गतेऽथ चेदिपे स्वकं पुरं जनार्दनोऽशृणोत्

सप्तदशोऽध्यायः
सर्वशास्त्रतात्पर्यनिर्णयः

औं ॥ गतेऽथ चेदिपे स्वकं पुरं जनार्दनोऽशृणोत् ।

रमैव रुग्मिणीति योद्यतां स्वयम्बराय ताम् ॥ १॥

स रुग्मिनामकोऽग्रजः श्रियो द्विषन् रमापतिम् ।

हरेः प्रदातुमुद्यतां न्यवारयद्धरिप्रियाम् ॥ २॥

प्रघोषिते स्वयम्बरेऽथ तेन मागधादयः ।

समीयुरुग्रपौरुषाः ससाल्वपौण्ड्रचेदिपाः ॥ ३॥

तदा जगाम केशवो जवेन कुण्डिनं पुरम् ।

स्मृतोऽथ तेन पक्षिराट् समाजगाम केशवम् ॥ ४॥

पतत्रवायुनाऽस्य ते नरेश्वराः प्रपातिताः ।

यदेदृशं पतत्रिणो बलं हरेः किमुच्यते ॥ ५॥

किमत्र नः कृतं भवेत् सुखाय हीति तेऽब्रुवन् ।

अथाब्रवीज्जरासुतो जयी पयोब्धिमन्दिरः ।

किलैष पक्षिवाहनो यतश्च नान्यथा भवेत् ॥ ६॥

जिता वयं च सर्वशोऽमुनैकलेन संयुगे ।

अनेकशो न सङ्गतैर्जितः कदाचिदेष हि ॥ ७॥

अमुष्य चाग्रजः पुरा निहन्तुमुद्यतो हि माम् ।

अदृश्यवाक्यतोऽत्यजत् प्रताडनात् सुपीडितम् ॥ ८॥

किमस्य तूच्यते बलं वयं तृणोपमाः कृताः ।

समस्तशो मृधेमृधे हि येन चाक्षतेन हा ॥ ९॥

किमत्र कुर्वतां सुखं भवेदुदीर्णसङ्कटे ।

इति ब्रुवन्नवाङ् मुखं नृपश्चकार विच्छवि ॥ १०॥

अथाऽह चेदिभूपतिः सदन्तवक्रको वचः ।

पुरा हरेर्हि पार्षदः प्रसन्नबुद्धिरेकदा ॥ ११॥

शृणुष्व राजसत्तम प्रभुं शिवस्वयम्भुवोः ।

हरिं वदन्ति केचिदप्यदो भवेन्न वै मृषा ॥ १२॥

तथाऽऽवयोश्च दर्शने भवेत् कदाचिदूर्जिता ।

अमुष्य भक्तिरन्यथा पुनश्च जायते क्रुधा ॥ १३॥

न कारणं न विद्महे न संशयः परो हरिः ।

व्रजाम तं सुखार्थिनो वयं विहाय शत्रुताम् ॥ १४॥

इदं हि नः शुभप्रदं नचान्यथा शुभं क्वचित् ।

इतीरितो जरासुतो ददर्श तौ दहन्निव ॥ १५॥

अथ प्रहस्य सौभराड् वचो जगाद मागधम् ।

विनिन्द्य तौ क्रुधा स्फुरन् क्रुधा स्फुरन्तमीक्ष्य च ॥ १६॥

न तन्मृषा हरिः स्वयं जनार्दनो वधाय नः ।

प्रजात एष यादवो वयं च दानवेश्वराः ॥ १७॥

स्वधर्म एष नः सदा दृढप्रतीपता हरौ ।

स्वधर्मिणो हता अपि प्रयाम सद्गतिं ध्रुवम् ॥ १८॥

शिवश्च नः परा गतिर्गुरुर्भवानरिर्हरेः ।

इतीरितः स मागधो जगाद साधुसाध्विति ॥ १९॥

तथैव रुग्मिपूर्वकाः करूशचेदिपौ च तौ ।

विनिश्चयं कुबुद्धयो युधे च चक्रुरूर्जितम् ॥ २०॥

सदा प्रतीपकारिणौ भवाव कृष्ण इत्यपि ।

गुरोः प्रसादमाप्नुतां करूशचेदिभूभृतौ ॥ २१॥

पुनश्च ते त्वमन्त्रयन् सहैव पापबुद्धयः ।

ध्रुवं समागतो हरिर्लभेत रुग्मिणीमिमाम् ॥ २२॥

अयं त्रिलोकसुन्दरोऽनुरूपिणी च रुग्मिणी ।

मुखेन बाहुनाऽप्ययं समस्तलोकजिद् वशी ॥ २३॥

समस्तवेदिनां वरं जितारिमग्र्यरूपिणम् ।

समस्तयोषितां वरा व्रजेत रुग्मिणी ध्रुवम् ॥ २४॥

वयं च मानसङ्क्षयं नितान्तमाप्नुमस्तदा ।

न शक्नुमो निवारितुं शरैरमुं कथञ्चन ॥ २५॥

अतः स्वयम्बरे यथा न सङ्गमो हरेर्भवेत् ।

तथा विधानमेव नः सुनीतिरूर्जिता ध्रुवम् ॥ २६॥

अतो न देयमस्य नः सुभूभुजां समागमे ।

क्वचित् कदाचिदासनं नचार्घ्यपूर्वको विधिः ॥ २७॥

नचाऽस्यति क्षितौ क्वचिद् विमानितः पुरो हि नः ।

वरासनस्थभूभुजां स मानितो हि दैवतैः ॥ २८॥

स दर्पमानसंयुतः क्रुधा प्रयास्यति ध्रुवम् ।

पुरीं स्वकां ततौ वयं विधेम च स्वयम्बरम् ॥ २९॥

इति स्म सर्वभूभृतां विनिश्चयं सकैशिकः ।

क्रथोऽवगम्य भीष्मकानुजोऽभ्ययाद्धरिं द्रुतम् ॥ ३०॥

प्रणम्य पादपद्मयोर्निजं गृहं प्रवेश्य च ।

महासनं प्रदाय तौ प्रचक्रतुर्वरार्चनम् ॥ ३१॥

अथाऽगमच्छतक्रतोर्वचः प्रगृह्य भूभुजः ।

जरासुतादिकान् पुमानुवाच चार्थवद् वचः ॥ ३२॥

अहं प्रियः शचीपतेः सदाऽस्य चाक्षिगोचरः ।

सुरेन्द्र आज्ञयाऽवदन्नृपान् व ईश्वरो हि सः ॥ ३३॥

समस्तराजसत्पतिर्हरिर्नचान्य इत्यपि ।

वराभिषेकमीशितुः कुरुध्वमाश्वसंशयम् ॥ ३४॥

अतोऽन्यथा शिरस्यहं निपातयामि वोऽशनिम् ।

इतीदमिन्द्रशासनं कुरुध्वमित्यसौ ययौ ॥ ३५॥

तदीरितं निशम्य ते पुनः सुतप्तचेतसः ।

बभूवुरूचिरे वचः सुगर्वितो हि वासवः ॥ ३६॥

