्नदृष्टपदार्थानां परमार्थसत्त्वमुक्तम् ।

एतेनवैधर्म्याच्च न स्वप्नादिवत्' इति सूत्रं स्वप्नार्थानां मिथ्यात्व- बोधकमित्येतन्निरस्तम् । श्रुतौ स्पष्टं स्वप्नपदार्थानां सत्यत्वकथनात् ।

किं च "स्वप्नादिप्रत्ययवत् जागरितविषया अपि स्तम्भादिप्रत्यया विनैव बाह्येनार्थेन भवेयुः प्रत्ययत्वाविशेषादिति बुद्धेनोक्तौ, प्रवृत्तंवैधर्म्याच्च न स्वप्नादिवत्इति सूत्रम् । तस्यार्थःस्वप्नादिप्रत्ययवत् जाग्रत्प्रत्यया भवितुं नार्हन्ति । कस्मात् वैधर्म्यात् । वैधर्म्यं हि भवति स्वप्नजागरितयोः । किं पुनर्वैधर्म्यम् बाधाबाधाविति ब्रूमः । बाध्यते हि स्वप्नोपलब्धं वस्तु प्रतिबुद्धस्य, नैवं जागरितोपलब्धं वस्तु स्तम्भादिकं कस्याश्चिदप्यवस्थायां वाध्यते' इति, स्वप्नादीनां बाधितत्वात् जाग्रत्पदार्थानामवाध्यत्वात्, जाग्रत्प्रत्ययस्याबाधितविषयकत्वेन स्वप्नादिप्रत्ययस्य वाधितविषयकत्वेन वैधर्म्यात्, जाग्रत्प्रत्ययाः स्वप्नादिप्रत्ययवत् मिथ्यार्थविषयकाः इति न वक्तव्यमिति । न ह्यनेन सर्वेषां स्वाप्नार्थानां मिथ्यात्वं सिद्ध्यति । किञ्च स्वप्नादिवदित्यत्रादिपदग्राह्यतावच्छेदकधर्मः कः ? न तावद्वस्तुत्वं, तथात्वे वस्तुत्वाक्रान्तानां जाग्रत्पदार्थानामपि आदिपदवोध्यत्वप्राप्त्या एकस्य वस्तुनः अन्येन वस्तुना वैधर्म्यकथनं न स्यात् । नापि स्वप्नत्वं, स्वप्नवदित्यनेनैव निर्वाहे स्वप्नादिवदित्यादिपदवैयर्थ्यापत्तेः । अतः बाध्यत्वमादिपदग्राह्यता- वच्छेदकमिति वक्तव्यम् । तथात्वे स्वप्नादिवदितिपदेन ये बाध्याः स्वप्नादयः इत्येवोक्तं स्यात् । तथाचाबाध्यानां सत्त्वेन श्रुत्युक्तानां स्वप्नार्थानामसत्त्वस्य अनेन सूत्रेणानुक्तत्वात् न सर्वेषां स्वप्नपदार्थानां मिथ्यात्वबोधकमिदं सूत्रमिति ।

अपि चय एष सुप्तेषु जागर्ति कामं कामं' इति श्रुतिः परब्रह्मण एव जाग्रद्वत् स्वप्नपदार्थस्रष्टृत्वं वक्तीति शङ्कराचार्यैरिव काठकभाष्ये व्याख्यातत्वेन जाग्रत्पदार्था इव स्वप्नपदार्थाः सत्या एव । तथाहि तद्भाष्यव्याख्याने प्रसङ्गादागतं (जीवकथनं ) परिसमाप्य प्रकृतप्रतिपादनपरं उत्तरमित्याह यत्प्रतिज्ञातमिति " यत्प्रतिज्ञातं गुह्यं ब्रह्म वक्ष्यामीति तत् (ब्रह्म) आह ।

य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते तस्मिंल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन एतद्वै तत्” (का.५।८) य एष सुप्तेषु प्राणादिषु जागर्ति न स्वपिति ; कथम्? कामं कामं तं तमभिप्रेतं स्त्र्याद्यर्थं निर्मिमाणो निष्पादयन् जागर्ति, पुरुषो यः तदेव शुक्रं शुभ्रं शुद्धं तत् ब्रह्म न अन्यत् गुह्यं ब्रह्मास्ति तदेव अमृतं अविनाश्युच्यते सर्वशास्त्रेषु । किंच पृथिव्यादयो लोकाः सर्वे तस्मिन्=ब्रह्मण्याश्रिताः सर्वलोककारणत्वात् तस्य । तत् ब्रह्म, कश्चन नात्येति नातिक्रामति उ एव इति ।

एतेन यदुक्तं बल्लारीवेङ्कटरामशास्त्रिणा 'य एष सुप्तेषु' इति वाक्यं 'योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः' इति जीवस्य पूर्वं प्रस्तुतत्वात् जीवप्रकरणमेवेति, तन्निरस्तम् । शङ्कराचार्यैरेवास्य वाक्यस्य ब्रह्मपरतायाः स्पष्टमभिधानात् ।

तथा चयथा जाग्रत्पदार्थाः अबाध्याः घटपटादयः सत्याः, बाध्याः शुक्तिरजतादयः असत्या इति द्विविधाः, तथा स्वाप्नार्थाः अपि अवाध्याः गजतुरगादयः सत्याः, बाध्याः जाग्रत्पदार्थाभेदादयः असत्याः इति द्विविधाः ।स्वप्ने सच्च असच्च पश्यति' इति श्रुतेः । 'जाग्रत्प्रत्ययाः मिथ्याविषयकाः प्रत्ययत्वात् स्वाप्नप्रत्ययवत्' इत्यनुमानं अवाध्यगजतुरगादिस्वाप्नपदार्थाविषयके व्यभिचारि इति स्वाप्नपदार्थविषयक ज्ञानदृष्टान्तेन प्रत्ययत्वहेतुना जाग्रत्प्रत्ययस्य मिथ्यार्थविषयकत्वं स्वाप्नपदार्थदृष्टान्तेन वा जाग्रत्पदार्थानां मिथ्यात्वं वा न साधनार्हमिति प्रतिवाच्यं स्वाप्नवदेवेति बौद्धवत् पदार्थमिथ्यात्वविषये दृष्टान्तदानं शङ्करादीनामयुक्तमेवेति ।

कथं त्वसत्येन वेदान्तवाक्येन सत्यस्य ब्रह्मात्मत्वस्य प्रतिपत्ति- रुपपद्येत । नहि रज्जुसर्पेण दष्टो म्रियते नापि मृगतृष्णिकाम्भसा पानावगाहनादिप्रयोजनं च क्रियते ' इति यः आक्षेपः कृतः स तु युक्त एव । कारणस्य कार्याव्यवहितप्राक् क्षणवृत्तित्वपदार्थजनन शक्तिमत्वादेरावश्यकत्वेन शशविषाणवत् त्रिकालेऽप्यसतः पदार्थस्य कार्याव्यवहितप्राकूक्षणवृत्तित्वशक्तिमत्वादेरसम्भवेन असता वेदान्तवाक्येन कस्यापि कार्यस्याजननात् । यच्च प्रदर्शितं - असतः कार्योत्पत्तावुदाहरणं शङ्काविषादिनिमित्तकमरणादिकार्योपलब्धेः स्वप्नदर्शनावस्थस्य सर्पदंशनोदक- स्नानादिकार्यदर्शनात् इति । तदप्ययुक्तमेव । त्रिकालेऽप्यसति शङ्काविषे मरणाव्यवहितप्राक्क्षणवृत्तित्वस्य मरणजननानुकूलशक्तिमत्त्वस्य चासम्भवेन मरणकारणत्वासम्भवेन सत्याया विषशङ्काया एव मरणकारणत्वात् स्वाप्नपदार्थानां सत्यत्वेन कार्यजनकत्वसम्भवेऽपि असत: कार्योत्पत्तौ तयोरुदाहरणत्वासम्भवात् ।

