प्रभातायां तु शर्वर्यां गुरुपुत्रानुमोदितः
अष्टाविंशोऽध्यायः
सर्वशास्त्रतात्पर्यनिर्णयः
औं ॥ प्रभातायां तु शर्वर्यां गुरुपुत्रानुमोदितः ।
शल्यं सेनापतिं कृत्वा योद्धुं दुर्योधनोऽभ्ययात् ॥ १॥
तमभ्ययुः पाण्डवाश्च हृष्टा युद्धाय दंसिताः ।
तत्राऽसीत् सुमहद् युद्धं पाण्डवानां परैः सह ॥ २॥
अग्रे भीमः पाण्डवानां मध्ये राजा युधिष्ठिरः ।
पृष्ठे गाण्डीवधन्वाऽऽसीद् वासुदेवाभिरक्षितः ॥ ३॥
चक्ररक्षौ यमौ राज्ञो धृष्टद्युम्नश्च सात्यकिः ।
नृपस्य पार्श्वयोरास्तामग्रेऽन्येषां गुरोः सुतः ॥ ४॥
मध्ये शल्यः पृष्ठतोऽभूद् भ्रातृभिश्च सुयोधनः ।
चक्ररक्षौ तु शल्यस्य शकुनिस्तत्सुतस्तथा ।
कृपश्च कृतवर्मा च पार्श्वयोः समवस्थितौ ॥ ५॥
तत्रभवन्महद् युद्धं भीमस्य द्रौणिना सह ।
राज्ञः शल्येन च तथा घोररूपं भयानकम् ॥ ६॥
तत्र नातिप्रयत्नेन द्रौणिर्भीमेन सायकैः ।
विरथीकृतस्तथा धर्मसूनुः शल्येन तत्क्षणात् ॥ ७॥
आससाद तदा शल्यं कपिप्रवरकेतनः ।
तयोरासीन्महद् युद्धमद्भुतं रोमहर्षणम् ॥ ८॥
रथमन्यं समास्थाय द्रौणिर्भीमं समभ्ययात् ।
दुर्योधनश्च भीमस्य शरैरावारयद् दिशः ॥ ९॥
तावुभौ शरवर्षेण वारयामास मारुतिः ।
ताभ्यां तस्याभवद् युद्धं सुघोरमतिमानुषम् ॥ १०॥
दुर्योधनस्यावरजान् द्रौपदेया युयुत्सुना ।
शिखण्ड्याद्यैर्मातुलैश्च सह सर्वान् न्यवारयन् ॥ ११॥
सहदेवस्तु शकुनिमुलूकं नकुलस्तदा ।
धृष्टद्युम्नश्च हार्दिक्यं सात्यकिः कृपमेव च ।
तेषां तदभवद् युद्धं चित्रं लघु च सुष्ठु य ॥ १२॥
शल्यस्तु शरसङ्घातैः पार्थस्यावारयद् दिशः ।
सोऽपि विव्याध विशिखैः शल्यमाहवशोभिनम् ।
तयोः सुसममेवाऽसीच्चिरं देवासुरोपमम् ॥ १३॥
ततः शरं वज्रनिभं मद्रराजः समाददे ।
तेन विव्याध बीभत्सुं हृदये स मुमोह च ॥ १४॥
उपलभ्य पुनः सञ्ज्ञां वासविः शत्रुतापनः ।
चिच्छेद कार्मुकं सङ्खे मद्रराजस्य धीमतः ॥ १५॥
सोऽन्यत् कार्मुकमादाय मुमोचास्त्राणि फल्गुने ।
सौरं याम्यं च पार्जन्यं तान्यैन्द्रेण जघान सः ॥ १६॥
पुनर्न्यकृन्तत् तच्चापमिन्द्रसूनुरमर्षितः ।
शल्यो गदां समाविध्य चिक्षेपार्जुनवक्षसि ।
तदा मुमोह बीभत्सुस्तत उच्चुक्रुशुः परे ॥ १७॥
प्राप्य सञ्ज्ञां पुनः पार्थः शल्यं विव्याध वक्षसि ।
स विह्वलितसर्वाङ्गः शिश्रये ध्वजमुत्तमम् ॥ १८॥
समाश्वस्तः पुनर्बाणं यमदण्डनिभं रणे ।
मुमोच पार्थस्य स च निर्बिभेद स्तनान्तरम् ॥ १९॥
तेन विह्वलितः पार्थो ध्वजयष्टिं समाश्रितः ।
समाश्वस्तः प्रचिच्छेद मद्रराजस्य कार्मुकम् ।
छत्रं ध्वजं च तरसा सारथिं च न्यपातयत् ॥ २०॥
तदाऽन्यं रथमास्थाय धर्मराजः शरोत्तमैः ।
चतुर्भिश्चतुरो वाहाञ्छल्यस्य निजघान ह ॥ २१॥
शल्योऽन्यं रथमास्थाय सर्वांस्ताञ्छरवृष्टिभिः ।
छादयामास राजानं विरथं च चकार ह ॥ २२॥
निहत्याश्वान् सात्यकेश्च धृष्टद्युम्नस्य चाभिभूः ।
चापे च्छित्त्वा च यमयोर्दध्मौ शङ्खं महास्वनम् ॥ २३॥
ततस्तु शल्यं समुदीर्यमाणं दृष्ट्वा रणे भीमसेनस्तरस्वी ।
न्यवारयद् बाणवरैरनेकैश्चकार चैनं विरथं क्षणेन ॥ २४॥
आस्थाय चान्यं रथमापतन्तं पुनश्च शल्यं भृशमेव मर्मसु ।
निर्भिद्य बाणौर्विरथं चकार पुनस्तृतीयं च रथं रुरोज ॥ २५॥
आत्तान्यात्तान्यायुधान्यस्य भीमः सर्वाणि चिच्छेद बिभेद चास्य ।
मर्माणि बाणैर्नितरां पुनश्च स मुष्टिमुद्यम्य जगाम धर्मजम् ॥ २६॥
तं भीमभिन्नमर्माणं विवर्माणं निरायुधम् ।
श्वासमात्रावशिष्टं च मरणायैव केवलम् ॥ २७॥
आत्मानमभिगच्छन्तं दृष्ट्वाऽन्यं रथमास्थितः ।
हन्तुकामो रणे वीरममोघां शक्तिमाददे ॥ २८॥
दिव्यास्त्रैरपि संयोज्य तां तदा धर्मनन्दनः ।
सत्यधर्मफलैश्चैव चिक्षेपास्य हृदि त्वरन् ॥ २९॥
स भिन्नहृदयो भूमौ पपाताभिमुखो नृपम् ।