पुरा बिभेति नः सदा प्रतिप्रति स्म वासवः ।

उताद्य कृष्णसंश्रयाद् दृढं विभीषयत्यसौ ॥ ३७॥

अदृश्य एव देवराड् यदि स्म वज्रमुत्सृजेत् ।

भवेम पीडिता वयं वरादमृत्यवोऽपि हि ॥ ३८॥

पुरा दिविस्थितस्य च प्रमर्दने वयं क्षमाः ।

उताद्य यद्यमुं वयं व्रजेम कृष्ण एष्यति ॥ ३९॥

अतोऽभिषेचनाद् यदीह शार्ङ्गिणः शचीपतिः ।

न वज्रमुत्सृजेत् तदाऽभिषेचयाम तं वयम् ॥ ४०॥

अतोऽन्यथा दनुर्यथा वरादमृत्युकोऽपि सन् ।

सुरेन्द्रवज्रताडितो बभूव कुक्षिगास्ययुक् ॥ ४१॥

तथैव कृष्णसंश्रयात् स नः शचीपतिर्नयेत् ।

इति स्म निश्चिता नृपानयातयन्त शौरये ॥ ४२॥

समस्तशो जरासुतादिभिः कृतेऽभिषेचने ।

अतीव भग्नमानकान् नचानुयाति कश्चन ॥ ४३॥

समाश्रयं च केशवं तदैव जीवनार्थिनः ।

प्रकुर्युरासुरा अपीति देवकार्यसङ्क्षयः ॥ ४४॥

इतीक्ष्य पाकशासनोऽवदज्जरासुतादिकान् ।

सरुग्मिचेदिसाल्वपो न यातु मागधो हरिम् ॥ ४५॥

ततस्तु तान् विनाऽपरेऽधिराजराज इत्यमुम् ।

तदाऽभिषेक्तुमुद्यता नृपाः सुरेशशासनात् ॥ ४६॥

अतः शचीपतिर्निजं वरासनं हरेरदात् ।

विवेश तत्र केशवो नभस्तळावतारिते ॥ ४७॥

करे प्रगृह्य केशवो न्यवेशयत् सहाऽसने ।

पतत्रिपुङ्गवं च तौ स भीष्मकानुजौ प्रभुः ॥ ४८॥

अथाखिला नरेश्वरा मुनीन्द्रसंयुता हरिम् ।

सुशातकौम्भकुम्भकैः प्रचक्रुराभिषेकिणम् ॥ ४९॥

विरिञ्चशर्वपूर्वकैरभिष्टुतः सुरादिभिः ।

समस्तदेवगायकैः प्रगीत आस केशवः ॥ ५०॥

अथाऽह भीष्मकं प्रभुः स्वयंवरः किल त्वया ।

अभीप्सितः सुताकृते शुभाय ते भवेन्न सः ॥ ५१॥

इयं रमा तवाऽत्मजा बभूव तां हरेर्नच ।

ददाति चेत् तदा पिता निरिन्दिरो व्रजेदधः ॥ ५२॥

हिताय चैतदीरितं तवान्यथा न चिन्तय ।

न योषिदिच्छया त्वहं ब्रवीमि पश्य यादृशः ॥ ५३॥

उदीर्य चैवमीश्वरश्चकार हाऽविरात्मनः ।

स विश्वरूपमुत्तमं विसङ्ख्यशीर्षबाहुकम् ॥ ५४॥

अनन्ततेज आततं विसङ्ख्यरूपसंयुतम् ।

विचित्रमौलिकुण्डलाङ्गदोरुहारनूपुरम् ॥ ५५॥

ज्वलत्सुकौस्तुभप्रभाऽभिभासकं शुभाम्बरम् ।

प्रपश्य यादृशाः स्त्रियो ममेत्यदर्शयच्छ्रियम् ॥ ५६॥

अनन्तरूपिणीं परां मनुष्यदृष्टितोऽधिकाम् ।

स्वरुग्मिणीतनोरपि व्यदर्शयच्च देवताः ॥ ५७॥

तदद्भुतं समीक्ष्य तु प्रभीत आशु भीष्मकः ।

पपात पादयोर्विभोः करोमि तत् तथेति च ॥ ५८॥

पुनश्च विश्वरूपतां पिधाय पद्मलोचनः ।

जगाम पक्षिवाहनः पुरीं स्वबाहुपालिताम् ॥ ५९॥

अपाम्पतिश्च मैथिलः स्वयंवरङ्कृतावपि ।

हरिं विनिश्चयादियं व्रजेदिति स्म चक्रतुः ॥ ६०॥

स्वयंवरः क्षितेर्भुजां स्वधर्म इत्यतो द्वयोः ।

न दोष आस भीष्मको न केशवार्थमैच्छत ॥ ६१॥

अतो हरौ प्रबोध्य तं गते कृपालुसत्तमे ।

वशीकृते च भीष्मके नृपास्त्वमन्त्रयन् पुनः ॥ ६२॥

यशश्च धर्ममुत्तमं विधित्सता वृकोदरे ।

न केशवेन सूदितो जरासुतो हि मन्यते ॥ ६३॥

वराच्छिवस्य मामयं न हन्तुमीष्ट उत्तमात् ।

अतः शिवप्रसादतो जितोऽपि जेष्य उत्तरम् ॥ ६४॥

मृधेमृधे जितोऽपि सन् दृढाशया पुनःपुनः ।

समीहते युधे शिवं नचावमन्यते क्वचित् ॥ ६५॥

अतः पुनश्च भूमिपानुवाच बार्हद्रथः ।

धिगेव पौरुषं हि नो यदेष नोऽजयत् सदा ॥ ६६॥

अभूपतेर्नचाऽसनं प्रदेयमित्युदाहृतम् ।

अमुष्य नस्तदन्यथा बभूव चिन्तितं नृपाः ॥ ६७॥

अयं नृपोत्तमाङ्गणे महेन्द्रपीठमारुहत् ।

समस्तराजराजतामवाप नोऽप्यनिच्छताम् ॥ ६८॥

अतः पुनः कथं हरिं वयं जयेम चिन्त्यताम् ।

यथा च भीष्मकात्मजामवाप्नुयाच्च चेदिराट् ॥ ६९॥

अयं हि दत्तपुत्रको म औरसाद् विशिष्यते ।

अतो निवेश्य एष मे सुरूपिणी च रुग्मिणी ॥ ७०॥

शिवागमेषु शिष्यकाः सरुग्मिसाल्वपौण्ड्रकाः ।

ममाखिला नृपास्ततः कुरुध्वमेतदेव मे ॥ ७१॥

इतीरिते तु सौभराड् जगाद रुग्मिसंविदा ।

स्वयंवरो निवर्तितः स्वसारमेष दास्यति ॥ ७२॥

नचातिवर्तितुं क्षमः पिताऽस्य चेदिपाय ताम् ।

प्रदातुकाममात्मजं वयोगतस्तथाऽबलः ॥ ७३॥

स्वयं तु कृष्ण एत्य नो विजित्य कन्यकां हरेत् ।

ततोऽस्य पूर्वमेव नो ह्यभावता कृता शुभा ॥ ७४॥

