ॐ कर्ता शास्त्रार्थवत्त्वात् ॐ
ॐ कर्ता शास्त्रार्थवत्त्वात् ॐ (२.३.३३)
एतत्सूत्रव्याख्याने जीवस्य कर्तृत्वे (जीवे कर्तरि सति) ‘यजेत’ 'जुहुयात्' 'दद्यात्' एवंविधविधिशास्त्रमर्थवद्भवति । अन्यथा तदनर्थकं स्यात् । तद्धि कर्तुः सतः कर्तव्यविशेषमुपदिशति । न चासति कर्तरि तदुपपद्यते । एवं 'एष हि द्रष्टा श्रोता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः' (प्र.५.९) इति शास्त्रमपि अर्थवद्भवति । इति जीवस्य कर्तृत्वं शङ्काचार्यैः साधितम् । तथा–
ॐ विहारोपदेशात् ॐ (२.३.३४)
इति सूत्रव्याख्याने “स ईयतेऽमृतो यत्र कामं (बृ.२.१.१८) इति जीवस्य विहारोपदेशक श्रुत्युदाहरणेन कर्तृत्वं साधितम् ।
ॐ उपादानात् ॐ (२.३.३५)
इति सूत्रव्याख्याने “तदेषां प्राणानां विज्ञानेन विज्ञानमादाय" (बृ. २.३.१७) 'प्राणान् गृहीत्वा' (बृ. २.१.१८) इति करणोपादान (स्वीकार) बोधकश्रुत्युदाहरणेन जीवस्य कर्तृत्वं प्रतिपादितम् ।
ॐ व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः ॐ (२.३.३६)
इति सूत्रव्याख्याने ‘“विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च " ( तै. २.५.१ ) इति जीवस्य लौकिकीषु वैदिकीषु च क्रियासु कर्तृत्वं बोधकश्रुत्युदाहरणेनाऽपि जीवस्य कर्तृत्वं प्रतिपादितम् ।
ॐ उपलब्धिवदनियमः ॐ (२.३.३७)
इति सूत्रे ‘यदि बुद्धिव्यतिरिक्तो जीवः कर्ता स्यात्, सः स्वतन्त्रः सन् प्रियं हितं चैवात्मनो नियमेन सम्पादयेत् । न विपरीतम् । विपरीतं सम्पादयन्नुपलभ्यते । न च स्वतन्त्रस्यात्मन ईदृशी प्रवृत्तिरनियमेनोपपद्यते, इति बाधकशङ्खयां यथात्मा उपलब्धिं प्रति स्वतन्त्रोऽपि अनियमेनेष्टमनिष्टं चोपलभते । एवमनियमेनैवेष्टमनिष्टं च सम्पादयिष्यति' इति जीवस्य कर्तृत्वे बाधकं परिहृत्य कर्तृत्वं स्थापितम् ।
ॐ शक्तिविपर्ययात् ॐ (२.३.३८)
इति सूत्रेऽपि विज्ञान (बुद्धि) व्यतिरिक्तस्य जीवस्य कर्तृत्वं स्थापितम् ।
ॐ समाध्यभावाच्च ॐ (२.३.३९)
इति सूत्रे ‘योऽप्ययमौपनिषदात्म (परमात्म) प्रतिपत्तिप्रयोजनः समाधिरुपदिष्टो वेदान्तेषु “आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः” (बृ.२.४.५ ) "सोऽन्वेष्टव्यः स विजिज्ञासितव्यः” (छां.८.७.३) “ओमित्येवं ध्यायथ आत्मानं ” (मुण्ड. २.२.६) इत्येवं लक्षणः, सोऽप्यसति आत्मनः कर्तृत्वे नोपपद्यते । तस्मादपि जीवस्य कर्तृत्वसिद्धिरिति कर्तृत्वं साधितम् । एवं जीवकर्तृत्वसाधिकाः श्रुतीरुदाहृत्य एतैः सप्तसूत्रैः जीवस्य कर्तृत्वं स्वीकृतम् । तत्तु श्रुतिसूत्रबोधितत्वात् युक्तमेव । तत्र जीवकर्तृत्वसाधने असङ्गता अयुक्ताश्च केचन विषयाः प्रतिपादिता अपि प्रकृतानुपयुक्तत्वान्न विचार्यते । परन्तु सप्तसूत्रैस्तथा तद्गृहीताभिः श्रुतिभिः प्रतिपादितस्य स्वेन (शङ्कराचार्येण ) श्रुतिसूत्र प्रतिपाद्यतयाङ्गीकृतस्याऽपि जीवकर्तृत्वस्य, जीवकर्तृत्वनिषेधकपदरहितेन प्रत्युत जीवकर्तृत्वव्यवस्थापकेन (कर्तृत्वबोधकेन) “यथा च तक्षोभयथा” इत्युत्तरसूत्रेण मिथ्यात्वं - अविद्याकल्पितत्वं (नास्ति नासीन्न भविष्यतीति त्रैकालिकनिषेधप्रतियोगित्वरूपमसत्त्वं) प्रतिपाद्यते इति शङ्कराचार्योक्तिः स्वव्याहता, श्रुतिविरुद्धा, सूत्रविरुद्धा, अप्रामाणिकी च ।
स्वव्याहत्यादिकं च ‘यथा च तक्षोभयथा' इत्यव्यहितोत्तर सूत्रीयशाङ्करभाष्यस्य खण्डनावसरे प्रदर्श्यते ।
एवं तावच्छास्त्रार्थवत्त्वादिभिर्हेतुभिः शारीरस्य साधितं कर्तृत्वं स्वाभाविकं (सत्यं) वा उपाधिनिमित्तं (कल्पितं त्रैकालिकनिषेधप्रतियोगि असत्) वा इति संशय्य शास्त्रार्थवत्त्वादिभिः स्वाभाविकमेव (सत्यमेव ) कर्तृत्वमपवादहेत्वभावादिति पूर्वपक्षे च प्राप्ते, आत्मनः कर्तृत्वमस्वाभाविकम्, (मिथ्या) कर्तृत्वस्य स्वाभाविकत्वे (सत्यत्वे) कर्तृत्वादनिर्मोक्षप्रसङ्गः इति (कर्तृत्वस्यानिवृत्तिप्रसङ्गः ) यदनिर्मोक्षप्रसङ्गभयेन कर्तृत्वस्य मिथ्यात्वं साधितम्, तदसमञ्जसम् । “यथा च तक्षोभयथा" इति सूत्रे कर्तृत्वम- स्वाभाविकं (मिथ्या) इति प्रतिज्ञार्थबोधकपदाभावेन तथा अनिर्मोक्ष- प्रसङ्गरूपापादनबोधकपदाभावेन च आत्मनः कर्तृत्वं मिथ्या, सत्त्यत्वे अनिर्मोक्षप्रसङ्ग इत्यर्थस्य उत्सूत्रितत्वेन (सूत्राबोध्यत्वेन ) “सूत्रार्थो वर्ण्यते यत्र पदैः सूत्रानुकारिभिः । स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः" इत्युक्तभाष्यलक्षणाभावेन शाङ्करव्याख्यानस्याभाष्यत्वप्राप्तेः ।
