आनुमानिकमप्येकेषामिति चेन्न शरीररूपक विन्यस्तगृहीतेर्दर्शयति च
भेदपराण्येव खलु ब्रह्मसूत्राणि
॥ अथ प्रथमाध्याये चतुर्थः पादः ।।
ॐ आनुमानिकमप्येकेषामिति चेन्न शरीररूपक विन्यस्तगृहीतेर्दर्शयति च ॐ (१.४.१)
इत्यादिसूत्रसप्तकात्मकमधिकरणं, सांख्याभिमतप्रधानस्य अशब्दत्वं=जगत्कारणत्वबोधकशब्दाप्रतिपाद्यत्वं प्रतिपादयितुं प्रवृत्तम् । ईक्षतेर्नाशब्द- मिति सूत्रे यत्प्रधानस्याशब्दत्वमुक्तं तन्न युक्तम् । आनुमानिकमपि अनुमाननिरूपितमपि प्रधानं 'महतः परमव्यक्तमव्यक्तात्पुरुषः परः' (का.१.३.११) इति एकेषां शाखिनां शब्दवदुपलभ्यते । तदेव जगतः कारणमिति चेत् न । ' शरीररूपक विन्यस्तगृहीते : ' न प्रधानं अव्यक्तशब्दप्रतिपाद्यं किं तु 'आत्मानं रथिनं विद्धि शरीरं रथमेव च ' (का. १.३.३.४) इति रथरूपकतया विन्यस्तस्य शरीरस्य, न व्यक्तं अव्यक्तमिति व्युत्पत्या ग्रहणात् । 'आत्मानं रथिनं विद्धि शरीरं रथमेव च इत्युक्त शरीरस्थाने " महतः परमव्यक्तं अव्यक्ताात्पुरुषः परः” इति अव्यक्त पदं प्रयुञ्जती श्रुतिः शरीरस्यैवाव्यक्तत्वं दर्शयतीति न सांख्याभिमतं प्रधानं अव्यक्तशब्द वाच्यं किं तु शरीरमेवेति शब्दाप्रतिपाद्यमानं प्रधानं न जगत्कारणं किं तु ब्रह्मैवेति व्याख्यातत्वेन प्रधानब्रह्मणोर्भेदाभिधायकमिदं सूत्रम् । १.४.१
यदुक्तं शरीरं अव्यक्तशब्दवाच्यमिति न तद्युक्तम् । शरीरस्य व्यक्तत्वेन (स्पष्टत्वेन) अस्पष्टवाचकाव्यक्तशब्दानर्हत्वादिति शङ्कायां प्रवृत्तं सूत्रम्
ॐ सूक्ष्मं तु तदर्हत्वात् ॐ (१.४.२)
नात्र स्पष्टं (दर्शनयोग्यं) शरीरमव्यक्तशब्देन गृह्यते । सूक्ष्मं तु शरीरकारणमव्यक्तशब्देन गृह्यते । तस्य शरीरकारणस्य सूक्ष्मस्य तदर्हत्वात् अव्यक्तशब्दार्हत्वादिति । १.४.२
यदुक्तं सूक्ष्मं शरीरकारणं अव्यक्तशब्दवाच्यं न प्रधानमिति न तद्युक्तम् । तस्यैव शरीरकारणस्य सूक्ष्मस्य प्रधानतया अभ्युपगमादिति शङ्कायां प्रवृत्तं सूत्रम्
ॐ तदधीनात्वादर्थवत् ॐ (१.४.३)
अस्माभिरङ्गीकृतस्य भूतसूक्ष्मस्य ‘तदधीनत्वात्' परमेश्वराधीनत्वात् न तत् सांख्याभिमतं स्वतंत्रं प्रधानं भवितुमर्हति किं तु ततोऽन्यदेव भूतसूक्ष्ममर्थवत् सृष्ट्याद्यर्थमवश्यं प्रयोजनवत् इति । १.४.३
ॐ ज्ञेयत्वावचनाच्च ॐ (१.४.४)