उपाय एष चिन्तितो मयाऽत्र मागधेश्वर ।

मुनिं हि गर्गनामकं ह्यमुष्य साल आक्षिपत् ॥ ७५॥

यदाऽस्य षण्ढतोदिता मुनेः पुरो हि तस्य च ।

परेण वृष्णयोऽहसंश्चुकोप गर्ग एषु ह ॥ ७६॥

चकार हि प्रतिश्रवं समार्जये सुतं द्रुतम् ।

अकृष्णतां य आनयेद् भुवोऽपि वृष्णिनाशकः ॥ ७७॥

यतो हि कृष्णसंश्रयाद् बतापहासिता वयम् ।

इति ब्रुवन् वनं ययौ तपश्च शैवमाचरत् ॥ ७८॥

स चूर्णमायसं त्वदन् ददर्श चाब्दतः शिवम् ।

वरं ततोऽभिपेदिवान् सुतं हरेरभावदम् ॥ ७९॥

स विष्णुदैवतोऽपि सन् प्रविष्ट उल्बणासुरैः ।

व्यधाद्धरेः प्रतीपकं व्रतं च नैष्ठिकं जहौ ॥ ८०॥

तमार चाऽसुराप्सरा बलिष्ठपुत्रकाम्यया ।

प्रविश्य गोपिकाङ्गनासमूहमध्यमुल्बणा ॥ ८१॥

स यावनेन भूभृता हि गोपिकाभिरर्चितः ।

अपुत्रकेण जानता मुनेर्मनोऽनुचिन्तितम् ॥ ८२॥

स चाप्सरस्तनौ सुतं निषिच्य यावनाय च ।

ददौ विमोहितः क्रुधा किमेतदीश वैरिणः ॥ ८३॥

स आश्रमाच्च नैष्ठिकाद् विदूषितः प्रतीपकृत् ।

हरेश्च तापमेयिवान् जगर्ह चाऽत्मशेमुषीम् ॥ ८४॥

जगाम चारणं हरिं प्रपाहि मां सुपापिनम् ।

इति स्म विष्ण्वनुज्ञया चकार वैष्णवं तपः ॥ ८५॥

कुतो हि भाग्यमापतेन्मुनेः शिवार्चने सदा ।

भवादृशा हि दानवाः स्थिराः शिवार्चने सदा ॥ ८६॥

सुतोऽस्य कालनामको बभूव कृष्णमर्दितुम् ।

सदैव कालकाङ्क्षणात् स यावनाभिषेचितः ॥ ८७॥

तवैव शिष्य एष चातिभक्तिमान् हि शङ्करे ।

प्रभूतसेनया युतो बलोद्धतश्च सर्वदा ॥ ८८॥

तमेष यामि शासनात् तवोपनीय सत्वरम् ।

विकृष्णकं क्षितेस्तळं विधाय संरमाम हा ॥ ८९॥

ततश्च रुग्मिणीं वयं प्रदापयाम चेदिपे ।

विनाश्य देवपक्षिणो यथेष्टमास्म सर्वदा ॥ ९०॥

इतीरितो जरासुतो बभूव दुर्मना भृशम् ।

किरीटमण्डितं शिरश्चकार चाऽश्ववाग् भृशम् ॥ ९१॥

करं करेण पीडयन् निशाम्य चाऽत्मनो भुजौ ।

जगाद कार्यसिद्धये कथं प्रयाचये परम् ॥ ९२॥

सुदुर्गकार्यसन्ततिं ह्यगुः स्म मद्भुजाश्रयाः ।

समस्तभूतळे नृपाः स चाहमेष मागधः ॥ ९३॥

कदाऽप्यचीर्णमद्य तत् कथं करोमि केवलम् ।

गिरीशपादसंश्रयः प्रभुः समस्तभूभृताम् ॥ ९४॥

इतीरितः स सौभराड् जगाद वाक्यमुत्तरम् ।

भवानपि स्म मुह्यते किमस्मदादयः प्रभो ॥ ९५॥

स्वशिष्यकैः कृतं तु यत् किमन्यसाधितं भवेत् ।

स्वशिष्यदासवर्गकैः समर्थयन्ति भूभुजः ॥ ९६॥

अपि स्म ते बलाश्रयप्रवृत्तयोऽस्मदादयः ।

पुमान् कुठारसङ्ग्रहादशक्त ईर्यते हि किम् ॥ ९७॥

कुठारसम्मितो ह्यसौ तवैव यावनेश्वरः ।

विना भवद्बलं क्वचित् प्रवर्तितुं नहि क्षमः ॥ ९८॥

वरो हि कृष्णमर्दने वृतोऽस्य केवलः शिवात् ।

तदन्यशत्रुपीडनात् त्वमेव तस्य रक्षकः ॥ ९९॥

तवाखिलैरजेयता शिवप्रसादतोऽस्ति हि ।

विशेषतो हरेर्जये वरादयं विमार्ग्यते ॥ १००॥

इतीरितेऽप्यतृप्तवत् स्थिते तु बार्हद्रथे ।

जगाम सौभमास्थितः स सौभराट् च यावनम् ॥ १०१॥

स कालयावनोऽथ तं जरासुतान्तिकागतम् ।

निशम्य भक्तिपूर्वकं प्रणम्य चाऽर्चयद् द्रुतम् ॥ १०२॥

जरासुतो हि दैवतं समस्तकेशवद्विषाम् ।

इति प्रणम्य तां दिशं तदीयमाश्वपूजयत् ॥ १०३॥

तदीरितं निशम्य च द्रुतं त्रिकोटिसङ्ख्यया ।

अक्षोहिणीकया युतः स्वसेनया निराक्रमत् ॥ १०४॥

तदश्वमूत्रविष्ठया बभूव नामत शकृत् ।

नदी सुवेगगामिनी कलौ च या वहेद् द्रुतम् ॥ १०५॥

पुनःपुनर्नदीभवं निशाम्य देशसङ्क्षयम् ।

तदन्यदेशमूत्रितं व्यशोषयद्धि मारुतः ॥ १०६॥

हरिश्च वैनतेययुग् विचार्य रामसंयुतः ।

सदाऽतिपूर्णसंविदप्यजोऽथ लीलयाऽस्मरत् ॥ १०७॥

युयुत्सुरेष यावनः समीपमागतोऽद्य नः ।

युयुत्सतामनेन नो जरासुतोऽभियास्यति ॥ १०८॥

स यादवान् हनिष्यति प्रभङ्गतस्तु कोपितः ।

पुरा जयाशया हि नौ यदून् न जघ्निवानसौ ॥ १०९॥

निराशकोऽद्य यादवानपि स्म पीडयिष्यति ।

अतः समुद्रमध्यगापुरीविधानमद्य मे ।

प्ररोचते निधानमप्यमुत्र सर्वसात्त्वताम् ॥ ११०॥

उदीर्य चैवमीश्वरोऽस्मरत् सुरेशवर्धकिम् ।

स भौवनः समागतः कुशस्थलीं विनिर्ममे ॥ १११॥