सत्यधर्मरतः शल्य इन्द्रस्यातिथितामगात् ॥ ३०॥
मद्रराजे हते वीरे सुशर्माऽर्जुनमभ्ययात् ।
संशप्तकावशिष्टैस्तमनयन्मृत्यवेऽर्जुनः ॥ ३१॥
दुर्योधनस्यावरजानवशिष्टान् वृकोदरः ।
सर्वान् जघान सेनां च निश्शेषमकरोद् रणे ॥ ३२॥
उलूकं सहदेवोऽथ शकुनिं चातिपापिनम् ।
जघान द्रौणिहार्दिक्यकृपान् भीमार्जुनौ ततः ॥ ३३॥
बहुशो विरथीकृत्य पीडयित्वा पुनःपुनः ।
द्रावयामासतुस्ते तु भीषिता विविशुर्वनम् ॥ ३४॥
शैनेयेन गृहीतोऽथ सञ्जयोऽनन्तशक्तिना ।
व्यासेन मोचितोऽथैकः पार्थान् दुर्योधनोऽभ्ययात् ॥ ३५॥
तेषामभूत् तस्य च घोररूपं युद्धं स बाणैर्बहुशोऽर्जुनं च ।
चकार मूर्च्छाभिगतं युधिष्ठिरं यमावयत्नाद् विरथांश्चकार ॥ ३६॥
तं भीमसेनो विरथं चकार गजं समारुह्य पुनः समभ्ययात् ।
पुनश्च शैनेयशिखण्डिपार्षतान् यमौ नृपं च व्यदधान्निरायुधान् ॥ ३७॥
गजे च भीमेन शरैर्निपातिते समारुहद् वाजिवरं सुनिर्भयः ।
स तेन च प्रासकरो रणेऽरिहा चचार शैनैयमताडयच्च ॥ ३८॥
मुमोह तेनाभिहतः स सात्यकिर्यमावपि प्रासनिपीडितौ रथे ।
निषीदतुर्धर्मसुतं प्रयान्तं समीक्ष्य भीमोऽस्य जघान वाजिनम् ॥ ३९॥
प्रासे निकृत्ते च वृकोदरेण विवाहनः सोऽपययौ सुयोधनः ।
आदाय गुर्वीं च गदां प्रयातो द्वैपायनस्योरुसरो विवेश ॥ ४०॥
एवमक्षोहिणीषट्कं भीमेन निहतं रणे ।
पञ्च पार्थेन निहता अर्द्धं कालिङ्गकानृते ।
एकादशाक्षोहिणीभ्यः शिष्टमन्यैर्निसूदितम् ॥ ४१॥
अक्षोहिणीचतुष्कं च पार्थानां द्रौणिना हतम् ।
अन्यैरन्याः समस्तैश्च द्रोणकर्णमहाब्रताः ।
दुर्योधनो भौमसूनुः प्रायः सेनाहनः क्रमात् ॥ ४२॥
जयं लब्ध्वा तदत्सूच्चैः पाण्डवेषु महात्मसु ।
दुर्योधनो जलस्तम्भं कृत्वा मन्त्रान् जजाप ह ॥ ४३॥
मन्त्रा दुर्वाससा दत्ता मृतसञ्जीवनप्रदाः ।
जले स्थित्वा जपन् सप्तदिनैः सर्वान् मृतानपि ।
उद्धरेद् धार्तराष्ट्रोऽयं स्युरवध्याश्च ते पुनः ॥ ४४॥
इति विद्याबलं तस्य ज्ञात्वा पाण्डुसुतास्ततः ।
अन्वेषन्तः शुश्रुवुश्च व्याधेभ्यस्तं जले स्थितम् ।
अगच्छंश्च ततस्तत्र पुरस्कृत्य जनार्दनम् ॥ ४५॥
तदा जलात् समुन्मज्ज्य त्रिभिर्द्रौणिपुरस्सरैः ।
मन्त्रयन्तं स्म ददृशुस्तान् दृष्ट्वा ते प्रदुद्रुवुः ॥ ४६॥
दुर्योधनोऽविशत् तोयं दृष्ट्वा तं केशवाज्ञया ।
युधिष्ठिरः सुपुरुषैर्वाक्यैरेनमथाऽह्वयत् ॥ ४७॥
अमर्षितोऽसौ धृतराष्ट्रपुत्रः श्वसंस्तदा दण्डहतो यथाऽहिः ।
उवाच शाठ्यात् तपसे वनाय यायां भवाञ्छासतु सर्वपृथ्वीम् ॥ ४८॥
तमाह धर्मजो राजा यस्त्वं कृष्णे समागते ।
सूच्यग्रवेध्यां पृथिवीं दातुं नैच्छः कथं पुनः ॥ ४९॥
घातयित्वा सर्वपृथ्वीं भीष्मद्रोणमुखानपि ।
दातुमिच्छसि सर्वां च पृथ्वीं नाद्य वयं पुनः ॥ ५०॥
अहत्वा प्रतिगृह्णीं एहि युद्धे स्थिरो भव ।
न कुरूणां कुले जातस्त्वं यो भीतो ह्यपोऽविशः ॥ ५१॥
इत्यादि रूक्षवचनं श्रुत्वा दुर्योधनो रुषा ।
जलस्तम्भात् समुत्तस्थौ श्वसन्नाशीविषो यथा ॥ ५२॥
उवाच चैक एवाहमकिरीटो विवर्मकः ।
भवन्तो बहवो वर्मशिरस्त्राणयुता अपि ॥ ५३॥
यद्येवमपि मे युद्धं भवद्भिर्मन्यसे समम् ।
सर्वैरेकेन वायुद्धं करिष्ये नच भीर्मम ॥ ५४॥
इत्युक्त आह धर्मात्मा वर्माद्यं च ददामि ते ।
वृणीष्व प्रतिवीरं च पञ्चानां यं त्वमिच्छसि ॥ ५५॥
हत्वैकं त्वं भुङ्क्ष्व राज्यमन्ये याम वयं वनम् ।
हते वा त्वयि तेनैव भुञ्जीमश्चाखिलां भुवम् ।
आदत्स्व चाऽयुधं येन जेतुमिच्छसि शात्रवान् ॥ ५६॥
इत्युक्त ऊचे नहि दुर्बलैरहं योत्स्ये चतुर्भिर्भवदर्जुनादिभिः ।
भीमेन योत्स्ये गदया सदा हि मे प्रिया गदा नान्यदथाऽयुधं स्पृशे ॥ ५७॥
श्रुत्वाऽस्य वाक्यं रभसो वृकोदरो गदां तदाऽध्यर्द्धभराधिकां मुदा ।
