ॐ वाइनसि दर्शनाच्छब्दाच्च ॐ

भेदपराण्येव खलु ब्रह्मसूत्राणि

अथ चतुर्थाध्याय द्वितीयपादीय शाङ्करभाष्यविचारः ।

अयं पादः 'अथापरासु विद्यासु फलप्राप्तये देवयानं पन्थानमवतारयिष्यन् प्रथमं तावद्यथाशास्त्रम् उत्क्रान्तिक्रममन्वाचष्टे' इति शङ्कराचार्यैरवतारितः । पूर्वपादान्तिमाधिकरणं विदुषो निर्गुणब्रह्मसम्पत्तिपरतया परविद्यापरत्वेन व्याख्यातम् । तदेतदसङ्गतम् । तन्मते हि परविद्याफलं निर्गुण-ब्रह्मसम्पत्तिर्मुख्या पश्चात्तनी । तद्द्वारभूतमपरविद्याफलं देवयानं त्वमुख्यं पूर्वतनम्, अतः प्राप्तिक्रमानुरोधेनादौ अमुख्यं निरुप्य तदनन्तरं मुख्यनिरूपणं सङ्गतम् । तद्विहाय मुख्यमेव प्रथमं निरूप्यामुख्यं पश्चान्निरूप्यते इति व्याख्यानं कथं नासङ्गतम् ।

देवयानस्यापरविद्याफलत्वोक्ति: प्रमाणविरुद्धा च । तथा हि ।गीतायांअग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ।। इति । 'एकया यात्यनावृत्तिम् इति च देहादुत्क्रम्य देवमार्गेण गतानां विदुषामनावृत्ति- हेतुपरब्रह्मप्राप्तिरेव फलमुक्तं । एवं भागवतेऽपिएवं परेत्य भगवन्तमनुप्रविष्टा ये योगिनो जितमरुन्मनसो विरागाः । तेनैव साकममृतं पुरुषं पुराणं ब्रह्म प्रधानमुपयान्त्यगताभिमानाः ।।' इत्युत्क्रम्य देवयानेन हिरण्यगर्भ- मनुप्रविष्टानां तेनैव साकं प्रधानपरब्रह्मोपगरूपपरविद्याफलमेवोक्तम् ।ते ब्रह्मलोके तु परान्तकाले परामृतात् परिमुच्यन्ति सर्वे' इति श्रुतिरपीममेवार्थं श्रावयति ।।

(अधिकरणं १ )

ॐ वाइनसि दर्शनाच्छब्दाच्च ॐ (४.२.१)

इति सूत्रस्यवाङ्मनसि सम्पद्यत' इति श्रुतौ वाग्वृत्तेरेव मनसि लयो न तु वाचः । दर्शनात् । आगमो हि दृष्टानुसारेणार्थं बोधयति । अतो वाग्वृत्तेरेव मनसि लयो लक्षणया श्रुत्या बोध्यते वाङ्मनसि सम्पद्यत इति । शब्दस्तु वृत्तिवृत्तिमतोरभेदोपचारादवकल्पते' इति यद् व्याख्यानं तदद्वैतिनां प्रतिकूलम् । वृत्तिवृत्तिमतोर्भेद एव । अभेदस्त्वौपचारिक इति कथनेन भेदपरत्वात् श्रुतिसूत्राननुगुणं च । यदि वृत्तेरेव लयो न तु वृत्तिमत्या वाच इति सूत्राभिप्रायः स्यात्तर्हि 'वाग्वृत्तिर्मनसि' इत्येव सूत्रे शब्दविन्यासो भवेत् । न हि श्रौतं वाक्पदं वृत्तौ लाक्षणिकमिति निर्णयाय प्रवृत्ते सूत्रे पुनर्वाच एव मनसि लय इति वाक्पदप्रयोगेण प्रतिज्ञा युक्ता । शब्दादिति सौत्रो हेतुरप्ययुक्त आपद्यते । न हि वाग्वृत्तेर्लयं 'वाङ्मनसि सम्पद्यत' इति श्रुतिर्बोधयति, किन्तु वाच एव । वृत्तिवृत्तिमतोरभेदोपचारेण वाक्शब्दः प्रयुक्त इत्युक्तं तूत्सूत्रम् ।

