रामाय शाश्वतसुविस्तृतषड्गुणाय सर्वेश्वराय सुखसारमहार्णवाय

सप्तमोऽध्यायः
सर्वशास्त्रतात्पर्यनिर्णयः

औं ॥ रामाय शाश्वतसुविस्तृतषड्गुणाय सर्वेश्वराय सुखसारमहार्णवाय।

नत्वा लिलङ्घयिषुरर्णवमुत्पपात निष्पीड्य तं गिरिवरं पवनस्य सूनुः ॥ १॥

चुक्षोभ वारिधिरनुप्रययौ च शीघ्रं यादोगणैः सह तदीयबलाभिकृष्टः ।

वृक्षाश्च पर्वतगताः पवनेन पूर्वं क्षिप्तोऽर्णवे गिरिरुदागमदस्य हेतोः ॥ २॥

स्यालो हरस्य गिरिपक्षविनाशकाले क्षिप्त्वाऽर्णवे स मरुतोर्वरितात्मपक्षः ।

हैमो गिरिः पवनजस्य तु विश्रमार्थमुद्भिद्य वारिधिमवर्द्धदनेकसानुः ॥ ३॥

नैवात्र विश्रमणमैच्छत निःश्रमोऽसौ निःसीमपौरुषगुणस्य कुतः श्रमोऽस्य ।

आश्लिष्य पर्वतवरं स ददर्श गच्छन् देवैस्तु नागजननीं प्रहितां वरेण ॥ ४॥

जिज्ञासुभिर्निजबलं तव भक्षमेतु यद्यत् त्वमिच्छसि तदित्यमरोदितायाः ।

आस्यं प्रविश्य सपदि प्रविनिःसृतोऽस्माद् देवाननन्दयदुत स्वृतमेषु रक्षन् ॥ ५॥

दृष्ट्वा सुरप्रणयितां बलमस्य चोग्रं देवाः प्रतुष्टुवुरमुं सुमनोभिवृष्ट्या ।

तैरादृतः पुनरसौ वियतैव गच्छन् छायाग्रहं प्रतिददर्श च सिंहिकाख्यम् ॥ ६॥

लङ्कावनाय सकलस्य च निग्रहेऽस्याः सामर्थ्यमप्रतिहतं प्रददौ विधाता ।

छायामवाक्षिपदसौ पवनात्मजस्य सोऽस्याः शरीरमनुविश्य बिभेद चाऽशु ॥ ७॥

निस्सीममात्मबलमित्यनुदर्शयानो हत्वैव तामपि विधातृवराभिगुप्ताम् ।

लम्बे स लम्बशिखरे निपपात लङ्काप्राकाररूपकगिरावथ सञ्चुकोच ॥ ८॥

भूत्वा बिलाळसमितो निशि तां पुरीं च प्राप्स्यन् ददर्श निजरूपवतीं स लङ्काम् ।

रुद्धोऽनयाऽऽश्वथ विजित्य च तां स्वमुष्टिपिष्टां तयाऽनुमत एव विवेश लङ्काम् ॥ ९॥

मार्गमाणो बहिश्चान्तः सोऽशोकवनिकातळे ।

ददर्श शिंशपावृक्षमूलस्थितरमाकृतिम् ॥ १०॥

नरलोकविडम्बस्य जानन् रामस्य हृद्गतम् ।

तस्य चेष्टानुसारेण कृत्वा चेष्टाश्च संविदः ।

तादृक्चेष्टासमेताया अङ्गुलीयमदात् ततः ॥ ११॥

सीताया यानि चैवाऽऽसन्नाकृतेस्तानि सर्वशः ।

भूषणानि द्विधा भूत्वा तान्येवाऽसंस्तथैव च ॥ १२॥

अथ चूळामणिं दिव्यं दातुं रामाय सा ददौ ।

यद्यप्येतन्न पश्यन्ति निशाचरगणास्तु ते ।

द्युलोकचारिणः सर्वं पश्यन्त्यृषय एव च ॥ १३॥

तेषां विडम्बनायैव दैत्यानां वञ्चनाय च ।

पश्यतां कलिमुख्यानां विडम्बोऽयं कृतो भवेत् ॥ १४॥

कृत्वा कार्यमिदं सर्वं विशङ्कः पवनात्मजः ।

आत्माविष्करणे चित्तं चक्रे मतिमतां वरः ॥ १५॥

अथ वनमखिलं तद् रावणस्यावलुप्य क्षितिरुहमिममेकं वर्जयित्वाऽऽशु वीरः ।

रजनिचरविनाशं काङ्क्षमाणोऽतिवेलं मुहुरतिरवनादी तोरणं चाऽऽरुरोह ॥ १६॥

अथाशृणोद् दशाननः कपीन्द्रचेष्टितं परम् ।

दिदेश किङ्करान् बहून् कपिर्निगृह्यतामिति ॥ १७॥

समस्तशो विमृत्यवो वराद्धरस्य किङ्कराः ।

समासदन् महाबलम् सुरान्तरात्मनोऽङ्गजम् ॥ १८॥

अशीतिकोटियूथपं पुरस्सराष्टकायुतम् ।

अनेकहेतिसङ्कुलं कपीन्द्रमावृणोद् बलम् ॥ १९॥

समावृतस्तथाऽऽयुधैः स ताडितश्च तैर्भृशम् ।

चकार तान् समस्तशस्तळप्रहारचूर्णितान् ॥ २०॥

पुनश्च मन्त्रिपुत्रकान् स रावणप्रचोदितान् ।

ममर्द सप्त पर्वतप्रभान् वराभिरक्षितान् ॥ २१॥

बलाग्रगामिनस्तथा स शर्ववाक्सुगर्वितान् ।