यच्चतत्कार्यमप्यनृतमेवेति चेब्रूयात्' इत्याशङ्कितं तयोरुदाहरणत्वा- सम्भवं, ‘तत्र ब्रूमः यद्यपि स्वप्नदर्शनावस्थस्य सर्पदंशनोदकस्नानादिकार्यमनृतं, इति वाक्येन अभ्युपेत्य, ' तथापि तदवगतिः सत्यमेव फलं प्रतिबुद्धस्याप्यबाध्यमानत्वात् । न हि स्वप्नादुत्थितः स्वप्नदृष्टसर्पदशंनोदकस्नानादिकार्यं मिथ्येति मन्यमानः तदवगतिमपि मिथ्येति मन्यते कश्चित् इति स्वाप्नावगतेः सत्यत्वमभिधाय असतः सत्कार्योपपत्तौ तस्याः अवगतेरुदाहरणत्वमभिहितम् । तदप्ययुक्तम् । तद्भाष्यव्याख्यातृभामतीकारा एवयद्यपि परीक्षका अनिर्वाच्यरूषितामवगतिमनिर्वाच्यां निश्चिन्वन्ति (न सत्यां) तथापि लौकिकाभिप्रायेण न परीक्षकदृष्ट्या इति निराचक्रुः । शङ्कराचार्या अपि अनुपदं असत्यात्सत्योत्पत्तेः श्रुतिसिद्धान्त्रयव्यतिरेक- सिद्धतां दर्शयितुं प्रवृत्ताः । 'असत्येन स्वप्नदर्शनेन सत्यायास्समृद्धेः प्रतिपत्तिं दर्शयति, इति कण्ठत एव स्वाप्नावगतेरसत्यतां उक्तवन्त इति असत्यात्सत्यस्य कार्यस्योत्पत्तौ अवगतेरुदाहरणत्वासम्भवात् असत्यस्य कारणत्वासम्भवाच्च ।

यच्चोक्तंअसत्यात्सत्योत्पत्तिः श्रुतिसिद्धाऽन्वयव्यतिरेकसिद्धा चेत्याह । तथा च श्रुतिःयदा कर्मसु काम्येषु स्त्रियं स्वप्नेऽभिपश्यति । समृद्धिं तत्र जानीयात् तस्मिन् स्वप्ननिदर्शने' (छां. ५ | २१८) इत्यसत्येन स्वप्नदर्शनेन सत्यायाः समृद्धेः प्रतिपत्तिं दर्शयति.... अथ स्वप्नाः पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति इत्यादिना तेन तेनासत्येनैव स्वप्नदर्शनेन सत्यं मरणं सूच्यते इति दर्शयति इति । तदप्यसङ्गतम् । स्वप्नदर्शनं नासीत् इति बाधाभावेन स्वप्नदर्शनस्यासत्यत्वाभावात् (सत्यत्वात्) ।

यच्चतथाकारादिसत्याक्षरप्रतिपत्तिर्दृष्टा रेखानृताक्षरप्रतिपत्तेः' इति असत्यात् सत्कार्योत्पत्तावुदाहरणान्तरं दर्शितं भाष्ये । तदत्यन्तमसङ्गतम् । यतः रेखारूपं यदनृतमक्षरं तत्प्रतिपत्त्या अकारादिरूपं यत्सत्याक्षरं तत्प्रतिपत्तिर्दृष्टा इत्यनेन रेखाप्रतीत्यक्षरप्रतिपत्त्योरेव कार्यकारणभाव उक्तः न त्वनृतरेखायाः सत्याकाराक्षरप्रतिपत्तिकारणत्वं' इति । किञ्च रेखायाः असत्यत्वंयद्यपि रेखास्वरूपं सत्यं' इति भामतीकारैरेव निराकृतं इति असत्यात्सत्यकार्योत्पत्तौ अस्योदाहरणत्वासम्भवात् ।

यच्चोक्तं 'अपि चात्त्यन्तमिदं प्रमाणमात्मैकत्वस्य प्रतिपादकं नातः परं किञ्चिदाकांक्ष्यमस्ति । यथा हि लोके यजेतेत्युक्ते किं तेन कथमित्याकांक्ष्यते नैवं तत्त्वमसि, अहं ब्रह्मास्मि इत्युक्ते किञ्चिदन्यदा- कांक्ष्यमस्ति । सर्वात्मैकत्वविषयत्वावगतेः । सति ह्यन्यस्मिन्नवशिष्यमाणेऽर्थे आकाङ्क्षा स्यात् न त्वात्मैकत्व व्यतिरेकेणावशिष्यमाणोऽन्योऽर्थोऽस्ति य आकांक्ष्येत,' इति । तदप्ययुक्तम् । तत्त्वमस्यादिवाक्येन ब्रह्मज्ञानं न जायते किं नाम तदावरकाज्ञाननिवृत्तौ अभिव्यज्यते । तच्च ज्ञानं निर्विषयकं इत्युक्तत्वेन आत्मैकत्वप्रतिपत्ते § लिक्षीरप्रायत्वात् । ननु न चेयमवगतिर्नोत्पद्यते इति वक्तुं शक्यं तद्धास्य विजज्ञौ, (छां. ६ । १६।३)

इत्यादिश्रुतिभ्यः अवगतिसाधनानां च श्रवणादीनां वेदानुवचनादीनां च विधानात् इत्युत्तरवाक्येनैव अवगत्युत्पत्तिः सकारणं साधिता इति कथं सा डुलिक्षीरप्राया इति चेन्न । तद्भास्य व्यविजज्ञाविति वाक्यात्पूर्वं आत्मैकत्वविषयकप्रतिपत्तिजनकवाक्यस्याभावात् व्यविजज्ञावित्यस्य आत्मैकत्वप्रतिपत्तिमान् इत्यर्थस्यासम्भवाच्च । न च तद्धास्य व्यविजज्ञाविति वाक्यात्पूर्वं आत्मैकत्वप्रतिपत्तिजनकं तत्त्वमसीति वाक्यमस्तीति वाच्यम् । तत्त्वमसिवाक्यस्यात्मैकत्वप्रतिपत्तिजनकत्वाभावस्यास्याभिरन्यत्रोप पादितत्वेन डुलिक्षीरप्रायताऽनिवारणात् । इदं सर्वं मनसि निधायैव भामतीकाराः आत्मैकत्वावगतेर्दुलिक्षीरप्रायतामाशङ्कितवन्तः ।

किश्च श्रवणादयो नैतादृशावगतिसाधनानि भवितुमर्हन्ति इति प्रागेवावोचाम ।

यदप्युक्तंनचेयमवगतिरनर्थिका भ्रान्तिर्वेति शक्यं वक्तुं अविद्या- निवृत्तिफलकत्वात् बाधकज्ञानान्तराभावाच्चेति' । तदप्ययुक्तम् । आत्मैकत्वावगतेरविद्यानिवृत्तिफलकत्वे तस्यास्त्वदुक्तान्त्यफलत्वायोगात् । न चन हीयमुत्पन्ना सती पश्चादविद्यां निवर्तयति । येन नान्त्या स्यात् । किंत्वविद्याविरोधिस्वभावतया तनिवृत्यात्मैवोदयते । अविद्या- निवृत्तिश्च न तत्कार्यतया फलमपि त्विष्टतया इष्टलक्षणत्वात्फलस्य इति' भामतीवाक्येन आत्मैकत्वावगतिरविद्यानिवृत्तिरूपैव न त्वविद्यानिवृत्तिफलकेत्युक्तत्वेन आत्मैकत्वावगतेः अन्त्यफलत्वं सम्भवत्येवेति वाच्यम् ।