यदत्रोक्तं, आगमो हि दृष्टानुसारतोऽर्थं बोधयति' इति, तदनु मन्यामहे । एवं हि ऐन्द्रियकार्थविषये आगमापेक्षया प्रत्यक्षस्यैव प्रावल्यमिति न्यायः शङ्कराचार्यैरङ्गीकृत इत्यवगम्यते । तथा च प्रबल प्रत्यक्षसिद्ध जगत्सत्यत्वस्य बाधो न दुर्बलैरागमैः शक्य इति तन्यायेनैव सिध्यतीति सुधीभिर्विभावनीयम् ।

ॐ अत एव च सर्वाण्यनु ॐ (४.२.२)

इति सूत्रस्य, अत एव वाच इव चक्षुरादीनामपि सवृत्तिके मनस्यवस्थिते वृत्तिलोपदर्शनात् वृत्तिद्वारेणैव लय इति व्याख्यानमपि पूर्ववदेव वृत्तिवृत्तिमतोर्भेदसाधकत्वेन अद्वैतिनां प्रतिकूलमेव ।

(अधिकरणं २)

ॐ तन्मनः प्राण उत्तरात् ॐ (४.२.३)

इति सूत्रस्यमनसो न प्राणे स्वरूपाप्ययः किन्तु वृत्त्यप्यय एवेति व्याख्यानमपि पूर्ववदेवाद्वैतिनां प्रतिकूलमेव । इति ।

(अधिकरणं ३)

ॐ सोsध्यक्षे तदुपगमादिभ्यः ॐ (४.२.४)

इति सूत्रस्य पश्ञ्चवृत्तेः प्राणस्य देहेन्द्रियपञ्जराध्यक्षे जीवे लयः इति ।

ॐ भूतेषु तच्छ्रुतेः ॐ (४.२.५)

इति सूत्रस्य, प्राणसम्पृक्तस्याध्याक्षस्यैवैतत्तेजः सहचरितेषु भूतेष्ववस्थानं

ॐ नैकस्मिन् दर्शयतो हि ॐ (४.२.६)

इति सूत्रस्य-तेजः शब्दश्च सर्वभूतोपलक्षकः इति च यद्व्याख्यानम् तत् भूतानां परस्परं अध्यक्षपदोक्तजीवाच्च भेदसाधकमेवेति अद्वैतिनां प्रतिकूलमेव ।

(अधिकरणं ४)

ॐ समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य ॐ (४.२.७)

इति सूत्रस्य, सेयं भूताश्रयविशिष्टोत्क्रान्तिः पुनर्भवहेतुत्वादविदुष एवेति प्राप्ते, आकार्यब्रह्मप्राप्तेः विद्वदविदुषोः समानैव । अदग्ध्वाऽत्यन्तम- विद्यादीनपरविद्यासामर्थ्यादापेक्षिकमेवामृतत्वं प्रेप्सते' इति व्याख्यानं प्राप्यप्राप्तृभावोक्त्या विद्वदविदुषोः कार्यब्रह्मणा भेदस्य, विद्वदविदुषोः परस्परं भेदस्य च साधकत्वेनाद्वैतिनां प्रतिकूलमेव ।

यत्तु पुनरत्र दहरोपासनाया सगुणविद्यात्वेनापरत्वं तत्प्राप्यस्यामृतत्वस्यापेक्षिकत्वमुक्तं तदप्रामाणिकत्वादुपेक्ष्यम् । तथा हि । यानि नामानि गौणानि विख्यातानि महात्मनः । ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये' इति प्रतिज्ञाय सगुणविष्णुमाहात्म्यप्रतिपादनाय प्रवृत्तानां सहस्रनाम्नां परविद्यात्वं स्वीकृत्य सगुणोपासनस्यैव परममोक्षहेतुत्वं वर्णितं, तद्व्याख्यानावसरे शङ्कराचार्यैः । उदाहरणतया केषांचिन्नाम्नां तदूव्याख्यानं प्रदर्श्यते -