राज्ञो गदायाः परिगृह्य वीरः समुत्थितो युद्धमनाः समुन्नदन् ॥ ५८॥
अथाऽह नारायण आदिदेवो युधिष्ठिरं कष्टमिदं कृतं त्वया ।
नह्येष राजा गदया रणे चरन् शक्यो विजेतुं निखिलैः सुरासुरैः ॥ ५९॥
स निश्चयाद् वश्चतुरो निहन्यात् सहार्जुनान् भीमसेनः कथञ्चित् ।
हन्तैनमाजौ नहि भीमतुल्यो बले क्वचिद् धार्तराष्ट्रः कृती च ॥ ६०॥
ऊरू भीमेन भेत्तव्यौ प्रतिज्ञां रक्षता रिपोः ।
नाभेरधस्ताद्धननं जना आहुर्गदामृधे ॥ ६१॥
अधर्म इति तत् कृष्णो लोकनिन्दानिवृत्तये ।
आपद्धर्मं दर्शयितुं किञ्चिद्व्याजेन संयुतः ॥ ६२॥
भीमो हन्याद् धार्तराष्ट्रमित्यूचे यद्यपि स्फुटम् ।
अव्याजेनापि शक्तोऽसौ बलं निस्सीममाह च ॥ ६३॥
आह शिक्षामप्यनूनां यत्नं दुर्योधनेऽधिकम् ।
नहि भीमोऽतिप्रयत्नं कुर्यादिति गुणो ह्ययम् ॥ ६४॥
प्रतिज्ञापालनं धर्मो दुष्टेषु तु विशेषतः ।
इति धर्मरहस्यं तु वित्तः कृष्णवृकोदरौ ॥ ६५॥
नान्यस्ततो लोकनिन्दां व्यपनेतुमुभावपि ।
अनापद्यापदिव च दर्शयेतां जनस्य तु ॥ ६६॥
ततो भीमः सर्वलोकस्य धर्मं प्रकाशयन् वाक्यमिदं जगाद ।
ऊरू तवाहं हि यथाप्रतिज्ञं भेत्स्यामि नैवात्र विचारणीयम् ॥ ६७॥
इत्युक्तवन्तं प्रससार चाऽजौ दुर्योधनस्तत्र बभूव युद्धम् ।
भीमस्तदाऽग्र्यप्रकृतिं विधित्सुर्मन्दः स आजौ व्यचरज्जनार्थे ॥ ६८॥
दर्शयन्तौ गदामार्गं चित्रं तौ प्रविचेरतुः ।
बलभद्रोऽप्याजगाम तदा तौ प्रतिवारितुम् ॥ ६९॥
वारितावपि तेनोभौ नैव युद्धं प्रमुञ्चताम् ।
ततो ददर्श तद् युद्धं मानितः कृष्णपूर्वकैः ।
तौ शिक्षाबलसंयुक्तौ मण्डलानि विचेरतुः ॥ ७०॥
ततो भीमं वञ्चयितुं धार्तराष्ट्रः शिरः क्षितौ ।
न्यधादुच्छ्रितसक्थीकस्तदा कृष्णाभ्यनुज्ञया ।
पृष्ठमूलेऽहनद् भीमो भिन्नसक्थिश्च सोऽपतत् ॥ ७१॥
प्रतिज्ञापालनार्थाय नोभेर्नोपर्यधस्तदा ।
गदायुद्धस्य मर्यादां यशश्चाप्यभिरक्षितुम् ॥ ७२॥
नाधस्तान्मध्य एवासौ निजघ्ने तं वृकोदरः ।
एवं प्रतिज्ञायुग्मार्थं भग्नं सक्थियुगं रणे ॥ ७३॥
कृष्णं द्यूते निधेहीति यदवादीत् सुयोधनः ।
तत्प्रतिज्ञानुसारेण भीमो मूर्द्धानमक्रमीत् ।
' ऋषभम् मा समानानां' (ऋग्वेद १०\.१६६\.१) इति सूक्तं ददर्श च ॥ ७४॥ % ऋषभम् मा समानानां सपत्नानां विषासहिम् ।
\\ % हन्तारं शत्रूणां कृधि विराजं गोपतिं गवाम् ॥ \ऐण्{१०}{१६६}{०१} \\
तेषां पुण्यानि विद्याश्च समादायैव सर्वशः ।
तांश्चकार तमोगन्त्Qन्स्तस्य मूर्ध्नि पदाऽऽक्रमन् ॥ ७५॥ % योगक्षेमं व आदायाहम् भूयासम् उत्तम आ वो मूर्धानम् अक्रमीम् ।
ऋग्वेद १०\.१६६\.५
स्मारयामास कर्माणि यानि तस्य कृतानि च ।
कृष्णबन्धे कृतो मन्त्र इति मूर्ध्नि पदाऽहनत् ॥ ७६॥
पुनःपुनश्च तद् वीक्ष्य चुक्रोध मुसलायुधः ।
चुक्रोश नैव धर्मोऽयमित्यसावूर्ध्वबाहुकः ॥ ७७॥
पुनः क्रोधाभिताम्राक्ष आदाय मुसलं हलम् ।
अभिदुद्राव भीमं तं न चचाल वृकोदरः ॥ ७८॥
अभये संस्थिते भीमे रामं जग्राह केशवः ।
आह धर्मेण निहतो भीमेनायं सुयोधनः ॥ ७९॥
न मण्डलेऽभिसारे वा नापसारे च नाभितः ।
अधो हन्याद् वञ्चयन्तमधो हत्वा न दुष्यति ॥ ८०॥
कृता प्रतिज्ञा च वृकोदरेण भेत्स्ये तवोरू इति युक्तिपूर्वम् ।
संश्रावयानेन तदेष धर्मतो जघान दुर्योधनमग्र्यकर्मा ॥ ८१॥
वासुदेववचः श्रुत्वा धर्मच्छलमिति ब्रुवन् ।
रौहिणेयो जगामाऽशु स्वपुरीमेव सानुगः ॥ ८२॥
तस्मिन् गते वासुदेवं समपृच्छद् युधिष्ठिरः ।
धर्मोऽयमथवाऽधर्म इति तं प्राह केशवः ॥ ८३॥
न साक्षाद् धर्मतो वध्या ये तु पापतमा नराः ।
देवैर्हि वञ्चयित्वैव हताः पूर्वं सुरारयः ।
अतोऽयमप्यधर्मेण हतो नात्रास्ति दूषणम् ॥ ८४॥
भीष्मद्रोणौ च कर्णश्च यदैवोपधिना हताः ।
को नु दुर्योधने पापे हते दोषः कथञ्चन ॥ ८५॥
प्रतिज्ञापालनायापि विभेदोरू वृकोदरः ।