एवमुक्तेरनन्तदोषयुक्तत्वात् । तथा हि-ज्ञानेन हि स्वसमानविषयक-स्वसमानाधिकरणाज्ञाननिवृत्तिर्दृष्टेति अज्ञाननिवृत्तौ जननीयायां तत्कारणतया पूर्वं अज्ञानसमानविषयकं तत्समानाधिकरणं आत्मैकत्वज्ञानमावश्यकम् । तच्च ज्ञानंतत्त्वमसि इति वाक्याज्जायत इति न शक्यते वक्तुं अद्वैतिना, अन्त्यफलत्वहानेः । तत्त्वमस्यादिवाक्यात् मुख्यवृत्त्या वा लक्षणाद्यमुख्यवृत्या वा तादृशज्ञानासम्भवस्योक्तत्वाच्च । अद्वैतिभिस्तादृशज्ञानजनकत्वानङ्गीकाराच्च। सविषयकज्ञानस्य अद्वैतमते भ्रान्तित्वाच्च इति ।

यच्चोक्तं ‘“तदेवं अविद्यात्मकोपाधिपरिच्छेदापेक्षमेवेश्वरस्य ईश्वरत्वं सर्वज्ञत्वं सर्वशक्तित्वं च न परमार्थतो विद्ययाऽपास्तसर्वोपाधि- स्वरूपे आत्मनि ईशित्रीशितव्यसर्वज्ञत्वादिव्यवहार उपपद्यते । तथा चोक्तंयत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा' (छां. ७।२४।१) इतियत्र त्वस्य सर्वमात्मैवाभूत्' इति 'तत्केन कं पश्येत्' (बृ.४।१६।६) इत्यादिना च । एवं परमार्थावस्थायां सर्वव्यवहाराभावं वदन्ति वेदान्ताः सर्वे' इति वाक्येन व्यवहारदशायामेव परमात्मनः ईशितृत्वसर्वज्ञत्व- सर्वशक्तित्वादिकं, परमार्थावस्थायां सर्वव्यवहाराभावं वदन्ति वेदान्ताः सर्वे' इति । तन्न युक्तम् । परमार्थावस्थायां व्यवहाराभावबोधकस्यैकस्यापि वेदान्तवाक्यस्याभावात् । तथा हि यत्र त्वस्येति वाक्यं सर्वव्यवहाराभावं वदतामद्वैतिनां मतनिराकरणार्थमेव प्रवृत्तं मोक्षदशायां (परमार्थावस्थायां ) पितृलोकगन्धमाल्यादिज्ञानपरमात्म ज्ञानस्वज्ञानादिसर्वव्यवहारं स्थापयत्येवेति एतदधिकरणे पूर्वमुक्तम् ।

यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा इति ज्ञातृज्ञेयादिव्यवहारसद्भावबोधकत्वेन परमार्थदशायां सर्वव्यवहाराभावाबोधकत्वात् । यथा हि यत्र नान्यत्पश्यति इति वाक्यघटितं पूर्वोत्तरवाक्यमित्थम् यो वै भूमा तत्सुखं नाल्पे सुखमस्ति भूमैव सुखं भूमा त्वेव विजिज्ञासितव्य इति भूमानं भगवो विजिज्ञास' इति । 'यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा ' ' अथ यत्रान्यत्पश्यति अन्यच्छृणोति अन्यद्विजानाति तदल्पं यो वै भूमा तदमृतं अथ यदल्पं तन्मर्त्यं, (छां. ७।२४।१) इति । तस्य चार्थःयो वै भूमा=महत्, तत् सुखं, ततोऽर्वाक् सातिशयत्वात् अल्पं, अतः तस्मिन् अल्पे सुखं नास्ति अतः भूमैव सुखम्, तृष्णादिदुःखबीजत्वासम्भवात् । भूम्नः । अतो भूमैव विजिज्ञासितव्यः' इति सनत्कुमारेण नारदं प्रत्युक्ते नारदः भूमलक्षणविषयकज्ञानेच्छां प्रदर्शयति 'भूमानं भगवो विजिज्ञास' इति भगवः पूज्य 'सनत्कुमार ! भूमानमहं विजिज्ञासे = ज्ञातुमिच्छामि' इति । सनत्कुमारो नारदं प्रति भूमलक्षणमाह यत्र नान्यत्पश्यतीत्यादिना । यत्र यस्मिन् भूम्नि- तत्त्वे, अन्यत् न पश्यति, अन्यत् न शृणोति, अन्यत् न विजानाति पुरुषः स भूमा इति यत्र वस्तुनि अन्यत् पश्यति अन्यत् शृणोति अन्यद्विजानाति पुरुषः तदल्पम् ।

यो वै भूमा तदमृतं=अविनाशि, अथ यदल्पं तत् मर्त्यं विनाशीति । यत्र नान्यत्पश्यतीति वाक्येन सनत्कुमारेण भूम्नः किं लक्षणं उक्तं भवतीति शङ्करभाष्ये विचार्यअदृश्येऽनात्म्ये' इत्यादिश्रुत्युदाहरणेन दर्शन- श्रवणविज्ञानाविषयत्वं भूम्नः लक्षणम् तच्च, अन्येषां तु दर्शनश्रवणविज्ञान- विषयत्वात् नातिव्याप्तमित्यभिहितमिति एतद्वाक्यं ब्रह्मणि (भूम्नि) दर्शनश्रवणविज्ञानविषयत्वमेव निराकरोति न तु परमार्थदशायां सर्वव्यवहाराभावं बोधयतीति परमार्थदशायां सर्वव्यवहाराभावविषये एतच्छ्रुत्युदाहरणमयुक्तम् ।

यच्छ्रवणमननविज्ञानाविषयत्वमुक्तं तदपि न युक्तम् । ब्रह्मणः शशविषाणवत् अप्रामाणिकत्वेनासत्व प्राप्त्या सर्वात्मना ज्ञानाविषयत्वादेः वक्तुमशक्यत्वादित्यन्यत्रोक्तमत्रानुसन्धेयम् ।

यच्याप्युक्तंएवं परमार्थावस्थायां सर्वव्यवहाराभावं वदन्ति वेदान्ताः सर्वे' इति तदयुक्तम् । एकस्यापि वेदान्तवाक्यस्य सर्वव्यवहाराभाव-बोधकत्वाभावेन सर्वे इत्युक्तेरत्यन्तमसङ्गतत्वात् । वेदान्तानामपि सर्वव्यवहारान्तःपातित्वेन तेषामभावे (असत्त्वे) व्यवहाराभाववोधकत्वायोगोत् । न हि बन्ध्यासुतः शशविषाणो वा किञ्चित्कार्यं कर्तुं शक्नोतीति शक्यते वक्तुं इति ।