मुकुन्दः-मुक्तिं ददातीति मुकुन्दः

शुभेक्षणः -यस्येक्षणं सर्वशुभं, शुभकरं, मुमुक्षूणां मोक्षदं भोगार्थिनां भोगदं ... अविद्यानिवर्तकम् ।

कथितः -देवादिभिरयमेव परत्वेन कथितः । सर्वे: वेदैः कथित इति वा ।सर्वे वेदा यत्पदमामनन्ति' वेदैश्च सर्वैरहमेव वेद्यः' । वेदे रामायणे चैत्र पुराणे भारते तथा । आदावन्ते च मध्ये विष्णुः सर्वत्र गीयते । 'सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ' 'पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः' इति ।

वरारोह:न स पुनरावर्तते । यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ।

महेज्यः - सर्वासु देवतासु यष्टव्यासु प्रकर्षेणायमेव यष्टव्यो मोक्षफलदातृत्वात् ।

मुक्तानांपरमागतिः-अविद्यारागद्वेषादिदोषमुक्तानां प्रकृष्टा गन्तव्या देवता । मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते इति भगवद्वचनात् ।

एवमादीनां तत्तद्विष्णुनाम्नां व्याख्यानेन सगुणस्य विष्णोरेव मोक्षप्रदत्वं, अविद्यानिवर्तकत्वं, सर्वोत्तमत्वेन सर्वैर्देवैः सर्वैर्वेदैश्च कथितत्वं, अपुनरावृत्तिफलकप्राप्तिकर्मत्वं, गन्तव्यदेवताप्रकृष्टत्वं वर्णितम् । इह सूत्रे पुनः सगुणविद्याया अपरविद्यात्वमिति तत्प्राप्तेरापेक्षिकामुख्यमोक्षत्व- मिति च भाषणे, न केवलं स्वोदाहृतसकलप्रमाणविरोधः किं नाम स्ववचनविरोधोऽपि ।

यच्चोक्तं अदग्ध्वाऽत्यन्तमविद्यादीनीति तदप्यसारम् । 'अविद्या सहकार्येण नासीदस्ति भविष्यति इति कालत्रयेऽपि सत्ताविधुराणां अविद्यादीनां दाहलक्षणनाशस्यैवानुपपत्तेः । ज्ञानमात्रनिवर्त्याया अविद्याया ज्ञाने जातेऽप्यनिवृत्तौ तस्याः पुनर्निवृत्तेरेवायोगेनानुवृत्तिरेव नित्यदा संसारस्येत्यापत्तेः । न ह्यविद्या भागवती येन तन्निवृत्तौ आत्यन्तिकत्व- सावशेषत्वलक्षणविभागः कल्प्येत ।

(अधिकरणं ५)

ॐ तदाऽपीतेः संसारव्यपदेशात् ॐ (४.२.८)

