एवं शुभोच्चगुणवत्सु जनार्दनेन युक्तेषु पाण्डुषु चरत्स्वधिकं शुभानि

एकोनविंशोऽध्यायः
सर्वशास्त्रतात्पर्यनिर्णयः

औं ॥ एवं शुभोच्चगुणवत्सु जनार्दनेन युक्तेषु पाण्डुषु चरत्स्वधिकं शुभानि ।

नास्तिक्यनीतिमखिलां गुरुदेवतादिसत्स्वञ्जसैव जगृहुर्धृतराष्ट्रपुत्राः ॥ १॥

नाम्ना कणिङ्क इति चासुरको द्विजोऽभूच्छिष्यः सुरेतरगुरोः शकुनेर्गुरुः सः ।

नीतिं स कुत्सिततमां धृतराष्ट्रपुत्रेष्वाधाद् रहो वचनतः शकुनेः समस्ताम् ॥ २॥

छद्मैव यत्र परमं न सुराश्च पूज्याः स्वार्थेन वञ्चनकृते जगतोऽखिलं च ।

धर्मादि कार्यमपि यस्य महोपाधिः स्याच्छ्रेष्ठः स एव निखिलासुरदैत्यसङ्घात् ॥ ३॥

इत्यादि कुत्सिततमां जगृहुः स्म विद्यामज्ञात एव धृतराष्ट्रमुखैः समस्तैः ।

तेषां स्वभावबलतो रुचिता च सैव विस्तारिता च निजबुद्धिबलादतोऽपि ॥ ४॥

सम्पूर्णदुर्मतिरथो धृतराष्ट्रसूनुस्तातप्यमानहृदयो निखिलान्यहानि ।

दृष्ट्वा श्रियं परमिकां विजयं च पार्थेष्वाहेदमेत्य पितरं सह सौबलेन ॥ ५॥

ज्येष्ठस्य तेऽपि हि वयं हृदयप्रजाता नार्हत्वमेव गमिता भवतैव राज्ये ।

भ्रातुः कनीयस उतापि हि दारजाता अन्यैश्च राज्यपदवीं भवतैव नीताः ॥ ६॥

राज्यं महच्च समवाप्स्यति धर्मसूनुस्त्वत्तोऽथवाऽनुजबलात् प्रसभं वयं तु ।

दासा भवेम निजतन्तुभिरेव साकं कुन्तीसुतस्य परतोऽपि तदन्वयस्य ॥ ७॥

नाऽत्मार्थमस्ति मम दुःखमथातिशुद्धलोकप्रसिद्धयशसस्तव कीर्तिनाशः ।

अस्मन्निमित्त इति दुःखमतो हि सर्वेऽपीच्छाम मर्तुमथ नः कुरु चाप्यनुज्ञाम् ॥ ८॥

एवं स्वपुत्रवचनं स निशम्य राजा प्रोवाच नानुगुणमेतदहो मनस्ते ।

को नाम पाण्डुतनयेषु गुणोत्तमेषु प्रीतिं न याति निजवीर्यभवोच्चयेषु ॥ ९॥

ते हि स्वबाहुबलतोऽखिलभूपभूतिं मय्याकृषन्ति नच वः प्रतिषेधकास्ते ।

तस्माच्छमं व्रज शुभाय कुलस्य तात क्षेमाय नो भवति वो बलवद्विरोधः ॥ १०॥

एवं ब्रुवत्यपि नृपे पुनराह पाप आश्रित्य सौबलमतं यदि नैव पार्थान् ।

अन्यत्र यापयसि नागपुरात् परेतान् दृष्ट्वाऽखिलानपि हि नो मुदमेहि पार्थैः ॥ ११॥

एवं निशम्य गदितं सुतहार्दपाशैराकृष्यताऽशु स नृपोऽरिधरेच्छयैव ।

प्रोवाच पुत्रमपि ते बलिनो न पार्थाः शक्याः पुरात् तनय यापयितुं कथञ्चित् ॥ १२॥

इत्युक्त आह पितरं शकुनिं निरीक्ष्य सृष्टो मया विधिरिहाद्य शृणुष्व तं च ।

आसंस्त्रयोदश समा नगरं प्रविष्टेष्वेतेषु तावदयमेव विधिर्मयेष्टः ॥ १३॥

द्रौणेर्हि नास्ति सदृशो बलवान् प्रतापी सोऽयं मया बहुविधैः परमैरुपायैः ।

नीतो वशं वशगतोऽस्य च मातुलेन साकं पिता तमनु चैष नदीप्रसूतः ॥ १४॥

एवं हि सैनिकगणा अपि दानमानैः प्रायो वशं मम गता अपि चैष कर्णः ।

अस्त्रे बलेऽप्यधिक एव सुरेन्द्रसूनोर्जेष्ये च मन्त्रबलतस्त्वहमेव भीमम् ॥ १५॥

त्रिंशच्छतं परमकाः सुरदुर्लभाश्च दुर्वाससो हि मनवोऽद्य मया गृहीताः ।

अन्यत्र ते प्रविहिता नहि वीर्यवन्तः स्युर्भीम इत्यहममून् न नियोजयामि ॥ १६॥

ते वीर्यदा विजयदा अपि वह्निवारिस्तम्भादिदाः सकलदेवनिकायरोधाः ।

वृष्ट्याद्यभीप्सितसमस्तकरा अमूभिर्जेष्यामि भीमममुमेकमयातयामैः ॥ १७॥

सौहार्दमेषु यदिवाऽतितरां करोषि तत्रापि नैव हि मया क्रियते विरोधः ।

वत्स्यन्तु वारणवते भवतु स्म राष्ट्रं तेषां तदेव मम नागपुरं त्वदर्थे ॥ १८॥

एवं स्वपुत्रपरिपालनतो यशस्ते भूयाद् विनश्यति परप्रसवातिपुष्टौ ।