धर्मतश्च प्रतिज्ञेयं कृता तेनानुरूपतः ॥ ८६॥
लोकतोऽपि न धर्मस्य हानिरत्र कथञ्चन ।
ये भीमस्याप्रभावज्ञा आपद्धर्मं च मन्वते ॥ ८७॥
अवध्यत्वे शिववराद् गदाशिक्षाबलादपि ।
जरासन्धोपमो यस्माद् धार्तराष्ट्रः सुविश्रुतः ॥ ८८॥
तस्मात् सद्धर्म एवायं भीमचीर्ण इति ब्रुवन् ।
अपि संशयिनं चक्रे धर्मराजं जगत्पतिः ॥ ८९॥
भूभारक्षतिजो धर्मो मच्छुश्रूषात्मकस्तु यः ।
भीमस्यैव भवेत् सम्यगिति बुद्ध्या परः प्रभुः ॥ ९०॥
स्वेनैव बलभद्राय जनाय च पुनःपुनः ।
श्रुत्वाऽप्युक्तं न तत्याज संशयं धर्मजो यतः ।
ततोऽप्यसंशयं कृष्णो न चकार युधिष्ठिरम् ॥ ९१॥
मुख्यं धर्मं हि भगवान् बलायाऽह जनाय च ।
धर्मेणैव हतो राजा धार्तराष्ट्रः सुयोधनः ।
इति यद् वक्ष्यति पुनर्निश्चयार्थेऽर्जुनाय च ॥ ९२॥
पुनःपुनर्धर्मत एव भीमो जघान राजानमिति ब्रुवन्तम् ।
जगाद कृष्णं स्फुरिताधरोष्ठः क्रोधात् सुपापो धृतराष्ट्रसूनुः ।
त्वयैव पापे निहिता हि पार्थाः पापाधिकस्त्वं हि सदैक एव ॥ ९३॥
इत्यूचिवांसं प्रजगाद कृष्णो न त्वत्समः पापतमः कदाचित् ।
भीष्मादिहत्याऽपि तवैव पापं यदन्वयुस्त्वामतिपापनिश्चयम् ।
पापं च पापानुगतं च हत्वा कथञ्चनाप्यस्ति नचैव पापम् ॥ ९४॥
न पाण्डवेष्वस्ति ततो हि किञ्चित् पापं प्रयत्नाच्च निसर्गतोऽपि ।
गुणाधिकास्ते मदपाश्रयाच्च को नाम तेष्वण्वपि पापमाह ॥ ९५॥
निसर्गतः पापतमस्त्वमन्यान् धर्मस्थितान् पापपथे निधाय ।
स्वयं च पापे निरतः सदैव पापात् सुपापां गतिमेव यासि ॥ ९६॥
इति ब्रुवन्तं पुनराह कृष्णं दुर्योधनः पापकृतां प्रधानः ।
स्वन्तोत्तमो नाम क एव मत्तः को नाम दोषोऽस्ति मया कृतोऽत्र ॥ ९७॥
इष्टं च यज्ञैश्चरितं च पूर्तैः पदं रिपूणां निहितं हि मूर्ध्नि ।
मृत्युश्च सङ्ग्रामशिरस्यवाप्तो रणोन्मुखेनैव मया किमन्यत् ॥ ९८॥
इष्टा भोगा मया भुक्ताः प्राप्ता च परमा गतिः ।
दुःखिनो दुःखमाप्स्यन्ति पार्थास्ते कूटयोधिनः ॥ ९९॥
चन्द्रसूर्यनिभैः शूरैर्धार्मिकैः सद्भिरुज्झिता ।
केवला रत्नहीनेयं पाण्डवैर्भुज्यतां मही ॥ १००॥
इत्युक्तवत्येव नृपे सुरेशैः प्रसूनवृष्टिर्विहिता पपात ।
तामेव बुद्धिं धृतराष्ट्रसूनोः कृत्वा दृढां पातयितुं तमोऽन्धे ॥ १०१॥
सम्भावयत आत्मानं वासुदेवं विनिन्दतः ।
तत्परांश्च कथं न स्यात् तमोऽन्ते च विशेषतः ॥ १०२॥
यदैकैकमलं तत्र दुःखाधिक्यं समुच्चयात् ।
इति तत् कारयित्वेश आह मोघं तवाखिलम् ॥ १०३॥
नृशंसस्य कृतघ्नस्य गुणवद्द्वेषिणः सदा ।
यदि धर्मफलं ध्वान्तं सूर्यवत् स्यात् प्रकाशकम् ॥ १०४॥
वदन् पुनःपुनरिदं धर्मतो हत इत्यपि ।
ख्यापयामास भगवान् जने निजजनेष्टदः ॥ १०५॥
प्रख्यापिते वासुदेवेन धर्मे सतां सर्वेषां हृद्यमासीत् समस्तम् ।
हतं च धर्मेण नृपं व्यजानन् पापोऽयमित्येव च निश्चितार्थाः ॥ १०६॥
युधिष्ठिरोऽपायदर्शी सदैव ससंशयोऽभूत् सुमनोऽभिवृष्ट्या ।
स्नेहाद् द्रौणिः सञ्जयो रौहिणेयो दौर्योधनात् पापमित्येव चोचुः ॥ १०७॥
ततः कृष्णः पाण्डुपाञ्चालकैस्तैर्भृशं नदद्भिर्हृषितैः समेतः ।
ययौ विरिञ्चेशसुरेन्द्रमुख्यैः सम्पूजितस्तैश्च रणाङ्गणात् स्मयन् ॥ १०८॥
ततः श्रुत्वा सञ्जयाद् दुःखतप्तं सम्बोधयिष्यन् पितरं युयुत्सुः ।
कृष्णस्य राज्ञश्च मतेन यातो जगाम चान्वेव जनार्दनश्च ॥ १०९॥
धर्मयुक्तैश्च तत्त्वार्थैर्लोकवृत्तानुदर्शकैः ।
वाक्यै राजानमाश्वास्य प्रायात् पार्थान् पुनर्हरिः ॥ ११०॥
कालानुसारतो दैवांश्चोपसंहर्तुमच्युतः ।
ययौ सपार्थशैनेयः कुरूणां शिबिरं निशि ॥ १११॥
तदैव हार्दिक्यकृपान्वितोऽयात् सुयोधनं द्रौणिरमुं शयानम् ।
प्रभग्नसक्थिं च सृगालभूतैः सम्भक्ष्यमाणं ददृशे श्वसन्तम् ॥ ११२॥
स दुःखशोकाभिहतो विनिन्द्य पार्थान् मया भूप किमत्र कार्यम् ।