सांख्यैः स्वाभ्युपगतप्रधानस्य ज्ञेयत्वमुच्यते । अस्मदभिमतभूतसूक्ष्मस्य ज्ञेयत्वावचनाच्च ज्ञेयत्वकथनाकथनाभ्यां विरुद्धत्वात् ज्ञेयतयाऽनुक्तमस्मदीयं भूतसूक्ष्मं न सांख्याभिमतं प्रधानमिति । १.४.४
ॐ वदतीति चेन्न प्राज्ञो हि प्रकरणात् ॐ (१.४.५)
‘अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात्प्रमुच्यते (का. २.३.१५) इति महतः परस्य (अव्यक्तस्य) निचाय्येति ज्ञेयत्वं' वदतीति, पूर्वमुक्तं ज्ञेयत्वावचनमसिद्धमिति चेत् न । प्राज्ञो हि परमात्मा तत्र निचाय्यत्वेन (ज्ञेयत्वेन) निर्दिष्टः । कुतः । प्रकरणात् ‘पुरुषान्न परं किंचित्सा काष्टा सा परागतिः' इति 'परमेश्वरप्रकरणात् । तस्मात् न प्रधानस्यात्र ज्ञेयत्वं अव्यक्तशब्दनिर्दिष्टत्वं वा' इति व्याख्याततया इमानि चत्वारि सूत्राणि पूर्वोक्तार्थव्यवस्थापकत्वेन पूर्ववदेव प्रधानब्रह्मणोर्भेद- बोधकानीति । १.४.५
ॐ त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॐ (१.४.६)
अस्मिन्ग्रन्थे कठवल्लीषु अग्निजीवपरमात्मनां उपन्यासः । अग्निजीव- परमात्मविषयक एव प्रश्नः । नातोऽन्यस्य प्रश्न उपन्यासो वा अस्ति । अतः न सांख्याभिमतं प्रधानं ‘महतः परमव्यक्तं ' इति वाक्यघटकाव्यक्त- शब्दवाच्यम् इति प्रधानस्य शब्दाप्रतिपाद्यत्वात् ब्रह्मैव जगत्कारणम्' इति व्याख्याततया प्रधानब्रह्मणोर्भेदः जीवविषकप्रश्नोत्तरयोः ब्रह्मविषयप्रश्नोत्तरयोश्च पृथक्पृथग्विद्यमानत्वेन जीवब्रह्मणोरपि भेदः सिध्यति । सूत्रं तु अविद्याकल्पितजीवप्राज्ञभेदापेक्षया योजयितव्यम् इति शङ्करभाष्ये उत्क्तत्वेन अस्य सूत्रस्य भेदप्रतिपादकत्वे न विवादः । श्रुतिसूत्रप्रतिपादितभेदस्य मिथ्यात्वकथनमयुक्तमिति तत्र तत्र वर्णितमनुसन्धेयम् । १.४.६
ॐ महद्वच्च ॐ (१.४.७)
‘यथा सांख्यै:महच्छब्दस्य महत्तत्वे प्रयुज्यमानत्वेऽपि न वैदिकैस्तस्मिन्प्रयुज्यते । किं तु 'बुद्धेरात्मा महान्पर: ' (का. १.३. १०) महान्तं विभुमात्मानं (का. १.२.२२) इत्यादावात्मशब्द - सामानाधिकरण्येनान्यत्र प्रयुज्यते तथाऽव्यक्तशब्दोऽपि वैदिके प्रयोगे प्रधानान्यस्मिन्नेव प्रयोक्तुमर्हतीति न प्रधानस्य शाब्दत्वमिति न प्रधानं जगत्कारणं किं तु ब्रह्मैव' इति व्याख्याततया इदमपि सूत्रं भेदबोधकमेव । एवं च इदमधिकरणं चेतनाचेतनात्मकप्रपञ्चाद्ब्रह्मणः भेदाभिधायकमेवेति । १.४.७