अस्य सूत्रस्यतेजः परस्यां देवतायामित्यत्र श्रूयमाणा सत्संपत्तिर्नात्यन्तिकी । सुषुप्तिप्रलयवद् बीजभावावशेषैवैषा । मिथ्या- ज्ञाननिमितो बन्धो न सम्यग्ज्ञानादृते विस्त्रंसितुमर्हति' इति यद्व्याख्यानं तदपि पूर्वाधिकरणव्याख्यानवदेव ज्ञानिप्राप्यमोक्षस्यामुख्यत्वप्रतिपादनपरत्वेन न केवलं पूर्वोक्तदूषणेन किन्तु गतार्थतादोषेणापि दुष्टम् । अद्वैतिनां प्रतिकूलं च । सत्सम्पत्तिरात्यन्तिकी भवतु माभूद्वा । सर्वथाऽपि सा सम्पत्तृसम्पद्यमानयोर्भेदमेवावलम्बत इति तावदविवादम् । तथा हि शाङ्करभाष्यंभेदनिर्देशात्सता सौम्य तदा सम्पन्नो भवति (छां. ६.८.९) इत्येवं जातीयकः कर्तृकर्मादिभेदनिर्देशः जीवादधिकं (अन्यत्) ब्रह्म दर्शयति (सू.२.१.२२) इति । सत्सम्पत्तेरात्यन्तिकत्वनिषेधोऽपि स्वव्याहतः । परंज्योतिरूपसम्पद्य (छां.८.१२.३) इत्यात्रोक्तपरदेवता- सम्पत्तेरात्यन्तिकत्वमङ्गीकृत्य, कथं तर्हि 'जक्षन् क्रीडन्' इति तत्रैवोक्तजक्षणक्रीडनादिकं परममुक्तावुपपद्यतामित्याशंक्य यथाप्राप्तस्य संसारिकस्य जक्षणादिकस्य मोक्षप्रशंसार्थं भूतपूर्वगत्याऽनुवाद इति परिहारस्तत्राभिहितः । तेनोत्क्रान्तिकालीना सत्सम्पत्तिरात्यन्तिक्येवेत्यङ्गीकारः शङ्कराचार्याणां विज्ञायते । अन्यथा बीजभावावशेषसंसारदशायां जक्षणादिभोगेऽनुपपत्तेरेवा- प्रसङ्गात् तन्निरासप्रयासस्तैः कृतोऽनर्थक एव भवेत् ।

यच्चात्रोक्तंमिथ्याज्ञाननिमित्तो बन्धो न सम्यग्ज्ञानाहते वित्रसितुमर्हती' ति । न तद्युक्तं । एवंवदतो हि सगुणस्य ब्रह्मणो ज्ञानं मिथ्याज्ञानं निर्गुणस्य तु सम्यग्ज्ञानं इत्यभिप्रेतम् । तदुभयमप्यसाधु । गुणज्ञानस्य मिथ्याज्ञानत्वे तत्प्रतिपादकश्रुतीनामप्रामाण्यापत्तेः । न च तथाऽस्त्विति वाच्यम् । अविशेषान्निर्गुणश्रुतीनामपि तथात्वापातात् । 'ज्ञानं च तस्मिन्परात्मभावनिवृत्तिरेवे 'ति भाष्ये निर्गुणब्रह्मज्ञानं नैव जायते इत्यङ्गीकृतत्वेन तज्ज्ञानस्य सम्यग्ज्ञानत्वोक्तेः सुतरामनुपपत्तेश्च ।

यदप्युक्तं बन्धो न विस्त्रंसितुमर्हतीति । तदपि तुच्छं । बन्धस्य सत्वे खलु तस्य विस्त्रंसणार्हता विचारणीया भवति । न विस्त्रंसणार्हताऽसतः शशविषाणस्य विचार्यते । अङ्गीकृतं च बन्धस्य द्वैतस्य शशविषाणवदेवा- सत्त्वं शङ्कराचार्यैःन निरोधो न चोत्पत्तिर्न बद्धो न च साधकः' इति गौडपादकारिका व्याख्यानावसरे, ‘द्वैतस्यासत्त्वात् । सतो ह्युत्पत्तिः प्रलयो वा नासतः शशविषाणादेः' इति ।

ॐ सूक्ष्मं प्रमाणतश्च तथोपलब्धेः ॐ (४.२.९)

इति सूत्रस्य, ‘जीवस्याश्रयभूतं तेजः स्वरूपतः प्रमाणतश्च सूक्ष्मं भवितुमर्हति इति ।

ॐ नोपमर्दनातः ॐ (४.२.१०)

इति सूत्रस्यअत एव न स्थूलस्य शरीरस्योपमर्देनोपमृद्यत इति ।

ॐ अस्यैव चोपपत्तेरेप ऊष्मा ॐ (४.२.११)