इत्याह निष्पाण्डवतां कुरुष्वेत्यमुं व्यधात् पांस्वभिषेकिणं नृपः ॥ ११३॥
उच्छिद्य सन्ततिं पाण्डोः कृत्वा स्वक्षेत्रसन्ततिम् ।
तया भूरक्षणहृदा सोऽभिषिक्तस्तथेत्यगात् ॥ ११४॥
स कृष्णभीमपार्थानां भयादेव पुनर्वनम् ।
कृपसात्वतसंयुक्तो विवेश गहनं रथी ॥ ११५॥
तस्य चिन्तयतो द्रोणवधं दुर्योधनस्य च ।
नाऽगान्निद्रा निशीथे च ध्वाक्षान् न्यग्रोधवासिनः ॥ ११६॥
हतान् सुबहुसाहस्रानेकेनातिबलेन तु ।
कौशिकेन निरीक्ष्यैव प्राह तौ कृपसात्वतौ ॥ ११७॥
निदर्शनेन ह्येनेन प्रेरितः परमात्मना ।
यामि पाण्डुसुतान् हन्तुमित्युक्त्वाऽऽरुरुहे रथम् ॥ ११८॥
निवारितोऽपि ताभ्यां स प्राद्रवच्छिबिरं प्रति ।
अनुजग्मतुस्तावपि तं शिबिरद्वारि चैक्षत ॥ ११९॥
उग्ररूपधरं रुद्रं स्वकीयां तन्वमेव सः ।
परीतं वासुदेवं च बहुकोटिस्वरूपिणा ॥ १२०॥
दृष्ट्वैव वासुदेवं तमत्रसद् गौतमीसुतः ।
वासुदेवाज्ञयैवात्र स्वात्मनाऽपि सदाशिवः ॥ १२१॥
अयुद्ध्यदग्रसच्चाऽशु द्रौणेः सर्वायुधान्यपि ।
अचिन्त्या हरिशक्तिर्यद् दृश्यन्ते त्महनोऽपि हि ॥ १२२॥
अतस्तया प्रेरितेन स्वात्मनैवाखिलेष्वपि ।
आयुधेषु निगीर्णेषु द्रौणिर्यज्ञं तु मानसम् ।
चक्रेऽऽत्मानं पशुं कृत्वा स्वात्मस्थायैव विष्णवे ॥ १२३॥
यज्ञतुष्टेन हरिणा प्रेरितः शङ्करः स्वयम् ।
आत्मने द्रोणपुत्राय ददौ सर्वायुधानि च ॥ १२४॥
उवाच चाहमादिष्टो विष्णुना प्रभविष्णुना ।
अरक्षं पार्थशिबिरमियन्तं कालमेव तु ॥ १२५॥
तदिच्छयैव निर्दिष्टो दास्ये मार्गं तवाद्य च ।
आयुधानि च सर्वाणि हन्तुं सर्वानिमान् जनान् ॥ १२६॥
इत्युदीर्य प्रदायाऽशु सर्वा हेतीर्वृषध्वजः ।
तत्रैवान्तर्दधे सोऽपि प्रोवाच कृपसात्वतौ ॥ १२७॥
ये निर्यास्यन्ति शिबिराज्जहितं तांस्तु सर्वशः ।
इत्युक्त्वा प्रविवेशान्तर्धन्वी खड्गी कृतान्तवत् ॥ १२८॥
पारावताश्वं स तदा शयानमुपेत्य पद्भ्यां समताडयच्च ।
वक्षस्यसाववदद् वीतनिद्रो जाने भवन्तं हि गुरोस्तनूजम् ॥ १२९॥
समुत्थितं मां जहि शस्त्रपाणिं शस्त्रेण वीरोऽसि स वीरधर्मः ।
लोकाश्च मे सन्त्वथ शस्त्रपूता इति ब्रुवाणं स रुषा जगाद ॥ १३०॥
न सन्ति हि ब्रह्महणां सुलोका विशेषतश्चैव गुरुद्रुहां पुनः ।
न धर्मयुद्धेन वधार्हकाश्च ये त्वद्विधाः पापतमाः सुपाप ॥ १३१॥
अवश्यभाविनं मृत्युं धृष्टद्युम्नो विचिन्त्य तम् ।
तूष्णीं बभूव स्वप्नेऽपि नित्यं पश्यति तां मृतिम् ॥ १३२॥
द्रौणिं च काळरात्रिं च द्रोणपातादनन्तरम् ।
विशसन्तं कृषन्तीं च स्वप्नेऽपश्यद्धि पार्षतः ॥ १३३॥
समाक्षिपद् द्रोणसुतोऽस्य कण्ठे निबद्ध्य मौर्वीं धनुषोप्युरस्थः ।
ममन्थ कृच्छ्रेण विहाय देहं ययौ निजं स्थानमसौ च वह्निः ॥ १३४॥
ततः शिखण्डिनं हत्वा युधामन्यूत्तमोजसौ ।
जनमेजयं च पाञ्चालीसुतानभिययौ ज्वलन् ॥ १३५॥
तैरुत्थितैरस्यमानः शरैः खड्गेन जघ्निवान् ।
सर्वान् सव्यापसव्येन तथाऽन्यान् पाण्डवात्मजान् ।
ऋत एकं भैमसेनिं काशिराजात्मजात्मजम् ॥ १३६॥
तं तदाऽन्तर्हितः शर्वः कैलासमनयत् क्षणात् ।
स शर्वत्रातनामाऽऽसीदतस्तत्रैव सोऽवसत् ॥ १३७॥
पुराऽर्थितः स्वदौहित्रस्यामरत्वाय शङ्करः ।
काशिराजेन तेनासौ जुगोपैनं कृपायुतः ॥ १३८॥
वासुदेवमतं ज्ञात्वा साम्राज्याय परीक्षितः ।
वारयामास भूलोकं नैव याहीत्यमुं शिवः ॥ १३९॥
सामान्यतोऽपाण्डवाय द्रौणिनाऽप्यभिसन्धितम् ।
तद्रूपेणैव रुद्रेण विनैनमिति चिन्तितम् ॥ १४०॥
अस्त्रं ब्रह्मशिरश्चैनं न जघानैक्यतस्तयोः ।
चेकितानादिकांश्चैव जघानान्यान् स सर्वशः ॥ १४१॥
स चेदिपाञ्चालकरूशकाशीनन्यांश्च सर्वान् विनिहत्य वीरः ।
शिशून् स्त्रियश्चैव निहन्तुमुग्रः प्राज्वालयत् तच्छिबिरं समन्तात् ॥ १४२॥