जाते बले तव विरोधकृतश्च ते स्युः स्वार्थं हि तावदनुयान्त्यपि केवलं त्वाम् ॥ १९॥

क्षत्तैक एव सततं परिपोषकोऽलं तेषां मम द्विडथ मन्त्रबलादमुष्य ।

पौराश्च जानपदकाः सततं द्विषन्ति मां तेष्वतीव दृढसौहृदचेतसश्च ॥ २०॥

ते तेषु दूरगमितेषु निराश्रयत्वान्मामेव दुर्बलतया परितः श्रयन्ते ।

भीष्मादयश्च नहि तन्निकटे विरोधं कुर्युर्विनश्यति गतेषु हि सौहृदं तत् ॥ २१॥

भेदः कुलस्य भविता कुलनाशहेतुरस्माभिरेषु सहितेषु पुरे वसत्सु ।

तस्मादुपायबलतः प्रतियातनीयास्ते वारणावतमितो विहितोऽप्युपायः ॥ २२॥

विष्णुर्जयन्त इति शम्भुसहाय आस्ते देवोत्सवश्च सुमहान् भविताऽत्र सुष्ठु ।

भक्ताश्च ते हि नितरामरिशङ्खपाणौ त्वच्चोदिताः समुपयान्ति तमुत्सवं द्राक् ॥ २३॥

अज्ञाप्य मत्पुरुषतां पुरुषैर्मदीयैर्मध्यस्थवद् बहुगुणा उदिताश्च तत्र ।

तेषां पुरोऽत्र गमनाभिरुचिश्च जाता द्रष्टुं पुरं बहुगुणं ननु पाण्डवानाम् ॥ २४॥

इत्युक्तवत्यथ सुते स तथेत्युवाच प्राप्तेषु पाण्डुतनयेषु तथैव चोचे ।

ज्ञात्वैव तेऽपि नृपतेर्हृदयं समस्तं जग्मुः पितेति पृथया सह नीतिहेतोः ॥ २५॥

भीमस्तदा ह भविताऽत्र हि भैक्षचार इत्येव सम्यगनुविद्य निजं न कर्म ।

त्याज्यं त्विति प्रतिजगाद निजाग्रजाय यामो वयं नतु गृहात् स हि नः स्वधर्मः ॥ २६॥

निष्काळयन्ति यदि नो निजधर्मसंस्थान् योत्स्यामहेऽत्र नहि दस्युवधोऽप्यधर्मः ।

इत्यूचिवांसममुमाह च धर्मसूनुः कीर्तिर्विनश्यति हि नो गुरुभिर्विरोधे ॥ २७॥

इत्युक्तवाक्यममुमग्रजमन्वगात् स भीमः प्रदर्श्य निजधर्ममथानुवृत्त्यै ।

दोषो भवेदुभयतो यत एव तेन वाच्यः स्वधर्म उत न स्थितिरत्र कार्या ॥ २८॥

कीर्त्यर्थमेव निजधर्मपरिप्रहाणे प्राप्तेऽग्रजस्य वचनात् प्रविहातुमेव ।

भीमस्य दोषमुभयं प्रतिहन्तुमीशो ज्येष्ठं चकार हरिरत्र सुतं वृषस्य ॥ २९॥

हन्तव्यतामुपगतेषु सुयोधनादिष्वन्योपधान्नहि भवेन्निजधर्म एव ।

पूर्वं वधे नहि समस्तश एव दोषास्तेषां प्रयान्ति विवृतिं च तदर्थतोऽपि ॥ ३०॥

क्षत्ताऽथ चाऽह सुवचोऽन्त्यजभाषयैव धर्मात्मजं विषहुताशभयात् प्रतीताः ।

आध्वं त्विति स्म स तथेति वचोऽप्युदीर्य प्रायाच्च वारणवतं पृथयाऽनुजैश्च ॥ ३१॥

तान् हन्तुमेव च तदा धृतराष्ट्रसूनुर्लाक्षागृहं सपदि काञ्चनरत्नगूढम् ।

कृत्वाऽभ्ययातयदमुत्र हि विष्णुपद्या स्वामात्यमेव च पुरोचननामधेयम् ॥ ३२॥

पूर्वं प्रहस्त इति यस्त्वभवत् सुपापः सोऽभ्येत्य पाण्डुतनयानभवच्च मन्त्री ।

दुर्योधनं प्रतिविहाय भवत्सकाशमायात इत्यवददेषु स कूटवाक्यम् ॥ ३३॥

दिव्यं गृहं च भवतां हि मयोपनीतं प्रीत्यैव पापमनुयातुमहं न शक्तः ।

युष्मासु धर्मधृतिमत्सु सदा निवत्स्य इत्यूचिवांसममुमाहुरहो सुभद्रम् ॥ ३४॥

दृष्ट्वैव जातुषगृहं वसया समेतं तद्गन्धतो वृषसुतः पवमानजातम् ।

तं चातिपापमवदत् सुमुखैष पापो हन्तुं न इच्छति सदा भव च प्रतीतः ॥ ३५॥

क्षत्ताऽथ नीतिबलतोऽखिललोकवृत्तं जानन् स्वचारमुखतः खनकाय चोचे ।

उक्त्वैव धर्मतनयाय मदीयवाक्यं पूर्वोक्तमाशु कुरु तत्र बिलं सुदूरम् ॥ ३६॥

चक्रे स चैवमथ वर्त्म वृतिच्छलेन द्वारं च तस्य स पिधाय ययौ गृहं स्वम् ।

भीमः पुरोचन उभावपि तौ वधाय च्छिद्रार्थिनौ मिथ उतोषतुरब्दकार्द्धम् ॥ ३७॥

तस्याग्रजा च सहिता सुतपञ्चकेन तत्राऽगमत् तदनु मारुतिरेष कालः ।

इत्थं विचिन्त्य स निशाम्य च तान् प्रसुप्तान् भ्रात्Qंश्च मातरमथाऽशु बिले न्यधात् प्राक् ॥ ३८॥