तथा यदि जीवस्य कर्तृत्वं स्वाभाविकं (सत्यं) स्यात् तदा कर्तृत्वात् मोक्षो न स्यात् । भाव्यं च कर्तृत्वान्मोक्षेण ( कर्तृत्वनिवृत्त्या) । अतः कर्तृत्वं मिथ्या इति खलु शाङ्करभाष्यतात्पर्यार्थः ।
तत्र कर्तृत्वस्य स्वाभाविकत्वे कर्तृत्वान्मोक्षः (कर्तृत्वनिवृत्तिः) न स्यादित्यापादनमयुक्तम् (कर्तृत्वस्य मोक्षेऽपि इष्टत्वेन (प्रमाणसिद्धत्वेन) कर्तृत्त्वनिवृत्त्यभावस्य आपादयितुमशक्यत्वात् अप्रामाणिकमापादनीयम् । सन्ति च मोक्षे कर्तृत्वप्रतिपादकानि श्रुतिसूत्रादिप्रमाणानि । तथाहि-
“एष सम्प्रसाद (आत्मा) अस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते" । स तत्र पर्येति जक्षन् क्रीडन् रममाणः ' (छां.८) इत्यादिश्रुतयः सञ्चारकर्तृत्व भोजनकर्तृत्व क्रीडाकर्तृत्वादीनि प्रतिपादयन्ति । तथा ‘सङ्कल्पादेव तच्छ्रुतेः (बृ.सू.४.४.८) इत्यादिसूत्राणि च मोक्षेऽपि कर्तृत्वं प्रतिपादयन्ति ।
न च मोक्षे कर्तृत्वस्यानिवृत्तौ पुरुषार्थसिद्धिर्न स्यात् । कर्तृत्वस्य दुःखरूपत्वादिति वाच्यम् । कर्तृत्वाद्भिन्नत्वेन तद्रूपत्वासम्भवात् । दुःखस्य कर्तृत्वरूपत्वे सृष्ट्यादिकर्तुरीश्वरस्यापि दुःखित्वापत्तेः ।
न च ब्रह्म द्विविधं नित्यशुद्धबुद्धमुक्तं निर्धर्मकं (निर्गुणं), कर्तृत्वादि- गुणयुक्तमीश्वरपदवाच्यं चेति । तत्र निर्गुणस्य कर्तृत्वादिकं नास्त्येव । सगुणस्येश्वरस्य भासमानं सृष्ट्यादिकर्तृत्वं मिथ्यैव (उपाधिधर्माध्यासनिमित्तं) न स्वाभाविकमिति न दुःखित्वापत्तिरिति वाच्यम् ।
'पृथगात्मानं च प्रेरितारं च मत्वा' ' यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् ' "एष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्यो उन्निनीषते । एष ह्येवासाधु कर्म कारयति तं यमधो निनीषते "
(कौ.३.८) “य आत्मनि तिष्ठन् आत्मानमन्तरो यमयति” “यतो वा इमानि भूतानि जायन्ते” (तै.३.१) इत्याद्यनेकश्रुतिभिः “जन्माद्यस्य यतः” इत्यादिसूत्रैः “अहं सर्वस्य प्रभवः मत्तः सर्वं प्रवर्तते” इत्यादि गीतावाक्यैः सिद्धस्य ईश्वरकर्तृत्वस्य मिथ्यात्वे (असत्त्वे) अङ्गीक्रियमाणे असद्भूतकर्तृत्वप्रतिपादकश्रुतिसूत्रगीतारूपप्रस्थानत्रयस्य अप्रामाण्य- स्वीकारापत्त्या तब नास्तिकत्वापत्तेः । हा शान्तं पापं शान्तं पापं नहि नहि । नास्तिका हि प्रत्यक्षसिद्धार्थानां सत्त्वमङ्गीकृत्य प्रत्यक्षासिद्धानां स्वर्गनरकपुण्यपापादीनामसत्त्वमङ्गीकुर्वन्ति । अद्वैतिनो हि शून्यवादिन इव प्रत्यक्षसिद्धानामप्यर्थानामसत्त्वमङ्गीकुर्वन्ति इति न केवलं नास्तिकाः, शून्यवादिवौद्धवत् नास्तिकनास्तिकाः (महानास्तिकाः) एव ।
ननु ‘“मिथ्यावादविचारचिन्तनमहो कुर्वंत्यदृष्टात्मकाः भ्रान्ता एव न पारगा दृढधियः तूष्णीं शिलावत् स्थिताः ।
द्वैताद्वैतविवर्जिते समरसे मौनं परं संमतम्" इत्याद्युक्तरीत्या, वयं, पदार्थाः सन्ति न सन्ति इत्यस्यां चिन्तायामुदासीनाः । न सन्ति पदार्था इत्युक्तौ खलु नास्तिकत्वम् । कथमुदासीनानां नास्तिकत्वमिति चेत् तर्हि पाषाणकल्प एवासीति न वादार्ह इति ।
कर्तृत्वस्य अस्वाभाविकत्वे यच्चोक्तं—
“ तथा च श्रुतिः ध्यायतीव लेलायतीव' (बृ. ४.३.७ ) इति । 'आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः' (कठ. ३.४) इति च उपाधिसम्पृक्तस्यैवात्मनो भोक्तृत्वादिविशेषलाभं दर्शयति । न हि विवेकिनां परस्मादन्यो जीवो नाम कर्ता भोक्ता वा विद्यते । 'नान्योऽतोऽस्ति द्रष्टा' (बृ.४.३.२३) इत्यादिश्रवणात्” इति । तन्न साधु । ‘ध्यायतीव लेलायतीव’ इति इवशब्दघटितवाक्येन ध्यानकर्तृत्वस्य चलनकर्तृत्वस्य च मिथ्यात्वा- सिद्धेः । प्रत्युत सत्यत्वस्यैव सिद्धेः । तथाहि - शङ्कराचार्यादिभिः ‘यत्र हि द्वैतमिव भवति' इति मन्त्रव्याख्यावसरे- “ननु द्वैतेनोपमीयमानत्वात् द्वैतस्य पारमार्थिकत्वमिति" इति (शां.भा.)