जीजीविषूंस्तत्र पलायमानान् द्वारि स्थितौ गौतमः सात्वतश्च ।
निजघ्नतुः सर्वतः पार्षतस्य सूतस्त्वेकः शेषितो दैवयोगात् ॥ १४३॥
खड्गेन प्रहृतं दृष्ट्वा हार्दिक्येन पपात ह ।
भूमौ प्रागेव संस्पर्शान्न ज्ञातस्तमसाऽमुना ।
अन्यासक्ते समुत्थाय प्राद्रवद् यत्र पार्षती ॥ १४४॥
तस्या अकथयत् सर्वं सा भीमायाऽह दुःखिता ।
प्राद्रवद् रथमारुह्य स धन्वी गौतमीसुतम् ॥ १४५॥
तदन्तरे द्रौणिरपि प्रयातः कृष्णासुतानां मुदितः शिरांसि ।
आदाय हार्दिक्यकृपानुयातो दुर्योधनं सन्निकृष्टप्रयाणम् ॥ १४६॥
दृष्ट्वा तदुक्तं च निशम्य पापस्तुष्टोऽत्यजत् साध्विति देहमाशु ।
भीमार्जुनाभ्यामथ केशवाच्च भीताः पृथग् द्रौणिमुखाः प्रयाताः ॥ १४७॥
तत्रैकलं द्रोणसुतं रथेन यान्तं रथी मारुतिरन्वधावत् ।
तमाद्रवन्तं प्रसमीक्ष्य भीतः पराद्रवद् द्रौणिरतिद्रुताश्वैः ॥ १४८॥
आद्रवन्तं पुनर्दृष्ट्वा भीमं द्रोणात्मजो रुषा ।
आवृत्य युद्ध्यन् विजितोऽस्त्रं ब्रह्मशिर आददे ॥ १४९॥
एतस्मिन्नन्तरे कृष्णो धर्मजेनार्जुनेन च ।
तत्राऽगमत् तदस्त्रं च भीमं चाव्यर्थतां नयन् ।
अवध्यो भीमसेनस्तदस्त्रं चामोघमेव यत् ॥ १५०॥
विष्णुनैवोभयं यस्मात् क्लृप्तं भीमोऽस्त्रमेव तत् ।
गायत्री तत्र मन्त्रो यद् ब्रह्मा तद्ध्यानदेवता ।
ध्येयो नारायणो देवो जगत्प्रसविता स्वयम् ॥ १५१॥
ऊचे च पार्थयोः कृष्णो यत् कृतं द्रौणिना पुरा ।
स्वायुधानां याचनं चाप्यशक्तेन तदुद्धृतौ ॥ १५२॥
पृष्टेनोक्तं त्वया हीनां कृत्वा दुर्योधनाय गाम् ।
दातुं त्वदायुधं मेऽद्येत्येवमुक्ते त्मनोदितम् ।
मैवं कार्षीः पुनरिति द्ध्यायताऽब्धेस्तटे स्वमु ॥ १५३॥
तदस्त्रं प्रज्वलद् दृष्ट्वाऽपाण्डवत्वविधित्सया ।
धरायां द्रौणिना मुक्तं कृष्णेन प्रेरितोऽर्जुनः ॥ १५४॥
स्वस्त्यस्तु द्रोणपुत्राय भूतेभ्यो मह्यमेव च ।
इति ब्रुवंस्तदेवास्त्रमस्त्रशान्त्यै व्यसर्जयत् ॥ १५५॥
अनस्त्रज्ञेषु मुक्तं तद्धन्यादस्त्रमुचं यतः ।
गुरुभक्त्या ततो द्रौणेः स्वस्त्यस्त्वित्याह वासविः ॥ १५६॥
तदाऽस्त्रयोस्तु संयोगे भूतानां संहृतिर्भवेत् ।
भूतानां स्वस्तिरप्यत्र काङ्क्षिता करुणात्मना ॥ १५७॥
तथाऽप्यस्त्रद्वयं युक्तं भूतानां नाशकृद् ध्रुवम् ।
तस्मान्निवारयन् योगं तयोर्मध्येऽभवत् क्षणात् ।
निस्सीमशक्तिः परमः कृष्णः सत्यवतीसुतः ॥ १५८॥
संस्थाप्यास्त्रद्वयं दूरे तावाह पुरुषोत्तमः ।
सन्ति ह्यस्त्रविदः पूर्वं प्रायश्चैतन्न तैः कृतम् ।
लोकोपद्रवकृत् कर्म सन्तः कुर्युः कथं क्वचित् ॥ १५९॥
इत्युक्ते फल्गुनः प्राह मया मुक्तं महापदि ।
शान्त्यर्थमेव च विभो क्षन्तव्यं भवता ततः ॥ १६०॥
द्रौणिरप्येवमेवाऽह तौ वेदपतिरब्रवीत् ।
निवर्त्यतामस्त्रमिति शक्रसूनुस्तथाऽकरोत् ।
निवर्तनाप्रभुं द्रौणिं वासुदेवोऽभ्यभाषत ॥ १६१॥
क्षत्रतेजा ब्रह्मचारी कौमारादपि पाण्डवः ।
निवर्तने ततः शक्तो नायं द्रोणात्मजोऽपि सन् ।
अब्रह्मचर्यादित्युक्ते व्यासो द्रौणिमभाषत ॥ १६२॥
निवर्तनासमर्थस्त्वं देहि नैसर्गिकं मणिम् ।
जितः प्रागेव भीमेन भीमायैव महाप्रभम् ।
अपि केवलया वाचा पार्थेभ्योऽस्त्रं निवर्तय ॥ १६३॥
इत्युक्तो मूर्धजं रत्नं जरामरणनाशनम् ।
क्षुत्तृट्श्रमापहं दिव्यगन्धं ध्वान्तहरं शुभम् ॥ १६४॥
उत्कृत्य भीमाय ददौ मुक्ताः पञ्चैव पाण्डवाः ।
अस्त्रादिति ततो वेदभर्ता वासविमब्रवीत् ॥ १६५॥
तात मुक्तं द्रौणिनाऽपि त्वमेवास्त्रं निवर्तय ।
इत्युक्तस्तं प्रणम्याऽशु सञ्जहारार्जुनोऽपि तत् ॥ १६६॥
यादवेशोऽथ गौतम्याः सुतमाहैकसन्ततेः ।
वाचा निवर्तयास्त्रं ते इत्युक्तो द्रौणिरब्रवीत् ॥ १६७॥
पक्षपातादिच्छसि त्वं भागिनेयस्य सन्ततिम् ।
तत्रैव पातयाम्यस्त्रमुत्तरागर्भकृन्तने ॥ १६८॥