इति सूत्रस्य, अस्यैव च सूक्ष्मस्य शरीरस्यैष ऊष्मा' इति च यद् व्याख्यानं तत्स्थूलसूक्ष्मशरीरयोस्तदाश्रितस्य जीवस्य च सोपपत्तिकं भेदसाधकमेवेत्यद्वैतिनां प्रतिकूलमेव ।

(अधिकरणम् ६)

ॐ प्रतिषेधादिति चेन्न शारीरात् ॐ (४.२.१२)

एतत्सूत्रंशारीरादात्मन एव उत्क्रान्तिप्रतिषेधः प्राणानां न शरीरात् । उच्चिक्रमिषोर्जीवात्प्राणा नापक्रामन्ति सहैव तेन भवन्ति' इति व्याख्यातं । तच्च उत्क्रान्त्यवधेः शरीरस्य, उच्चिक्रमिषोर्जीवस्य तेन सहैव भवतां प्राणानां च भेदसाधकमेव ।

ॐ स्पष्टो ह्येकेषाम् ॐ (४.२.१३)

एतस्य सूत्रस्य ‘“ब्रह्मैव सन्ब्रह्माप्येति” ' अत्र ब्रह्म समश्नुते' इति चैवञ्जातीयकाः श्रुतयः परब्रह्मविदो मुख्यामृतत्वे गत्युक्रान्त्योरभावं सूचयन्तीति यद् व्याख्यानं तदयुक्तं । अप्येतीत्यस्य प्राप्नोतीत्येव मुख्योऽर्थः इति शङ्कराचार्यैः (ब्र.सू.भा. ४.४.६ ) स्वीकृतम् । अतः इयं श्रुतिः प्राप्तिलक्षणगतिसद्भावमेव प्रतिपादयति । एवं 'ब्रह्मणश्च मुक्तोपसृप्यत्वं प्रसिद्धं शास्त्रे, अत्र ब्रह्म समश्नुत इत्येवमादौ (ब्र.सू.भा.१.३.२) इति समश्नुत इत्यस्यापि उपसर्पणरूपगत्यर्थत्वमेव व्याख्यातं । तस्मादेषाऽपि श्रुतिर्गतिप्रतिपादनपरैव । अत एवंजातीयकाः श्रुतयो गत्यभावं सूचयन्तीति यदत्र भाषितं तदप्रामाणिकं स्वव्याहतं च । गतिश्च भेदनियतेतिक्वचिज्जीवप्राज्ञयोर्भेदो व्यपदिश्यते परात्परं पुरुषमुपैति दिव्यंइति गन्तृगन्तव्यत्वेन (ब्र.सू.२.२.२७) इति शङ्कराचार्यैर्निरूपितम् । अत इदमपि सूत्रव्याख्यानं तदुक्तरीत्यैवाद्वैतिनां प्रतिकूलमेव ।

ॐ स्मर्यते च ॐ (४.२.१४)

अस्य सूत्रस्य, स्मर्यते च महाभारते गत्युत्क्रान्त्योरभावःसर्वभूतात्मभूतस्य सम्यग्भूतानि पश्यतः देवा अपि मार्गे मुह्यन्त्यपदस्य पदैषिणः इति । न ह्यशरीरं गच्छन्तं सर्वभूतानि द्रष्टुं शक्नुयुः । तस्मादभावः परब्रह्मविदो गत्युत्क्रान्त्योः' इति यद् व्याख्यानं तदतितुच्छं । स्मृतौ गत्यभावाप्रतिपादनात् । प्रत्युत 'मार्गे' इत्युक्त्या तेन मार्गेण गतेरेव स्पष्टं निरूपणात् । न हि मार्गे मुह्यन्तीत्यस्य मार्गस्य गतेश्चाभाव इत्यर्थं कोऽपि विवेकी वक्तुमर्हति । नापि 'अशरीरं गच्छन्तं' इति स्वयं गतिं वर्णयन्नेव पुनर्गत्यभावमनुन्मत्तो वर्णयितुमुत्सहते । न वा कोऽपि प्रेक्षावान्अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरं । यः प्रयाति त्यजन्देहं स याति परमां गतिं' इति गीतोक्तां ज्ञानिनो देहादुक्रान्त्यनन्तरांयातीत्युक्तां गतिंततो मां तत्वतो ज्ञात्वा विशते तदनन्तरं' इति तत्वज्ञानोत्तरकालीनां प्रवेशरूपां गतिं च सुस्पष्टतया तत्र तत्र प्रतिपादितां अपलपितुं प्रवर्तते ।