तथा ईश्वरगीतास्वपि न कर्तृत्वं न कर्माणि लोकस्य सृजति' प्रभुः । न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते । नादत्ते कस्यचित्पापं न चैवं सुकृतं विभुः । अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ।। (गी. ५।१४।१५) इति परमार्थावस्थायां ईशित्रीशितव्यादिव्यवहाराभावः प्रदर्श्यते' इति यदुक्तं तदप्ययुक्तम् । अस्यां स्मृतौ परमार्थावस्थाबोधकपदाभावात् । ईशित्रीशितव्यादिव्यवहाराभावबोधक पदानामप्यभावात् । सर्वं भ्रमेण द्रष्टृणामद्वैतिनां गीतायां तदर्थबोधकानां पदानां अविद्यमानत्वेऽपि विद्यमानतया वा तदर्थाप्रतिपादकानां पदानां तदर्थप्रतिपादकतया वा भ्रमेण भासनं, 'गृहं भक्षयितुः पुंसः कवाट : पर्पटायते' इति न्यायेन नार्यावहम् । भ्रान्तशिरोमणीनां भ्रान्त्या गीतावाक्येन परमार्थावस्थायां सर्वव्यवहारासिद्धेः । वदन्ति चएष ह्येव साधु कर्मकारयति तं यमेतेभ्यो उन्निनीषते एष एवासाधु कर्म कारयति तं यमधो निनीषते' (कौ.ब्रा. ३।७) 'पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन' (बृ. ३।२।१३) इत्यादिश्रुतयः, ‘वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयति' (ब्र.सू.२।१।३४) इत्यादिसूत्राणि, ‘ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्' (गी.४।११) इत्यादिगीतावाक्यानि च जीवानां कर्मकर्तृत्वं, परमात्मन: ( ईश्वरस्य) प्राणि (जीव) कृतकर्मानुसारेण फलदातृत्वम् । स्वीकृतं च शङ्कराचार्यैः । वैषम्यनैर्घृण्ये इति (ब्र.सू.२।१।३४) सिद्धान्तसूत्रभाष्ये जीवानां कर्मकर्तृत्वं जीवकृतकर्मानुसारेण फलदातृत्वमीश्वरस्य एतानि श्रुतिसूत्रगीतावाक्यानि वदन्तीति । एष ह्येव साधु कर्म कारयति तं यं एतेभ्यो उन्निनीषते एष ह्येवासाधु कर्मकारयति तं यं अधो निनीषते इति । श्रुत्यर्थस्तुयं जनं उन्निनीषते=ऊर्ध्वं नेतुमिच्छति तं साधु कर्म कारयति । ईश्वरः यं अधो निनीषते = अधो नेतुमिच्छति तं असाधु कर्म कारत्येष ईश्वरः इति । एतया च श्रुत्या जनस्य (लोकस्य ) कर्मकर्तृत्वं सृजति तैः कर्माणि सर्जयतीति सिद्ध्यति ।

'पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन' (बृ.३।२।१३) पुण्येन=स्वकृतपुण्यकर्मणा पुण्य: = स्वर्गादिपुण्यलोकवान् भवति । पापेन=स्वकृतपापकर्मणा पापः - नरकादिपापलोकवान् भवतीति श्रुतिरपि जनानां पुण्यकर्मकर्तृत्वं पापकर्मकर्तृत्वं स्वकृतेन पुण्यकर्मणा पापकर्मणा च पुण्यपापलोकप्राप्तिं च कथयति ।

ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्' इति गीताऽपि ये मनुष्याः यथा यत्फलार्थितया मां भजन्ते मत्प्रीतिकरं कर्म कुर्वन्ति तान् तथैव तत्फलदानेन भजामि अनुगृह्णामि इति, जीवानां तत्तत्फलेच्छया कर्मकर्तृत्वं तत्तत्कर्मानुसारेण ईश्वरस्य फलदातृत्वं च वक्ति इति ।

'न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ।। नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः ।। अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ।।' (गी.५।१४।१५) इति गीताश्लोकयोरर्थस्तु प्रभुः परमात्मा लोकस्य कर्तृत्वं-स्वतः कुर्विति कर्तृत्वं ( कर्तृत्वे स्वातन्त्र्यं) न सृजति । लोकस्य कर्माणि अदृष्टानि वा रथघटादीप्सितपदार्थान्वा न सृजति । स्वातन्त्र्येण लोकस्य कर्मफलसंयोगं कर्मणां फलानां च यः संयोगः सम्बन्धः (कार्यकारणभावरूपः) तं न सृजति । (एतत्कर्मण एतत्फलं प्रति कारणत्वं न नियमेन सम्भवति कदाचित्कर्मकरणे फलं जायते कदाचित् कर्मकरणे फलं न जायते इति कर्मफलयोः कार्यकारणभावोऽपि ईश्वराधीन एव न तु लोकाधीनः (फलोत्पादनेऽपि जीवस्य स्वातन्त्र्यं नास्ति) तर्हि केन सर्वं जायते इति शङ्कायां स्वभावस्तु प्रवर्तते इत्युक्तम् । स्वभावः स्वतन्त्रो भावः परमात्मा सर्वव्यापारेषु प्रवर्तते सर्वान् व्यापारान् कारयति, इति (५/१४) ।

समस्तव्यापारान् परमात्मा कारयति चेत् पुण्यपापानि तत्फलानि च तस्य स्युः इति शङ्कायां, प्रवृत्तम्नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः' इति । विभुः फलादिस्वीकारे अस्वीकारे च समर्थः परमात्मा कस्यचित् पापं=केनचित् पुरुषेण कृतं पापं सुकृतं पुण्यं च नादत्ते=न स्वीकरोति । विभुत्वात् लोकैः कर्म कारयित्वापि स्वयं तत्तत्कर्मफलं नानुभवति इति । जीवानां कर्तृत्वे कर्म ( रथघटादिपदार्थ) निर्माणे कर्मफलयोः कार्यकारणभावे स्वातन्त्र्याभावे कुतः अहं कर्ता इत्यादि मनुते इत्यत आह— ‘अज्ञानेनावृत्तं ज्ञानं तेन मुह्यन्ति जन्तवः' इति । ज्ञानं ज्ञायते अनेनेति ज्ञानं बुद्धिः । अज्ञानेनावृतं, तेन कारणेन जन्तवः = प्राणिनःशरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः । न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ।। तत्रैवं सति कर्तारमात्मानं केवलं तु यः । पश्यत्यकृतबुद्धित्वात् न स पश्यति दुर्मतिः ।। (गी. १८.१५. १६) इत्युक्तप्रकारेण मुह्यन्ति । अहमेव कर्ता न मम कारयिता ईश्वरोऽस्तीत्यादिभ्रमं प्राप्नुवन्तीति । तथा च यत्र नान्यत्पश्यति इत्यादिश्रुतयो वा, न कर्तृत्वं न कर्माणि इत्यादिगीतावाक्यानि वा, परमार्थावस्थायां सर्वव्यवहारस्यासत्त्वं न बोधयन्ति, प्रत्युत 'एष सर्वेश्वर एव भूताधिपतिरेष भूतपाल एष सेतुर्विधारणे एषां लोकानां असम्भेदाय' (बृ.४.४.२२) इति ।परंज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स तत्र पर्येति जक्षन् क्रीडन् रममाणः' इत्यादिश्रुतयः, ‘ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति' इत्यादिगीतावाक्यानि च नियम्यनियमनादिसर्व- व्यवहारं दर्शयन्ति । न च व्यवहारावस्थायां व्यवहारं दर्शयन्ति न तु परमार्थावस्थायामिति वाच्यम् । व्यवहारदशायामित्यर्थबोधकपदाभावात् ।