ॐ चमसवदविशेषात् ॐ (१.४.८)
'अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानाः सरूपाः । अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः (श्वे. ४.५) इति मंत्रे लोहितशुक्लकृष्णात्मिका अजा उत्पत्तिरहिता श्रूयते । सा च सांख्याभिमता सत्वरजस्तमोगुणात्मिका उत्पत्तिरहिता प्रकृतिरेव भवितुमर्हति । सत्वगुणस्य शुक्लात्मकत्वेन रजोगुणस्य रक्तात्मकत्वेन तमोगुणस्य कृष्णात्मकत्वेन प्रकृतेः लोहितशुक्लकृष्णरूपत्वसंभवात् उत्पत्तिरहितत्वेन निमित्तेन अजाशब्दवाच्यत्वाच्च न प्रधानस्याशब्दत्वमिति प्राप्ते आह चमसवदविशेषात् इति ।
‘चमसवत्’ ‘यथा ह्यर्णाग्बिलश्चमस ऊर्ध्वबुध्नः (बृ. २.२.३) इत्यस्मिन्मंत्रे स्वातंत्र्येणायं नामा असौ चमसोऽभिप्रेत इति न शक्यते निरूपयितुम् । सर्वत्रापि यथाकथंचित् अर्वाग्विलत्वादिकल्पनोपपत्तेः । एवमिहाप्यविशेषोऽजामेकामित्यस्य मंत्रस्य । नास्मिन्मंत्रे प्रधान- मेवाजाऽभिप्रेतेति शक्यते नियन्तुम् । सर्वत्रापि यया कयाचित्कल्पनया अजादित्वसंपादनोपपत्ते: सांख्यवाद एवेहाभिप्रेत इति विशेषाव- धारणकारणाभावात् इति । १.४.८
केयमजा प्रतिपत्तव्येति ? अत्र ब्रूमः
ॐ ज्योतिरुपक्रमा तु तथा ह्यधीयत एके ॐ (१.४.९)
परमेश्वरादुत्पन्ना ज्योतिःप्रमुखा तेजोबन्नलक्षणा चतुर्विधभूतग्रामस्य प्रकृतिभूतेयमजैव प्रतिपत्तव्या न गुणत्रयलक्षणा सांख्याभिमता प्रकृतिः । कुतः तथा ह्येके शाखिनस्तेजोवन्नानां परमेश्वरादुत्पत्तिमाम्नाय तेषामेव रोहितादिरूपतामामनंति यदने रोहितं रूपमित्यादि । १.४.९
कथं तेजोवन्नानां अजाशब्दवाच्यत्वं ? न तावद्रूढ्या, अजाकृत्यभावत् । नापि न जायत इत्यजा इति योगेन, उत्पत्तिमत्वात् इति प्राप्ते आह ।
ॐ कल्पनोपदेशाच्च मध्वादिवदविरोधः ॐ (१.४.१० )
‘मध्वादिवत्’ यथा ‘आदित्यस्यामधुनो मधुत्वं' (छां. ३.१) वाचश्चाधेनोर्धेनुत्वं कल्प्यते तथा अनजाया अपि तेजोवन्नलक्षणायाः अजात्वं कल्प्यते । तस्मादविरोधस्तेजोवन्नेष्वजाशब्दप्रयोगस्येति व्याख्याततया इमानि सूत्राणि ‘अजामेकामिति श्रुत्युक्ता अजा परमेश्वरादुत्पन्ना तेजोबन्नलक्षणैव । न तु सांख्याभिमता प्रकृतिः इति अभिदधति संति, उत्पाद्योत्पादकभावेन तेजोवन्नानां परमात्मना च भेदं बोधयन्ति तथा एतत्सूत्रनिर्णेया श्रुतिश्व, एक: क्षेत्रज्ञः अनुशेते अन्यो