वासुदेवः पुनः प्राह यदि हन्तव्य एव ते ।
गर्भस्तथाऽपि नैवास्त्रं पातयास्मिन् कथञ्चन ॥ १६९॥
अभिमन्योर्मृतस्यैव देहे पातय मानद ।
एवं त्वदस्त्रनिहतं गर्भमुज्जीवयाम्यहम् ॥ १७०॥
पातये गर्भ एवाहमित्यूचे गौतमीसुतः ।
अथाऽह वासुदेवस्तमीषत्क्रुद्ध इव प्रभुः ॥ १७१॥
दुर्मते पश्य मे वीर्यं यत् ते शक्यं कुरुष्व तत् ।
उज्जीवयाम्यहं गर्भं यततः शक्तितोऽपि ते ॥ १७२॥
सन्ततिर्वर्षसाहस्रं पाण्डवानां भवेद् भुवि ।
मत्पालितां न कश्चित् तां तावद्धन्तुं क्षमः क्वचित् ॥ १७३॥
जानामि ते मतिं दुष्टां जिघांसोः पार्थसन्ततिम् ।
चिकीर्षोर्धार्तराष्ट्रस्य तन्तुं भूयः सुदुष्करम् ॥ १७४॥
मदाज्ञया सा विफला भवित्री वाञ्छा मुमुक्षा विमुखस्य विष्णोः ।
यथैव तेनैव नराधिरूढो गम्यस्तव स्यान्नच भूमिभागः ॥ १७५॥
दुर्गन्धयुक्तो व्रणसञ्चिताङ्गः सदा चरः स्या विपिनेषु मन्द ।
यावद् भुवि स्यादिह पार्थतन्तुर्व्यासोऽपि तं प्राह तथेति देवः ॥ १७६॥
रूपद्वयेनापि हरेस्तथोक्तो जगाद काळीतनयं स कृष्णम् ।
त्वया सह स्यान्मम सङ्गमो विभो यथेष्टतः स्यान्नच मेऽत्र विघ्नः ॥ १७७॥
इत्युक्त औंइति प्राह भगवान् बादरायणः ।
तं प्रणम्य ययौ सोऽपि स्वप्नदृष्टमनुस्मरन् ॥ १७८॥
स्वप्ने हि द्रौपदेयानां वधो दृष्टो त्मना निशि ।
अर्जुनेन प्रतिज्ञानं द्रौपद्यै स्ववधं प्रति ॥ १७९॥
निबध्याऽनयनं चैव तेनैव शिबिरं प्रति ।
मुञ्चेति द्रौपदीवाक्यं नेति भीमवचस्तथा ।
कृष्णवाक्यान्मणिं हृत्वा देशान्निर्यातनं तथा ॥ १८०॥
इत्यादि स्वप्नदृष्टं यत् प्रायः सत्यमभूदिति ।
चिन्तयन् प्रययौ दावं द्रौणिः शस्त्रभृतां वरः ॥ १८१॥
स कृष्णोक्तमपि प्राप्य बादरायणशिष्यताम् ।
प्राप्योत्तरद्वापरे च वेदान् संविभजिष्यति ॥ १८२॥
ततः सप्तर्षिर्भूत्वा पाराशर्यप्रसादतः ।
एकीभावं स्वरूपेण यास्यत्यच्युतनिष्ठया ॥ १८३॥
कृपोऽथ पाण्डवान् प्राप्य गौरवात् पूजितश्च तैः ।
अभूदाचार्य एवासौ राज्ञां तत्तन्तुभाविनाम् ॥ १८४॥
बादरायणशिष्यत्वं पुनः प्राप्य भजन्नमुम् ।
साकं स्वभागिनेयेन भाव्येको मुनिसप्तके ।
कृतवर्मा द्वारवतीं ययौ कृष्णानुमोदितः ॥ १८५॥
कृष्णायै तं मणिं दत्वा भीमस्तां पर्यसान्त्वयत् ।
विकोपा भीमवाक्येन राज्ञे सा च मणिं ददौ ॥ १८६॥
राजार्हे हि मणौ दत्ते मह्यं भीमेन लौकिकाः ।
स्त्रीपक्षपातं राजा च शङ्केयुर्मारुतेरिति ॥ १८७॥
मणिं राज्ञे ददौ कृष्णा भर्तृप्रियहिते रता ।
सोऽप्याबध्य मणिं मूर्ध्नि रेजे राजा गवामिव ॥ १८८॥
वेदेश्वरेणापि यदूत्तमेन कृष्णेन युक्तास्तत आशु पार्थाः ।
ययुः सभार्या निजराजधानीं हत्वैव सन्तोऽन्तररीन् स्वराज्यम् ॥ १८९॥
युधिष्ठिरस्यानु विचित्रवीर्यसुतस्य पादावभिवन्दमानम् ।
आकृष्य भीमं परमेश्वरोऽयो मयाकृतिं धात् पुरतो नृपस्य ॥ १९०॥
भीमाकृतिं तां स सुयोधनेन कारापितामभ्यसने गदायाः ।
आश्लिष्य चूर्णीकृतवानसृग् वमन् हा तात भीमेति वदन् पपात ॥ १९१॥
तमाह कृष्णो न हतोऽद्य भीमो नच त्वयाऽन्यैरपि शक्यतेऽसौ ।
हन्तुं स्वबुद्धिः प्रथिता त्वयाऽद्य पापा हि ते बुद्धिरद्यापि राजन् ॥ १९२॥
स्वबुद्धिदोषादतिपापशीलपुत्राख्यपापानि विवर्द्धयित्वा ।
नीतो वशं तैः फलमद्य भुञ्जन् न क्रोधितुं चार्हसि भीमसेने ॥ १९३॥
इत्युक्ते शान्तबुद्ध्यैव राज्ञाऽऽहूतो वृकोदरः ।
अभ्यवन्दत तत्पादावनुजाद्याश्च तस्य ये ॥ १९४॥
वज्राच्च दृढदेहत्वादविकारे वृकोदरे ।
न दोषो विवृतोऽस्य स्यादिति कृष्णेन वञ्चितः ।
सर्वानाश्लिष्य च प्रेम्णा युयोज नृप आशिषः ॥ १९५॥
कुलनाशकरः पापः शापयोग्यस्तव ह्यहम् ।
इत्युक्त्वैव प्रणमतो गान्धारी सुपदाङ्गुलीः ॥ १९६॥
ददर्श धर्मराजस्य पट्टान्तेन प्रकोपिता ।
तस्याः क्रोधाग्निनिर्दग्धनखः स कुनखोऽभवत् ॥ १९७॥