प्रमाणानि हि स्वगोचरे प्रवर्तमानानि तत्त्वमिदमित्येव प्रवर्तन्ते । अतात्विकत्वं न तद्गोचरस्यान्यतो बाधकादवगन्तव्यं न पुनः सांव्यावहारिकं नः प्रामाण्यं न तु तात्विकमित्येव प्रवर्तते' इति वाक्येन भामतीकृता प्रमाणानां व्यावहारिकविषयतायाः खण्डनात् स्वेन रूपेणाभिनिष्पद्यत इति स्वरूपप्राप्तिमुक्त्वा मोक्षदशाया (परमार्थावस्थाया) मेव जक्षण- क्रीडादिव्यवहारोक्तेः ।

यच्चोक्तं 'सूत्रकारोऽपि परमार्थाभिप्रायेण तदनन्यत्वं इत्याह । व्यवहाराभिप्रायेण स्याल्लोकवदिति' इति । तदप्ययुक्तम् । सूत्रे तदर्थबोधकपदाभावात् । निर्णायकसूत्रप्रणेत्रा भगवता बादरायणेन सिद्धान्तसूत्रेण प्रतिपादितस्यार्थस्य मिथ्यात्वापरपर्यायव्यावहारिकत्व कथनायोगात् । तस्माज्जगतः ब्रह्म (ज्ञान) व्यतिरेकेणाभावबोधकमद्वैतिमतं ज्ञानव्यतिरेकेण जगतोऽभावबोधकवौद्धमतमेव । २.१.१४ ।।

ननु भवतु अद्वैतमतं बौद्धमतं, तावता किं नः छिन्नमिति चेत् नाभाव उपलब्धेः इत्यादिसूत्रैः ज्ञानव्यतिरेकेण जगतः असत्त्वं बोधयतां बौद्धानां मतं खण्डितम् । शङ्कराचार्यैरपि विज्ञानव्यतिरेकेणाभावं बोधयतां मतस्य खण्डनपरतया इमानि सूत्राणि व्याख्यातानि चेति बौद्धमताभिन्नाद्वैतमतमपि खण्डितत्वादनुपादेयमेवेति ।

बौद्धाद्वैतमतयोः साम्यं तत्खण्डनप्रकारश्च लेशतः प्रदर्शयिष्यते ।

शङ्कराचार्याणामद्वैतमतं शून्यवादिनां विज्ञानवादिनां च बौद्धानां मतमेव । शङ्कराचार्याभिमतपरापरतत्त्वयोः बौद्धाभ्युपगतपरापरतत्त्वाभ्यां वैलक्षण्याभावात् सालक्षण्यसद्भावाच्च । तथा हि अपरतत्त्वविषये

(जगद्विषये) तावत्सर्वतः सालक्षण्यं वैलक्षण्याभावं चाद्वैतिनां वचनैः प्रदर्शयामः । अद्वैतसिद्धिव्याख्याने - 'वस्तुतो ब्रह्मभिन्ने शून्यवादिभिरस्माकं साम्यमिष्टमित्यपि बोध्यम्' इति वाक्येन, 'यद्यपि बाह्यार्थनिराकरणं ज्ञानमात्रकल्पना च अद्वयवस्तुसामीप्यमुक्तं' इति गौडपादीयशाङ्कर भाष्यवाक्येन, तथा 'ज्ञानमात्रं पारमार्थिकं तत्रैव ज्ञातृज्ञेयादि कल्पितमिति सौगतमतमेव भवताऽपि स्वीकृतम्' इत्यानन्दगिरीयवाक्येन च कण्ठोत्त्यैव ब्रह्मातिरिक्तापरतत्त्वविषये ऐक्यं तयोर्मतयोरुक्तम् ।

किञ्च

स्वप्नमाये यथा दृष्टे गन्धर्वनगरं यथा ।

तथा विश्वमिदं दृष्टं वेदान्तेषु विचक्षणैः ॥ २१ ॥

न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः ।

न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ।। २२ ।।

इति गौडपादीयकारिकयो:, तथा -

'यथा माया यथा स्वप्नो गन्धर्वनगरं यथा ।

यथोत्पादस्तथा स्थानं तथा भङ्ग उदाहृतः ॥

इति बौद्धीयमाध्यमिकवृत्तिश्लोकस्य, 'यदेत् द्वैतस्यासत्त्वमुक्तं युक्ति- तस्तद्वेदान्तप्रमाणावगतमित्याह स्वप्नश्च माया च स्वप्नमाये असद्वस्त्वात्मिके सद्वस्त्वात्मिके इव लक्ष्येते अविवेकिभिः । यथा च प्रसारितपण्यापण- गृहप्रासादस्त्रीपुञ्जनपदव्यवहाराकीर्णमित्र गन्धर्वनगरं दृश्यमानमेव सदकस्मादभावतां गतं दृष्टं, यथा च स्वप्नमाये दृष्टे असद्रूपे तथा विश्वमिदं द्वैतं समस्तमसत् दृष्टम् । न निरोधः निरोधनं निरोधः प्रलयः, उत्पत्तिर्जननं, बद्धः संसारी जीवः, साधकः साधनान्मोक्षस्य, मुमुक्षुर्मोचनार्थी, मुक्तो विमुक्तवन्धः । उत्पत्तिप्रलययोरभावाद्वद्धादयो न सन्ति इत्येषा परमार्थता । कथमुत्पत्तिप्रलययोरभाव इति उच्यते - द्वैतस्यासत्त्वात्... सतो ह्युत्पतिः प्रलयो वा स्यान्नासतइशशविषाणादेः' इति गौडपादीयशाङ्करभाष्यस्य च पर्यालोचनयापि स्पष्टमिदमवगम्यते ब्रह्मातिरिक्तस्य द्वैतप्रपश्चस्य शशविषाणादिवदसत्त्वमेवाभिमतं बौद्धाद्वैतिनोरिति ।

किं च इममेवार्थं वदति सिद्धान्तलेशसङ्ग्रहव्याख्यानमपि । तत्र सृष्ट्यादि श्रुतिप्रतिपाद्यस्य वियदादिसृष्टितत्क्रमादेश्शशशृङ्गायमाणतया आलम्बनाभावेन श्रुतेरप्रामाण्यमाशङ्कय, ब्रह्मप्रमितिजनकत्वेन प्रामाण्यं प्रदर्श्य, श्रुतिमात्रप्रतीतवियदादिसर्गतत्क्र मादेरिव श्रुतिमात्रप्रतीतस्वर्गादिफलस्याप्य- सत्त्वमेवाभिप्रेतं, कल्पकाभावस्य तुल्यत्वात्' इति वाक्येन असत्त्वमेव वियदादेर्व्यवस्थापितत्वात् ब्रह्मप्रमितिजनकत्वेन यत्प्रामाण्यं वेदस्य प्रदर्शितं तदपि न सम्भवति । ब्रह्मण: अज्ञेयत्वेन तत्प्रमितेरेवानुदयात् इति । एवमेव बृहदारण्यभाष्यव्याख्यानेऽपि 'द्वैतवैतथ्ये शास्त्रप्रामाण्यविघातमाशङ्कय 'न द्वैतवैतथ्यं शास्त्रप्रामाण्यविघातकं, यतो बौद्धादिभिः श्रेयसे प्रस्थापिताः स्वशिष्याः द्वैतमिथ्यात्वावगमेऽपि स्वर्गकामश्चैत्यं वन्देत इत्यादिशास्त्रस्य प्रामाण्यं गृह्णन्ति तथा अग्निहोत्रादिशास्त्रस्यापि प्रामाण्यं भविष्यति इति वाक्येन बौद्धाभिमतमेव मिथ्यात्वं जगतोऽभिमतमद्वैतिनामिति ज्ञायते ।

