ॐ अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॐ
ॐ अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॐ (२.३.४३)
इति सूत्रस्य उपकार्योपकारकभावः सम्बद्धयोरेव । स च सम्बन्धः स्वामिभृत्ययोरीशित्रीशितव्यत्वरूपः अग्निविस्फुलिङ्गयोरंशांशित्वरूपो दृष्टः । प्रकृते च जीवेश्वरयोः उक्तोपकार्योपकारकभावप्रयोजकसम्बन्धः नियामका- भावेन स्वामिभृत्यवत् ईशित्रीशितव्यभावरूपो वा अग्निविष्फुलिङ्गवत् अंशांशित्वरूपो वा इति संदेहे अथवा स्वामिभृत्यप्रकारेष्वेवेशित्रीशितव्यभावस्य प्रसिद्धत्वात् ईशित्रीशितव्यभाव एव सम्बन्ध इति पूर्वपक्षे वा प्राप्ते-जीवः अंश := ईश्वरांश: भवितुमर्हति अग्नेर्विस्फुलिङ्ग इव । कुतः नानाव्यपदेशात् ‘सोऽन्वेष्टव्यः स विजिज्ञासितव्यः' (छां.८-७-१) ‘एतमेव विदित्वा मुनिर्भवति' 'य आत्मनि तिष्ठन्नात्मानमन्तरो यमयति' इति चैवं जातीयकभेदनिर्देशस्य असति भेदे अयोगात् । एतदुपरि नानाव्यपेदेशः स्वामिभृत्यसारूप्ये (ईशित्रीशितव्यत्वे ) युज्यते इति कथं अंशित्वसाधकं भवेदित्याशङ्क्य, न केवलं वयं नानाव्यपदेशेन अंशत्वं साधयामः, किन्तु 'ब्रह्मदाशा ब्रह्मदासा ब्रह्मकितवा : ' 'त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी । त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः' (श्वे.४.३) इति 'सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाऽभिवदन्यदास्ते' इति च । 'नान्योऽतोऽस्ति द्रष्टा' इत्यादिब्रह्माभेद (ब्रह्मात्मत्व) बोधकश्रुतेश्चेति । तथा च भेदाभेदबोधकश्रुतिबलात् जीवः ब्रह्मांशः अंशसदृशः (अंशो यथा अभिन्नः तथा अभिन्नः ) इति सिध्यति । तथा जीवो ब्रह्मैव चेतनत्वात् ब्रह्मवदित्यनुमानेन च ब्रह्माभिन्नत्व- रूपब्रह्मांशसादृश्यसिद्धिरिति यत्तूक्तम्, तत्र “य आत्मनि तिष्ठन् " “सोऽन्वेष्टव्यः स विजिज्ञासितव्य : ” “ एतमेव विदित्वा मुनिर्भवति" इत्येवञ्जातीयको जीवब्रह्मणोर्भेदनिर्देशः नासति भेदे युज्यते इति वाक्येन जीवब्रह्मणोर्यद्भेदकथनं तद्युक्तमेव । परन्तु जीवब्रह्मणोरभेदकथनमयुक्तम् । न च ‘ब्रह्मदाशा ब्रह्मदासा ब्रह्म कितवा: ' ' त्वं स्त्री पुमानसि त्वं कुमार उत वा कुमारी त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः' (श्वे.४-३) 'सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाऽभिवदन्यदास्ते' (तै. व्रा.) 'नान्योऽतोऽस्ति द्रष्टा' (बृ.४.७.२३) इत्यादिश्रुतिभिः ब्रह्मणो जीवेनाभेदोऽप्युक्त इति वाच्यम् । एतच्छ्रुतीनां जीवब्रह्मणोरभेदबोधकत्वासम्भवात् । तथा हि- 'ब्रह्मदाशा' इति श्रुतिगतब्रह्मशब्दवोध्येन ‘अथ कस्मादुच्यते ब्रह्मेति बृंहति बृंहयति च' इति श्रुतिसिद्धबृंहणादिगुणविशिष्टेन ब्रह्मणा, दास दाश कितव पदवोध्यानां विशिष्टानां जीवानां च विरुद्धधर्मवत्त्वेन ऐक्यासम्भवात् । विशिष्टयोरभेदस्य अद्वैतिभिरनङ्गीकृतत्वाच्च । न च मुख्यवृत्त्या ब्रह्मदासादिपदबोध्यानां विशिष्टानामैक्यासम्भवेऽपि लक्षणया बोध्यानां शुद्धचितामैक्यं सम्भवतीति वाच्यम् ।
(१) मुख्यार्थसम्भवे लक्षणावृत्त्या बोध्यतया स्वीक्रियमाणस्यार्थस्य इतरप्रमाणानुकूलतायाः प्रमाणान्तराविरोधस्य चावश्यकत्वेन प्रकृते अभेदबोधकप्रमाणस्यैवाभावेन ऐक्यरूपस्यार्थस्येतरप्रमाणानुकूल्याभावेन प्रत्युत इतरप्रमाणविरुद्धत्वेन च लक्षणया ऐक्यबोधकत्वाङ्गीकारायोगात् ।
(२) लक्षणावृत्त्या बोधनीयस्यार्थस्य पूर्वं ज्ञातत्वस्यावश्यकत्वेन अद्वैतिभिरज्ञेयत्वेनाङ्गीकृतायाश्चितः पूर्वं ज्ञानस्यैवाभावाल्लक्षणावृत्त्या चिद्बोधस्यानुपपत्तेः ।