किंचात्र व्याख्याने सर्वभूतात्मभूतस्येति, सर्वभूतेति भूतानां सर्वत्वोक्त्या, भूतस्येति भवनोक्त्या, भूतानीति बहुवचनेन पश्यत इति द्रष्टृदृश्यभाववचनेन सम्यगिति दर्शनेऽसम्यक्त्वव्यावृत्त्युक्त्या, मार्गे इति गतिकथनेन सप्तम्या मार्गस्य ज्ञान्याधारत्वलक्षणभेदकधर्मोक्त्या इत्येवं बहुधा भेदस्यैव वर्णितत्वेन इदमपि व्याख्यानमद्वैतिनां प्रतिकूलं, द्वैतिनामेवानुकूलं च ।

(अधिकरणं ७)

ॐ तानिपरे तथा ह्याह ॐ (४.२.१५)

अस्य सूत्रस्यतानि पुनः प्राणशब्दोदितानि इन्द्रियाणि भूतानि च परब्रह्मविदस्तन्नेव परस्मिन्नात्मनि प्रलीयन्ते । कस्मात् । तथा ह्याह श्रुतिः' एवमेवास्य परिद्रष्टुरिमाः षोडशकला : पुरुषायणाः पुरुषं प्राप्यास्तङ्गच्छन्तीति यद् व्याख्यानं तदपि पूर्ववदेव तस्मिन्नेव परात्मनीति सप्तम्याऽधिकरणाधिकर्तव्यभावनिर्देशेन परिद्रष्टुरिति द्रष्टृदृश्यभावोक्त्या, परीत्युक्त्या दर्शने विशेषसूचनपूर्वकं सखण्डत्वकथनेन कलानामस्तमयरूपध्वंसोक्त्या त्रैकालिकनिषेधलक्षणबाधाभावप्रतिपादनेन च भेदसाधकमेव ।

यत्पुनरत्रोक्तं 'गताः कलाः पञ्चदश प्रतिष्ठा' (मुं. ३/२/७) इति श्रुतिर्व्यवहारापेक्षा न विद्वत्प्रतिपत्त्यपेक्षेत्यादि तत्केवलं कल्पनामूलतया श्रुतौ तथाभाव प्रतिपादकपदाभावेनोपेक्षणीयमेव ।

(अधिकरणं ८)

ॐ अविभागो वचनात् ॐ (४.२.१६ )

इदं सूत्रं, ‘विदुषःकलाप्रलयः प्रलयसामान्यात्सावशेष इति प्राप्ते, अविभागापत्तिरेव । भिद्येते तासां नामरुपे, पुरुष इत्येवं प्रोच्यते स एषोऽकलोऽमृतो भवति' इति वचनादिति व्याख्यातम् । अत्रापि सत्यत्वसापेक्षभेदनरूपविशरणोक्त्या नामरूपात्मकस्य प्रपञ्चस्य सत्यत्वं, पुरुष इत्येवं प्रोच्यते इति ज्ञानिप्राप्यस्य ब्रह्मणोऽवाच्यत्वापक्षेपपूर्वकं वाच्यत्वं, प्रेत्युपसर्गेण वाच्यत्वे प्रकर्षकथनेन परममुख्यवृत्या वाच्यत्वं तत एव जहदजहल्लक्षणया बोध्याभिमतस्य निर्विशेषत्वस्य च निरासः, ' स एषोऽकलोऽमृतो भवति' इति भेदसापेक्षाभवनरूपा प्राप्तिस्तत एव मुक्तब्रह्मणोर्भेदश्च प्रतिपादित इति परोदाहृतश्रुत्या तस्याः परव्याख्यानानुसारेण च इदमपि सूत्रं भेदसाधकमेव ।