ननु सर्वस्यापि वियदादिप्रपञ्चस्य स्वप्नतुल्यत्वे तद्विज्ञानात्मकमेव सर्वं वक्तव्यम् ततश्च विज्ञानवादिसमयप्रवेशापत्तिः इति शङ्कते ।

ननु शाक्यभिक्षुसमयेन समः प्रतिभात्ययं च भगवत्समयः ।

यदि बाह्यवस्तु वितथं नु कथं समयाविमौ न सदृशौ भवतः ।।

यदि बोध एव परमार्थवपुर्न तु बोध्यमित्यभिमतं भवति ।

ननु चाश्रितं भवति बुद्धमुनेर्मतमेव कृत्स्नमिह मस्करिभिः ।।

नन्विति । शक्यो जिनबौद्धो विज्ञानवादी तत्सिद्धान्तेनेत्यर्थः । भगवतः भगवत्पादादेः (शङ्करादेः) समय इत्यर्थः । ननु विज्ञानवादिना वेदप्रामाण्याद्यनभ्युपगमात् कथं तदभ्युपगन्तृभगवत्समयस्य तत्समयतुल्यतेति चेत्सत्यम् । तथापि विज्ञानातिरिक्तविज्ञेयानभ्युपगमे कथं न तत्तौल्यं तेनापि तथैवाङ्गीकारादित्याह यदीति । बाह्यं विज्ञानातिरिक्तं वस्तु वितथं अलीकं कथं न्विति सम्बन्धः । इति सर्वज्ञमुनिमधुसूदनसरस्वतीकृतसङ्क्षेपशारीरकतद्व्याख्यानवचनाभ्यां चावगम्यते विज्ञानवादिनामिवाद्वैतवादिनामपि विज्ञानातिरिक्तस्य जगतोऽलीकत्वमेव अभिमतमिति ।

बौद्धानां तत्त्वसङ्ग्रहनामकग्रन्थे-

'नित्यज्ञानविवर्तोऽयं क्षितितेजोजलादिकः ।

आत्मा तदात्मकश्चेति सङ्गिरन्ते परे पुनः ||

तेषामल्पापराधं तु दर्शनं नित्यतोक्तितः ।'

इति वाक्येन क्षितितेजोजलादिबाह्यपदार्थानां विज्ञानकल्पितत्व ( मिथ्यात्व ) मभ्युगच्छतामद्वैतिनां विज्ञाननित्यताभ्युपगममात्रमल्पापराधः इति दर्शितम् । तेनापि ज्ञायते जगद्विषये विज्ञानवादिमतमेवाद्वैतमतमिति ।

ये तु रज्जुसर्पादिवत् प्रपश्चस्यात्यन्ततुच्छत्वं (असत्त्वं) इच्छन्ति ते तु बौद्धप्रभेदा एव । 'मायावादमसच्छास्त्रं प्रच्छन्नं बौद्धमुच्यते ' इत्यादिपद्मपुराणवचनात् 'असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्' इति गीतावचनादिति विज्ञानभिक्षुवाक्येन, अद्वैतिनो बौद्धा इव जगतोऽसत्त्व- मभ्युपगच्छन्तीत्यवगम्यते ।

तथावैधर्म्याच्च न स्वप्नादिवत्' (ब्र.सू.२।२।२९) इति सूत्रस्य जगतः असत्त्वनिराकरणपरे स्वकृतभाष्ये 'ये तु बौद्धमतावलम्बिनो मायावादिनस्तेऽप्यनेनैव न्यायेन सूत्रकारेणैव निरस्ता वेदितव्याः' इति जगतोऽसत्त्वनिराकरणेन मायावादिनां निरस्तत्वं वदन् भास्कराचार्योऽपि अद्वैतिनां बौद्धानामिव जगतोऽसत्ववादित्वमेवाभिप्रैति इति अपरतत्त्वविषये तयोरैक्ये न कोऽपि संशयस्तत्तद्गन्थान् पर्यालोचयताम् इति ।

परतत्त्वविषयेऽपि साम्यं बौद्धाद्वैतवादिनोः । अद्वैतिनां मते निर्विशेषं ब्रह्म तत्त्वं, शून्यवादिनां मते निर्विशेषं शून्यं तत्त्वमिति तयोर्भेदाभावः । सहस्रनामभाष्ये शङ्कराचार्यै: ब्रह्मणि शब्दप्रवृत्तिकथनप्रस्तावेनिर्विशेषत्वाच्छून्यवच्छून्यः' इति ब्रह्मणश्शून्यवन्निर्विशेषत्वस्योक्तत्वात् ।

किं च ' यस्मिन्न कश्चिद्विशेषोऽस्ति नाम वा रूपं वा गुणो वा कर्म वा भेदो वा जातिर्वा' इति (बृ.शां.भा.२।३।६) ब्रह्मणियत्किञ्चित्प्रतियोगिकस्यापि भेदरूपविशेषस्य निषेधात् ।

अपि च यद्धि यतो व्यावर्तते तत् तद्व्यावर्तकधर्मयोगेनैव ततो व्यावृत्तं दृष्टम् । यथा घटात्पटः । न च ब्रह्मशून्ययोः कश्चिद्व्यावर्तकधर्मोऽस्ति । उभाभ्यां शून्यब्रह्मणोर्निर्विशेषत्वाङ्गीकारात् ।

नापि ब्रह्मणः सत्यत्वज्ञानत्वादिधर्मत्वेन सत्यत्वज्ञानत्वादिधर्मरहितात् शून्यात् भेदः । अद्वैतिभिर्ब्रह्मणि सत्यत्वज्ञानत्वादिधर्माणामनङ्गीकारात् ।

न च सत्यत्वज्ञानत्वादिधर्माणामभावेऽपि 'अनृतजडविरोधिरूपमन्तत्रयमलबन्धनदुःखताविरुद्धम्' । (सङ्क्षेपशा ) इति वाक्येन असत्यादिव्यावृत्तिधर्माणां ब्रह्मणि सत्त्वावगमेन शून्याद्भेदसिद्धिरिति वाच्यम् । शून्येऽपिजाड्यसंवृतिदुःखान्तपूर्वदोषविरोधि यत्' इति बौद्धग्रन्थेन असत्यादि- व्यावृत्यादिधर्माणां सत्वावगमेन असत्याद्व्यावृत्यादिधर्मैरपि भेदासिद्धेः ।

ननु ब्रह्मेति शून्यमिति संज्ञाभेदात् संज्ञाभेदन्यायेन शून्यब्रह्मणोर्भेद- सिद्धिरिति चेन्न । निमित्तभेदरहितसंज्ञाभेदस्य एकस्यैव घटस्य घटकरीरकलशादिसंज्ञाभेदवत् अर्थवैलक्षण्याप्रयोजकत्वात् । तथा हि-ब्रह्मशब्दस्य ब्रह्मणि मुख्यवृत्तिरमुख्यवृत्तिर्वा ? । मुख्यवृत्तिरित्याद्यपक्षेऽपि योगो वा रूढिर्वा योगरूढिर्वा ? । नाद्यः । ब्रह्मशब्दस्य यौगिकार्थो हि बृंहणकर्तृत्वादिकंअथ कस्मादुच्यते ब्रह्मेति बृंहति बृंहयति चेति श्रुतेः । न च तद्युक्तं । ब्रह्मणः अद्वैतिमते, निर्विशेषत्वाङ्गीकारात् । न च देशकालवस्तु- परिच्छेदराहित्यरूपं महत्त्वं ब्रह्मशब्दप्रवृत्तिनिमित्तं तच्चास्ति ब्रह्मणीति ब्रह्मशब्दस्य ब्रह्मणि योग: सम्भवतीति वाच्यम् । देशकालवस्तु- परिच्छेदराहित्यरूपप्रवृत्तिनिमित्तस्य 'जाड्यसंवृतिदुःखान्त-पूर्वदोषविरोधि यत्' इति तैश्शून्येऽपि सत्त्वाङ्गीकारात् तस्य शून्यव्यावर्तकत्वासम्भवात् ।