जहातीति जीवानामपि भेदं बोधयन्ती, भिन्नबहुजीवानां एकेन परमात्मना भेदं बोधयति । शङ्कराचार्यैरपि' एकः क्षेत्रज्ञोऽनुशेतेऽन्यो जहातीत्यतः क्षेत्रज्ञभेदः पारमार्थिकः परेषां (द्वैतिनां ) इष्टः प्राप्नोति इति अजामेकामिति श्रुतेः भेदबोधकत्वमुक्तम् । न च तैरेव 'न हीयं क्षेत्रज्ञभेदप्रतिपिपादयिषा किं तु बंधमोक्षव्यवस्थाप्रतिपिपादयिषा त्वेषा । प्रसिद्धं भेदमनूद्य बन्धमोक्षव्यवस्था प्रतिपाद्यते । भेदस्तूपाधिनिमित्तो मिथ्याज्ञानकल्पितो न पारमार्थिकः । 'एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा' इत्यादि श्रुतिभ्यः इति श्रुतिप्रतिपादितस्य भेदस्य मिथ्यात्वमुक्तमिति वाच्यम् । श्रुतिप्रतिपादितस्य भेदस्य मिथ्यात्वकल्पने वेदस्य अप्रामाण्यस्वीकारापत्या अवैदिकत्वप्राप्तेः । एको देवः' इति श्रुतौ अभेदवोधकपदाभावात् । प्रत्युत्त भेदबोधकानां अनेकेषां पदानां सत्वात् । एके मुख्यान्यकेवला इति प्रमाणात् एक इति पदं अन्यत्वं (भेदं) बोधयति । देव इति पदं क्रीडादिगुणविशिष्ट इति भेदकधर्मकथनेन भेदं बोधयति । सर्वभूतेषु गूढः इति पदं सर्वप्राणिषु गूढः अदृश्यः सन् विद्यमान इति सर्वजीवान्तर्गतत्वोत्त्वा आधाराधेयभावेन भेदं बोधयति । सर्वव्यापीति पदं न केवलं जीवान्तस्थः किं तु सर्वान्तस्थ इति सर्वपदार्थानां ब्रह्मनिरूपिताधेयत्वोक्त्या भेदं बोधयति । सर्वभूतान्तरात्मा इति पदं नियम्यनियामकभावोक्त्या भेदं बोधयति । कर्माध्यक्ष इति पदं सर्वप्राणिभिः क्रियमाणकर्मणां स्वामित्वोत्त्या ( फलदातृत्वोत्त्या) कर्मफलदातृत्व - ग्रहीतृत्वोत्त्या भेदं बोधयति । सर्वभूताधिवास इति पदं सर्वभूताश्रयत्वोक्त्या भेदं बोधयति । साक्षीति पदं सर्वद्रष्टृत्वोत्त्या दर्शनकर्मत्वदर्शनकर्तृत्वोत्त्या भेदं बोधयति । निर्गुण इति पदं सत्वरजस्तमोगुणराहित्योक्त्या 'न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः । सत्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः’ (गी. १८४०) इति गीतोक्तरीत्या सत्वरजस्तमोगुणसम्वद्धजीवात् भेदं बोधयति इति भेदाभावे एतच्छ्रुत्युदाहरणमासुरजनवञ्चनार्थमेवेति । १.४.१०
ॐ न संख्योपसंग्रहादपि नानाभावादतिरेकाच्च ॐ (१.४.११)
ॐ प्राणादयो वाक्यशेषात् ॐ (१.४.१२)
ॐ ज्योतिषैकेषामसत्यन्ने ॐ (१.४.१३)