वन्दमानं पुनर्भीममाह सा क्रोधविह्वला ।
अधर्मतः कथं भीम सुतं मे त्वं निजघ्निवान् ॥ १९८॥
इत्युक्तोऽस्याः शमयितुं क्रोधमग्रे वृकोदरः ।
प्राह न प्राणसन्देहे पापं स्यात् पापिनो वधे ॥ १९९॥
इत्युक्त्वा तां पुनः प्राह प्रतिज्ञाहानिमन्तरा ।
न मेऽस्ति प्राणसन्देह इति जानन् वृकोदरः ॥ २००॥
यथाप्रतिज्ञं भ्रातृव्यान् रणे मम निजघ्नुषः ।
क्वाधर्मः क्षत्रजातेस्तु तद्धानौ जीवितं नहि ॥ २०१॥
' पापा न शुद्धधर्मेण हन्तव्या' इति च श्रुतिः ।
' अन्यवत् पापहननं पापयेत्याह' इति श्रुतिः ।
अतोऽसुरान् नैकृतिकान् निकृत्या घ्नन्ति देवताः ॥ २०२॥
' निकृत्या निकृतिं हन्यान्निकृत्या नैव धार्मिकम्' ।
इति श्रुतिर्हि परमा पठ्यते पैङ्गिभिः सदा ॥ २०३॥
इत्युक्ता तं पुनः प्राह कथं ते नरशोणितम् ।
पीतं नरेणैव सता न पीतमिति सोऽब्रवीत् ॥ २०४॥
दन्तान्तरं न मे प्राप शोणितं तत् सुतस्य ते ।
प्रतिज्ञापालनायापि प्रतिकर्तुं च तत् कृतम् ॥ २०५॥
भीषणाय च शत्रूणां पीतवच्च प्रदर्शितम् ।
वेददृष्टश्च धर्मोऽयमतिपापजनं प्रति ॥ २०६॥
इत्युक्तोवाच नैवान्धद्वयस्यास्य वृकोदर ।
घ्नता पुत्रशतं यष्टिमात्रं चोर्वरितं त्वया ॥ २०७॥
तामाह भीमः पापिष्ठा वधयोग्यापराधिनः ।
सर्वे हता इति पुनः साऽऽह येनाकृतस्तव ।
अपराधः स एकोऽपि किं नास्तीत्यवदत् स ताम् ॥ २०८॥
सर्वैः समेतैः कृष्णस्य बन्धनाय विनिश्चितम् ।
अन्यानि च सुपापानि कृतान्यत्र पुराऽपिच ॥ २०९॥
वासुदेवं सभासंस्थं ब्रुवाणं धर्मसंहितम् ।
पुनःपुनरवज्ञाय यान्तं दुर्योधनं बहिः ।
सर्वेऽन्वगच्छन्नित्यादीन्यभिप्रेत्य वृकोदरः ॥ २१०॥
नैकोऽप्यनपराधी मे स्वयं ताननुशिक्षितुम् ।
असमर्था मयि क्रोधं किं करोषि निरर्थकम् ॥ २११॥
इत्युक्ता साऽभवत् तूष्णीं क्रमात् सर्वैश्च पाण्डवैः ।
वन्दिता व्यासवाक्याच्च किञ्चिच्छान्ताऽथ साऽभवत् ॥ २१२॥
तस्या याश्च स्नुषाः सर्वास्ताभिः सह पुरस्कृताम् ।
कृत्वा तं धृतराष्ट्रं च विदुरादींश्च सर्वशः ॥ २१३॥
पाण्डवाः प्रधनस्थानं सभार्याः पृथया सह ।
कृष्णाभ्यां च ययुस्तत्र गान्धार्यास्तपसो बलम् ॥ २१४॥
जानन् पाण्डवरक्षार्थं चिकीर्षुस्तत्तपोव्ययम् ।
वेदेश्वरो ददौ दिव्यं चक्षुः सत्यवतीसुतः ॥ २१५॥
तेन दृष्ट्वा प्रेतदेहान् सर्वांस्तत्र समाकुला ।
शशाप यादवेशानं त्वयाऽस्मत्कुलनाशनम् ।
यत् कृतं तत् तव कुलं गच्छत्वन्योन्यतः क्षयम् ॥ २१६॥
इत्युक्तो भगवान् कृष्णः स्वचिकीर्षितमेव तत् ।
अस्त्वेवमित्याह विभुरीश्वरोऽप्यन्यथा कृतौ ॥ २१७॥
तेन तस्यास्तपो नष्टं हीना साऽतो हि भर्तृतः ।
नाशयेद्धि सदा विष्णुः स्वयोग्यादधिकान् गुणान् ॥ २१८॥
तत आश्लिष्य भर्त्Qणां देहान् प्ररुदतीः स्त्रियः ।
सर्वा दुर्योधनादीनां दर्शयामास केशवः ।
कृष्णायै सा च तं देवमस्तुवत् पूर्णसद्गुणम् ॥ २१९॥
ततो देहान् प्रसिद्धानां पार्थाः समदहन् सताम् ।
अन्येषां धृतराष्ट्रादीन् पुरस्कृत्यैव कांश्चन ।
सूतैः पञ्चभिरेव स्वैः सरस्वत्यां प्रचिक्षिपुः ॥ २२०॥
स्नेहान्नृपो यमौ च स्वान् नाऽजौ तस्मिन् ह्ययोजयन् ।
शवाः प्रायो बहुत्वेन तत्रतत्रैव संस्थिताः ॥ (MB TN_AD-28)२२१॥
ततो ददत्सु पानीयं गङ्गायां स्वजनस्य तु ।
पृथा कर्णाय दत्तेति पार्थानाहाग्रजं च तम् ॥ २२२॥
ततो हाहेति विलपन् राजा परमदुःखितः ।
शशाप सर्वनारीणां गुह्यं हृदि न तिष्ठतु ॥ २२३॥
हा मातस्तव धृत्यैव वयं सर्वे भृशं हताः ।
ज्येष्ठं पितृसमं हत्वा प्रतिपत्स्याम कां गतिम् ॥ २२४॥
एवं वदन्तं कौन्तेयं वासुदेवः सनारदः ।
शमयामास सद्वाक्यैर्गुणान् कर्णस्य चाब्रवीत् ॥ २२५॥
ततस्ते प्रेतकार्याणि चक्रुः सर्वेऽपि सर्वशः ।
सर्वेषामाधिराज्ये च स्थितोऽभूत् पाण्डवाग्रजः ॥ २२६॥