निरम्बुके तु सागरे जनार्दनाज्ञया कृते ।

महोदकस्य मध्यतश्चकार तां पुरीं शुभाम् ।

द्विषट्कयोजनायतां पयोब्धिमध्यगोपमाम् ॥ ११२॥

चकार लावणोदकं जनार्दनोऽमृतोपमम् ।

सभां सुधर्मनामकां ददौ समीरणोऽस्य च ॥ ११३॥

शतक्रतोः सभां तु तां प्रदाय केशवाय सः ।

निधीन् समर्प्य सर्वशो ययौ प्रणम्य तं प्रभुम् ॥ ११४॥

समस्तदेवतागणाः स्वकीयमर्पयन् हरौ ।

विमुच्य पक्षिपुङ्गवं स योद्धुमैच्छदच्युतः ॥ ११५॥

सम्स्तमाधुरान् प्रभुः कुशस्थलीस्थितान् क्षणात् ।

विधाय बाहुयोधकः स यावनं समभ्ययात् ॥ ११६॥

अनन्तशक्तिरप्यजः सुनीतिदृष्टये नृणाम् ।

व्यवासयन्निजान् जनान् स लीलयैव केवलम् ॥ ११७॥

अनाद्यनन्तकालकं समस्तलोकमण्डलम् ।

यदीक्षयैव रक्ष्यते किमस्य वृष्णिरक्षणम् ॥ ११८॥

निरायुधं च मामयं वराच्छिवस्य न क्षमः ।

समस्तसेनया युतोऽपि योद्धुमित्यदर्शयत् ॥ ११९॥

स कृष्णपन्नगं घटे निधाय केशवोऽर्पयत् ।

निरायुधोऽप्यहं क्षमो निहन्तुमप्रियानिति ॥ १२०॥

घटं पिपीलिकागणैः प्रपूर्य यावनोऽस्य च ।

बहुत्वतो विजेष्य इत्यहिं मृतं व्यदर्शयत् ॥ १२१॥

किमत्र सत्यमित्यहं प्रदर्शयिष्य इत्यजः ।

उदीर्य दूतमभ्ययात् स यावनं प्रबाधितुम् ॥ १२२॥

स बाहुनैव केशवो विजित्य यावनं प्रभुः ।

निहत्य सर्वसैनिकान् स्वमस्य यापयत् पुरीम् ॥ १२३॥

सहास्त्रशस्त्रसञ्चयान् सृजन्तमाशु यावनम् ।

न्यपातयद् रथोत्तमात् तळेन केशवोऽरिहा ॥ १२४॥

विवाहनं निरायुधं विधाय बाहुना क्षणात् ।

विमूर्च्छितं नचाहनत् सुरार्थितं स्मरन् हरिः ॥ १२५॥

पुरा हि यौवनाश्वजे वरप्रदाः सुरेश्वराः ।

ययाचिरे जनार्दनं वरं वरप्रदेश्वरम् ॥ १२६॥

अनर्थको वरोऽमुना वृतोऽपि सार्थको भवेत् ।

अरिं भविष्ययावनं दहत्वयं तवेश्वर ॥ १२७॥

तथाऽस्त्विति प्रभाषितं स्ववाक्यमेव केशवः ।

ऋतं विधातुमभ्ययात् स यौवनाश्वजान्तिकम् ॥ १२८॥

ससञ्ज्ञकोऽथ यावनो धरातळात् समुत्थितः ।

निपात्य यान्तमीश्वरं स पृष्ठतोऽन्वयात् क्रुधा ॥ १२९॥

हरिर्गुहां नृपस्य तु प्रविश्य संव्यवस्थितः ।

स यावनः पदाऽहनन्नृपं स तं ददर्श ह ॥ १३०॥

स तस्य दृष्टिमात्रतो बभूव भस्मसात् क्षणात् ।

स एव विष्णुरव्ययो ददाह तं हि वह्निवत् ॥ १३१॥

वराच्छिवस्य दैवतैरवध्यदानवान् पुरा ।

हरेर्वरान्निहत्य स प्रपेद आश्विमं वरम् ॥ १३२॥

सुदीर्घसुप्तिमात्मनः प्रसुप्तिभङ्गकृत्क्षयम् ।

स्वदृष्टिमात्रतस्ततो हतः स यावनस्तदा ॥ १३३॥

अतश्च पुण्यमाप्तवान् सुरप्रसादतोऽक्षयम् ।

स यौवनाश्वजो नृपो न देवतोषणं वृथा ॥ १३४॥

ततो हरिं निरीक्ष्य स स्तुतिं विधाय चोत्तमाम् ।

हरेरनुज्ञया तपश्चचार मुक्तिमाप च ॥ १३५॥

ततो गुहामुखाद्धरिर्विनिस्सृतो जरासुतम् ।

समस्तभूपसंवृतं जिगाय बाहुनेश्वरः ॥ १३६॥

तळेन मुष्टिभिस्तथा महीरुहैश्च चूर्णिताः ।

निपेतुरस्य सैनिकाः स्वयं च मूर्च्छितोऽपतत् ॥ १३७॥

ससाल्वपौण्ड्रचेदिपान् निपात्य सर्वभूभुजः ।

स पुप्लुवे जनार्दनः क्षणेन तां कुशस्थलीम् ॥ १३८॥

ससञ्ज्ञकाः समुत्थितास्ततो नृपाः पुनर्ययुः ।

जिगीषवोऽथ रुग्मिणीं विधाय चेदिपे हरिम् ॥ १३९॥

समस्तराजमण्डले विनिश्चयादुपागते ।

सभीष्मके च रुग्मिणि प्रदातुमुद्यते मुदा ॥ १४०॥

समस्तलोकयोषितां वरा विदर्भनन्दना ।

द्विजोत्तमं हरेः पदोः सकाशमाश्वयातयत् ॥ १४१॥

निशम्य तद्वचो हरिः क्षणाद् विदर्भकानगात् ।

तमन्वयाद्धलायुधः समस्तयादवैः सह ॥ १४२॥

समस्तराजमण्डलं प्रयान्तमीक्ष्य केशवम् ।

सुयत्तमात्तकार्मुकं बभूव कन्यकावने ॥ १४३॥

पुरा प्रदानतः सुरेक्षणच्छलाद् बहिर्गताम् ।

रथे न्यवेशयद्धरिः प्रपश्यतां च भूभृताम् ॥ १४४॥

जरासुतादयो रुषा तमभ्ययुः शरोत्तमैः ।

विधाय तान् निरायुधान् जगाम केशवः शनैः ॥ १४५॥

पुनर्गृहीतकार्मुकान् हरिं प्रयातुमुद्यतान् ।

न्यवारयद्धलायुधो बलाद् बलोर्जिताग्रणीः ॥ १४६॥

तदा सितः शिरोरुहो हरेर्हलायुधस्थितः ।

प्रकाशमाविशद् बलं विजेतुमत्र मागधम् ॥ १४७॥

स तस्य मागधो रणे गदानिपातचूर्णितः ।