“इवशब्दस्योपमार्थत्वमुपेत्य-शङ्कते नन्वितिद्वैतेन द्वैतस्योपमीयमानत्वात् दृष्टान्तस्य दाष्ट्र्यान्तिकस्य च वस्तुत्वं (पारमार्थिकत्वं) स्यात् । उपमानोपमेययोश्चन्द्रमुखयोर्वस्तुत्वोपलम्भादित्यर्थः " (आनन्द) इति शाङ्करभाष्यानन्दगिरिवाक्याभ्यां इवशब्दशिरस्क पूर्वपदबोध्यस्य सत्यत्वमवगम्यते इत्युक्तत्वेन अत्रापि ‘ध्यायतीव लेलायतीव' इतीवपदशिरस्केन ध्यायति- पदेन तथा लेलायतीतिपदेनच बोध्यमानध्यान कर्तृत्वचलनकर्तृत्वयोः पारमार्थिकत्वमेव सिध्यति इति ।
एवमेव बौद्धमतनिरासकस्य " नाभाव उपलब्धेः " इति सूत्रस्य व्याख्यानावसरे शङ्कराचार्यैः – “अतश्चैवमेव सर्वे लौकिका उपलभन्ते, यत्प्रत्याचक्षाणा अपि बाह्यार्थमेव व्याचक्षते । यदन्तर्ज्ञेयरूपं तद्बहिर्वदव- भासत इति । तेऽपि सर्वलोकप्रसिद्धां वहिरवभासमानां संविदं प्रतिलभमानाः प्रत्याख्यातुकामाश्च बाह्यमर्थं वहिर्वदिति वत्कारं कुर्वन्ति । इतरथा हि कस्माद् बहिर्वदिति ब्रूयुः । न हि विष्णुपुत्रो बन्ध्यापुत्रवदवभासत इति कश्चिदाचक्षीत । तस्माद्यथानुभवं तत्त्वमभ्युपगच्छद्भिर्बहिरेवावभासत इति युक्तमभ्युपगन्तुं न तु बहिर्वदवभासत इति" इति वाक्येन इवशब्दसमानार्थकवत्प्रत्ययशिरस्केन ‘बहिर्वत्’ इति पदेन बोध्यस्य वहिः पदार्थस्य सत्त्वमङ्गीकरणीयमित्युक्तम् । इवशब्दशिरस्केन ध्यायतीतिपदेन लेलायतीतिपदेन च उक्तयोः ध्यानचलन कर्तृत्वयोः सत्यत्वमेव सिध्यति इति ।
एवमेव ‘न चेद्वस्तु उपमानं कथं भवेत्' इति वाक्येन वार्तिककृतापि इवशब्दशिरस्क पदस्य पारमार्थिकवस्तुबोधकत्वमङ्गीकृतमिति ।
ध्यायतीव लेलायतीव इति वाक्येन ध्यानचलनक्रियाकर्तृत्वस्य मिथ्यात्वं कथ्यते इति तुष्यत्विति न्यायेनाङ्गीकारेऽपि 'आदित्येनैवायं ज्योतिषास्ते, पल्ययते, कर्म कुरुते विपल्येति' 'चन्द्रमसैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येति’ 'अग्निनैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येति' ‘वाचैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येति' ‘आत्मनैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येति' इति पूर्ववाक्यैः अनेककर्तृत्वादीनामुक्तेः । तथा - 'स समानस्सन्नुभौ लोकावनुसञ्चरति ' ‘स “स हि स्वप्नो भूत्वेमं लोकमतिक्रामति” इत्यस्मिन्नेव वाक्ये लोकसञ्चरण कर्तृत्वस्य स्वप्नभवनकर्तृत्वस्य लोकातिक्रमणकर्तृत्वस्य च उक्त्या ‘स वा अयं पुरुषो जायमानः शरीरमभिसम्पद्यमानः पाप्मभिः संसृज्यते, स उत्क्रामन् म्रियमाणः पाप्मनो विजहाति' इत्युत्तरवाक्ये चानेकेषामुत्पत्तिकर्तृत्वादीनामुक्तेः ।
तथा-‘यत्कर्म कुरुते’ तदभिसम्पद्यते' 'यजेत' 'दद्यात्’ इत्याद्यनन्त- वेदसूत्रगीताप्रमाणैः जीवस्य अनन्तकर्तृत्वोक्तेः आत्मनः कर्तृत्वसामान्यमेव मिथ्येति कथनस्यायुक्तत्वात् । एवं इवशब्दः न निषेधार्थक इति इवशब्देन ध्यानचलनकर्तृत्वादीनां सत्यत्वं सिध्यति । बाधकसत्त्वे ध्यायतीवेति वाक्यसिद्धं सत्यत्वमपह्नियतां परन्तु मिथ्यात्वविषये एतद्वाक्योदाहरणमयुक्तम् । यथा रजतसत्यत्वग्राहकं इदं रजतमिति प्रत्यक्षं रजतमिथ्यात्वे न प्रमाणं भवितुमर्हति । तथा च प्रकृतकर्तृत्वादेः न किमपि बाधकमस्तीति जीवस्येश्वरस्य वा (परमात्मनो वा) कर्तृत्वं मिथ्या=असत् इति न वक्तव्यमिति ।