तं भागिनेयसहितं भगिनीं च तस्य पापां ददाह सगृहां पवमानसूनुः ।

साऽप्यागता हि गरळेन निहन्तुमेतान् भीमस्य पूर्वभुजितो न शशाक चैतत् ॥ ३९॥

तप्तं तया ससुतया च तपो नितान्तं स्यां सूनुभिः सह बलाददितिस्तथाऽब्दात् ।

तस्या अदाच्च गिरिशो यदि पुत्रकैस्त्वं युक्ता न यासि मृतिमेष वरस्तवेति ॥ ४०॥

जानन्निदं सकलमेव स भीमसेनो हत्वा सुतैः सह कुबुद्धिमिमां हि तं च ।

भ्रात्Qंश्च मातरमुदूह्य ययौ बिलात् स निर्गत्य भीतिवशतोऽबलतां प्रयातान् ॥ ४१॥

ज्ञात्वा पुरोचनवधं यदि भीष्ममुख्यैर्वैचित्रवीर्यतनया अभियोधयेयुः ।

किं नो भवेदिति भयं समुहद् विवेश भीमं त्वृते च तनयान् सकलान् पृथायाः ॥ ४२॥

भीमोऽभयोऽपि गुरुभिः स्वमुखेन युद्धमप्रीयमाण उत धर्मजवाक्यहेतोः ।

ऊह्यैव तानपि ययौ द्युनदीं च तीर्त्वा क्षत्त्राऽतिसृष्टमधिरुह्य जलप्रयाणम् ॥ ४३॥

विश्वासिता विदुरपूर्ववचोभिरेव दाशोदिताभिरधिरुह्य च भीमपृष्ठम् ।

सर्वे ययुर्वनमथाभ्युदिते च सूर्ये दृष्ट्वैव सप्त मृतकानरुदंश्च पौराः ॥ ४४॥

हा पाण्डवानदहदेष हि धार्तराष्ट्रो धर्मस्थितान् कुमतिरेव पुरोचनेन ।

सोऽप्येष दग्ध इह दैववशात् सुपापः को नाम सत्सु विषमः प्रभवेत् सुखाय ॥ ४५॥

पौरेभ्य एव निखिलेन च भीष्ममुख्या वैचित्रवीर्यसहितास्तु निशम्य हेति ।

ऊचुः सुदुःखितधियोऽथ सुयोधनाद्याः क्षत्ता मृषैव रुरुदुर्युयुजुश्च कर्म ॥ ४६॥

भीमोऽप्युदूह्य वनमाप हिडिम्बकस्य भ्रात्Qन् पृथां च तृषितैरभियाचितश्च ।

पानीयमुत्तरपटेऽम्बुजपत्रनद्धं दूरादुदूह्य ददृशे स्वपतोऽथ तांश्च ॥ ४७॥

रक्षार्थमेव परिजाग्रति भीमसेने रक्षः स्वसारमभियापयते हिडिम्बीम् ।

सा रूपमेत्य शुभमेव ददर्श भीमं साक्षात् समस्तशुभलक्षणसारभूतम् ॥ ४८॥

सा राक्षसीतनुमवाप सुरेन्द्रलोकश्रीरेव शक्रदयिता त्वपरैव शच्याः ।

शापात् स्पृधा पतिमवाप्य च मारुतं सा प्राप्तुं निजां तनुमयाचत भीमसेनम् ॥ ४९॥

तां भीम आह कमनीयतनुं न पूर्वं ज्येष्ठादुपैमि वनितां नहि धर्म एषः ।

सा चाऽह कामवशगा पुनरेतदेव स्वावेशयुग्धि मरुदग्र्यपरिग्रहस्य ॥ ५०॥

सा भारती वरमिमं प्रददावमुष्यै स्वावेशमात्मदयितस्य च सङ्गमेन ।

शापाद् विमुक्तिमतितीव्रतपःप्रसन्ना तेनाऽह सा निजतनुं पवमानसूनोः ॥ ५१॥

ज्ञानं च नैजमभिदर्शयितुं पुनश्च प्राहेश्वरोऽखिलजगद्गुरुरिन्दिरेशः ।

व्यासस्वरूप इह चेत्य परश्व एव मां ते प्रदास्यति तदा प्रकरोषि मेऽर्थ्यम् ॥ ५२॥

काले तदैव कुपितः प्रययौ हिडिम्बो भीमं निहन्तुमपि तां च निजस्वसारम् ।

भक्षार्थमेव हि पुरा स तु तां न्ययुङ्क्त नेतुं च तानथ समासददाशु भीमम् ॥ ५३॥

सा भीममेव शरणं प्रजगाम तां च भ्रात्Qंश्च मातरमथावितुमभ्ययात् तम् ।

भीमः सुदूरमपकृष्य सहोदराणां निद्राप्रभङ्गभयतो युयुधेऽमुना च ॥ ५४॥

तौ मुष्टिभिस्तरुभिरश्मभिरद्रिभिश्च युद्ध्वा नितान्तरवतः प्रतिबोधितांस्तान् ।

सञ्चक्रतुस्तदनु सोदरसम्भ्रमं तं दृष्ट्वैव मारुतिरहन्नुरसि स्म रक्षः ॥ ५५॥

तद् भीमबाहुबलताडितमीशवाक्यात् सर्वैरजेयमपि भूमितळे पपात ।

वक्त्रस्रवद्बहुलशोणितमाप मृत्युं प्रायात् तमोऽन्धमपि नित्यमथ क्रमेण ॥ ५६॥

हत्वैव शर्वररक्षितराक्षसं तं सर्वैरवध्यमपि सोदरमातृयुक्तः ।

भीमो ययौ तमनु सा प्रययौ हिडिम्बी कुन्तीं युधिष्ठिरमथास्य कृते ययाचे ॥ ५७॥

ताभ्यामनूक्तमपि यन्न करोति भीमः प्रादुर्बभूव निखिलोरुगुणाभिपूर्णः ।

व्यासात्मको हरिरनन्तसुखाम्बुराशिर्विद्यामरीचिविततः सकलोत्तमोऽलम् ॥ ५८॥

दृष्ट्वैव तं परममोदिन आशु पार्था मात्रा सहैव परिपूज्य गुरुं विरिञ्चेः ।

उल्लाळिताश्च हरिणा परमातिहार्दप्रोत्फुल्लपद्मनयनेन तदोपविष्टाः ॥ ५९॥

तान् भक्तिनम्रशिरसः समुदीक्ष्य कृष्णो भीमं जगाद नत आशु हिडिम्बया च ।

एतां गृहाण युवतीं सुरसद्मशोभां जाते सुते सहसुता प्रतियातु चैषा ॥ ६०॥

एवं ब्रुवत्यगणितोरुगुणे रमेश औंइत्युदीर्य कृतवांश्च तथैव भीमः ।

स्कन्धेन चोह्य विबुधाचरितप्रदेशान् भीमं प्रयात्युदय एव रवेर्हिडिम्बी ॥ ६१॥

सा नन्दनादिषु वनेषु विहृत्य तेन सायं प्रयाति पृथया सहितांश्च पार्थान् ।

एवं ययावपि तयोरिह वत्सरार्द्धो जातश्च सूनुरतिवीर्यबलोपपन्नः ॥ ६२॥

देवोऽपि राक्षसतनुर्निर्.हृतिः पुरा य आवेशयुक् च गिरिशस्य घटोत्कचाख्यः ।

पूर्वं घटोपमममुष्य शिरो बभूव केशा निमेषत उदासुरतो हि नाम ॥ ६३॥

जाते सुते समयतो भगवत्कृतात् स भीमो जगाद ससुतां गमनाय तां च ।

स्मृत्याऽभियान उभयोरपि सा प्रतिज्ञां तेषां विधाय च ययौ सुरलोकमेव ॥ ६४॥

व्यासोऽपि पाण्डुतनयैः सहितो बकस्य रौद्राद् वराज्जयवधापगतस्य नित्यम् ।

यातो वधाय परमागणितोरुधामा पूर्णाक्षयोरुसुख आशु तदैकचक्राम् ॥ ६५॥

तान् ब्राह्मणस्य च गृहे प्रणिधाय कृष्णः शिष्या ममैत इति विप्रकुमाररूपान् ।

आयामि काल इति ताननुशास्य चायात् ते तत्र वासमथ चक्रुरनूच्य वेदान् ॥ ६६॥

भिक्षामटत्सु सततं प्रतिहुङ्कृतेन भीमे विशां सदन एव गृहप्रमाणम् ।

भाण्डं कुलालविहितं प्रतिगृह्य गच्छत्याशङ्कयाऽवगमनस्य तमाह धार्मः ॥ ६७॥

स्थूलं हि सद्म पृथिवीसहितं त्वरक्ष उद्धृत्य वह्निमुखतस्तदु चैकदोष्णा ।