(३) शक्यसम्बन्धवत एव लक्षणया बोध्यमानत्वेन अद्वैतिभिः ‘असङ्गो ह्ययं पुरुष:' इति श्रुत्या असङ्गतया अङ्गीकृतायां चिति शक्य- सम्बन्धस्यैवायोगेन लक्षणावृत्त्या चितो बोधासम्भवाच्च ।
(४) अभेदसम्बन्धावच्छिन्नतद्धर्मावच्छिन्नप्रकारतानिरूपितविशेष्यता- वच्छेदकतासम्बन्धेन शाब्दबोधं प्रति तद्धर्मभेदस्य कारणतया घटो घट इति वाक्यात् घटे घटस्याभेदसम्बन्धेन शाब्दबोधाजननवत् चितश्चिति अभेदसम्बन्धेन भानासम्भवाच्च ।
(५) चित् चिन्नेति विपर्ययस्य चित् चिन्न वेति संशयस्य वा कस्याप्यभावेन चित् चिदेवेति ज्ञातत्वेन च 'चित् चिदसि' इति कथने कारणाभावात् ।
(६) चितश्चिदभेदवोधनेऽपि जीवब्रह्मणोरैक्यासिद्धेः ।
(७) 'तत्त्वमसी' त्यादिवाक्यानामद्वैतमतरीत्या अखण्डार्थबोधकत्व- स्वीकारेण चिदित्येव बोधनेन चितश्चिदभेदासिद्धेः ।
(८) "ज्ञानं च तस्मिन् परात्मभावनिवृत्तिरेव.... स्वाभाविको यः स केवलो भवतीत्यात्मा ज्ञायत इत्युच्यते " इति (बृ.४.४.२०) शाङ्करभाष्येण, ‘‘परस्मिन् देहादावात्मभावस्यारोपितस्य निवृत्तिरेव वाक्येन क्रियते, तथाचात्मनि परिशिष्टे स्वाभाविकमेव स्फुरणं प्रतिबन्धविगमात्प्रकटीभवतीति भावः" इत्यानन्दगिरिवाक्येन, “अविद्या- निवृत्तिफलदर्शनात्” (ब्र.शां.भा.२.१.१४) इति भाष्यभामत्या ‘नहीयमुत्पन्ना सती पश्चादविद्यां निवर्तयति येन नान्त्या स्यात् । किंत्वविद्याविरोधिस्वभावतया तन्निवृत्त्यात्मैवोदयते' इति वाक्येन, ‘“महावाक्याद्यद्विषयकं ज्ञानं भवति तद्ब्रह्मेति न वयं प्रतिपादयामः, किं तु महावाक्याद्यज्ज्ञानं भवति तज्ज्ञानमेव ब्रह्मेति । .... न च महावाक्याज्जायमानं ज्ञानमेव ब्रह्मेत्युक्तम् । तथा सति ज्ञानरूपस्य ब्रह्मण उत्पत्तिः स्वीकार्या स्यादिति वाच्यम् । तज्ज्ञानं नैव जायते, किन्तु तदानीं केवलं तदावरकाज्ञाननिरास एव जायते । तन्मूलक एव तदानीं ज्ञानं जायत इति व्यवहार : " इति सिद्धान्तविन्दुटीकावाक्येन च तत्त्वमस्यादिमहावाक्यानामद्वैतिभिर्वोधकत्वमेव नाङ्गीक्रियते, इत्यवगमेन तेषामभेदबोधकत्वस्य दूरोत्सारितत्वाच्च । तथा च 'तत्त्वमसि' ‘ब्रह्मदाशाः’ इत्यादि वाक्य जातं जीवानां ब्रह्म त्वामाह त्युक्तिरयुक्तैव । तथा “त्वं स्त्री त्वं पुमानसि’” इत्यादिवाक्येनापि पूर्वोक्तरीत्या विशिष्टयोरैक्यायोगेन त्वं शब्दवाच्यविशिष्टब्रह्मणः स्त्र्यादिशब्दवाच्यविशिष्टजीवैरैक्यासिद्धेः । समुद्रमथनादिकाले परमात्मन एव स्त्र्यादिरूपत्वोक्तेश्च नेदमपि वाक्यं जीवब्रह्मणोरैक्यबोधकम् ।
अभेदभ्रामकसामानाधिधकरण्यादिरहितायाः प्रत्युत स्पष्टं कार्यकारणभावेन भेदबोधिकायाः “सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाऽभिवदन्यदास्ते” इति श्रुतेरभेदविषये उदाहरणं तु अतीव मौढ्यज्ञापकम् ।
धीरः=परमात्मा, सर्वाणि रूपाणि=रूपात्मकं (अर्थात्मकं ) प्रपचं विचित्य=सृष्ट्वा, नामानि=नामात्मकप्रपञ्चं च कृत्वा = निर्माय, व्यवहरन् वर्तते, तं विद्वानमृतो भवति' इत्यर्थबोधिकया 'सर्वाणि रूपाणी' तिश्रुत्या नामरूपात्मकप्रपञ्चकारणत्वेन ज्ञातृज्ञेयभावेन च जीवब्रह्मणोर्भेदस्यैव बोधनात् । न च रूपात्मकप्रपञ्चं सृष्ट्वा तत्र प्रविश्यास्ते इति प्रवेशोत्त्या ऐक्यसिद्धिरिति वाच्यम् । एतस्यां श्रुतौ प्रवेशबोधकपदाभावात् । प्रवेशबोधनेऽपि प्रवेष्टृप्रवेश्ययोर्भेदस्यावश्यकत्वाच्च ।
