जयतात् जानकीजानिः कल्याणगुणवारिधिः । दुर्वादिमतविच्छित्तौ प्रेरयन्मन्मनः सदा

।। श्रीरामचन्द्राय नमः ।।

|| भेदपराण्येव खलु ब्रह्मसूत्राणि ।।

मङ्गलम्

जयतात् जानकीजानिः कल्याणगुणवारिधिः ।

दुर्वादिमतविच्छित्तौ प्रेरयन्मन्मनः सदा ।। १ ।।

मायावादतमोव्याप्तिः अञ्जसा येन वारिता ।

प्रकाशितं च तत्त्वं तं भजे मध्वदिवाकरम् ॥ २ ॥

यत्कृपालेशमात्रेण पुरुषार्थचतुष्टयम् ।

लभन्ते मानुषा नूनं तान् जयादिगुरून् भजे ॥ ३ ॥