भाण्डं तदर्थमुरु कुम्भकरेण दत्तं भिक्षां च तेन चरसि प्रतिहुङ्कृतेन ॥ ६८॥

धर्मस्य ते सुनियतेर्बलश्च बोधो भूयात् सुयोधनजनस्य ततो भयं मे ।

मात्रा सहैव वस फल्गुनपूर्वकैस्त्वमानीतमेव परिभुङ्क्ष्व नतु व्रजेथाः ॥ ६९॥

इत्युक्त आशु स चकार तथैव भीमस्तेऽपि स्वधर्मपरिरक्षणहेतुमौनाः ।

भिक्षां चरन्त्यथ चतुर्ष्वपि तेषु यातेष्वेकत्र मातृसहितः स कदाचिदास्ते ॥ ७०॥

तत्काल एव रुदितं निजवासहेतोर्विप्रस्य दारसहितस्य निशम्य भीमः ।

स्त्रीबालसंयुतगृहे शिशुलाळनादौ लज्जेदिति स्म जननीमवदन्नचागात् ॥ ७१॥

जानीहि विप्ररुदितं कुत इत्यतश्च योग्यं विधास्य इति सा प्रययौ च शीघ्रम् ।

सा संवृतैव सकलं वचनं गृहेऽस्य शुश्राव विप्रवर आह तदा प्रियां सः ॥ ७२॥

दातव्य एव हि करोऽद्य च रक्षसोऽस्य साक्षाद् बकस्य गिरिसन्निभभक्ष्यभोज्यः ।

पुंसाऽनसा च सहितानडुहा पुमांस्तु नैवास्ति नोऽप्रददतां च समस्तनाशः ॥ ७३॥

अन्यत्र याम इति पूर्वमुदाहृतं मे नैतत् प्रिये तव मनोगतमास तेन ।

यास्यामि राक्षसमुखं स्वयमेव मर्तुं भार्यैनमाह न भवानहमत्र यामि ॥ ७४॥

अर्थे तवाद्य तनुसन्त्यजनादहं स्यां लोके सतीप्रचरिते तदृते त्वधश्च ।

कन्याऽऽह चैनमहमेव न कन्ययाऽर्थ इत्युक्त आह धिगिति स्म स विप्रवर्यः ॥ ७५॥

कन्योदिता बत कुलद्वयतारिणीति जाया सखेति वचनं श्रुतिगं सुतश्च ।

आत्मैव तेन नतु जीवनहेतुतोऽहं धीपूर्वकं नृशनके प्रतिपादयामि ॥ ७६॥

एवं रुदत्सु सहितेषु कुमारकोऽस्य प्राह स्वहस्तगतृणं प्रतिदर्श्य चैषाम् ।

एतेन राक्षसमहं निहनिष्य एवेत्युक्ते सुवाक्यमनु सा प्रविवेश कुन्ती ॥ ७७॥

पृष्टस्तयाऽऽह स तु विप्रवरो बकस्य वीर्यं बलं च दितिजारिभिरप्यसह्यम् ।

संवत्सरत्रययुते दशके करं च प्रातिस्विकं दशमुखस्य च मातुलस्य ॥ ७८॥

श्रुत्वा तमुग्रबलमत्युरुवीर्यमेव रामायणे रघुवरोरुशरातिभीतम् ।

विष्टं बिलेष्वथ नृपान् वशमाशु कृत्वा भीत्यैव तैस्तदनु दत्तकरं ननन्द ॥ ७९॥

एवं बलाढ्यममुमाशु निहत्य भीमः कीर्तिं च धर्ममधिकं प्रतियास्यतीह ।

सर्वे वयं च तमनु प्रगृहीतधर्मा यास्याम इत्यवददाशु धरासुरं तम् ॥ ८०॥

सन्ति स्म विप्रवर पञ्च सुता ममाद्य तेष्वेक एव नरवैरिमुखाय यातु ।

इत्युक्त आह स न ते सुतवध्ययाऽहं पापो भवानि तव हन्त मनोऽतिधीरम् ॥ ८१॥

उक्तैवमाह च पृथा तनये मदीये विद्याऽस्ति दिक्पतिभिरप्यविषह्यरूपा ।

उक्तोऽपि नो गुरुभिरेष नियुङ्क्त एतां वध्यस्तथाऽपि न सुरासुरपालकैश्च ॥ ८२॥

उक्त्वैवमेत्य निखिलं च जगाद भीम उद्धर्ष आस स निशम्य महास्वधर्मम् ।

प्राप्तं विलोक्य तमतीव विघूर्णनेत्रं दृष्ट्वा जगाद यमसूनुरुपेत्य चान्यैः ॥ ८३॥

मातः किमेष मुदितोऽतितरामिति स्म तस्मै च सा निखिलमाह स चाब्रवीत् ताम् ।

कष्टं त्वया कृतमहो बलमेव यस्य सर्वे श्रिता वयममुं च निहंसि भीमम् ॥ ८४॥

यद्बाहुवीर्यपरमाश्रयतो हि राज्यमिच्छाम एव निखिलारिवधं स्वधर्मम् ।

सोऽयं त्वयाऽद्य निशिचारिमुखाय मातः प्रस्थाप्यते वद ममाऽशु कयैव बुद्ध्या ॥ ८५॥

इत्युक्तवन्तममुमाह सुधीरबुद्धिः कुन्ती न पुत्रक निहन्तुमयं हि शक्यः ।

सर्वैः सुरैरसुरयोगिभिरप्यनेन चूर्णीकृतो हि शतशृङ्गगिरिः प्रसूत्याम् ॥ ८६॥

एष स्वयं हि मरुदेव नरात्मकोऽभूत् को नाम हन्तुमिममाप्तबलो जगत्सु ।

इत्येवमस्त्विति स तामवदत् परेद्युर्भीमो जगाम शकटेन कृतोरुभोगः ॥ ८७॥

गत्वा त्वरन् बकवनस्य सकाश आशु भीमः स पायससुभक्ष्यपयोघटाद्यैः ।

युक्तं च शैलनिभमुत्तममाद्यराशिं स्पर्शात् पुरैव नरभक्षितुरत्तुमैच्छत् ॥ ८८॥

तेनैव चान्नसमितौ परिभुज्यमान उत्पाट्य वृक्षममुमाद्रवदाशु रक्षः ।

वामेन मारुतिरपोह्य तदा प्रहारान् हस्तेन भोज्यमखिलं सहभक्ष्यमादत् ॥ ८९॥

पीत्वा पयो त्वरित एनमवीक्षमाण आचम्य तेन युयुधे गुरुवृक्षशैलैः ।

तेनाऽहतोऽथ बहुभिर्गिरिभिर्बलेन जग्राह चैनमथ भूमितळे पिपेष ॥ ९०॥

आक्रम्य पादमपि पादतळेन तस्य दोर्भ्यां प्रगृह्य च परं विददार भीमः ।

मृत्वा स चोरु तम एव जगाम पापो विष्णुद्विडेव हि शनैरनिवृत्ति चोग्रम् ॥ ९१॥

हत्वा तमक्षतबलो जगदन्तकं स यो राक्षसो न वश आस जरासुतस्य ।

भौमस्य पूर्वमपि नो भरतस्य राज्ञो भीमो न्यधापयदमुष्य शरीरमग्रे ॥ ९२॥

द्वार्येव तत् प्रतिनिधाय पुनः स भीमः स्नात्वा जगाम निजसोदरपार्श्वमेव ।

श्रुत्वाऽस्य कर्म परमं तुतुषुः समेता मात्रा च ते तदनुवव्रुरतः पुरस्थाः ॥ ९३॥

दृष्ट्वैव राक्षसशरीरमुरु प्रभीता ज्ञात्वैव हेतुभिरथ क्रमशो मृतं च ।

विप्रस्य तस्य वचनादपि भीमसेनभग्नं निशम्य परमं तुतुषुश्च तस्मै ॥ ९४॥

अन्नात्मकं करममुष्य च सम्प्रचक्रुः सोऽप्येतमाशु नरसिंहवपुर्धरस्य ।

चक्रे हरेस्तदनु सत्यवतीसुतस्य विष्णोर्हि वाक्प्रचुदिताः प्रययुस्ततश्च ॥ ९५॥

उत्पत्तिपूर्वककथां द्रुपदात्मजाया व्यासो ह्यनूच्य जगतां गुरुरीश्वरेशः ।

यातेत्यचोदयदथाप्यपरे द्विजाग्र्यास्तान् ब्राह्मणा इति भुजिर्भवतीति चोचुः ॥ ९६॥

पूर्वं हि पार्षत इमान् जतुगेहदग्धान् श्रुत्वाऽतिदुःखितमनाः पुनरेव मन्त्रः ।

याजोपयाजमुखनिस्सृत एवमेष नासत्यतार्ह इति जीवनमेषु मेने ॥ ९७॥

यत्रक्वचित् प्रतिवसन्ति निलीनरूपाः पार्था इति स्म स तु फल्गुनकारणेन ।