" नान्योऽतोऽस्ति दृष्टा" इति वाक्यस्यापि " अदृष्टो द्रष्टा " इति पूर्ववाक्येन परमात्मा इतरकर्तृकदर्शनायोग्यः स्वयं द्रष्टा इत्युक्तत्वेन ‘‘अतः=इतरकर्तृकदर्शनायोग्यत्वात् स्वयं द्रष्टृत्वात्, अन्यः परमात्मनोऽन्यः, द्रष्टा=परमात्मद्रष्टा नास्ति" इति परमात्मकर्मकदर्शनकर्ता नास्तीत्यर्थकतया सामान्यतो दर्शनकर्तैव नास्तीति नार्थः इत्येतयापि श्रुत्या ब्रह्मान्य- जीवनिषेधाकरणेन ऐक्यासिद्धेः । सामान्यतो द्रष्टुरेव निषेधे परमात्मान्य- द्रष्टृवोधकानां “आत्मा वाऽरे द्रष्टव्यः श्रोतव्यो मन्तव्यः” इत्यादिवाक्यानाम- प्रामाण्यापत्तेः । नचाद्वैतमते व्यावहारिकद्रष्टृत्वस्वीकारात् तत्पराणि तद्वाक्यानीति वाच्यम् । 'नान्योऽतोऽस्ति द्रष्टा' इति सामान्यतो द्रष्टा नास्तीति द्रष्टृत्वावच्छिन्नस्य निषेधानुपपत्तेः । विशेषविचारः पूर्वमेव कृतस्तत्र द्रष्टव्यः ।
“चैतन्यं चाविशिष्टं” इत्यादिवाक्येन जीवः ब्रह्मैव चेतनत्वात् ब्रह्मवत्’ इत्यनुमानं यत्सूचितं तदप्ययुक्तम् । ‘जीवोऽचेतनः पदार्थत्वाद्घटवत्’ 'अन्नं पुरीषं पदार्थत्वात्पुरीषवत्' इत्याद्याभाससमानयोगक्षेमत्वेन अप्रयोजकतया निर्धर्मके अद्वैत्यभिमते ब्रह्मणि चेतनत्वस्याभावेन दृष्टान्ते साधनवैकल्येन च असाधकत्वात् ।
तथा च जीवब्रह्मणोर्भेदस्य प्रमाणसिद्धत्वेऽपि अभेदे प्रमाणाभावात् भेदाभेदावगमरूपहेत्वसिद्धेर्भेदाभेदावगमाभ्यामंशत्वसिद्धिरित्येतदयुक्तम् ।
किं चेदं शङ्कराचार्यैः साध्यमानमंशत्वं न तावत् अग्नेर्विष्फुलिङ्गवदवयवत्वं (एकदेशत्वं) निरवयवस्य ब्रह्मणो जीवो मुख्योंऽशो न भवति इति शङ्कराचार्यैरेव भाष्ये निराकृतत्वात् । नापि जीवो ब्रह्मांश इव तत्तन्त्रतया न त्वंश इति भामत्युक्तरीत्या अंशत्वम् । तत्तन्त्रत्वे पर्यवसितमंश- सादृश्यरूपम् । तदधीनत्वरूपतत्तन्त्रतायाः भेदव्याप्तत्वेन भेदव्याप्ततत्तन्त्रत्व- रूपांशत्वसाधनार्थमभेदव्यपदेशस्य हेतूकरणायोगात् ।
ॐ मन्त्रवर्णाच्च ॐ (२.३.४४)
इति सूत्रस्य “मन्त्रवर्णश्चैतमर्थमवगमयति- 'तावानस्य महिमा' ततो ज्यायांश्च पुरुषः । पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि' ।। (छां.३-१२-६) इति । अत्र भूतशब्देन जीवप्रधानानि स्थावरजङ्गमानि निर्दिशति । ‘अहिंसन् सर्वभूतान्यन्यत्र तीर्थेभ्यः' इति प्रयोगात् अंशः पादो भाग इत्यनर्थान्तरम् । तस्मादप्यंशत्वावगमः” इति यच्छञ्कराचार्याणां व्याख्यानं तद्युक्तमेव । स्वयमेव अंश इति पदस्य ‘अंश इवांशः नहि निरवयवस्य मुख्योंऽशः सम्भवति । कस्मात्पुनर्निरवयवत्वात् स एव न भवति' इति वाक्येन निरवयवस्य ब्रह्मणो विष्फुलिङ्गादिवत् मुख्यांशत्वा- सम्भवेन अंशसदृश इति व्याख्यातत्त्वेन भेदस्यैव सिद्धेः । परन्तु अद्वैत्यभिमताभेदपर्यवसाय्यंशत्वे 'मन्त्रवर्णादि ति सूत्रस्य 'पादोऽस्य विश्वा भूतानि' इति मन्त्रवर्णस्य च (वेदस्य) उदाहरणमयुक्तम् ।
ॐ अपि स्मर्यते ॐ (२.३.४५)
"ईश्वरगीतास्वपि चेश्वरांशत्वं जीवस्य स्मर्यते:- 'ममैवांशो जीवलोके जीवभूतस्सनातनः' (गी. १५ - ७ ) इति । तस्मादप्यंशत्वावगमः” इति व्याख्यानमपि पूर्वसूत्रवदेव अंशसादृश्यं वक्ति, न तु मुख्यांशत्वम- भेदपर्यवसन्नमित्यद्वैतिनामननुकलमेव ।
यत्तूक्तं “स्वामिभृत्यादिष्वेवेशित्रीशितव्यभावो लोके प्रसिद्धः” इति वाक्येन अत्यन्तभिन्नेषु अनंशिषु ईशित्रीशितव्यभावप्रसिद्धेः, ब्रह्माभिन्नस्य अत एवांशिनो जीवस्य कथमीशितव्यत्वमित्याशङ्क्य, 'यद्यप्येषा लोके प्रसिद्धिस्तथापि शास्त्रात्त्वत्रांशांशित्वमीशित्रीशितव्यभावश्च निश्चीयते' इति वाक्येन यद्यपि ईशित्रीशितव्यत्वं भिन्नयोरेव न त्वभिन्नयो:, तथाप्यनन्यथासिद्धाभेदशास्त्रवलात् कल्पितभेदेन ईशित्रीशितव्यभावोपपादनं कार्यमिति यत्समाधानमभिहितं न तत्समंजसम् । पूर्वोक्तरीत्या अभेदग्राहक प्रमाणाभावेन ( अभेदं विनानुपपद्यमानशास्त्रस्यैवाभावेन) जीवब्रह्माभेदस्य वन्ध्यासुतोपमितत्वेन तादृशवन्ध्यासुतसदृशाभेदनिर्वाहाय प्रामाणिकस्य (अनेकश्रुतिसूत्रगीताप्रमाणैः सिद्धस्य ) श्रुत्यादिसिद्धत्वेन स्वेनैव (शङ्कराचार्यैः) स्वीकृतस्य ईशित्रीशितव्यभावस्य भेदस्य च कल्पितत्वाङ्गीकरणस्य तथा भेदादिबोधकश्रुत्यादीनामविद्यमानार्थ (कल्पितार्थ) प्रतिपादकत्वरूपाप्रामाण्याङ्गीकरणस्य च वैदिकैः स्वीकर्तुमशक्यत्वात् । तथा स्वीकारे बौद्धत्वप्राप्तेः ।