‘यस्मिन्पश्ञ्च पञ्च जना आकाशश्च प्रतिष्ठितः । तमेव मन्य आत्मानं विद्वान्ब्रह्मामृतोऽमृतम्' (बृ. ४४.१७ ) इति श्रुतौ पञ्चविंशतिपदार्थानां कथितत्वात् सांख्यैरपि पञ्चविंशतिसंख्याकतत्त्वानामुपसंग्रहात् सांख्योक्तप्रधानादीनां श्रुतिप्रतिपाद्यत्वं इत्याशंक्य, नानाभावात्-श्रुतौ पञ्चविंशतिपदर्थानां मध्ये केषांचित्पदार्थानां पञ्चत्वपश्चत्वसंख्यया ग्रहीतुं कारणाभावात् । (पञ्चपञ्चतया ग्रहणे पञ्चसु एकधर्मस्याभावात्) । किं च अतिरेकाच्च श्रुतौ पञ्चविंशतितत्त्वापेक्षया आत्माकाशयोः प्रत्येकं ग्रहणाच्च न सांख्याभिमतानां प्रधानादीनां श्रुतिप्रतिपाद्यत्वम् । (शाब्दत्वं) (११) किं तु प्राणस्य प्राणं चक्षुषश्चक्षुः श्रोत्रस्य श्रोत्रम् अन्नस्यानं मनसो ये मनो विदुः इति वाक्यशेषोक्तप्राणचक्षुःश्रोत्रान्नमनांस्येव पञ्चत्वसंख्याविशिष्टाः पञ्चजनाः इति (१२) काण्वशाखायां प्राणदिष्वन्नस्याग्रहणात् कथं प्राणादीनां पञ्चत्वमित्याशंक्य काण्वानां पाठे अन्नस्य ग्रहणाभावेऽपि ज्योतिषा सह पञ्चत्वं वक्तव्यम् इति (१३) व्याख्याततया इमान्यपि सूत्राणि सांख्याभिमतप्रधानस्याशाब्दत्वप्रतिपादनद्वारा ब्रह्मण एव जगत्कारणत्व-व्यवस्थापकानि संति, जगत्कारणत्वरहितेन चेतनाचेतनात्मकजगता भेदमेव कथयन्ति।१.४.१२-१३-१४
न जगज्जन्मादिकारणत्वं ब्रह्मणः प्रतिपत्तुं शक्यम् । न वा वेदान्तवाक्यानां ब्रह्मविषयं गतिसामान्यं प्रतिपत्तुं शक्यम् । प्रतिवेदान्तं विगानदर्शनात् । प्रतिवेदान्तं ह्यन्यान्या सृष्टिरुपलभ्यते क्रमादिवैचित्र्यात् । तथा हि । क्वचिदात्मन आकाशः सम्भूतः (तै. २.१) इत्याकाशादिका सृष्टिराम्नायते, क्वचित्तेजआदिका “तत्तेजोऽसृजत" । (छां.६.२.३) इति । क्वचित् प्राणादिका ' स प्राणमसृजत प्राणाच्छूद्ध' (प्र. ६.४ ) इति । क्वचिदक्रमेणैव लोकानामुत्पत्तिरामाम्नायते 'स इमांल्लोकानसृजत । अम्भोमरीचिर्मरमापः' (ऐ. ४.१.२ ) इति तथा क्वचिदसत्पूर्विका सृष्टि: पठ्यते ‘असद्वा इदमग्र आसीत् ततो वै सदजायत' (तै.२.७) इति, असदेवेदमग्र आसीत् तत्सदासीत् तत्समभवत् (छां. ३. १९.१) इति च । क्वचिदसद्वादनिराकरणेन सत्पूर्विका प्रक्रिया प्रतिज्ञायते 'तद्धैक आहुरसदेवेदमग्र आसीत्' इत्युपक्रम्य ‘कुतस्तु खलु सोम्यैवं स्यादिति होवाच कथमसतः सज्जायेतेति सत्त्वेव सोम्येदमग्र आसीत् ' (छां. ६.