नापि रूढिरिति द्वितीयः पक्षः । असिद्धेः अपसिद्धान्ताच्च । यथा घटादिशब्दानां घटत्वादिकं प्रवृत्तिनिमित्तमेवं ब्रह्मण्यपि ब्रह्मशब्दप्रवृत्तिनिमित्तं किञ्चिद्वाच्यम् । न च तद्युक्तं निर्विशेषत्वात् । एतेन योगरूढिरिति तृतीयः पक्षः परास्तः । योगप्रवृत्तिनिमित्तस्य रूढिप्रवृत्तिनिमित्तस्य चाभावात् ।

ब्रह्मणि शब्दानां नामुख्यवृत्तिरपि सम्भवति । अमुख्यवृत्तिर्हि द्विधा गौणी लक्षणा चेति । प्रवृत्तिनिमित्तातिरिक्तमुख्यार्थगुणयोगे हि गौणी दृष्टा । न च निर्विशेषे ब्रह्मणि गुणयोगोऽस्ति इति न ब्रह्मशब्दस्य ब्रह्मणि गौणी वृत्तिः ।

नापि लक्षणा । मुख्यार्थसम्बन्धिनि अर्थान्तरे वृत्तिर्हि लक्षणा ।असङ्गो ह्ययं पुरुषः' इति श्रुत्या असङ्गत्वेनाङ्गीकृते निर्विशेषे अद्वैत्यभिमते ब्रह्मणि मुख्यार्थसम्बन्धो ह्यसम्भवीति न लक्षणयाऽपि ब्रह्मणि ब्रह्मशब्दप्रवृत्तिरिति शून्यब्रह्मशब्दयोः शून्ये ब्रह्मणि च प्रवृत्तौ निमित्ताभावेन निष्प्रयोजकसंज्ञाभेदस्य अर्थभेदसम्पादकत्वाभावात् ।

किं च 'शून्यवादिपक्षस्तु सर्वप्रमाणप्रतिषिद्ध इति तन्निराकरणाय नादरः क्रियते' इति शाङ्करभाष्यव्याख्याने ब्रह्मविद्याभरणेशून्यपदेन सर्वप्रपञ्चतीतं भावरूपं किञ्चित्तत्त्वं विवक्षितम्, उताभावरूपम् । नाद्यः । तथा सति वाचोयुत्तयन्तरेण ब्रह्मवादः एवाश्रितः स्यात् इति तन्निराकरणाय न सूत्रकृता सूत्राण्यारचितानि ' इति वाक्येन शून्यवादिमतादद्वैतमतस्य अपरप्रमेये (जगद्विषये) साम्यमङ्गीकृत्य परप्रमेयेऽपि शून्यब्रह्मणोरितरविषये वैलक्षण्याभावमङ्गीकृत्य भावाभावरूपत्वविषय एव विवादं सूचयित्वा शून्यस्य भावरूपत्वेवाचोयुक्तयन्तरेण ब्रह्मवाद एवाश्रितः' इति बौद्धैः शून्यस्य भावरूपत्वाङ्गीकारे भावरूपाच्छून्यात् भावरूपब्रह्मणः भेदाभावः । जगद्विषये उभाभ्यां कल्पितत्वाङ्गीकारात् उभयोर्मतयोर्भेदाभावः सिद्ध एवेति न शून्यवादिमतनिराकरणं कर्तव्यमस्माभिः अद्वैतिभिरिति स्वीकृतमुभयमतैक्यम् ।।

शून्यस्याभावरूपत्वाङ्गीकारे ' तदा सर्वप्रमाणविरोधः । सर्वप्रमाणैः प्रपश्च उपलभ्यमाने तदभाव एव तत्त्वमिति निरूपयितुमशक्यमिति दूषणस्य स्फुटतया तन्निराकरणाय न सूत्रकृता सूत्राण्यारचितानि ' इति वाक्येन शून्यस्य प्रपञ्चाभावरूपत्वे सर्वप्रमाणविरुद्धत्वेन साधयितुमशक्यं बौद्धेनेति, ‘मृतमारणमिव न निराकरणार्हमपि, इति सूत्रकारः न तन्मतनिराकरणाय सूत्राणि रचयामास' इति यदुक्तं ब्रह्मविद्याभरणकारैः तदपि अद्वैतमते समम् ( न केवलं परापरतत्त्वविषये बौद्धाद्वैतमतयोः साम्यं मृतमारणवदेव निराकरणानर्हत्वेऽपि समम् ।

प्रपञ्चनिषेधाधिकरणीभूतब्रह्माभिन्नत्वात् निषेधस्य तात्विकत्त्वेऽपि नाद्वैत- हानिकरत्वमित्येतदद्वैतसिद्धौ, तथा अस्माभिरपि ब्रह्मातिरिक्ताभावानङ्गीकारात् नाद्वैतव्याघात इति खण्डनखण्डखाद्यव्याख्यायामन्यग्रन्थेषु च अद्वैतिभिः ब्रह्मणः प्रपञ्चाभावरूपत्वाङ्गीकारात् इति ।

आखण्डलार्थस्तु जगतः कल्पितत्वं तु अद्वैतिवादिशून्यवादिभ्यामङ्गीकृत- मिति नापरप्रमेये उभयमतयोर्भेदः । शून्यस्य भावरूपत्वे अद्वैत्यभिमतब्रह्मणोऽपि भावरूपत्वात् वाचोयुक्तयन्तरेण (शब्दभेदेन) शून्यवादिना ब्रह्मवादः एवाश्रितः भावरूपशून्यब्रह्मणोर्भेदाभावादिति ।

शून्यस्य प्रपश्चाभावरूपत्वे अद्वैत्यभिमतब्रह्मणोऽपि प्रपश्चाभावरूपत्वमद्वैतिभिः स्वीकृतमिति तत्पक्षेऽपि शून्यवादिमतात् न ब्रह्मवाद्यद्वैतमतस्य भेद इति ।

ज्ञानमात्रं पारमार्थिकं तत्रैव ज्ञातृज्ञेयादि कल्पितमिति सौगतमतमेव भवता सङ्गृहीतमित्याशङ्कयाह ज्ञानमिति (आनन्द)

ज्ञानं नैतद्बुद्धेन भाषितं ( गौ. का.)