यच्चोक्तं “औपाधिके (कल्पिते) ईश्वरस्य नियन्तृत्वे जीव एवेश्वरनियन्ता किं न स्यात्, ईश्वरनियन्तृत्वस्यापि जीवे कल्पनासम्भवादित्याशङ्क्य, निरतिशयोपाधिसंपन्नश्वेश्वरो निहीनोपाधिसंपन्नान् जीवान् प्रशास्तीति न किञ्चिद्विप्रतिषिध्यते" इति वाक्येन ईश्वरोपाधिर्निरतिशय:, जीवोपाधिर्निहीनः (नितरां हीन : ) इति निहीनोपाधिसंपन्नजीवनियन्तृत्वं निरतिशयोपाधिसंपन्नस्येश्वरस्य सम्भवति न तु निरतिशयोपाधि- संपन्नेश्वरनियन्तृत्वं, निहीनोपाधिसम्बद्धस्य जीवस्य सम्भवति इति, तदप्यसाधु । अद्वैतिभिर्जीवेश्वरयोः संबद्धतयाऽङ्गीक्रियमाणयोरुपाध्योः कल्पितत्वेन तयोर्निरतिशयत्वनिहीनत्वायोगात् । कल्पितोपाध्योस्तयोः कल्पितनिरतिशयत्वहीनत्वयो इशशविषाणवदसत्त्वेन तादृशयो- रुपाध्योर्नियन्तृत्वनियम्यत्वप्रयोजकत्वासम्भवाच्च ।
ननु जीवस्येश्वरांशत्वाभ्युपगमे तदीयेन संसारदुःखोपभोगेनांशिन ईश्वरस्यापि दुःखित्वं स्यात् । यथा लोके हस्तपादाद्यन्यतमाङ्गगतेन दुःखेनांशिनो देवदत्तस्य दुःखित्वं तद्वत् । (ईश्वरः स्वांशदुःखैः दुःखी आंर्शत्वाद्देव दत्तवत् इति) ततो वरं पूर्वावस्थ: संसार एवास्तु इति सम्यग्दर्शनानर्थप्रसङ्गः इत्याशङ्कय तदुत्तरतया,
ॐ प्रकाशादिवन्नैवं परः ॐ ( २.३.४६)
इति सूत्रमवतार्य तस्य सूत्रस्य “परः=ईश्वरः नैवं=यथा जीवः संसारमनुभवति तथेश्वरः संसारं नानुभवति । जीवो ह्यविद्यावेशवशात् देहाद्यात्मभावमिव गत्वा तत्कृतेन दुःखेन दुःखी अहमित्यविद्यया कृतं दुःखोपभोगमभिमन्यते । नैवं परमेश्वरस्य देहाद्यात्मभावो दुःखाभिमानो वाऽस्ति । जीवस्याप्यविद्याकृतनामरूपनिर्वृत्तदेहेन्द्रियाद्युपाध्यविवेक- भ्रमनिमित्त एव दुःखाभिमानो न तु पारमार्थिकोऽस्ति....तस्मान्नास्ति सम्यग्दर्शनस्यानर्थक्यप्रसङ्गः" इति वाक्येन अंशिनो देवदत्तस्य अंशगत- सुखदुःखानुसन्धाने भ्रान्तिकामकर्मरूपदुःखसामग्रीमत्त्वं प्रयोजकं न त्वंशित्वं प्रयोजकम् । ब्रह्मणि चांशिनिभ्रान्तिकामकर्मरूपदुःख- सामग्रीमत्त्वस्याभावात् नांशगतदुःखादिप्राप्तिः । तथा च ‘ईश्वरः स्वांशगत दुःखैर्दुःखी अंशित्वाद्देवदत्तवत्' इत्यनुमानस्य भ्रान्तिकामकर्मरूपदुःख- सामग्रीमत्त्वरूपोपाधियुक्तत्वेन दुष्टत्वान्नांशगतदुःखवत्त्वस्य अंशिनि परमेश्वरे सिद्धिरिति यद्व्याख्यानं तदत्यन्तमयुक्तम् ।
तथाहि— अद्वैतमते एकस्यैव ब्रह्मणः सत्त्वात् तदतिरिक्तजीवादिवस्त्व- भावात्, जीवस्य दुःखादिप्रसक्तेरेवाभावेन परमेश्वरस्य दुःखादिमत्त्वशङ्केव नोदेतीति तत्परिहारस्यानावश्यकत्वात् ।
नचोपाधिकल्पितभेदाज्जीवस्य दुःखादिप्रसक्तिरिति अंशिनः परमेश्वरस्यापि दुःखादिमत्त्वप्रसक्तिरिति वाच्यम् । ब्रह्मातिरिक्तस्य सर्वस्यासत्त्वं वदतामद्वैतिनां मते उपाधिर्नास्ति, तत्प्रयुक्तभ्रमो नास्ति, भ्रमविषयो भेदो नास्ति, अंशत्वं नास्ति, दुःखादिकं नास्ति इतीश्वरस्य दुःखादिमत्त्वप्रसञ्जकाभावेन ईश्वरस्य दुःखादिमत्त्वशङ्काया एवानुदयात् ।
जीवस्य भ्रान्तिकामकर्मरूपदुःखसामग्रीमत्वात् दुःखवत्त्वं ईश्वरस्य तदभावान्न दुःखादिमत्त्वमिति समाधानं चायुक्तम् । असतां भ्रान्तिकामकर्मणां दुःखकारणत्वासम्भवात् । नहि असत् शशविषाणं कस्यापि कारणं भवितुमर्हति । असतां भ्रान्तिकामकर्मणां दुःखादिकारणत्वे ईश्वरस्यापि दुःखादिकारणत्वं स्यात् । असत्त्वाविशेषात् । न च जीवे भ्रान्तिकामकर्मणामारोपितत्वेन दुःखादिकारणत्वं सम्भवतीति वाच्यम् । ब्रह्मण्यपि भ्रान्तिकामकर्मणां दुःखकारणानामारोपसम्भवात् । न हि जीवे आरोपे ब्रह्मण्यारोपाभावे विशेषकारणं पश्यामः । अद्वैतमते मायाया मायिकभ्रमादेश्चानुपपन्नतायाः भूषणत्वाङ्गीकारेण अनुपपन्नताया भ्रम- विघटकत्वासम्भवादिति ।