२.१.२) इति, क्वचित्स्वयंकर्तृकैव व्याक्रिया जगतो निगद्यते 'तद्धेदं तर्ह्यव्याकृतमासीत् तन्नरूपाभ्यां व्याक्रियत' (बृ.१.४.७) इति । एवमनेकधा विप्रतिपत्तेर्वस्तुनि विकल्पस्यानुपपत्तेर्न वेदान्तवाक्यानां जगत्कारणावधारणपरता न्याय्या । स्मृतिन्यायप्रसिद्धिभ्यां तु कारणान्तरपरिग्रहो न्याय्य इत्येवं प्राप्ते ब्रूमः-
ॐ कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ॐ (१.४.१५)
सत्यपि प्रतिवेदान्तं सृज्यमानेष्वाकाशादिषु क्रमादिद्वारके विगाने, न स्रष्टरि किंचिद्विगानमस्ति । कुतः ? यथाव्यपदिष्टोक्तेः यथाभूतो ह्यस्मिन्वेदान्ते सर्वज्ञः सर्वेश्वरः सर्वात्मैकोऽद्वितीयः कारणत्वेन व्यपदिष्टस्तथाभूत एव वेदान्तान्तरेष्वपि व्यपदिश्यते । तद्यथा 'सत्यं ज्ञानमनन्तं ब्रह्म' (तै. २.१) इत्यादि । १.४.१५
ॐ समाकर्षात् ॐ (१.४.१६)
'असद्वा इदमग्र आसीत् ' ( तै. २.७) इति नात्रासन्निरात्मकं कारणत्वेन श्राव्यते । यतः ‘असन्नेव स भवति असद्ब्रह्मेति वेद चेत् अस्ति ब्रह्मेति चेद्वेद संन्तमेनं ततो विदुः' इत्यसद्वादापवादेनास्तित्वलक्षणं ब्रह्म निर्धार्य, ‘सो कामयत इति तमेवं प्रकृतं समाकृष्य सप्रपश्चां सृष्टिं तस्माच्छ्रावयित्वा,' ‘तत्सत्यमित्याचक्षते इति चोपसंहृत्य' 'तदप्येष श्लोको भवति इति तस्मिन्नेव प्रकृतेऽर्थे श्लोकमिममुदाहरन्ति' असद्वा इदमग्र आसीदिति । यदि त्वसन्निरात्मकमस्मिन् श्लोकेऽभिप्रेयेत ततोऽन्य- समाकर्षणेऽन्यस्योदाहरणादसंबंद्धं वाक्यमापद्येत । तस्मात्प्रागुत्पत्तेः सदेव ब्रह्मासदिवासीदित्युपचर्यते । एषैव 'असदेवेदमग्र आसीत् ' (छां. ३.१९.१) इत्यत्रापि योजना । ‘तत्सदासीत् इति समाकर्षणात् इति व्याख्यातत्वेन द्वे सूत्रे अपि सर्वज्ञस्य सर्वेश्वरस्य परमात्मनः जगत्कारणत्वं व्यवस्थापयती असर्वज्ञात् जीवात् जन्याज्जगतश्च भेदमेव दर्शयतः । १.४.१६
ॐ जगद्वाचित्वात् ॐ (१.४.१७)
‘यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्म स वेदितव्यः' (कौ.ब्रा.४.