यद्यपि बाह्यार्थनिराकरणं ज्ञानमात्रकल्पना च अद्वयवस्तुसामीप्यमुक्तम् । इति वाक्यैः अद्वैतमतस्य बौद्धमतेन अपरतत्त्वविषये संपूर्णं साम्यमङ्गीकृत्यइदं तु परमार्थतत्त्वमद्वैतं वेदान्तेष्वेव विज्ञेयम् । 'ज्ञानज्ञेयज्ञातृभेदरहितं परमार्थतत्त्वमद्वयमेतन्न बुद्धेन भाषितम् ' (गौ.शां.भा.) इति भाष्येण तथासकलभेदविकलं परिपूर्णमनादिनिधनं ज्ञप्तिमात्रं उपनिषदेकसमधिगम्यं तत्त्वमिह प्रतिपाद्यते । मतान्तरेषु नैवमिति कुतो मतसाङ्कर्यशङ्का अवकाशमासादयेत् इत्यर्थ इति शाङ्करभाष्यव्याख्यानेन च परतत्त्वविषये यत्किञ्चिद्वैलक्षण्यमिव प्रदर्शयामासुः । तद्वैलक्षण्यमपि न सम्भवतीति पूर्वं प्रदर्शितमेव किञ्चित् स्मार्यते । तथा हि अद्वैतब्रह्मवत् निर्विशेषत्वात् शून्यमपि सकलभेदविकलं; यथा ब्रह्म देशकालादिपरिच्छेदराहित्यरूपपूर्णत्ववत् तथा शून्यमपि देशकालादिपरिच्छेदराहित्यरूपपूर्णत्ववत् ।जाड्यसंवृति- दुःखान्तपूर्वदोषविरोधि यत्' इत्युक्तेः । अद्वैतब्रह्मवत् शून्यमप्यनादिनिधनं, (उत्पत्तिनाशशून्यं) यथा अद्वैत्यभिमतं ब्रह्मज्ञप्तिमात्रं ज्ञानरूपं तथा शून्यमपि ज्ञाप्तिमात्रम् (ज्ञानरूपम्) ।

यदुक्तमद्वैत्यभिमतं ब्रह्म उपनिषदेकसमधिगम्यं शून्यं तु नोपनिषत्समधि- गम्यमिति । न तद्युक्तम् । अद्वैत्यभिमतब्रह्मणि निर्विशेषत्वाङ्गीकारेण शब्दप्रवृत्तिहेतूनां धर्माणामभावादज्ञेयत्वाच्च । उपनिषत्समधिगम्यत्वस्य शून्यवदेव असम्भवात् न तेनापि धर्मेण वैलक्षण्यं शून्यस्य कथनार्हमिति न शून्यब्रह्मणोरुभयमते भेद इति ।

किं चननु सर्वस्यापि वियदादिप्रपञ्चस्य स्वप्नतुल्यत्वे तद्विज्ञानात्मकमेव सर्वं वक्तव्यं, ततश्च विज्ञानवादिसमयप्रवेशापत्तिरिति शङ्कते नन्विति ।'

ननु शाक्यभिक्षुसमयेन समः प्रतिभात्ययं च भगवत्समयः ।

यदि बाह्यवस्तु वितथं नु कथं समयाविमौ न सदृशौ भवतः ॥

शाक्यो जिनबौद्धो विज्ञानवादी समयेन तत्सिद्धान्तेनेत्यर्थः । भगवतो व्यासभगवत्पादादेः समय इत्यर्थः । ननु विज्ञानवादिना वेद- प्रामाण्याद्यनभ्युपगमात् कथं तदभ्युपगन्तृ भगवत्समयस्य तत्समयतुल्यतेति चेत्सत्यम् । तथाऽपि विज्ञानातिरिक्तज्ञेयानभ्युपगमे कथं न तत्तौल्यं तेनाऽपि तथैवाङ्गीकारादित्याह यदीति । बाह्यं विज्ञानातिरिक्तं वस्तु वितथमलीकं कथं न्विति सम्बन्धः ।

यदि बोध एव परमार्थवपुर्न तु बोध्यमित्यभिमतं भवति ।

ननु चाश्रितं भवति बुद्धमुनेर्मतमेव कृत्स्नमिह मस्करिभिः ॥

यदि बोध इति । अभिमतमिति भवतामिति शेषः । मस्करिभिरेकदण्डिभिः । इति सङ्क्षेपशारीरके मधुसूदनसरस्वतीकृते तद्व्याख्याने च अद्वैतमतस्य विज्ञानवादिबौद्धमतेन वेदाप्रामाण्यादिसर्वविषये साम्यमाशङ्कय अद्वैतमते-

" ननु मातृमानविषयावगतीरपरस्परं प्रति विभागवतीः ।

उपयन् भदन्तमुनिना सदृशः कथमेष वैदिकमुनिर्भवति ।। "

नन्विति निश्चये । माता अन्तःकरणविशिष्टः प्रमाता, मानं चक्षुरादि, विषयो रूपादिः अवगतिः रूपाद्याकारा चक्षुरादिजन्यान्तःकरणवृत्तिस्ता इत्यर्थः । अपरस्परमन्योन्यं उपयन्नङ्गीकुर्वन्भदन्तो बौद्धस्तेन मुनिना विज्ञानवादिनेति यावत् । वैदिकमुनिर्वेदोक्तसन्यासी श्रीशङ्कराचार्य इति यावत्' इति वाक्येन मातृमानविषयावगतीनामङ्गीकारात् बौद्धमते तदनङ्गीकारात् भेदमिव प्रदर्श्य 'ननु भवताऽपि परस्परं मातृमानादि

प्रपञ्चोऽभ्युपगतचेत् कथमात्मनो निष्प्रपश्चाद्वयत्वमित्याशङ्कय तस्यात्मनि तदज्ञानकल्पितत्वान्न चाद्वैतक्षतिर्न वा विज्ञानवादादविशेष इत्याशयेनाह परमात्मसंश्रयेति' इति वाक्येन मातृमानादीनां सत्यानामङ्गीकारे अद्वैतभङ्गभिया मातृमानादीनां मिथ्यात्वं (कल्पितत्वं) अङ्गीकृत्य अद्वैतविरोधे परिहृते पुनरागतः बौद्धमताविशेषरूपः पिशाचः । बौद्धैरपि बुद्धिकल्पित- मातृमानफलव्यवहारः स्वीकृत इति । उक्तं च बौद्धमतानुवादावसरे शङ्कराचार्यैः ।तस्मिंश्च विज्ञानवादे बुद्ध्यारूढेन (बुद्धिकल्पितेन) रूपेण अन्तस्थ एव प्रमाणप्रमेयफलव्यवहारः सर्व उपपद्यते । उक्तं च भामतीकारैःयद्यपि अनुभवात् नान्योऽनुभाव्यमनुभविता अनुभवनं तथापि बुद्ध्यारूढेन=बुद्धिपरिकल्पितेन अन्तस्थ एवैष प्रमाणप्रमेयफलव्यवहार : प्रमातृव्यवहारश्चेत्यपि द्रष्टव्यम् । न पारमार्थिक इत्यर्थः इति ।

आनन्दगिरिकृतन्यायनिर्णये च 'ज्ञानमेव कल्पितनीलाद्याकारतया मेयम् । अवभासात्मकतया फलं' तच्छत्त्यात्मतया मानं तदाश्रयतया मातेति विज्ञानवादेऽपि कल्पितमानादिभेदमुपेत्य सर्वव्यवहारसिद्धिरित्यर्थइति । तथा च अद्वैतिभिरेव सर्वविषये बौद्धसाम्यमङ्गीकृतमिति अद्वैतमतं विज्ञानवादिवौद्धमतमेव । तच्च बौद्धमतं शङ्कराचार्यप्रभृतिभिः प्रत्यक्षादि- प्रमाणविरुद्धत्वात् निराकृतमिति नाद्वैतिभिरपि उपादेयं बौद्धमतं हेयमन्यैः । (२ | |१४)