जीवस्याप्यविद्याकृतनामरूपनिर्वृत्तदेहेन्द्रियाद्युपाध्यविवेकभ्रमनिमित्त एव दुःखाभिमानो न तु पारमार्थिकोऽस्ति । यथा च स्वदेहगतदाहच्छेदादि- निमित्तं दुःखं तदभिमानभ्रान्त्याऽनुभवति, तथा पुत्रमित्रादिगोचरमपि दुःखं तदभिमानभ्रान्त्यैवानुभवत्यहमेव पुत्रोऽहमेव मित्रमित्येवं स्नेहवशेनपुत्र- मित्रादिष्वभिनिविशमानः । ततश्च निश्चितमेतदवगम्यते । मिथ्याभिमान- भ्रमनिमित्त एव दुःखानुभव इति यदुक्तं तत्तुच्छम् । अद्वितीयस्यासङ्गस्य ब्रह्मणः अविद्याद्युपाधिसम्बन्धायोगेन तदतिरिक्तवस्तुनः भ्रान्त्याश्रयस्याभावेन देहाद्यभेदभ्रमस्यायोगात् । ‘मम देहः मम चक्षुः' इत्यादिभेदज्ञानस्य पशुपक्ष्यादीनामपि विद्यमानत्वेन देहेन्द्रियादिषु ' अहं देहः, अहं चक्षुः, अहं पुत्रः अहं मित्रमित्याद्यविवेकस्यैवायोगात् । गृहाश्वादिषु नष्टेषु तथा स्वीयत्वाभिमानात् दुःखादि, तथा देहेन्द्रियपुत्रमित्रादिषु स्त्रीयत्वाभिमाननिमित्तमेव दुःखादिकं, न तु देहेन्द्रियादिषु अभेदाभिमाननिमित्तकम् । नहि गृहमेव अहं, अश्व एवाहमिति अभेदभ्रान्त्या गृहाश्वादिषु नष्टेषु दुःखाद्यनुभवितारो दृष्टाः इति ।
यच्चोक्तं “यथा चोदशरावादिकम्पनात् तद्गते सूर्यप्रतिविम्वे कम्पमानेऽपि न तद्वान् सूर्यः कम्पते, एवं अविद्याप्रत्युपस्थापिते बुद्ध्याद्युपहिते जीवाख्येऽशे दुः खायमानेऽपि न तद्वानीश्वरो: दुःखायते । जीवस्यापि तु दु:ख- प्राप्तिरविद्यानिमित्तैवेत्युक्तम् । तथा च विद्यानिमित्तजीवभावव्युदासेन ब्रह्मभावमेव जीवस्य प्रतिपादयन्ति वेदान्ताः 'तत्त्वमसि' इत्येवमादयः । तस्मान्नास्ति जैवेन दुःखेन परमात्मनो दुःखित्वप्रसङ्ग,” इति, तत्तुच्छम् । विम्बप्रतिबिम्बयोर्भेदात् प्रतिविम्वस्य चलनेऽपि विम्बचलनप्रसक्तेरेवाभावात् । तद्वत् जीवब्रह्मणोरैक्ये प्रमाणाभावेन भेदे प्रमाणसत्त्वेन च जीव- ब्रह्मणोर्भेदाज्जीवस्य दुःखित्वेऽपि ईश्वरस्य दुःखप्रसक्तेरेवाभावेन जीवदुःखादेर्भ्रान्तिकल्पितत्वकथने कारणाभावात् भ्रान्तिकल्पितत्वायोगाच्च ।
तत्त्वमसीत्यादयः जीवस्याविद्यानिमित्तजीवभावव्युदासेन ब्रह्मभाव- प्रतिपादिका न भवन्तीति अद्वैतिभिरेवोक्तमिति पुनः पुनस्तत्त्वमसीत्यादय ऐक्यप्रतिपादकाः इत्युक्तिरयुक्तैवेति ।
ॐ स्मरन्ति च ॐ (२.३.४७)
'स्मरन्ति' इति शब्देन “ तत्र यः परमात्मा हि स नित्यो निर्गुणः स्मृतः । न लिप्यते फलैश्चापि पद्मपत्रमिवांभसा ।। कर्मात्मा त्वपरो योऽसौ मोक्षबन्धैः स युज्यते । स सप्तदशकेनापि राशिना युज्यते पुनः ।।” इति व्यासादिस्मृतिं चशब्देन, “तयोरन्य: पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति” (श्वे.४-६) “एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः” (कठ.५ - ११ ) इति श्रुती च गृहीत्वा जैबेन दुःखेन परमात्मा न दुःखायते” इति यद्व्याख्यानं शङ्कराचार्याणां तद्वैतमतानुकूलं अद्वैतमतनिरासकतया अद्वैतिनामननुकूलमेव । तथाहि-
" द्वा सुपर्णा' इति श्रुतौ 'अन्यः अन्यः' इति पदाभ्याम् अशनानशनरूपविरुद्धधर्माभ्यां च भेदस्य कथनेन शङ्कराचार्यैरपि 'द्वा सुपर्णेति श्रुतिः भेदवोधिकेति’ ‘स्थित्यदनाभ्यां च' (ब्र.सू.१.३.७) इति सूत्रव्याख्याने कथितत्वेन च जीवब्रह्मणोर्भेदात् जीवस्य दुःखित्वेऽपि जीवगतदुःखस्य जीवभिन्ने ईश्वरेऽयोगस्य द्वैतमते युक्तत्वात्, जीवब्रह्मणोरभेदवादिनां जीवदुःखेन परमात्मा न दुःखीभवितुमर्हति इति साधनाय जीवेश्वरयोर्भेद-बोधिकाया द्वासुपर्णेत्यादिश्रुतेरुदाहरणस्यायुक्तत्वात् ।