चक्रे स्वयम्बरविघोषणमाशु राजस्वन्यैरधार्यधनुरीशवराच्च चक्रे ॥ ९८॥

तत्काल एव वसुदेवसुतोऽपि कृष्णः सम्पूर्णनैजपरिबोधत एव सर्वम् ।

जानन्नपि स्म हलिना सहितो जगाम पार्थान् निशम्य च मृतानथ कुल्यहेतोः ॥ ९९॥

स प्राप्य हस्तिनपुरं धृतराष्ट्रपुत्रान् संवञ्चयंस्तदनुसारिकथाश्च कृत्वा ।

भीष्मादिभिः परिगतोऽप्रियवज्जगाम द्वारावतीमुदितपूर्णसुनित्यसौख्यः ॥ १००॥

तस्यान्तरे हृदिकसूनुरनन्तरं स्वं श्वाफल्किबुद्धिबलमाश्रित इत्युवाच ।

सत्राजिदेष हि पुरा प्रतिजज्ञ एनामस्मत्कृते स्वतनयां मणिना सहैव ॥ १०१॥

सर्वांश्च नः पुनरसाववमत्य कृष्णायादात् सुतां जहि च तं निशि पापबुद्धिम् ।

आदाय रत्नमुपयाहि च नौ विरोधे कृष्णस्य दानपतिना सह साह्यमेमि ॥ १०२॥

इत्युक्त आशु कुमतिः स हि पूर्वदेहे दैत्यो यतस्तदकरोदथ सत्यभामा ।

आनन्दसंविदपि लोकविडम्बनाय तद् देहमस्य तिलजे पतिमभ्युपागात् ॥ १०३॥

श्रुत्वा तदीयवचनं भगवान् पुरीं स्वामायात एव तु निशम्य महोत्सवं तम् ।

पाञ्चालराजपुरुषोदितमाशु वृष्णिवर्यैरगान्मुसलिना सह तत्पुरीं च ॥ १०४॥

भीमोऽपि रुद्रवररक्षितराक्षसं तं हत्वा तृणोपमतया हरिभक्तिवन्द्यः ।

उष्याथ तत्र कतिचिद्दिनमच्युतस्य व्यासात्मनो वचनतः प्रययौ निजैश्च ॥ १०५॥

मङ्गल्यमेतदतुलं प्रतियात शीघ्रं पाञ्चालकान् परमभोजनमत्र सिद्ध्येत् ।

विप्रैरितस्तत इतीरितवाक्यमेते शृण्वन्त एव परिचक्रमुरुत्तराशाम् ॥ १०६॥

षण्णां च मध्यगमुदीर्णभुजं विशालवक्षस्थलं बहळपौरुषलक्षणं च ।

दृष्ट्वैव मारुतिमसावुपलप्स्यतीह कृष्णामिति स्म च वचः प्रवदन्ति विप्राः ॥ १०७॥

रात्रौ दिवा च सततं पथि गच्छमानाः प्रापुः कदाचिदथ विष्णुपदीं निशायाम् ।

सर्वस्य रक्षितुमगादिह पृष्ठतस्तु भीमोऽग्र एव शतमन्युसुतोऽन्तराऽन्ये ॥ १०८॥

प्राप्ते तदोल्मुकधरेऽर्जुन एव गङ्गां गन्धर्वराज इह चित्ररथोऽर्द्धरात्रे ।

दृष्ट्वैव विप्ररहितानुदकान्तरस्थः क्षत्रात्मजा इति ह धर्षयितुं स चाऽगात् ॥ १०९॥

हन्ताऽस्मि वो ह्युपगतानुदकान्तमस्या नद्याश्च मर्त्यचरणाय निषिद्धकाले ।

इत्थं वदन्तममुमाह सुरेन्द्रसूनुर्गन्धर्व नास्त्रविदुषां भयमस्ति तेऽद्य ॥ ११०॥

सर्वं हि फेनवदिदं बहुलं बलं ते नार्थप्रदं भवति चास्त्रविदि प्रयुक्तम् ।

इत्युक्तवन्तममुमुत्तमयानसंस्थो बाणान् क्षिपन्नभिससार सुरेशभृत्यः ॥ १११॥

आग्नेयमस्त्रमभिमन्त्र्य तदोल्मुके स चिक्षेप शक्रतनयोऽस्य रथश्च दग्धः ।

तं चाग्निना परिगृहीतमभिप्रगृह्य केशेषु सञ्चकर्षाऽशु सुरेन्द्रसूनुः ॥ ११२॥

पार्थेन सन्धर्षितः शरणं जगाम धर्मात्मजं तमपि सोऽथ निजास्त्रमुग्रम् ।

सञ्जह्र एव तत आस च नामतोऽसावङ्गारवर्ण इति वर्णविपर्ययेण ॥ ११३॥

गन्धर्व उल्बणसुरक्ततनुः स भूत्वा स्वर्णावदात उत पूर्वमुपेत्य सख्यम् ।

पार्थेन दुर्लभमहास्त्रमिदं ययाचे जानन्नपि स्म नहि तादृशमेष वेद ॥ ११४॥

विद्या सुशिक्षिततमा हि सुरेशसूनौ तामस्य चावददसावपि कालतोऽस्मै ।

गन्धर्वगामवददन्वगदृश्यविद्यां पश्चादिति स्म पुरुहूतसुतस्य वाक्यात् ॥ ११५॥

आधिक्यतः स्वगतसंविद एव साम्ये नैवेच्छति स्म निमयं स धनञ्जयोऽत्र ।

धर्मार्थमेव स तु तां परिदाय तस्मै कालेन संविदममुष्य च धर्मतोऽयात् ॥ ११६॥

पार्थेन सोऽपि बहुलाश्च कथाः कथित्वा धौम्यस्य सङ्ग्रहणमाह पुरोहितत्वे ।

दास्यामि दिव्यतुरगानिति सोऽर्जुनाय वाचं निगद्य दिवमारुहदप्यगुस्ते ॥ ११७॥

ते धौम्यमाप्य च पुरोधसमुत्तमज्ञं विप्रात्मजोपमतया विविशुः पुरं च ।

पाञ्चालकस्य निखिलां ददृशुश्च तत्र मूर्धावसिक्तसमितिं समलङ्कृतां च ॥ ११८॥

राजन्यमण्डलमुदीक्ष्य सुपूर्णमत्र कृष्णां प्रगृह्य सहजः प्रगृहीतमालाम् ।

तेषां च मध्यमगमत् कुलवीर्यसम्पद्युक्तां विभूतिमथ चाऽह समस्तराज्ञाम् ॥ ११९॥

तांश्च प्रदर्श्य सकलान् स हुताशनांशश्चापं च तत् प्रतिनिधाय सपञ्चबाणम् ।

आहाभिभाष्य सकलान् नृपतीनथोच्चैर्दीप्यद्धुताशनवपुर्घनतुल्यघोषः ॥ १२०॥

एतेन कार्मुकवरेण तरूपरिस्थं मत्स्यावभासमुदके प्रतिवीक्ष्य येन ।

एतैः शरैः प्रतिहतो भवतीह मत्स्यः कृष्णाऽनुयास्यति तमद्य नरेन्द्रवीराः ॥ १२१॥

इत्यस्य वाक्यमनु सर्वनरेन्द्रपुत्रा उत्तस्थुरुद्धतमदाश्चलकुण्डलास्याः ।

अस्त्रं बलं च बहु नैजमभीक्षमाणाः स्पर्धन्त एव च मिथः समलङ्कृताङ्गाः ॥ १२२॥

केचिन्निरीक्ष्य धनुरेत्य न मे सुशक्यमित्येव चापययुरन्य उत प्रचाल्य ।

तत्राऽससाद शिशुपाल उरुप्रतापः सङ्गृह्य तत् समनुरोपणयत्न आसीत् ॥ १२३॥

माषान्तराय स चकर्ष यदैव कोट्या उन्नम्य तत् प्रतिजघान तमेव चाऽशु ।

अन्यत्र फल्गुनत एतदशक्यमेवेत्यञ्जो गिरीशवरतः स ययौ च भग्नः ॥ १२४॥

मद्रेश एत्य चकृषे स्थविरोऽपि वीर्याच्चेदीशतोऽप्यधिकमेव स मुद्गमात्रे ।

शिष्टेऽमुना प्रतिहतः स ययावशक्यं मत्वाऽऽत्मनस्तदनु भूपतयो विषण्णाः ॥ १२५॥

सन्नेषु भूपतिषु मागध आससाद सोऽवज्ञयैव बलवीर्यमदेन दृप्तः ।

चापं चकर्ष चलपादतळो बलेन शिष्टे स सर्षपमितेऽभिहतोऽमुनैव ॥ १२६॥

जानुन्यमुष्य धरणीं ययतुस्तदैव दर्पेण चास्थिरपदः स्थितिमात्रहेतोः ।

रौद्राद् वरात् स जळतां गमितोऽथ राजा राज्ञां मुखान्यभिवीक्ष्य ययौ स्वराष्ट्रम् ॥ १२७॥