१९) इति वाक्ये वेदितव्यत्वेनोपदिष्टः पुरुषाणां कर्ता किं मुख्यप्राण उत जीवः उत परमात्मेति संशये, मुख्यप्राणलिङ्गान्मुख्यप्राण इति, 'यस्यै वैतत्कर्मेति जीवलिङ्गात् जीवो वा स्यात्, न परमेश्वरः, तलिङ्गानवगमात् इति पूर्वपक्षे प्राप्ते वेदितव्यत्वेनोपदिष्टः परमेश्वर एव । इह हि बालाकिः अजातशत्रुणा सह 'ब्रह्म ते ब्रवाणि इति संवदितुमुपचक्रम इत्युपक्रमात्, परमेश्वरादन्यस्य स्वातंत्र्येण पुरुषकर्तृत्वानुपपत्तेश्च । तर्हि कथं ‘यस्यवैतत्कर्म’ इति जीवलिङ्गव्यपदेश इति शङ्कानिरासाय प्रवृत्तं जगद्बाचित्वादिति सूत्रम् । एतत्कर्मेति पदं न जीवकर्मबोधकं, क्रियते इति कर्म इति व्युत्पत्या एतत्प्रत्यक्षसन्निहितं कर्म जगदिति जगद्वाचि । तस्मात्, (जगद्वाचित्वात्) सर्वजगतः कर्ता परमेश्वरः वेदितव्यतयोपदिश्यते’ इति शङ्करेण व्याख्यातमिदं सूत्रं, जीवस्य प्राणस्य च ब्रह्मणा भेदप्रतिपादकमेव । १.४.१७
ॐ जीवमुख्यप्राणलिङ्गादिति चेत्तद्व्याख्यातम् ॐ (१.४.१८)
इति सूत्रमपि ‘जीवलिङ्गात् जीवो वा मुख्यप्राणलिङ्गान्मुख्यप्राणो वा इति शङ्कायामुपासात्रैविध्यप्रसङ्गादिना पूर्वमेव निराकृतमिति जीवो वा मुख्यप्राणो वा वेदितव्यत्वेन न उपदिष्टः किं तु परमेश्वर एव इति शङ्कराचार्यैः सिद्धांतितत्वेन जीवब्रह्मणोर्भेदबोधकमेव । १.४.१८
ॐ अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ॐ (१.४.१९)
अपि च नैवात्र विवदितव्यम् जीवप्रधानं वेदं वाक्यं स्याद्ब्रह्मप्रधानं वेति । यतोऽन्यार्थं जीवपरामर्शं ब्रह्मप्रतिपत्यर्थमस्मिन्वाक्ये जैमिनिराचार्यो मन्यते । कस्मात् ? प्रश्नव्याख्यानाभ्याम् । प्रश्नस्तावत्सुप्तपुरुषप्रतिबोधनेन प्राणादिव्यतिरिक्ते जीवे प्रतिबोधिते पुनर्जीवव्यतिरिक्तविषयो दृश्यते । ‘क्वैष एतद्बालाके पुरुषोऽशयिष्ट क्व वा एतदभूत् कुत एतदगात् ' ( कौ.४.१९) इति, प्रतिवचनमपि ‘यदा सुप्तः । स्वप्नं न कञ्चन पश्यति अथास्मिन्प्राण एवैकधा भवति' इत्यादि । तस्मात्सोऽत्र परमात्मा वेदितव्यतया बोधित इति । अपि चैवमेके शाखिनो वाजसनेयिनोऽस्मिन्नेव बालाक्यजातशत्रुसंवादे स्पष्टं विज्ञानमयशब्देन जीवमाम्नाय तव्यतिरिक्तं (जीवभिन्नं) परमात्मानमामनन्ति । य एष विज्ञानमयः पुरुषः कैष' 'तदाभूत् कुत आगात्' (बृ.२.१६ ) इति प्रश्ने, प्रतिवचनेऽपि ‘य एषोऽन्तर्हृदय आकाशः तस्मिन्शेते' इति । आकाशशब्दश्च परमात्मनि प्रयुक्तः 'दहरोऽस्मिन्नन्तराकाश:' (छां.८.१.१) इत्यर्थकतया व्याख्यातत्वेन, जीवब्रह्मणोर्भेदबोधकमेव । तथा एतत्सूत्रगृहीतश्रुतिरपि जीव- ब्रह्मणोर्भेदवोधिकैवेति । १.४.१९