निहत्य सर्वरक्षसां तृतीयभागमक्षिणोत् ॥ २२॥

अनौपमं हरेर्बलं निशम्य राक्षसाधिपः ।

कुमारमक्षमात्मनः समं सुतं न्ययोजयत् ॥ २३॥

स सर्वलोकसाक्षिणः सुतं शरैर्ववर्ष ह ।

शितैर्वरास्त्रमन्त्रितैर्न चैनमभ्यचालयत् ॥ २४॥

स मण्डमध्यकासुतं समीक्ष्य रावणोपमम् ।

तृतीय एष चांशको बलस्य हीत्यचिन्तयत् ॥ २५॥

निधार्य एव रावणः स राघवस्य नान्यथा ।

यदीन्द्रजिन्मया हतो न चास्य शक्तिरीक्ष्यते ॥ २६॥

अतस्तयोः समो मया तृतीय एष हन्यते ।

विचार्य चैवमाशु तं पदोः प्रगृह्य पुप्लुवे ॥ २७॥

स चक्रवद् भ्रमातुरं विधाय रावणात्मजम् ।

अपोथयद् धरातळे क्षणेन मारुती तनुः ॥ २८॥

विचूर्णिते धरातळे निजे सुते स रावणः ।

निशम्य शोकतापितस्तदग्रजं समादिशत् ॥ २९॥

अथेन्द्रजिन्महाशरैर्वरास्त्रसम्प्रयोजितैः ।

ततक्ष वानरोत्तमं न चाशकद् विचालने ॥ ३०॥

अथास्त्रमुत्तमं विधेर्युयोज सर्वदुष्षहम् ।

स तेन ताडितो हरिर्व्यचिन्तयन्निराकुलः ॥ ३१॥

मया वरा विलङ्घिता ह्यनेकशः स्वयम्भुवः ।

स माननीय एव मे ततोऽत्र मानयाम्यहम् ॥ ३२॥

इमे च कुर्युरत्र किं प्रहृष्टरक्षसां गणाः ।

इतीह लक्ष्यमेव मे स रावणश्च दृश्यते ॥ ३३॥

इदं समीक्ष्य बद्धवत् स्थितं कपीन्द्रमाशु ते ।

बबन्धुरन्यपाशकैर्जगाम चास्त्रमस्य तत् ॥ ३४॥

अथ प्रगृह्य तं कपिं समीपमानयंश्च ते ।

निशाचरेश्वरस्य तं स पृष्टवांश्च रावणः ॥ ३५॥

कपे कुतोऽसि कस्य वा किमर्थमीदृशं कृतम् ।

इतीरितः स चावदत् प्रणम्य राममीश्वरम् ॥ ३६॥

अवैहि दूतमागतं दुरन्तविक्रमस्य माम् ।

रघूत्तमस्य मारुतिं कुलक्षये तवेश्वरम् ॥ ३७॥

न चेत् प्रदास्यसि त्वरन् रघूत्तमप्रियां तदा ।

सपुत्रमित्रबान्धवो विनाशमाशु यास्यसि ॥ ३८॥

न रामबाणधारणे क्षमाः सुरेश्वरा अपि ।

विरिञ्चिशर्वपूर्वकाः किमु त्वमल्पसारकः ॥ ३९॥

प्रकोपितस्य तस्य कः पुरस्थितौ क्षमो भवेत् ।

सुरासुरोरगादिके जगत्यचिन्त्यकर्मणः ॥ ४०॥

इतीरिते वधोद्यतं न्यवारयद् विभीषणः ।

स पुच्छदाहकर्मणि न्ययोजयन्निशाचरान् ॥ ४१॥

अथास्य वस्त्रसञ्चयैः पिधाय पुच्छमग्नये ।

दुदुर्ददाह नास्य तन्मरुत्सखो हुताशनः ॥ ४२॥

ममर्ष सर्वचेष्टितं स रक्षसां निरामयः ।

बलोद्धतश्च कौतुकात् प्रदग्धुमेव तां पुरीम् ॥ ४३॥

ददाह चाखिलं पुरं स्वपुच्छगेन वह्निना ।

कृतस्तु विश्वकर्मणोऽप्यदह्यतास्य तेजसा ॥ ४४॥

सुवर्णरत्नकारितां स राक्षसोत्तमैः सह ।

प्रदह्य सर्वशः पुरीं मुदाऽन्वितो जगर्ज च ॥ ४५॥

स रावणं सपुत्रकं तृणोपमं विधाय च ।

तयोः प्रपश्यतोः पुरं विधाय भस्मसाद् ययौ ॥ ४६॥

विलङ्घ्य चार्णवं पुनः स्वजातिभिः प्रपूजितः ।

प्रभक्ष्य वानरेशितुर्मधु प्रभुं समेयिवान् ॥ ४७॥

रामं सुरेश्वरमगण्यगुणाभिरामं सम्प्राप्य सर्वकपिवीरवरैः समेतः ।

चूळामणिं पवनजः पदयोर्निधाय सर्वाङ्गकैः प्रणतिमस्य चकार भक्त्या ॥ ४८॥

रामोऽपि नान्यदनुदातुममुष्य योग्यमत्यन्तभक्तिपरमस्य विलक्ष्य किञ्चित् ।

स्वात्मप्रदानमधिकं पवनात्मजस्य कुर्वन् समाश्लिषदमुं परमाभितुष्टः ॥ ४९॥

{इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते}

{श्रीमहाभारततात्पर्यनिर्णये}

{श्रीरामचरिते हनूमत्प्रतियानं नाम सप्तमोऽध्यायः}