किञ्च ‘न हि विवेकिनां परस्मादन्यो जीवो नाम कर्ता भोक्ता वा विद्यते' इति शङ्कराचार्योक्तिरत्यन्तमयुक्ता । विकल्पासहत्वात् । (विकल्पे कृते यत्किञ्चित्पक्षस्यापि स्वीकर्तुमयोग्यत्वात्) तथा हि - विवेको हि भेदज्ञानम् । विवेकिनो हि भेदज्ञानवन्त: (भेदज्ञानकर्तारः) विवेकित्वं हि भेदज्ञानकर्तृत्वमिति । तथा च शङ्कराचार्या विवेकिनो वा अविवेकिनो वा ? न तावद्विवेकिन इति वक्तुं शक्यते । भेदज्ञानित्वप्राप्त्या अद्वैतित्वहानेः । नाप्यविवेकिनः (भेदज्ञानरहिताः) 'भेदव्यपदेशाच्च" 'भेदव्यपदेशाच्चान्यः ' ‘स्मृतेश्च’ ‘शारीरश्चोभयेऽपि हि भेदेनैनमधीयते' इत्यादिसूत्राणां, 'द्वासुपर्णा' इत्यादिश्रुतीनां ‘उत्तमः पुरुषस्त्वन्यः' इत्यादि गीतावाक्यानां च भेदार्थकथनायोगात् । न च मिथ्याभूतविवेकज्ञानित्वेन ( ज्ञानकर्तृत्वेन ) ‘भेदव्यपदेशाच्च’ इत्यादिसूत्रादीनां भेदबोधकतया व्याख्याकर्तृत्वं, वास्तवभेदज्ञानकर्तृत्वाभावेन (अविवेकित्वेन ) अद्वैतित्वमिति वाच्यम् । कर्तृत्वस्य सत्यत्वमिथ्यात्वविषये एव विचारस्य क्रियमाणत्वेन कर्तृत्वस्य मिथ्यात्वात् इति हेतूकरणायोगात् ।
'नान्योऽतोऽस्ति द्रष्टा' इति वाक्यं परमात्मनः धर्मादिवददृष्टत्वात् परमात्मनोऽन्यः परमात्मद्रष्टा नास्तीत्यर्थकत्वेन न द्रष्टृजीवनिषेधकम् इति बहुवारमुक्तत्वात् पुनरुक्तिभयान्नात्र विचार्यते ।
यच्चोक्तं ‘“परस्मादन्यश्चेच्चितिमान् जीवः कर्ता बुद्ध्यादिसङ्घातव्यतिरिक्तो न स्यात्, पर एव तर्हि संसारी कर्ता भोक्ता च प्रसज्येत” इत्याशङ्क्य, “न, अविद्याप्रत्युपस्थापितत्वात् कर्तृत्वभोक्तृत्वयोः” इति । तदसमञ्जसम् । इदानीं कर्तृत्वभोक्तृत्वे मिथ्याभूते सत्ये वा इति सन्देहे कर्तृत्वभोक्तृत्वे सत्यभूते इति पूर्वपक्षे च मिथ्यात्वसाधनार्थं प्रवृत्तेन त्वया कर्तृत्वभोक्तृत्वयोः अविद्याप्रत्युपस्थापितत्वात् (मिथ्यात्वात्) इति सन्दिग्धस्यैव हेतूकरणा- योगात् । पर्वतो वह्निमान्न वेति सन्देहदशायां वह्निमत्त्वसाधनाय पर्वतो वह्निमानेव वह्निमत्त्वात् इति वह्निमत्त्वस्य हेतूकरणस्येवेति ।
तथा कर्तृत्वभोक्तृत्वयोः अविद्याप्रत्युपस्थापितत्वविषये यच्चोक्तं "तथा च शास्त्रम्-‘यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति' (बृ.२.४.१४) इत्यविद्यावस्थायां कर्तृत्वभोक्तृत्वे दर्शयित्वा विद्यावस्थायां ते एव कर्तृत्वभोक्तृत्वे निवारयति ‘यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत्' (बृ.२.४.१४) इति” । तत्तुच्छम् । 'यत्र हि द्वैतमिव भवति' इति वाक्यं कर्तृत्वभोक्तृत्वादिरूपस्य द्वैतस्य इवशब्देन पारमार्थिकत्व (सत्यत्व) मेव वक्तीति शङ्काचार्यैरेवोक्तत्वात् मिथ्यात्वविषये तदुदाहरणस्यायुक्तत्वात् । न च ‘वाचारम्भणं विकारो नामधेयम्' इति श्रुत्यन्तरादिति वाक्येन कर्तृत्वादिद्वैतस्य मिथ्यत्वं साधितमिति वाच्यम् । वाचारम्भणमिति श्रुतेः द्वैतप्रपञ्चमिथ्यात्वप्रतिपादकत्वाभावस्य आरम्भणाधिकरणे उक्तत्वात् । तुष्यत्विति न्यायेन वाचारम्भणश्रुतेः मिथ्यात्वप्रतिपादकत्वमङ्गीकृत्य तया श्रुत्या द्वैतमिवेति श्रुतेः बाधे अङ्गीक्रियमाणेऽपि यथा इदं रजतमिति प्रत्यक्षस्य नेदं रजतमिति प्रत्यक्षेण बाधेऽपि रजतमिथ्यात्वसाधकत्वाभावेन न रजतमिथ्यात्वे उदाहरणीयत्वं तथा यत्र हि द्वैतमिव भवतीति वाक्यस्य न द्वैतमिथ्यात्वे उदाहरणीयत्वमिति ।
यत्र त्वस्य सर्वमात्मैवाभूदिति वाक्यं विद्यावस्थायां (मोक्षे ) कर्तृत्वभोक्तृत्वनिवारकं न भवति प्रत्युत कर्तृत्वादीनां सत्यत्वमेव साधयतीति तदनन्यत्वाधिकरणे उक्तं तत्रैवानुसन्धेयं पुनरुक्तिभयान्न लिख्यते ।
‘“तथा स्वप्नजागरितयोरात्मन उपाधिसम्पर्ककृतं श्रमं श्येनस्येवाकाशे विपरिपततः श्रावयित्वा तदभावं सुषुप्तौ प्राज्ञेनात्मना सम्परिष्वक्तस्य श्रावयति-'तद्वा अस्यैतदाप्तकाममात्मकाममकामं रूपं शोकान्तरं ' (बृ.४.३.२१) इत्यारभ्य 'एषास्य परमा गतिरेषास्य परमा सम्पदेषोऽस्य परमो लोक एषोऽस्य परम आनन्दः' (बृ.४.३.३२) इत्युपसंहारात्” इति वाक्येन उपाध्यभिभवोद्भवाभ्यां कर्तृत्वस्य अभिभवोद्भव श्रवणादपि कर्तृत्वस्यौपाधिकत्वं (मिथ्यात्वं) इति यदुक्तं तदयुक्तम्) ।