प्रायो गतास्तमनु भूपतयोऽथ कर्णो दुर्योधनार्थमनुगृह्य धनुश्चकर्ष ।

रामादुपात्तशुभशिक्षितमात्रतोऽसौ रोमाविशिष्टमकरोद् धनुषोऽन्तमाशु ॥ १२८॥

तस्मिंश्च तेन विहते प्रतिसन्निवृत्ते भीमार्जुनौ द्विजसदस्युपसन्निविष्टौ ।

उत्तस्थतू रविशशिप्रतिमानरूपौ विप्रेषु तत्र च भिया विनिवारयत्सु ॥ १२९॥

विप्राश्च केचिदतियुक्तमिमौ हि वीरौ देवोपमाविति वचो जगदुस्ततस्तौ ।

दृष्ट्वैव कृष्णमुखपङ्कजमाशु चापसान्निध्यमाययतुरुत्तमवीर्यसारौ ॥ १३०॥

तत्रार्जुनः पवनजात् प्रियतोऽप्यनुज्ञामादाय केशवमजं मनसा प्रणम्य ।

कृत्वा गुणान्वितमदो धनुरश्रमेण यन्त्रान्तरेण स शरैरधुनोच्च लक्षम् ॥ १३१॥

कृष्णा तदाऽस्य विदधे नवकञ्जमालां मध्ये च तां प्रतिविधाय नरेन्द्रपुत्रौ ।

भीमार्जुनौ ययतुरच्युतमाभिनम्य क्षुब्धं तदा नृपवराब्धिरिमावधावत् ॥ १३२॥

द्रष्टुं हि केवलगतिर्नतु कन्यकाया अर्थे न चापमिह वृष्णिवराः स्पृशन्तु ।

इत्याज्ञयैव वरचक्रधरस्य लिप्सामप्यत्र चक्रुरिह नैव यदुप्रवीराः ॥ १३३॥

भीमस्तु राजसमितिं प्रतिसम्प्रयातां दृष्ट्वैव योजनदशोच्छ्रयमाशु वृक्षम् ।

आरुज्य सर्वनृपतीनभितोऽप्यतिष्ठद् दृष्ट्वा पलायनपराश्च बभूवुरेते ॥ १३४॥

भीमोऽयमेष पुरुहूतसुतोऽन्य एते पार्था इति स्म हलिने हरिरभ्यवोचत् ।

दृष्ट्वैव सोऽपि मुदमाप शिनेश्च पौत्रः खड्गं प्रगृह्य हर्षात् परिपुप्लुवेऽत्र ॥ १३५॥

प्रीतेषु सर्वयदुषु प्रपलायितेषु दुर्योधनादिनृपतिष्वखिलेषु भीमात् ।

कर्णोऽभ्ययाद्धरिहयात्मजमाशु मद्रराजो जगाम पवनात्मजमेव वीरः ॥ १३६॥

विप्रेषु दण्डपटदर्भमहाजिनानि कोपात् क्षिपत्सु न विनाशनमत्र भूयात् ।

क्षत्रस्य वैरत इति द्रुपदे च कृष्णं विप्रांश्च याचति स मारुतिरार शल्यम् ॥ १३७॥

वृक्षं त्वसौ प्रतिनिधाय च मद्रराजं दोर्भ्यां प्रगृह्य जवतो गगने निधाय ।

बन्धुत्वतो भुवि शनैरदधात् स तस्य विज्ञाय वीर्यमगमन्निजराजधानीम् ॥ १३८॥

पार्थोऽपि तेन धनुषा युयुधे स्म कर्णं सोऽप्यस्त्रबाहुबलमाविरमुत्र चक्रे ।

तौ धन्विनामनुपमौ चिरमस्यतां च सूर्यात्मजोऽत्र वचनं व्यथितो बभाषे ॥ १३९॥

त्वं फल्गुनो हरिहयो द्विजसत्तपो वा मूर्तं न मे प्रमुखतः स्थितिमन्य ईष्टे ।

यो वाऽस्मि कोऽपि यदि ते क्षममद्य बाणान् मुञ्चान्यथेहि रणतस्त्विति पार्थ आह ॥ १४०॥

कार्यं न मे द्विजवरैः प्रतियोधनेनेत्युक्त्वा ययौ रविसुतः स सुयोधनाद्यैः ।

नागाह्वयं पुरमथ द्रुपदात्मजां तामादाय चार्जुनयुतः प्रययौ स भीमः ॥ १४१॥

अग्रेऽश्विपुत्रसहितः स तु धर्मसूनुः प्रायात् कुलालगृहमन्वपि भीमपार्थौ ।

भिक्षेति तैरभिहिते प्रजगाद कुन्ती भुङ्ग्ध्वं समस्तश इति प्रददर्श कन्याम् ॥ १४२॥

प्रामादिकं च वचनं न मृषा तयोक्तं प्रायो हि तेन कथमेतदिति स्म चिन्ता ।

तेषां बभूव वसुदेवसुतो हरिश्च तत्राऽजगाम परमेण हि सौहृदेन ॥ १४३॥

सम्भाष्य तैः स भगवानमितात्मशक्तिः प्रायान्निजां पुरममा यदुभिः समस्तैः ।

ज्ञातुं च तान् निशि स तु द्रुपदः स्वपुत्रं प्रास्थापयत् स च विलीनं इमानपश्यत् ॥ १४४॥