पपात भूतळे बलो विजित्य तं ययौ पुरीम् ॥ १४८॥

वरोरुवेषसंवृतोऽथ चेदिराट् समभ्ययात् ।

तमाससार सात्यकिर्नदन् मृगाधिपो यथा ॥ १४९॥

चिरं प्रयुद्ध्य तावुभौ वरास्त्रशस्त्रवर्षिणौ ।

क्रुधा निरीक्ष्य तस्थतुः परस्परं स्फुरत्तनू ॥ १५०॥

समानभावमक्षमी शिनेः सुतात्मजः शरम् ।

अथोद्बबर्ह तत्क्षणाद् बलान्मुमोच वक्षसि ॥ १५१॥

स तेन ताडितोऽपतद् विसञ्ज्ञको नृपात्मजः ।

विजित्य तं स सात्यकिर्ययौ प्रहृष्टमानसः ॥ १५२॥

अथापरे च यादवा विजित्य तद्बलं ययुः ।

पुरैव रुग्मिपूर्वकाः प्रजग्मुरच्युतं प्रति ॥ १५३॥

सहैकलव्यपूर्वकैः समेत्य भीष्मकात्मजः ।

हरिं ववर्ष सायकैः स सिंहवन्न्यवर्तत ॥ १५४॥

अक्षोहिणीत्रयं हरिस्तदा निहत्य सायकैः ।

अवाहनायुधं व्यधान्निषादपं शरैः क्षणात् ॥ १५५॥

शरं शरीरनाशकं समाददानमीश्वरम् ।

स एकलव्य आशु तं विहाय दुद्रुवे भयात् ॥ १५६॥

धनुर्भृतां वरे गते रणं विहाय भूभृतः ।

करूशराजपूर्वकाः क्षणात् प्रदुद्रुवुर्भयात् ॥ १५७॥

अथाऽससाद केशवं रुषा स भीष्मकात्मजः ।

शराम्बुधार आशु तं विवाहनं व्यधाद्धरिः ॥ १५८॥

चकर्त कार्मुकं पुनः स खड्गचर्मभृद्धरेः ।

रथं समारुहच्छरैश्चकर्त खड्गमीश्वरः ॥ १५९॥

शरैर्वितस्तिमात्रकैर्विधाय तं निरायुधम् ।

प्रियावचः प्रपालयन् जघान नैनमच्युतः ॥ १६०॥

निबद्ध्य पञ्चचूळिनं विधाय तं व्यसर्जयत् ।

जगज्जनित्रयोरिदं विडम्बनं रमेशयोः ॥ १६१॥

सदैकमानसावपि स्वधर्मशासकौ नृणाम् ।

रमा हरिश्च तत्र तौ विजह्रतुर्हि रुग्मिणा ॥ १६२॥

अथाऽससाद सौभराड् हरिं शराम्बुवर्षणः ।

हरिः शरं यमोपमं मुमोच तस्य वक्षसि ॥ १६३॥

शरेण तेन पीडितः पपात मन्दचेष्टितः ।

चिरात्तसञ्ज्ञकोऽगमत् त्रिनेत्रतोषणेच्छया ॥ १६४॥

समस्तराजसन्निधावयादवीं महीमहम् ।

करिष्य इत्युदीर्य स व्यधात् तपोऽतिदुश्चरम् ॥ १६५॥

अथो विवेश केशवः पुरीं कुशस्थलीं विभुः ।

प्रियायुतोऽब्जजादिभिः समीडितः सुरेश्वरैः ॥ १६६॥

पुरा ततो हलायुधः प्रियां निजां पुराऽपि हि ।

स वारुणीसमाह्वयामवाप रैवतीं विभुः ॥ १६७॥

पतिं यथाऽनुरूपिणं तदीयमेव पूर्वकम् ।

पिता तदीय ऐच्छत प्रवेत्तुमब्जसम्भवात् ॥ १६८॥

स तत्सदो गतो वरात् तदीयतः प्रगीतिकाम् ।

निशम्य नाविदद् गतं युगोरुकालपर्ययम् ॥ १६९॥

नरानयोग्यगीतिका विमोहयेत् ततो नृपः ।

सुमूढबुद्धिरन्ततोऽल्पकाल इत्यमन्यत ॥ १७०॥

स मूर्च्छितः प्रबोधितोऽब्जजेन तं त्वपृच्छत ।

सुतापतिं बलं च सोऽब्रवीद् युगात्यये बहौ ॥ १७१॥

स रैवतो बलाय तां प्रदाय गन्धमादनम् ।

गतोऽत्र चीर्णसत्तपा अवाप केशवान्तिकम् ॥ १७२॥

बलोऽपि तां पुरातनप्रमाणसम्मितां विभुः ।

हलेन चाऽज्ञया समां चकार सत्यवाञ्छितः ॥ १७३॥

तया रतः सुतावुभौ शठोल्मुकाभिधावधात् ।

पुराऽर्यमांशकौ सुरावुदारचेष्टितो बलः ॥ १७४॥

जनार्दनश्च रुग्मिणीकरं शुभे दिनेऽग्रहीत् ।

महोत्सवस्तदाऽभवत् कुशस्थलीनिवासिनाम् ॥ १७५॥

चतुर्मुखेशपूर्वकाः सुरा वियत्यवस्थिताः ।

प्रतुष्टुवुर्जनार्दनं रमासमेतमव्ययम् ॥ १७६॥

मुनीन्द्रदेवगायनादयोऽपि यादवैः सह ।

विचेरुरुत्तमोत्सवे रमारमेशयोगिनि ॥ १७७॥

सुरांशकाश्च ये नृपाः समाहुता महोत्सवे ।

सपाण्डवाः समाययुर्हरिं रमासमायुतम् ॥ १७८॥

समस्तलोकसुन्दरौ युतौ रमारमेश्वरौ ।

समीक्ष्य मोदमाययुः समस्तलोकसज्जनाः ॥ १७९॥

तया रमन् जनार्दनो वियोगशून्यया सदा ।

अधत्त पुत्रमुत्तमं मनोभवं पुरातनम् ॥ १८०॥

चतुस्तनोर्हरेः प्रभोस्तृतीयरूपसंयुतः ।

ततस्तदाह्वयोऽभवत् स रुग्मिणीसुतो बली ॥ १८१॥

पुरैव मृत्यवेऽवदत् तमेव शम्बरस्य ह ।

प्रजातमब्जजाङ्कजस्तवान्तकोऽयमित्यपि ॥ १८२॥

स मायया हरेः सुतं प्रगृह्य सूतिकागृहात् ।

अवाक्षिपन्महोदधावुपेक्षितोऽरिपाणिना ॥ १८३॥

तमग्रसज्जलेचरः स दाशहस्तमागतः ।

कुमारमस्य तूदरे निरीक्ष्य शम्बरे ददुः ॥ १८४॥

विपाट्य मत्स्यकोदरं स शम्बरः कुमारकम् ।

न्यवेदयन्मनोभवप्रियाकरे सुरूपिणम् ॥ १८५॥

अनङ्गतामुपागते पुरा हरेण साऽङ्गजे ।