एवमेवायं पुरुषः प्राज्ञेनात्मना सम्परिष्वक्त इति वाक्यस्य जीवपरमात्मभेदबोधकत्वेन जीवस्य वेदनकर्तृत्वबोधकत्वेन च उपाधि प्रयुक्तत्वानुक्तेः । शङ्काचार्यैरपि ‘सुषुप्त्युत्क्रान्त्योर्भेदेन, (ब्र.सू.१.३.४२) इति सूत्रव्याख्यावसरे ‘प्राज्ञेनात्मना सम्परिष्वक्त:' इति वाक्यं 'सुषुप्तौ उत्क्रान्तौ च शारीराद्भेदेन परमेश्वरस्य व्यपदेशात् । सुषुप्तौ तावत् ‘अयं पुरुषः प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम्' (बृ.४.३.२१) इति शारीराद्भेदेन परमेश्वरं व्यपदिशति । तत्र पुरुषः शारीरः स्यात्तस्य वेदितृत्वात् बाह्याभ्यन्तरवेदनप्रसङ्गे सति तत्प्रतिषेधसम्भवात् । प्राज्ञः परमेश्वरः, सर्वज्ञत्वलक्षणया प्रज्ञया नित्यमवियोगात् । तथोत्क्रान्तावपि 'अयं शारीर आत्मा प्राज्ञेनात्मनाऽन्वारूढ उत्सर्जन्याति' (बृ.४.३.३५) इति जीवान परमेश्वरं व्यपदिशति । तत्रापि शारीरो जीवः स्याच्छरीरस्वामित्वात् । प्राज्ञस्तु स एव परमेश्वरः, तस्मात् सुषुप्त्युत्क्रान्त्योर्भेदेन व्यपदेशात्” इति वाक्येन स्पष्टं जीवपरमात्मनोर्भेदं तस्य जीवस्य वेदितृत्वरूपं च प्रतिपादयतीति स्वीकृतं, न तु जीवस्य निष्क्रियब्रह्मरूपत्वं स्वीकृत्य कर्तृत्वमुपाधिनिमित्तमित्युक्तम् । न च प्राज्ञेनात्मना सम्परिष्वक्तः' इति (बृ.४.३.२१) मन्त्रव्याख्याने शङ्कराचार्यैरेव “एकत्वमेवाज्ञानहेतुः तत्कथमिति । उच्यते । दृष्टान्तेन हि प्रत्यक्षीभवति विवक्षितोऽर्थ इत्याह तत्तत्र यथा लोके प्रिययेष्टया स्त्रिया संपरिष्वक्तः कामयन्त्या कामुकः सन्न बाह्यमात्मनः किञ्चन किञ्चिदपि वेद मत्तोऽन्यद्वस्त्विति न चान्तरमयमहमस्मि सुखी दुःखी वेति । अपरिष्वक्तस्तु तया प्रविभक्तो जानाति सर्वमेव बाह्यमाभ्यन्तरं च । परिष्वङ्गोत्तरकालं त्वेकत्वापत्तेर्न जानाति । ...सोऽयं पुरुषः प्राज्ञेन परमार्थेन स्वाभाविकेन स्वेनात्मना परेण ज्योतिषा सम्परिष्वक्तः सम्यक् परिष्वक्तः एकीभूतो निरन्तरः सर्वात्मा न बाह्यं किञ्चन वस्त्वन्तरं नाप्यान्तरमात्मन्ययमहमस्मि सुखी दुःखी वेति वेद । तत्र चैतन्यज्योतिस्स्वभावत्वे कस्मादिह न जानातीति यदप्राक्षीस्तत्रायं हेतुर्मयोक्त एकत्वं यथा स्त्रीपुंसयोः सम्परिष्वक्तयोः " इति वाक्येन जीवपरमात्मनोरैक्यं अर्थात् कर्तृत्वादेर्विरुद्धधर्मत्य मिथ्यात्वमप्युक्तमिति वाच्यम् । स्वव्याहतत्वात् । प्राज्ञेनात्मना सम्परिष्वक्त इति श्रुतिं स्वेनैव जीवपरमात्मनोर्भेदपरतया जीवस्य वेदनकर्तृत्वपरतया च व्याख्याय पुनरत्र जीवपरमात्मनोरभेदपरतया कर्तृत्वाभावपरतया व्याख्यानस्य तद्विरुद्धत्वात् । 'सुषुप्त्युत्क्रान्त्योर्भेदेन' इति सूत्रे स्पष्टं भेदस्य वर्णितत्वेन तद्विरोधाच्च ।
एतन्मंन्त्रव्याख्यानरूपभाष्यस्य शास्त्रीयज्ञानलौकिकज्ञानाभावसूचकत्वेन अत्यन्तं हेयत्वम् । तथा हि- 'अपरिष्वक्तस्तु तया प्रविभक्तो जानाति ' 'प्रियया स्त्रिया परिष्वङ्गोत्तरकालं एकत्वापत्तेर्न जानाति' इत्येतां शाङ्कोक्तिं श्रुत्वा युवानो युवत्यः बालकाः बालिका अपि सन्ति । स्त्रीपरिष्वंगकाले स्त्रीपुरुषयोरेकत्वं कस्यापि कस्या अपि नानुभवसिद्धम् । प्रत्युत अनुभवविरुद्धं च । एतद्दृष्टान्तेन पुरुषः स्वापकाले परमात्मना सम्परिष्वक्त एकीभूतः न जानातीति कथनमपहासास्पदम् । तस्मान्नेयं श्रुति: कर्तृत्वस्यौपाधिकत्वं वक्तीति ।