भिक्षान्नभोजिन उतो भगिनीं निजां च तत्रातितृप्तहृदयामथ युद्धवार्ताम् ।

तेषां निशम्य नदतां धनवद् गभीरां क्षत्रोत्तमा इति मतिं स चकार वीरः ॥ १४५॥

प्रातस्तु तस्य जनितुर्वचसा पुरोधास्तान् प्राप्य मन्त्रविधिना मरुदात्मजेन ।

सम्पूजितोऽतिविदुषा प्रतिगृह्य तांश्च प्रावेशयन्नृपतिगेहममैव मात्रा ॥ १४६॥

तानागतान् समभिपूज्य निजात्मजां च विप्रादियोग्यपृथगुक्तपदार्थजातैः ।

पूर्णान् गृहांश्चतुर एव दिदेश राजा तत्राऽयुधादिपरिपूर्णगृहं च तेऽगुः ॥ १४७॥

चेष्टास्वराकृतिविवक्षितवीर्यशौर्यप्रागल्भ्यपूर्वकगुणैः क्षितिभर्तृपुत्रान् ।

विज्ञाय तान् द्रुपद एत्य च धर्मसूनुं पप्रच्छ कोऽसि नरवर्य वदस्व सत्यम् ॥ १४८॥

स प्राह मन्दहसितः किमिहाद्य राजन् पूर्वं हि वर्णविषये न विशेष उक्तः ।

पुत्रीकृते तव सुतेन तु लक्षवेध उक्तो नरेन्द्रसमितौ स कृतोऽप्यनेन ॥ १४९॥

एवं ब्रुवाणमथ तं पृथया सहैव राजा वदेति पुनरेव ययाच एषः ।

सर्वं पृथाऽप्यवदतां स च तेन तुष्टो वाचं जगाद कृतकृत्य इहाऽसमद्य ॥ १५०॥

पार्थार्थमेव हि मयैष कृतः प्रयत्नस्त्वं फल्गुनोऽन्य उतवाऽद्य करं सुतायाः ।

गृह्णात्वितीरित इमं स तु धर्मसूनुराह स्म सर्व इति मे मनसि प्ररूढम् ॥ १५१॥

नात्र प्रमा मम हृदि प्रतिभात्यथापि धर्माचला मम मतिर्हि तदेव मानम् ।

इत्युक्तवत्यपि सहैव सुतेन राजा नैवैच्छदत्र भगवानगमच्च कृष्णः ॥ १५२॥

व्यासं तमीक्ष्य भगवन्तमगण्यपूर्णनित्याव्ययात्मगुणमाशु समस्त एव ।

नत्वाऽभिपूज्य वरपीठगतस्य चाऽज्ञामादाय चोपविविशुः सहितास्तदन्ते ॥ १५३॥

कृष्णस्तदाऽह नृपतिं प्रति देहि कन्यां सर्वेभ्य एव वृषवायुपुरन्दरा हि ।

नासत्यदस्रसहिता इम एव इन्द्राः पूर्वे च सम्प्रतितनश्च हरेर्हि पश्चात् ॥ १५४॥

एषां श्रियश्च निखिला अपिचैकदेहाः पुत्री तवैव न ततोऽत्र विरुद्धता हि ।

इत्युक्तवत्यपि यदा द्रुपदश्चकार संवादिनीं न धियमेनमथाऽह कृष्णः ॥ १५५॥

दिव्यं हि दर्शनमिदं तव दत्तमद्य पश्याऽशु पाण्डुतनयान् दिवि संस्थितांस्त्वम् ।

एतां च ते दुहितरं सह तैः पृथक्स्थां तल्लक्षणैः सह ततः कुरु ते यथेष्टम् ॥ १५६॥

इत्युक्तवाक्यमनु तान् स ददर्श राजा कृष्णप्रसादबलतो दिवि तादृशांश्च ।

एतान् निशाम्य चरणौ जगदीशितुश्च भीतो जगाम शरणं तदनादरेण ॥ १५७॥

दत्वाऽभयं स भगवान् द्रुपदस्य कार्ये तेनोमिति स्म कथिते स्वयमेव सर्वाम् ।

वैवाहिकीं कृतिमथ व्यदधाच्च धौम्ययुक्तः क्रमेण जगृहुर्निखिलाश्च पाणिम् ॥ १५८॥

पाञ्चालकेषु च महोत्सव आस राजा तुष्टोऽभवत् सह सुतैः स्वजनैश्च सर्वैः ।

पौरैश्च जानपदिकैश्च यथैव रामे दत्वा सुतां जनक आप मुदं ततोऽनु ॥ १५९॥

उद्बाह्य तत्र निवसत्सु च पाण्डवेषु श्रुत्वैव रामसहितः सह यादवैश्च ।

आदाय पारिबर्हं बहुलं स कृष्ण आयान्मुदैव पृथया सहितांश्च पार्थान् ॥ १६०॥

दृष्ट्वैव तं मुमुदुराशु कुरुप्रवीरा आश्लिष्य कृष्णमथ नेमुरसौ च कृष्णाम् ।

दृष्ट्वा प्रदाय गृहयोग्यसमस्तभाण्डं सौवर्णमेभ्य उरु भूषणमच्युतोऽदात् ॥ १६१॥

देवाङ्गयोग्यशुभकुण्डलहारमौलिकेयूरवस्त्रसहितान्युरुभूषणानि ।

षण्णां पृथक्पृथगदात् पृथगेव योग्यान्यन्यद् ददावथ पितृष्वसुरात्मयोग्यम् ॥ १६२॥

रत्नानि गा गजतुरङ्गरथान् सुवर्णभारान् बहूनपि ददावथ चाऽशिषोऽग्र्याः ।

व्यासोऽप्यदादिह परत्र च पार्षतोऽपि भूषारथाश्वगजरत्नसुकाञ्चनानि ॥ १६३॥

दासीश्च दाससहिताः शुभरूपवेषाः सहस्रशो ददतुरत्र हरिर्नृपश्च ।

तासां विचित्रवसनान्युरुरत्नमालाः प्रत्येकशो ददतुरप्युरुभूषणानाम् ॥ १६४॥

मासान् बहूनपि विहृत्य सहैव पार्थैः कृष्णो ययौ यदुपुरीं सहितोऽग्रजेन ।

अन्तर्हिते भगवति प्रततोरुशक्तौ व्यासे च वत्सरमिहोषुरिमे तु पार्थाः ॥ १६५॥

वैचित्रवीर्यतनयाः सह सौबलेन कर्णेन सिन्धुपतिना रथहस्तियौधैः ।

भूरिश्रवः प्रभृतिभिश्च सहैव हन्तुं पाञ्चालराजमगुरेत्य पुरीं पुनस्ते ॥ १६६॥

तैरर्दिते स्वपुर आशु स सोमकानां राजा सुतैः सह ससैनिक उद्गतोऽभूत् ।

तेषां च तस्य च बभूव महान् विमर्दः पुत्रौ च तस्य निहतौ विधुताश्च सेनाः ॥ १६७॥

चित्रे हते समर आशु सचित्रकेतौ धावत्सु सैनिकवरेषु च पार्षतस्य ।

पार्था रथैरभिययुर्धृतचापबाणा वैचित्रवीर्यतनयान् रविसूनुयुक्तान् ॥ १६८॥

तैस्तेषु पञ्चसु समं प्रतियोधयत्सु भूरिश्रवाः सरविजो विरथं चकार ।

शक्रात्मजं तदनु पर्वतसन्निकाशं दोर्भ्यां तु मारुतिरुरुं तरुमुद्बबर्ह ॥ १६९॥

आयान्तमीक्ष्य तरुहस्तमिमं समीरसूनुं सुयोधनमुखा निखिलाः सकर्णाः ।

भूरिश्रवाः शकुनिभूरिजयद्रथाश्च सर्वेऽपि दुद्रुवुरथो विविशुः पुरं स्वम् ॥ १७०॥

ज्ञात्वा समस्तमपि तद् विदुरोऽग्रजं स्वं वर्द्धन्त एव तनया भवतो नरेन्द्र ।

इत्याह सोऽपि मुदितः स्वसुतेन कृष्णा प्राप्तेति भूषणवराण्यदिशच्च वासः ॥ १७१॥

पार्था इति स्म विदुरोऽवददाशु सोऽपि स्वाकारगूहनपरो यदि तर्ह्यतीव ।

भद्रं मृता नहि पृथासहिताः स्म पार्थास्तेषां प्रवृत्तिमपि मे वद सर्वशस्त्वम् ॥ १७२॥