वशं विरिञ्चशापतो जगाम शम्बरस्य हि ॥ १८६॥

पुरा हि पञ्चभर्तृकां निशम्य कञ्जजोदिताम् ।

जहास पार्षतात्मजां शशाप तां ततस्त्वजः ॥ १८७॥

भवासुरेण दूषितेति सा ततो हि मायया ।

पिधाय तां निजां तनुं जगाम चान्ययाऽसुरम् ॥ १८८॥

गृहेऽपि साऽऽसुरे स्थिता निजस्वरूपतोऽसुरम् ।

न गच्छति स्म सा पतिं निजं समीक्ष्य हर्षिता ॥ १८९॥

रसायनैः कुमारकं व्यवर्द्धयद् रतिः पतिम् ।

स पूर्णयौवनोऽभवच्चतुर्भिरेव वत्सरैः ॥ १९०॥

पतिं सुपूर्णयौवनं निरीक्ष्य तां विषज्जतीम् ।

उवाच कार्ष्णिरम्ब ते कुचेष्टितं कथं न्विति ॥ १९१॥

जगाद साऽखिलं पतौ तदस्य जन्म चाऽगतिम् ।

ततोऽग्रहीत् स तां प्रियां रतिं रमापतेः सुतः ॥ १९२॥

ददौ च मन्त्रमुत्तमं समस्तमायिनाशकम् ।

भृगूत्थरामदैवतं रतिर्हरेः सुताय सा ॥ १९३॥

ततः स्वदारधर्षकं समाह्वयद् युधेऽङ्गजः ।

स शम्बरं स चैत्य तं युयोध शक्तितो बली ॥ १९४॥

स चर्मखड्गधारिणं वरास्त्रशस्त्रपादपैः ।

यदा न योद्धुमाशकद्धरेः सुतं न दृश्यते ॥ १९५॥

सहस्रमायमुल्बणं त्वदृश्यमम्बराद् गिरीन् ।

सृजन्तमेत्य विद्यया जघान कृष्णनन्दनः ॥ १९६॥

स विद्यया विनाशितोरुमाय आशु शम्बरः ।

निकृत्तकन्धरोऽपतद् वरासिनाऽमुना क्षणात् ॥ १९७॥

निहत्य तं हरेः सुतस्तयैव विद्ययाऽम्बरम् ।

समास्थितः स्वभार्यया समं कुशस्थलीं ययौ ॥ १९८॥

समस्तवेदिनोर्मुनिर्नरान् विडम्बमानयोः ।

रमारमेशयोः सुतं जगाद तं स्म नारदः ॥ १९९॥

स रुग्मिणीजनार्दनादिभिः सरामयादवैः ।

पितामहेन चाऽदरात् सुलाळितोऽवसत् सुखम् ॥ २००॥

ततः पुरा स्यमन्तकं ह्यवाप सूर्यमण्डले ।

स्थिताद्धरेः स सत्रजित् सदाऽत्र केशवार्चकः ॥ २०१॥

सदाऽस्य विष्णुभाविनोऽप्यतीव लोभमान्तरम् ।

प्रकाशयन् रमापतिर्ययाच ईश्वरो मणिम् ॥ २०२॥

स तं न दत्तवांस्ततोऽनुजो निबद्ध्य तं मणिम् ।

वनं गतः प्रसेनको मृगाधिपेन पातितः ॥ २०३॥

तदा स सत्रजिद्धरिं शशंस सोदरान्तकम् ।

उपांशु वर्त्मना ततो हरिः सयादवो ययौ ॥ २०४॥

वने स सिंहसूदितं पदैः प्रदर्श्य वृष्णिनाम् ।

प्रसेनमृक्षपातितं स सिंहमप्यदर्शयत् ॥ २०५॥

ततो निधाय तान् बिलं स जाम्बवत्परिग्रहम् ।

विवेश तत्र संयुगं बभूव तेन चेशितुः ॥ २०६॥

युयोध मन्दमेव स प्रभुः स्वभक्त इत्यजः ।

चकार चोग्रमन्ततः प्रकाशयन् स्वमस्य हि ॥ २०७॥

स मुष्टिपिष्टविग्रहो नितान्तमापदं गतः ।

जगाम चेतसा रघूत्तमं निजं पतिं गतिम् ॥ २०८॥

स्मृतिं गते तु राघवे तदाकृतिं यदूत्तमे ।

समस्तभेदवर्जितां समीक्ष्य सोऽयमित्यवेत् ॥ २०९॥

ततः क्षमापयन् सुतां प्रदाय रोहिणीं शुभाम् ।

मणिं च तं नुनाव स प्रपन्न आशु पादयोः ॥ २१०॥

विधाय चक्रदारितं सुजीर्णदेहमस्य सः ।

युवानमाशु केशवश्चकार वेदनां विना ॥ २११॥

विधाय भक्तवाञ्छितं प्रियासहाय ईश्वरः ।

प्रगृह्य तं महामणिं विनिर्ययौ गुहामुखात् ॥ २१२॥

गुहाप्रविष्टमीश्वरं बहून्यहान्यनिर्गतम् ।

प्रतीक्ष्य यादवास्तु ये गता गृहं तदाऽहृषुः ॥ २१३॥

समस्तवृष्णिसन्निधौ यदूत्तमः स्यमन्तकम् ।

ददौ च सत्रजित्करे स विच्छविर्बभूव ह ॥ २१४॥

स दुर्यशो रमापतावनूच्य मिथ्यया तपन् ।

स्वपापहानकाङ्क्षया ददौ सुतां जनार्दने ॥ २१५॥

मणिं च तं प्रदाय तं ननाम ह क्षमापयन् ।

मणिं पुनर्ददौ हरिर्मुमोद सत्यभामया ॥ २१६॥

रमैव सा हि भूरिति द्वितीयमूर्तिरुत्तमा ।

बभूव सत्रजित्सुता समस्तलोकसुन्दरी ॥ २१७॥

ततो हि सा च रुग्मिणी प्रिये प्रियासु तेऽधिकम् ।

जनार्दनस्य ते हरेः सदाऽवियोगिनी यतः ॥ २१८॥

अथाऽप साम्बनामकं सुतं च रोहिणी हरेः ।

चतुर्मुखांशसंयुतं कुमारमेव षण्मुखम् ॥ २१९॥

इति प्रशासति प्रभौ जगज्जनार्दनेऽखिलम् ।

अगण्यसद्गुणार्णवे कदाचिदाययौ द्विजः ॥ २२०॥

जनार्दनः स नामतो रमेशपादसंश्रयः ।

स मानितश्च विष्णुना प्रणम्य वाक्यमब्रवीत् ॥ २२१॥

क्षमस्व मे वचः प्रभो ब्रवीम्यतीव पापकम् ।

यतः सुपापदूतकस्ततो हि तादृशं वचः ॥ २२२॥

न तेऽस्त्यगोचरं क्वचित् तथाऽपि चाऽज्ञया वदे ।