किञ्च कर्तृत्वस्य सत्त्वे अनिर्मोक्षः स्यादित्यादिकं सर्वमुत्सूत्रितम् । सूत्रे एतद्बोधकपदाभावात् इति स्पष्टं ज्ञात्वापि अज्ञजनमोहनार्थं ‘तदेतदाहाचार्यः ‘यथा च तक्षोभयथा' इति वाक्येन स्वोक्तार्थस्य सूत्रारूढताप्रदर्शनं नाटयति ।
“नैवं मन्तव्यं स्वाभाविकमेवात्मनः कर्तुत्वमग्नेरिवौष्ण्यमिति । यथा तु तक्षा लोके वास्यादिकरणहस्तः कर्ता दु:खी भवति, स एव स्वगृहं प्राप्तो विमुक्तवास्यादिकरणः स्वस्थो निर्वृतो निर्व्यापारः सुखी भवत्येव मविद्याप्रत्युपस्थापितद्वैतसम्पृक्त आत्मा स्वप्नजागरितावस्थयोः कर्ता दुःखी भवति । स तच्छ्रमापनुत्तये स्वमात्मानं परं ब्रह्म प्रविश्य विमुक्त- कार्यकरणसङ्घातोऽकर्ता सुखी भवति सम्प्रसादावस्थायाम् । तथा मुक्त्य- वस्थायामप्यविद्याध्वान्तं विद्यादीपेन विधूयात्मैव केवलो निर्वृतः सुखी भवति । तक्षदृष्टान्तश्चैतावतांशेन द्रष्टव्यः । तक्षा हि विशिष्टेषु तक्षणादिव्यापारेष्वपेक्ष्यैव प्रतिनियतानि करणानि वास्यादीनि कर्ता भवति । स्वशरीरेण त्वकर्तैव । एवमयमात्मा सर्वव्यापारेष्वपेक्ष्यैव मन आदीनि करणानि कर्ता भवति, स्वात्मना त्वकर्तैवेति । न त्वात्मनस्तक्ष्ण इवावयवाः सन्ति । यैर्हस्तादिभिरिव वास्यादीनि तक्षा मन आदीनि करणान्यात्मोपाददीत न्यस्येद्वा" इति वाक्येन 'तक्षदृष्टान्तश्चैतावतांशेन द्रष्टव्यः, यथा तक्षा हि विशिष्टेषु तक्षणादिषु व्यापारेष्वपेक्ष्यैव प्रतिनियतानि करणादीनि कर्ता भवति, स्वशरीरेण त्वकर्तेव । एवमयमात्माऽपि सर्वव्यापारेष्वपेक्ष्यैव मनआदीनि करणानि कर्ता भवति, स्वात्मना त्वकर्तैव' इति यदुक्तं तेन हि कर्तृत्वं मिथ्येति न सिध्यति । यथा हि तक्षा करणादिकारकाण्यपेक्ष्य कर्ता भवति तथा जीवोऽपि मनआदिकरण- कारकाण्यपेक्ष्य कर्ता भवतीति सिध्यति । क्रियायाः (कर्तृत्वस्य) “कर्ता कर्म च करणं संप्रदानं तथैव च । अपादानाधिकरणे इत्याहुः कारकाणि षट् ।।” इति षट्कारकसापेक्षत्वस्वभावत्वात् । नहि अन्यसापेक्षत्वमात्रेण कर्तृत्वं मिथ्या भवति । उक्तं हि शङ्कराचार्यैरेव –'उपलब्धिवदनियमः’ (ब्र.सू.२.३.३७) इति सूत्रभाष्ये- “न च सहायापेक्षस्य कर्तुः कर्तृत्वं निवर्तते ( मिथ्या भवति) भवति ह्येधोदकाद्यपेक्षस्यापि पक्तुः पक्तृत्वम्'' इति वाक्येन करणादीतरसापेक्षतामात्रेण कर्तृत्वं मिथ्या न भवतीति ।
यदा चैत्रः पचति, मैत्रः चैत्रं पाचयति तदा चैत्रस्य प्रयोज्यपाककर्तृत्वं मैत्रस्य प्रयोजककर्तृत्वम् । यदा तक्षा (चैत्र) तक्षति, गृहस्वामी तक्षयति तदा चैत्रस्य (तक्ष्णः) प्रयोज्यतक्षणकर्तृत्वं गृहस्वामिनः प्रयोजककर्तृत्वं दृष्टम् । एवमेव 'एष ह्येव साधु कर्म कारयति तं यमेम्यो लोकेभ्य उन्निनीषते, एष ह्येवासाधु कर्म कारयति तं यमधो निनीषते' (कौषी. ३.८) ‘य आत्मनि तिष्ठन्नात्मानमन्तरो यमयति' (बृ....) इति श्रुत्युक्तरीत्या जीवः कर्म करोति परमात्मा कारयतीति जीवः प्रयोज्यकर्ता, परमात्मा प्रयोजककर्ता (जीवस्य प्रयोज्यकर्तृत्वं ) इति यथा च तक्षोभयथा' इति सूत्रं वक्ति, न तु जीवकर्तृत्वस्य मिथ्यात्वमिति । तथा चास्य सूत्रस्य तथा शाङ्करव्याख्यानमयुक्तमेवेति ।
“कर्तृत्वादिप्रतिपादकानां श्रुत्यादीनां मिथ्याभूतानुवादकत्वमेव । कर्तृत्वबोधने तात्पर्यं नास्ति । जीवस्य हि सत्यभूतकर्तृत्ववोधने तात्पर्ये कर्तृत्वरहितादीश्वरात् भेदः स्यात् । भेदेऽङ्गीक्रियमाणे च ब्रह्मात्मत्वोपदेशः (जीवस्य ब्रह्मरूपत्वव्यपदेशः ) न स्यात् । तस्मात् मिथ्याभूतकर्तृत्वं स्वीकृत्यैव विधिशास्त्रं (ब्राह्मणादिवर्णब्रह्मचर्याद्याश्रमस्नानसन्ध्यायज्ञ-देवतावेदगङ्गादितीर्थस्वर्गवैकुण्ठादिलोककर्तृत्वभोक्तृत्वादिप्रतिपादकं शास्त्रं) प्रवर्तते । सर्वं मिथ्यैव । "न निरोधो न चोत्पत्तिर्नबद्धो न च साधकः । न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ।” इति कारिकायाः व्याख्याने द्वैतस्य शशविषाणगदसत्त्वादिति वदन्तशङ्कराचार्याः अप्रामाण्य (तत्प्रतिपाद्यानामसत्त्व) कथनेन वेदाप्रामाण्यवादिवौद्धवत् कण्ठतः वेदः अप्रमाणमित्यनुक्त्वा अर्थाद्वेदस्याप्रामाण्यं कथितवन्त इति न ते वैदिका: अतो न तैस्सह विवादः कार्यइति ।