एवं ‘“एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः' (कठ.५.११) इति श्रुतिरपि परमात्मनः सर्वभूतान्तरात्मेति पदेन सर्वभूतेषु जीवेषु अन्तर्विद्यमानः आत्मेति सर्वजीवान्तस्स्थत्वोत्त्या भेदमुक्त्वा, लोकदुःखेन भिन्नानां लोकानां जनानां दुःखेन परमात्मा न लिप्यते इति जीवपरमात्मनोर्भेदमत एव जीवदु:खासम्बद्धत्वं वक्तीति द्वैतिनामनुकूला अद्वैतिनां प्रतिकूलैव ।
न च सर्वभूतान्तरात्मेति सर्वभूत (जीव ) स्वरूपत्वमुक्तमिति वाच्यम् । सर्वभूतात्मा इत्युक्तौ यथाकथञ्चित् आत्मशब्दस्य स्वरूपार्थकत्वस्वीकारेणाभेदः बोधितः स्यात्, न तु तथोक्तम् । किंतु सर्वभूतान्तरात्मेति । तथा च तेन पदेन सर्वभूतेष्वन्तर्विद्यमान आत्मा इत्याधाराधेयभावेन भेदस्यैव प्रतीतेः । “तत्र यः परमात्मा हि स नित्यो निर्गुणः स्मृतः । न लिप्यते फलैश्चापि पद्मपत्रमिवांभसा ।। कर्मात्मा त्वपरो योऽसौ मोक्षवन्धैः स युज्यते । स सप्तदशकेनापि राशिना युज्यते पुनः" इति स्मृतिरपि निर्गुणत्वसगुणत्वाभ्यां, तत्रेतिपदेन जीवपरयोर्मध्ये इति निर्धारणेन च अपर इति शब्देन च जीवपरमात्मनोर्भेदं कथयित्वा परमात्मनो दुःखभोक्तृत्वाभावं बोधयतीत्यद्वैतिनामननुकूला द्वैतिनामनुकूलैव ।
तथाच–स्मरन्ति चेति सूत्रं तद्गृहीताः श्रुतिस्मृतयः अभेदवादिनामद्वैतिनामननुकूला एव ।
ॐ अनुज्ञापरिहारौ देहसम्बन्धाज्योतिरादिवत् ॐ (२.३.४८)
इति सूत्रस्य "यदि तक एव सर्वेषां भूतानामन्तरात्मा स्यात् कथमनुज्ञापरिहारौ ('ऋतौ भार्यासुपेयात्' इत्यनुज्ञा । गुर्वङ्गनां नोपगच्छेत्' इति परिहार:- एवमादिरूपी अनुज्ञापरिहारौ ) स्यातामित्याशक्य, आत्मन एकत्वाभ्युपगमेऽपि देहसम्बन्धात् = देहादिरयं सङ्घातोऽहमेवेत्यात्मनि विपरीतप्रत्ययात् (भ्रमात् ) अनुज्ञापरिहारौ अवकल्प्येते ज्योतिरादिवत् । यथा ज्योतिष एकत्वेऽपि अग्निः क्रव्यात् (क्रव्यं मांसमत्तीति) श्मशानाग्निः परिहियते नेतरः । यथा भौमा प्रदेशा वज्रवैडूर्यादय उपादीयन्ते । भौमा अपि सन्तो नरकलेवरादयः परिह्रियन्ते । यथा मूत्रपुरीषं गवां पवित्रतया परिगृह्यते तदेव जात्यन्तरे परिवर्ज्यते तद्वत्” इति यद्व्याख्यानं शङ्कराचार्याणां तत्रावतरणं तावदयुक्तम् । तथाहि - 'एक एव सर्वेषां भूतानामन्तरात्मा स्यात्' । इत्यनेन जीवाः परस्परं भिन्नाः, परमात्मा नियामकः, अन्तरात्मा जीवाद्भिन्नः इति सर्वेषां भूतानामित्यनेन भूतपदवाच्यजीवानां बहुत्वं अन्तरात्मा इत्यनेन परमात्मनो बहुजीव- नियामकत्वोत्त्या जीवानां परस्परं भेदः परमात्मना च भेद एवोक्तो भवति इति अनुज्ञापरिहारयोरसम्भवाशचैव नोदेति ।
न च अनंशत्वमपि जीवस्य अभेदवादिन्यः श्रुतयः प्रतिपादयन्ति । 'तत्सृष्ट्वा तदेवानु प्राविशत् ' ( तै. २-६- १) नान्योऽतोऽस्ति द्रष्टा' (बृ.३.७.२) ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति' (बृ.४.४.१९) “तत्वमसि’”, “अहं ब्रह्मास्मि", इत्येवं जातीयका इति परमात्मनः । एकत्वात् अनुज्ञापरिहारासम्भवशङ्का आयास्यतीति वाच्यम् । ‘तत्सृष्ट्वा’ ‘तत्त्वमसि' ‘अहं ब्रह्मास्मि' इत्यादिवाक्यानामभेदप्रतिपादकत्वाभावस्याद्वैतिभिरेव स्वीकृतत्वात् । वस्तुतोऽभेदप्रतिपादकत्वाभावात् च ताभिः श्रुतिभिरैक्यासिद्ध्या अनुज्ञापरिहारासम्भवशङ्काया अप्रसरात् । तदर्थं सूत्रप्रवृत्तिरिति कथनमयुक्तम् ।