वदेति चोदितोऽमुना द्विजो जगाद माधवम् ॥ २२३॥

सुतौ हि साल्वभूपतेर्बभूवतुः शिवाश्रयौ ।

शिवप्रसादसम्भवौ पितुस्तपोबलेन तौ ॥ २२४॥

अजेयवध्यतां च तौ शिवाद् वरं समापतुः ।

जरासुतस्य शिष्यकौ तपोबलेन केवलम् ॥ २२५॥

महोदरं च कुण्डधारिणं च भूतकावुभौ ।

तथाऽजिताववध्यकौ दिदेश शङ्करस्तयोः ॥ २२६॥

तयोः सहाय एव तौ वराच्छिवस्य भूतकौ ।

अजेयतामवापतुर्नचान्यथाऽमरावपि ॥ २२७॥

अजेयतामवध्यतामवाप्य तावुभौ शिवात् ।

पितुस्तु राजसूयितां समिच्छतो मदोद्धतौ ॥ २२८॥

जरासुतो गुरुत्वतो विरोद्धुमत्र नेच्छति ।

नृपांस्तु देवपक्षिणो विजित्य कर्तुमिच्छतः ॥ २२९॥

स्वयं हि राजसूयितां जरासुतो न मन्यते ।

यतो हि वैष्णवं क्रतुं तमाहुरीश वैदिकाः ॥ २३०॥

इमौ पितुर्यशोऽर्थिनौ पराभवाय ते तथा ।

समिच्छतोऽद्य तं क्रतुं भवन्तमूचतुश्च तौ ॥ २३१॥

समुद्रसंश्रयो भवान् बहून् प्रगृह्य लावणान् ।

सुभारकानुपैहि नाविति क्षमस्व मे वचः ॥ २३२॥

इतीर्य तं ननाम स प्र चाहसन् स्म यादवाः ।

हरिस्तु सात्यकिं वचो जगाद मेघनिस्वनः ॥ २३३॥

प्रयाहि सात्यके वचो ब्रवीहि मे नृपाधमौ ।

समेत्य वां वरायुधैः करं ददान्यसंशयम् ॥ २३४॥

उपैतमाशु संयुगार्थिनौ च पुष्करं प्रति ।

इतीरितः शिनेः सुतो जगाम विप्रसंयुतः ॥ २३५॥

उपेत्य तौ हरेर्वचो जगाद सात्यकिर्बली ।

विधाय तौ तृणोपमौ गिरा जगाम केशवम् ॥ २३६॥

ततः पुरैव तावुभौ द्विजं हरस्वरूपिणम् ।

सुदुःखवासनामकं प्रचक्रतुस्तृणोपमम् ॥ २३७॥

दशत्रिकैः शतैर्वृतो यतीश्वरैः स सर्ववित् ।

विपाटितात्मकौपिनादिसर्वमात्रकोऽभवत् ॥ २३८॥

वरात् स्वसम्भवादसौ न शापशक्तिमानभूत् ।

ततः समस्तभञ्जनोरुशक्तिमाप केशवम् ॥ २३९॥

स तान् समर्च्य माधवः प्रदाय चोरुमात्रकाः ।

ययौ च तैः समन्वितो वधाय साल्वपुत्रयोः ॥ २४०॥

तमत्रिजं हरात्मकं यतो हि वेद मागधः ।

ततोऽत्यजत् स्वशिष्यकौ निशम्य तत्प्रतीपकौ ॥ २४१॥

हरौ तु पुष्करं गते मुनीश्वरैः समर्चिते ।

समीयतुश्च तावुभावथात्र हंसडीभकौ ॥ २४२॥

स ब्रह्मदत्तनामकोऽत्र तत्पिताऽप्युपाययौ ।

समागतौ च भूतकौ शिवस्य यौ पुरस्सरौ ॥ २४३॥

विचक्रनामकोऽसुरः पुरा विरिञ्चतो वरम् ।

अवध्यतामजेयतामवाप्य बाधते सुरान् ॥ २४४॥

स चाभवत् तयोः सखा सहायकाम्ययाऽऽगमत् ।

हिडिम्बराक्षसोऽपि यः पुराऽऽप शङ्कराद् वरम् ॥ २४५॥

न जीयसे न वध्यसे कुतश्चनेति तोषितात् ।

स चैतयोः सखाऽभवत् समाजगाम तत्र च ॥ २४६॥

अक्षोहिणीदशात्मकं बलं तयोर्बभूव ह ।

विचक्रगं षडात्मकं तथैकमेव राक्षसम् ॥ २४७॥

द्विरष्टसेनया युतौ सहैकयैव तौ नृपौ ।

समीयतुर्युधे हरिं हरिश्च तौ ससार ह ॥ २४८॥

अथ द्वयोर्द्वयोरभूद् रणो भयानको महान् ।

हरिर्विचक्रमेयिवान् बलश्च हंसमुद्धतम् ॥ २४९॥

तदाऽस्य चानुजं ययौ शिनिप्रवीर आयुधी ।

गदश्च नामतोऽनुजो हरेः स रोहिणीसुतः ॥ २५०॥

पुरा स चण्डको गणो हरेर्निवेदिताशनः ।

समाह्वयद् रणाय वै तयोः स तातमेव हि ॥ २५१॥

अक्षोहिणीत्रयान्विताः समस्तयादवास्तदा ।

त्रिलोचनानुगौ च तौ न्यवारयन् सराक्षसौ ॥ २५२॥

हरिर्विचक्रमोजसा महास्त्रशस्त्रवर्षिणम् ।

विवाहनं निरायुधं क्षणाच्चकार सायकैः ॥ २५३॥

पुनश्च पादपान् गिरीन् प्रमुञ्चतोऽरिणाऽरिहा ।

शिरो जहार देवता विनेदुरत्र हर्षिताः ॥ २५४॥

प्रसूनवर्षिभिः स्तुतश्चतुर्मुखादिभिः प्रभुः ।

ससार तौ हरानुगौ प्रभक्षकौ स सात्त्वताम् ॥ २५५॥

समस्तयादवान् रणे विधूय तौ जनार्दनम् ।

उपेत्य चांसगौ हरेरदंशतां सुकर्णकौ ॥ २५६॥

स तौ भुजप्रवेगतो विधूय शङ्करालये ।

न्यपातयद् बलार्णवोऽमितस्य किं तदुच्यते ॥ २५७॥

प्रभक्षयन्तमोजसा हिडिम्बमुद्धतं बलम् ।

सहोग्रसेनको ययौ पिता हरेः शरान् क्षिपन् ॥ २५८॥

तयो रथौ सहायुधौ प्रभक्ष्य राक्षसो बली ।

प्रगृह्य तावभाषत प्रयातमाशु मे मुखम् ॥ २५९॥

तदा गदावरायुधः सहैव हंसभूभृता ।

प्रयुद्ध्यमान आययौ विहाय तं हलायुधः ॥ २६०॥

तमागतं समीक्ष्य तौ विहाय राक्षसाधिपः ।

उपेत्य मुष्टिनाऽहनद् बलं स वक्षसि क्रुधा ॥ २६१॥