ननु वयमवैदिका बौद्धा एव, तथाप्यस्माभिरुक्तदोषाणां निरासो युष्माभिः कार्यः (विवादः कार्यः) इति चेत् अवैदिकवौद्धमतदोषनिरास: 'नाभाव उपलब्धेः' इत्यादिसूत्र : बौद्धमतनिराकरणावसरे शङ्कराचार्यैरेव प्रदर्शित इति नास्माभिस्तन्मतनिराकरणाय प्रयतितव्यमिति ।
यदुक्तं “स्वप्नकाले आत्मनः विहारोपादानयोः कर्तृत्वं श्रुती गमयत इति जीवस्य कर्तृत्ववाचित्वं यदुक्तं तत् विहारोपादानकर्तृत्वं समनस्कस्यैव न तु केवलस्य जीवस्येति न ताभ्यां श्रुतिभ्यां जीवस्य कर्तृत्वसिद्धिः । ‘स हि स्वप्नो भूत्वेमं लोकमतिक्रामति' (बृ. ४.३.७) इति, 'इन्द्रियाणामुपरमे मनोऽनुपरतं यदि । सेवते विषयानेव तद्विद्यात्स्वप्नदर्शनम् ।।' (स्मृतिः) इत्यादिश्रुतिस्मृतिभ्यः” इति शङ्कराचार्यैः, तत् " न च सहायापेक्षस्य कर्तुः कर्तृत्वं निवर्तते" इत्यादिवाक्ये तैरेव मन आदिसहकारिसत्त्वमात्रैण कर्तृत्वनिवृत्त्यभावबोधनेन निराकृतम् ।
किञ्च ‘उतेव स्त्रीभिः सह मोदमानः जक्षदुतेव भयानि पश्यन्' (बृ.४.३.१३) इतीवकारानुवद्धमेव स्वप्नव्यापारं वर्णयति इति यदुक्तं तन्न । इवशब्दस्य मिथ्यार्थकत्वाभावात् । स्वप्ने सच्च असच्च पश्यति इति स्वप्ने सत्यपदार्थस्यापि दृष्टत्वोक्ते: स्वप्ने इवकाराननुवद्धानामपि बहूनामुक्तेः । विशेषविचारः पूर्वं कृतो द्रष्टव्यः ।
किश्च ‘“लौकिका अपि तथैव स्वप्नं कथयन्ति । आरुरुक्षुमिव गिरिशृङ्गमद्राक्षमित्र वनराजिम्' इति यदुक्तं तदप्यसमासम् ।स्ववाक्यविरुद्धत्वात् । स्वयमेव “नाभाव उपलब्धेः” (ब्र.सू.२.२.२८) इति बौद्धमतनिरासकसूत्रव्याख्याने “अतश्चेवमेव सर्वे लौकिकाः उपलभन्ते यत्प्रत्याचक्षाणा अपि बाह्यार्थं एवमेव व्याचक्षते यदन्तर्ज्ञेयरूपं तद्बहिर्वदवभासत’” इति इवकारसमानार्थकवत्कारानुबद्धपदार्थस्य सत्यत्वस्थापनात् । अत्र इवकारानुवद्धपदबोध्यत्वमात्रेण पदार्थानां मिथ्यात्वासिद्धेः ।
किश्च वयं नहि सर्वेषां स्वप्नपदार्थानां सत्यत्वं ब्रूमः, किन्तु अबाधितानामेव । यद्बाधितं तन्मिथ्या भवतु । केचन लौकिकाः स्वैः स्वप्ने दृष्टपदार्थानां बाधे तथा वदन्तु । नहि, सर्वे तथा वदन्ति इति नियमः ।
किञ्च ‘“विज्ञानं देवाः सर्वे ब्रह्म ज्येष्ठमुपासते" (तै.२.५.१) इति वाक्यं स्पष्टं सर्वे देवा: विज्ञानरूपं ज्येष्ठं ब्रह्म उपासते इति परब्रह्मोपासनाकर्तृत्वं जीवस्य वक्ति । तस्मात्कर्तृत्वमात्मनः स्वाभाविकं (सत्यमेव) न मिथ्या- (असत्) । कर्तृत्वस्यासत्त्वे ‘परात्तु तच्छ्रुतेः इत्युत्तरसूत्रे तस्येश्वराधीनत्वोक्तेरसङ्गत्यापत्तेः । न हि मिथ्याभूतो वन्ध्यासुतो वा शशविषाणं वा ईश्वराद्यधीनमिति कथ्यते इति ।
ॐ परात्तु तच्छ्रुतेः ॐ (२.३.४१)
" यत्.....कर्तृत्वं जीवस्याभिहितं तत्किमनपेक्ष्येश्वरं भवत्याहोस्विदीश्वरापेक्षमिति संशये जीवः कर्तृत्वे नेश्वरमपेक्षते इति पूर्वपक्षे ‘परात्तु तच्छतेः, अविद्यावस्थायां कार्यकारणसङ्घाताविवेकदर्शिनो जीवस्याविद्यातिमिरान्धस्य सतः परस्मादात्मनः कर्माध्यक्षात्सर्वभूताधिवासात् साक्षिणश्चेतयितुरीश्वरात्तदनुज्ञया कर्तृत्वभोक्तृत्वलक्षणस्य संसारस्य सिद्धिः,तदनुग्रहहेतुकेनैव च विज्ञानेन मोक्षसिद्धिर्भवितुमर्हति । कुतः तच्छ्रुतेः- 'एष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते । एष ह्येवासाधु कर्म कारयति, तं यमधो निनीषते' (कौषी. ३.८) 'य आत्मनि तिष्ठन्नात्मानमन्तरो यमयति' इत्यादिरूपायाः श्रुतेः । एतच्छ्रुतिषु सर्वप्रवृत्तिष्वपीश्वरो हेतुः कर्तेति प्रतिपाद्यत इति ।