आत्मन एकत्वेऽपि देहसम्बन्धात् देहादिरयं सङ्घातः अहमेवेत्यात्मनि भ्रमात् ‘ऋतौ भार्यामुपेयात् ।' इत्याद्यनुज्ञापरीहारौ सम्भवत इति सिद्धान्तकरणमप्ययुक्तम् । मम देहः, मम चक्षुः मे मनः इत्यादि- भेदप्रत्यक्षस्य सर्वेषां विद्यमानत्वेन तद्विपरीतस्य आत्मनि देहाद्यभेद- भ्रमस्यासम्भवात् । अद्वैतमतरीत्या भ्रमकारणाभावेन भ्रमस्यैवानुदय इति शाङ्करब्रह्मसूत्रभाष्यभामत्यादिग्रन्थेषु उक्तत्वेन देहात्मत्वभ्रमेण अनुज्ञापरिहारयोः सम्भवकथनायोगाच्च ।
गवां मूत्रपुरीषं शुद्धत्वाद्ब्रह्यते, मनुष्यादिजात्यन्तराणां मूत्रपुरीषम- शुद्धत्वात्त्यज्यते । गोमूत्रपुरीषयोः मनुष्यादिजात्यन्तरमूत्रपुरीषयोः परस्परं भिन्नत्वेन एकस्य शुद्धत्वं अन्यस्याशुद्धत्वं युज्यते । एवमेव नरकलेवरादिभ्यो भिन्नाः वज्रवैडूर्यादयः सुन्दराश्शुद्धाः सुखहेतव इति परिगृह्यन्ते । वज्रवैडूर्यादिभ्यो भिन्नाः नरकलेवरादयः अशुद्धा न सुखसाधनाः निषिद्धा इति परित्यज्यन्ते । एवं परस्परं भिन्नानां ग्राह्यताप्रयोजकधर्मवत्त्वतदभावाभ्यां ग्राह्यत्वाग्राह्यत्वमात्रेण तद्दृष्टान्तेन अद्वैतमते अभिन्नतया स्वीकृतानां जीवानामनुज्ञापरिहारयोः सम्भावितत्व- कथनमद्वैतिनामयुक्तमेव ।
स्यातामनुज्ञापरिहारौ एकस्याप्यात्मनः देहविशेषयोगात् । देहविशिष्टस्य स्वर्गादिभोगायोगात् स्वरूपस्यैव स्वर्गादिभोक्तृत्वस्याङ्गीकार्यत्वेन स्वरूपे भेदाभावे स्वर्गी नरकी इत्यादिव्यवस्था न सिध्येत् । तत्सिद्ध्यर्थमात्म- स्वरूपभेदः अङ्गीकार्य इति शङ्खनिवृत्तये प्रवृत्तस्य-
ॐ असन्ततेश्चाव्यतिकरः ॐ (२.३.४९)
इति सूत्रस्य ‘“भवेत्तदा सार्ख्यं यद्यनुपहितात्मन एव भोक्तृत्वं स्यात् । न त्वेतदस्ति । स्थूलदेहोपहितत्वाभावेऽपि आमोक्षं अविद्यातदुत्थान्तः-करणादिसम्बन्धात् तद्विशिष्टस्यैव स्वर्गनरकादिभोक्तृत्वात् । असन्ततेः स्वर्गभोक्तुरन्तःकरणादिसम्बन्धस्य नरकभोक्तरि अभावात् । अव्यतिकरः= कर्मव्यतिकरो वा फलव्यतिकरो वा न भविष्यति" इति यत् शङ्कापरिहारकतया व्याख्यानं तदयुक्तम् । असङ्गस्याद्वितीयस्य परब्रह्मणः अविद्यान्तः करणादिसम्बन्धायोगादेरुक्तत्वेन अविद्यान्त: करणाद्यु- पाधिनिवृत्तावपि मोक्षे 'स तत्र पर्येति जक्षन् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा' इत्यादिवाक्यैः कर्तृत्वादीनां भेदस्य चोक्तत्या 'अविद्यान्तः- करणाद्युपाधिसम्बन्धात् परब्रह्मैव जीवभावमापद्यते । स एव कर्मकर्ता स्वर्गादिफलभोक्ता' इत्युक्तेरयोगात् ।
‘अंशो नाने’त्याद्यसूत्रे जीवस्यांशत्वं घटाकाशस्येव उपाध्यवच्छेद- बुद्ध्योक्तं संप्रति एवकारेण अवच्छेदपक्षारुचिं सूचयन् ‘रूपं रूपं प्रतिरूपो बभूव' इत्यादिश्रुतिसिद्धं प्रतिबिम्बपक्षमुपन्यस्यति भगवान् सूत्रकारः ' (रत्नप्रभा) इत्यवतार्य प्रसक्तस्य–
ॐ आभास एव च ॐ (२.३.५०)
इति सूत्रस्य 'आभास एव चैष जीवः परस्यात्मनो जलसूर्यकादिवत्प्रतिपत्तव्यः, न स एव साक्षात् नापि वस्त्वन्तरम् । अतश्च’–
इति यद्व्याख्यानं कृतं तत्र जीवः परमात्मनः प्रतिविम्बः जलसूर्यकादिवत् इत्यस्मिन् विषये 'न स एव साक्षात्' इत्यभेदाभावो हेतूकृतः, स युक्त एव । जलसूर्यकस्य गगनस्थसूर्यादभेदाभावात्, तत्सदृशत्वेन तदधीनत्वेन च प्रतिबिम्वत्ववत् जीवस्यापि परमात्मना अभेदाभावात् परमात्माधीनत्वे सति परमात्मसदृशत्वेन प्रतिबिम्वत्वसम्भवात् । अद्वैतमतरीत्या स न युक्तः । अद्वैतमते जीवब्रह्मणोरभेदाङ्गीकारात् । 'नापि वस्त्वन्तरं इति भेदाभाव: हेतूकृतः, सोऽप्ययुक्तः ।
जीवब्रह्मणोर्भेदस्य अनेकश्रुतिसूत्रगीताप्रतिपाद्यत्वेन शङ्कराचार्यैः अनेकश्रुतिसूत्रगीतानां भेदप्रतिपादकतया स्वीकृतत्वेन च जीवस्य ब्रह्मणा भेदाभावरूपहेतोरसिद्धत्वात् । जलसूर्यकस्य गगनस्थसूर्यप्रतिबिम्वत्वे यथा भेदस्य प्रयोजकत्वं न त्वैक्यस्य, तथा जीवस्य परमात्मप्रतिबिम्वत्वे जीवब्रह्मणोर्भेदस्यैव प्रयोजकत्वेन, पर्वतो वह्निमान् जलादिति वह्निसाधनार्थं प्रयुक्तस्य जलस्य साध्याभाव (वह्नयभाव) साधकत्वेन विरुद्धत्ववत् प्रतिबिम्बत्वसाधने प्रयुक्तस्य भेदाभावरूपहेतोः विरुद्धत्वाच्च । तेन (परमात्मना भेदभावेन) परमात्मप्रतिबिम्वत्वसाधनायोगात् ।