उभौ हि बाहुषाळिनावयुद्ध्यतां च मुष्टिभिः ।

चिरं प्रयुद्ध्य तं बलोऽग्रहीत् स जङ्घयोर्विभुः ॥ २६२॥

अथैनमुद्धृतं बलाद् बलः स दूरमाक्षिपत् ।

पपात पादयोजने स नाऽजगाम तं पुनः ॥ २६३॥

विहाय सैनिकांश्च तौ नृपौ ययौ वनाय सः ।

निहत्य तस्य राक्षसान् हलायुधो ननाद ह ॥ २६४॥

गदस्तु साल्वभूभृता वयोगतेन योधयन् ।

विवाहनं निरायुधं चकार सोऽप्यपाद्रवत् ॥ २६५॥

सुतेन तस्य कन्यसा युयोध सात्यकी रथी ।

वरास्त्रशस्त्रयोधिनौ विजह्रतुश्च तावुभौ ॥ २६६॥

चिरं प्रयुद्ध्य सात्यकिः स हंसकन्यसा बली ।

शतं सपञ्चकं रणे चकर्त तस्य धन्वनाम् ॥ २६७॥

स खड्गचर्मभृद् रणेऽभ्ययात् सुतात्मजं शिनेः ।

स चैनमभ्ययात् तथा वरासिचर्मभृद् विभीः ॥ २६८॥

द्विषोडशप्रभेदकं वरासियुद्धमश्रमौ ।

प्रदर्श्य निर्विशेषकावुभौ व्यवस्थितौ चिरम् ॥ २६९॥

परस्परान्तरैषिणौ नचान्तरं व्यपश्यताम् ।

ततो विहाय सङ्गरं गतौ निरर्थकं त्विति ॥ २७०॥

ततः स हंससंयुतो जगाम योद्धुमच्युतम् ।

क्षणेन तौ निरायुधौ चकार केशवः शरैः ॥ २७१॥

हतं च सैन्यमेतयोश्चतुर्थभागशेषितम् ।

क्षणेन केशवेन तद्भयादपेयतुश्च तौ ॥ २७२॥

स पुष्करेक्षणस्तदा सुरैर्नुतोऽथ पुष्करे ।

उवास तां निशां प्रभुः सयादवोऽमितप्रभः ॥ २७३॥

परे दिने जनार्दनो नृपात्मजौ प्रविद्रुतौ ।

यमस्वसुस्तटे प्रभुः समाससाद पृष्ठतः ॥ २७४॥

स रौहिणेयसंयुतः समन्वितश्च सेनया ।

स्वशिष्टसेनया वृतौ पलायिनाववारयत् ॥ २७५॥

निवृत्य तौ स्वसेनया शरोत्तमैर्ववर्षतुः ।

सुकोपितौ समस्तशो यदूनवार्यपौरुषौ ॥ २७६॥

अथाऽससाद हंसको हलायुधं महाधनुः ।

अनन्तरोऽस्य सात्यकिं गदं च सर्वसैनिकान् ॥ २७७॥

स सात्यकिं निरायुधं विवाहनं विवर्मकम् ।

व्यधाद् गदं च तौ रणं विहाय हापजग्मतुः ॥ २७८॥

विधूय सैनिकांश्च स प्रगृह्य चापमाततम् ।

हरिं जगाम चोन्नदन् महास्त्रशस्त्रवर्षणः ॥ २७९॥

तमाशु केशवोऽरिहा समस्तसाधनोज्झितम् ।

क्षणाच्चकार सोऽप्यगाद् विसृज्य तं हलायुधम् ॥ २८०॥

हलायुधो निरायुधं विधाय हंसमोजसा ।

विकृष्टचाप आगतं ददर्श तस्य चानुजम् ॥ २८१॥

स हंस आशु कार्मुकं पुनः प्रगृह्य तं बलम् ।

यदाऽऽससाद केशवो न्यवारयत् तमोजसा ॥ २८२॥

शिनेः सुतात्मजोऽप्यसौ विहाय हंसकानुजम् ।

रथान्तरं समास्थितो जगाम तातमस्य च ॥ २८३॥

वयोगतः पिता तयोर्युयोध तेन वृष्णिना ।

शरं च कण्ठकूबरे व्यसर्जयत् स सात्यकेः ॥ २८४॥

स सात्यकिर्दृढाहतो जगाम मोहमाशु च ।

सुलब्धसञ्ज्ञ उत्थितः समाददेऽर्द्धचन्द्रकम् ॥ २८५॥

स तेन तच्छिरो बली चकर्त शुक्लमूर्द्धजम् ।

यदम्बयाऽभिकामितं पुरा पपात तत् क्षितौ ॥ २८६॥

नदंश्च सात्यकिर्हरेर्जगाम पार्श्वमुद्धतः ।

बलोऽपि हंसकानुजं युयोध सेनया युतम् ॥ २८७॥

हरिस्तु हंसमुल्बणैः शरैः समर्दयन् बलम् ।

जघान तस्य सर्वशो न कश्चिदत्र शेषितः ॥ २८८॥

स एक एव केशवं महास्त्रमुक् ससार ह ।

निवार्य तानि सर्वशो हरिर्निजास्त्रमाददे ॥ २८९॥

स वैष्णवास्त्रमुद्यतं निरीक्ष्य यानतो महीम् ।

गतः पराद्रवद् भयात् पपात यामुनोदके ॥ २९०॥

वरास्त्रपाणिरीश्वरः पदाऽहनिच्छरस्यमुम् ।

स मूर्छितो मुखेऽपतन्महाभुजङ्गमस्य ह ॥ २९१॥

स धार्तराष्ट्रकोदरे यथा तमोऽन्धमेयिवान् ।

तथा सुदुःखसंयुतो वसन् मनोः परं म्रियेत् ॥ २९२॥

ततोऽन्धमेव तत् तमो हरेर्द्विडेति निश्चयात् ।

तदाऽस्य चानुजोऽग्रजं विमार्गयन् जलेऽपतत् ॥ २९३॥

विहाय रोहिणीसुतं जले निमज्ज्य मार्गयन् ।

अपश्यमान आत्मनो व्यपाटयच्च काकुदम् ॥ २९४॥

विहाय देहमुल्बणं तमोऽवतार्य चाग्रजम् ।

प्रतीक्षमाण उल्बणं समत्ति तत् सुखेतरम् ॥ २९५॥

ततो हरिर्बलैर्युतो बलान्वितो मुनीश्वरैः ।

समं कुशस्थलीं ययौ स्तुतः कशङ्करादिभिः ॥ २९६॥

स्वकीयपादपल्लवाश्रयं जनं प्रहर्षयन् ।

उवास नित्यसत्सुखार्णवो रमापतिर्गृहे ॥ २९७॥

{इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते}

{श्रीमहाभारततात्पर्यनिर्णये}

{हंसडिभकवधो नाम सप्तदशोऽध्यायः}