एवमीश्वरस्य कारयितृत्वे वैषम्यनैर्घृण्ये स्याताम् । अकृताभ्यागमा जीवस्य स्यात् इत्याङ्कापरिहारार्थं प्रवृत्तस्य-
ॐ कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः ॐ (२.३.४२)
इति सूत्रस्य ‘“जीवकृतधर्माधर्मवैषम्यापेक्ष एवेश्वरः जीवानां शुभाशुभं विदधाति । न च जीवस्य परायत्ते कर्तृत्वे कृतप्रयत्नापेक्षत्वमेव नोपपद्यते इति वाच्यम् । यतः परायत्तेऽपि हि कर्तृत्वे करोत्येव जीवः, कुर्वन्तं हि तमीश्वरः कारयति अतः ।। अपि च पूर्वप्रयत्नमपेक्ष्येदानीं कारयति, पूर्वतरं च प्रयत्नमपेक्ष्य पूर्वमकारयत् इति अनादित्वात्संसारस्येत्यनवद्यम् इति ।
कृतप्रयत्नापेक्ष ईश्वरः शुभाशुभं ददातीति कुतः, विहितप्रतिषिद्धा- वैयर्थ्यादिभ्यः = एवं हि 'स्वर्गकामो यजेत' ' ब्राह्मणो न हन्तव्यः ' इत्येवंजातीयकस्य विहितस्य प्रतिषिद्धस्य च अवैयर्थ्यं भवति । अन्यथा तदनर्थकं स्यात् ।
तथा विहितकारिणमप्यनर्थेन संसृजेत्, प्रतिषिद्धकारिणमप्यर्थेन । ततश्च प्रामाण्यं वेदस्यास्तमियात्” इति व्याख्याने ईश्वरस्य श्रुत्यादिसिद्धं कर्माध्यक्षत्वं सर्वभूताधिवासत्वं साक्षित्वं चेतयितृत्वम् । ईश्वरानुज्ञया जीवस्य कर्तृत्वभोक्तृत्वलक्षणस्य संसारस्य सिद्धिः, तदनुग्रहहेतुकेनैव च ज्ञाने मोक्षसिद्धिः । ‘एष ह्येव साधु कर्म कारयति' 'य आत्मनि तिष्ठन्नात्मानमन्तरो यमयति' इत्यादिश्रुतिसिद्धं ईश्वरस्य हेतुकर्तृत्वम् । ‘स्वर्गकामो यजेत' इति विहितस्य, ब्राह्मणो न हन्तव्यः' इति प्रतिषिद्धस्य च ईश्वरो जीवकृतकर्मापेक्षया फलं ददातीति स्वीकारे अवैयर्थ्यं भवति । ईश्वरस्य जीवप्रयत्नापेक्षया फलदानाङ्गीकारे विहितप्रतिषेधबोधकशास्त्रस्य प्रामाण्यं भवति । अन्यथा अप्रामाण्यं स्यात्' इत्येवमादि यदुक्तं शङ्कराचार्यैः, तत्सर्वमास्तिकैः स्वीकरणीयत्वात् वेदादिप्रमाणसिद्धत्वाच्च आस्तिकत्वं गमयति । यच्च मध्ये मध्ये जीवस्य कर्तृत्वमविद्यावस्थायामुपाधिनिबन्धन (कल्पित) मित्युक्तिः 'न वेदा न यज्ञा न देवाः' ‘न शास्ता न शास्त्रं’ 'न पुण्यं न पापम्' इत्यादिना वेदस्य वेदप्रतिपाद्यस्य सर्वस्य, वेदप्रामाण्यस्य च असत्त्वोक्तिश्च
‘मायावादमसच्छास्त्रं प्रच्छन्नं बौद्धमुच्यते ।
मयैव कथितं देवि कलौ ब्राह्मणरूपिणा ||
परेशजीवयोरैक्यं …मायावादमवैदिकम्'
इत्यादिपुराणोत्त्यनुसारेण “द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च ।” “दैवी सम्पद्विमोक्षाय निवन्धायासुरी मता" "असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्” “ईश्वरोऽहं” “इत्यज्ञानविमोहिताः” ‘“आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्" इत्यादिगीतोक्तरीत्या आसुराः 'ईश्वरोऽहं ' ' जगन्मिथ्या' इत्यादितामसज्ञानं संपाद्य तमः प्राप्नुयुरिति परमात्माज्ञानुसारेण बौद्धमतरूपमद्वैतमतं शङ्कराचार्याः प्रसारयामासुरिति गमयति इति किं पुनः पुनः कथनेन । एवं च 'परात्तु तच्छ्रुतेः' 'कृतप्रयत्नापेक्षस्तु विहित- प्रतिषिद्धावैयर्थ्यादिभ्यः' इति सूत्रे तद्गृहीतश्रुतयश्च जीवब्रह्मणोर्भेदं, जीवस्य कर्तृत्वं, परमात्मनः कारयितृत्वमीश्वरस्य बन्धमोक्षदातृत्वं, वेदस्य प्रामाण्यमित्यादीन् द्वैतमतसिद्धानेव विषयान् प्रतिपादयन्तीति द्वैतिनामनुकूलाः अद्वैतिनां प्रतिकूला एवेति ।