यद्यपि वयं जीवस्य तदधीनत्वे सति तत्सादृश्यरूपं भेदव्याप्तं परमात्मप्रतिविम्बत्वमङ्गीकुर्मः । परन्तु अद्वैत्यभिमतं विम्बभूत- परमात्माभिन्नत्वरूपं प्रतिबिम्वत्वं नाङ्गीकुर्मः, प्रमाणाभावात् प्रमाण-विरोधाच्च । भेदव्याप्ततदधीनत्वे सति तत्सदृशत्वरूपप्रतिविम्बत्ववतां (प्रतिबिम्बानां) जीवानां परस्परं बिम्बभूतपरमात्मना च भेदवत्त्वेन एकस्मिन् चैत्रे जीवे यत्किश्चित्कर्मफलसम्बन्धे सति न तद्भिन्नानां मैत्रादीनां न वा तद्भिन्नस्य परमात्मनः कर्मफलसम्बन्ध: प्रसज्यते इति कर्मफलसम्बन्ध- प्रसत्तत्यभावार्थं श्रुत्यादिप्रमाणसिद्धस्य भेदस्य प्रतिबिम्बितत्वस्य कर्मसम्बन्धस्य सुखदुःखादिकर्मफलसम्बन्धस्य मिथ्यात्वं वेदस्य मिथ्यात्वं वेदप्रामाण्यस्य मिथ्यात्वं एवं सर्वेषां मिथ्यात्वकल्पनं प्रच्छन्नवौद्धत्वमेव मायिनां ज्ञापयति । बौद्धास्तु वेदो नास्ति, वेदप्रामाण्यं नास्ति, वेदबोध्याः पदार्था न सन्ति कर्म नास्ति, कर्मफलं नास्ति, भोक्ता नास्ति, भोग्यं नास्ति, स्वर्गसुखादिकं नास्ति, स्वर्गे नास्ति, दुःखं नास्ति, दुःखसाधनीभूतं नरकादिकं नास्ति इत्युक्त्वा वयमवैदिका इति स्पष्टं कथयन्ति । एते मायिनस्तु वयं वैदिकाः वेदप्रामाण्याभ्युपगन्तारः वयमास्तिका; अस्ति परलोकः, फलदाता ईश्वरोऽस्ति इति जनवश्वनार्थं जिह्वाग्रभागे वदन्ति । वेदादीनां सर्वेषामपि मिथ्यात्वं (नास्ति नासीन्न भविष्यतीति त्रैकालिकनिषेधप्रतियोगित्वरूपमसत्त्वं ) " न शास्ता न शास्त्रं न पुण्यं न पापं न देवा न वेदा न यज्ञाः न तीर्थं, न निरोधो नचोत्पतिः न बद्धो न च साधकः । न मुमुक्षुर्न वै मुक्तः" इत्यादिवाक्यैः बौद्धवदेव अङ्गीकुर्वन्ति इति प्रच्छन्नवौद्धत्वमेषाम् ।
बौद्धानां हि ‘वचस्येकं मनस्येकं कर्मण्येकं' इत्युक्तरीत्या वेदादिकं कर्मादिकं च नास्तीति वचसा असत्त्वकथनं, मनस्यपि वेदादिकं कर्मादिकं च नास्तीति ज्ञानं, वचसा कर्मणः असत्त्वोक्तिवत् मनसि कर्मणः असत्त्वज्ञानवच्च वेदोक्तकर्माकरणं इति मनोवाक्कर्मस्वेकरूपता । अद्वैतिनान्तु वचसा वेदादीनां सत्त्वकथनं मनसि वेदादीनामसत्त्वज्ञानं कर्मण्येकं (वेदोक्तकर्मणामाचरणं) मनोवाक्कर्मसु भिन्नरीतिरिति । " वचस्यन्यत् कर्मण्यन्यद् दुरात्मनाम् । वचस्येकं मनस्येकं कर्मण्येकं सदात्मनाम् ।। इत्युक्तिं स्मारयन्ति अद्वैतिनः ।
एतत्सूत्रव्याख्यान एव ‘येषान्तु वहव आत्मानः तेच सर्वे सर्वगतास्तेषामेवैष व्यतिकरः प्राप्नोतीत्यारभ्य.... ततश्च हेत्वविशेषात् फलाविशेष इत्येकस्यात्मनः सुखदुःखयोगे सर्वात्मनामपि सुखदुःखित्वं प्रसज्येतेति जीवानां विभुत्ववादिसांख्यकणादपक्षनिराकरणं कृतम् । तदस्माकमपि संमतमेवेति शकृतदूषणे युक्तायुक्तत्वविचारो न क्रियते ।
एवमेव ‘“अदृष्टानियमात्’” "अभिसंध्यादिष्वपि चैवम्” “प्रवेशादिति चेन्नान्तर्भावात्” इति त्रिसूत्र्यामपि जीवो विभुरिति वदतां सांख्यकणादादीनां मतनिराकरणं कृतम् । तदप्यस्माकं संमतमेवेति न शङ्करकृतनिराकरणे युक्तायुक्तत्वविचारः क्रियते । " तस्मात् जीवो ब्रह्मांश इव सत्तन्त्रतया न त्वंश इति तात्पर्यार्थः” इति भामत्युक्तरीत्या जीवाः परमात्मनो भिन्ना एवेति पक्ष एव साधुः । सर्वदोषरहितत्वात् प्रमाणसद्भावाच्च । न त्वात्मैकत्वपक्षः (जीवब्रह्मणोरैक्यपक्षः) । सर्वदोषास्पदत्वात्प्रमाणाभावाच्चेति ।
। इति शङ्करभाष्यखण्डने द्वितीयाध्या यस्य तृतीयः पादः ।