(अधिकरणं ९ )

ॐ तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया ॐ (४.२.१७)

अस्य सूत्रस्यइदं सूत्रमपरविद्याविषयक विचारपरम् । तत्र पूर्वोक्तोत्क्रान्तिर्विद्वदविदुषो: समानैवेति प्राप्ते विद्वान्मूर्धन्यद्यैव नाड्या निष्क्रामतीतराभिरितरे' इति व्याख्यानं मूर्धन्यतदितरनाडीनां विद्वद- विदुषां च भेदपरमेव । सौत्रविद्या शब्दोऽपरविद्यापर इति व्याख्यानं तु निर्मूलत्वादनादरणीयम् ।

(अधिकरणं १० )

ॐ रश्म्यनुसारी ॐ (४.२.१८)

इति सूत्रस्याहनि रात्रौ वा म्रियमाणस्याविशेषेणैव रश्म्यनुसारित्वं इति ।

ॐ निशिनेति चेन्न यावद्देहभावित्वाद्दर्शयति च ॐ (४.२.१९)

इति सूत्रस्य यावद्देहभावी हि शिराकिरणसम्पर्क इति च यद्व्याख्यानं तत्र मरणकालनियमनिरपेक्षेणैव विदुष उत्क्रान्तस्यालोकप्राप्तिरिति यदभिप्रेतं तदुपपन्नमेव । अपरविद्याफलमेतदिति तु पूर्ववन्निर्मूलम् ।

ॐ अतश्चायनेऽपि हि दक्षिणे ॐ (४.२.२० )

इति सूत्रं, दक्षिणायनेऽपि म्रियमाणो विद्वान्प्राप्नोत्येव विद्याफलमिति व्याख्याय, कथं तर्हि - धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् । तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते" इति दक्षिणायने मृतस्य स्मृतौ पुनरावृत्तिवचनानीति आशंक्य, तत्परिहारकतया ।

ॐ योगिनः प्रति स्मर्येते स्मार्त्ये चैते ॐ (४.२.२१)

इति सूत्रस्य योगिनः स्मार्तीमुपासनां प्रत्येवायं कालविनियोगः स्मर्यते । न तु पुनरस्य स्मार्तस्य कालविनियोगस्य श्रौतेषु विज्ञानेष्ववतारः इति यद्व्याख्यानं तत् प्रमाणेन विना श्रुतिस्मृत्योर्भिन्नार्थत्वकथनपरमित्यनादरणीयमेव ।अग्निर्ज्योतिरिति ' धूमो रात्रिरिति च श्लोकयोर्गीताया अहरादिपदेः नैव कालविशेषो विवक्षितः । तथा सति धूमः अग्निः ज्योतिरितिपदानामसङ्गत्यापत्तेः । किं नाम देवता एव । अतो गीताया अनभिप्रेतमेवार्थं परिकल्प्य तत्र प्राप्तशङ्कायाः परिहारकत्वेन यत् सूत्रव्याख्यानं सा छलोक्तिरेव ।

एतैः पदैर्देवतानां ग्रहणे श्रुतिस्मृत्योर्न कश्चिद्विरोध इति तेषामेव यद् व्याख्यानान्तरं तदभ्युपगम्यते । परं देवताग्रहणेऽपि श्रौतस्मार्तोपासनयोरर्थतः फलतश्चाविरोधो नैव तद्रीत्या सम्पादितो भवतीतित्वन्यदेतत् ।

इति चतुर्थाध्याय द्वितीयपादीय शाङ्करभाष्यविचारः ।