इत्युक्त आह विदुरः स हिडिम्बवध्यापूर्वां प्रवृत्तिमखिलामपि लक्षवेधम् ।

उद्बाहमप्यथ नदीजमुखाश्च सर्वे तुष्टा बभूवुरपि वत्सरमूषुरेवम् ॥ १७३॥

श्रुत्वाऽथ कृष्णमुपयातमुरु प्रदाय रत्नं च पाण्डुतनयेषु गतं पुनश्च ।

तातप्यमानहृदयास्तु सुयोधनाद्या मन्त्रं प्रचक्रुरथ कर्णमुखा युयुश्च ॥ १७४॥

युद्धाय तेषु पुनरेव रथैः प्रयातेष्वाहाग्रजं स विदुरोऽपि नदीजमुख्यान् ।

एते हि पापतमचेतस एत्य पार्थान् युद्धाय मृत्युमुपयान्ति न संशयोऽत्र ॥ १७५॥

भीमार्जुनौ विषहितुं नहि कश्चनास्ति सामर्थ्ययुक् सुरवरेष्वपि वर्द्धितास्ते ।

ज्ञात्वैव वत्सरत एव महानधर्मस्तेषामुपेक्षणकृतस्तदलं नियुङ्क्ष्व ॥ १७६॥

आनीतये च विनियुज्य सुसान्त्वपूर्वमानीय योजय नृपैषु तथाऽर्द्धराज्यम् ।

एवं कृतं तव भवेत् कुलवृद्धये हि धर्माय चोभयविनाशकरोऽन्यथा स्याः ॥ १७७॥

इत्युक्तवत्यनु तथेत्यवदन्नदीजो द्रोणः कृपश्च विदुरं स नृपोऽप्युवाच ।

याह्यानयेति स च वेगवता रथेन तत्रागमत् तदनु तैरभिपूजितश्च ॥ १७८॥

तत्काल एव वसुदेवसुतश्च कृष्णो व्यासश्च तानुपसमेत्य दुरन्तशक्ती ।

आदाय कुन्तिसहितान् विदुरेण युक्तौ नागाह्वयं पुरमितां सह भार्ययैव ॥ १७९॥

तेष्वागतेषु सुमहानभवत् प्रहर्षः पौरस्य जानपदिकस्य जनस्य चोच्चैः ।

भीष्मादिकाश्च मुदिताः प्रतिपूज्य गेहमावेशयन् सह नृपेण महोत्सवेन ॥ १८०॥

कृष्णामपूजयदतीव च सौबली सा दुर्योधनस्य दयितासहिताऽत्र तेऽपि ।

ऊषुस्ततश्च निजपुत्रकदुर्विनीत्या कृष्णानिमित्तमुरुभीतित आह भीमात् ॥ १८१॥

कुन्ति प्रयाहि सहिता स्नुषया गृहं स्वं भीमाद् बिभेमि निजपुत्रकदुर्विनीत्या ।

कृष्णा त्रिलोकवनिताधिकरूपसारा यस्मादिति स्म ससुता प्रययौ गृहं सा ॥ १८२॥

ऊषुस्तथैव परिवत्सरपञ्चकं ते पाण्डोर्गृहे सुसुखिनोऽखिलभोगयुक्ताः ।

कृष्णा च तेषु पृथगेव चतुःस्वरूपा रेमे तथैकतनुरप्यभिमानिभेदात् ॥ १८३॥

कन्यैव साऽभवदतः प्रतिवासरं च जन्माभवद्ध्यभिमतेः पृथगेव नाशात् ।

प्रायो हि नाभिमतिनाशमवाप वाणी तस्मान्मरुच्च सकलेष्वभिविष्ट आसीत् ॥ १८४॥

धर्मात्मजादिषु मरुत् प्रतिविष्ट एषां बुद्धिं विमोह्य रमते सततं तया यत् ।

शुद्धैव सा हि तत एव दिनेदिने च सम्मोहतो मरणवद् भवतीह कन्या ॥ १८५॥

नो सुप्तिवत् त्विदमतोऽन्यवशत्वतो हि देहस्य संस्मृतित एव हरेर्न मोहः ।

नाऽवेशवच्च तत एव मृतेः स्वरूपमेतत् त्वतः प्रतिदिनं जननाद्धि कन्या ॥ १८६॥

एवं स वायुरनुविष्टयुधिष्ठिरादिभीमात्मनैव रमते सततं तयैकः ।

अन्यादृशा हि सुरभुक्तिरतोऽन्यरूपा मानुष्यभुक्तिरिति नात्र विचार्यमस्ति ॥ १८७॥

वासिष्ठयादववृषावपि केशवौ तौ तत्रोषतुः परमसौहृदतो हि तेषु ।

ताभ्यामनन्तगुणपूर्णसुखात्मकाभ्यां पार्थाश्च ते मुमुदिरे युतसत्कथाभिः ॥ १८८॥

पूर्वं हि तेषु वनगेषु बभूव काशिराजः सुताकृत उरुक्षितिपालयोगः ।

तत्र स्वयम्बरगतां धृतराष्ट्रपुत्रः कन्यां बलाज्जगृह आत्मबलातिदृप्तः ॥ १८९॥

पूर्वं हि राजगणने मगधाधिराजः सङ्ख्यात इत्यतिरुषा प्रगृहीतकन्ये ।

दुर्योधने नृपतयो युयुधुः स्म तेन भग्नाश्च कर्णसहितेन सहानुजेन ॥ १९०॥

भग्नेषु तेषु पुनरात्तशरासनेषु कर्णो जगाद धृतराष्ट्रसुतं प्रयाहि ।

युक्तः सहोदरजनैर्गुरुभीष्ममुख्ययुक्तस्य ते न पुरमेत्य हि घर्षणेशाः ॥ १९१॥

एकान्ततो जयमवीक्ष्य च नानुयाति बार्हद्रथः पुरगतस्य जये न निष्ठा ।

द्रौणिं च रुद्रतनुमेष सदा विजानन् नो तेन युद्धमभिवाञ्छति रुद्रभक्तः ॥ १९२॥

एकोऽहमेव नृपतीन् प्रतियोधयिष्य एतैर्मयि प्रतिजितेऽपि न तेऽस्त्यकीर्तिः ।

एकं च तेऽनुजमिमे यदि पौरुषेण गृह्णीयुरत्र तव कीर्तिरुपैति नाशम् ॥ १९३॥

भीष्मादयोऽपि नहि योधयितुं समर्था राज्ञा ह्यनेन तत एव हि बाह्लिकोऽस्य ।

भृत्यो बभूव नतु भीष्ममयं युधेऽगाद् राजा नहीति नच तेन विरोध आसीत् ॥ १९४॥

इत्युक्त आशु स विमृश्य ययौ पुरं स्वं कर्णोऽपि तैः प्रतियुयोध जिगाय चैनान् ।

कर्णस्य वीर्यमगणय्य जरासुतोऽपि ह्येकैकमेव नृपतिं स दिदेश योद्धुम् ॥ १९५॥

सर्वेषु तेषु विजितेष्वभिजग्मिवान् स योद्धुं बृहद्रथसुतोऽप्यमुना रथेन ।

तं चैव रामवरतो विरथं विशस्त्रं चक्रे स चैनमथ मुष्टिभिरभ्युपेतौ ॥ १९६॥

सन्धौ यदैव जरया प्रतिसन्धितस्य कर्णो जघान न परत्र तुतोष राजा ।

न ज्ञातमेतदपि हो हलिना तदेतज्ज्ञातं त्वया भव ततो मम भृत्य एव ॥ १९७॥

एवंविधं सुकुशलं बहुयुद्धशौण्डं न त्वां हनिष्य उत ते पितुरेव पूर्वम् ।

बाह्वोर्बलादभिहृतं हि मयाऽङ्गराज्यं तत् त्वं गृहाण युधि कर्मकरश्च मे स्याः ॥ १९८॥

इत्युक्त आशु स तथैव चकार कर्णः पूर्वं हि तस्य निजराज्यपदैकदेशः ।

दुर्योधनेन विहितो मगधाधिराजं जित्वा वृकोदरहृतः पितुरेव दत्तः ॥ १९९॥

अङ्गाधिराज्यमुपलभ्य जरासुतस्य स्नेहं च सूर्यसुत आशु कुरून् जगाम ।

दृष्ट्वैव तं मुमुदिरे धृतराष्ट्रपुत्रा नानेन तुल्यमधिजग्मुरतो हरिं च ॥ २००॥

उद्वाह्य काशितनयां गिरिजाधिविष्टां साक्षान्नरेषु जनितां प्रथमामलक्ष्मीम् ।

तस्यां सुतं त्वजनयत् पुर आस योऽक्षः कन्यां पुरा प्रियतमां च षडाननस्य ॥ २०१॥

पुत्रो बभूव स तु लक्षणनामधेयः सा लक्षणेत्यधिकरूपगुणाऽस कन्या ।

तस्यानुजाश्च निजयोग्यगुणा अवापुर्भार्याः पुनश्च स सुयोधन आप भार्याः ॥ २०२॥

पूर्वं सुरान्तक इति प्रथितः सुतोऽभूद् दुःशासनस्य तदनु प्रतितप्यमानाः ।

दृष्ट्वैव पार्थबलवीर्यगुणान् समृद्धिं तां चैव ते प्रतिययुः स्म कलिङ्गदेशम् ॥ २०३॥

आसीत् स्वयम्बर उतात्र कलिङ्गराजपुत्र्याः सुवज्र इति यं प्रवदन्ति भूपाः ।

रौद्राद् वरादविजितस्य च तस्य कन्यां दृप्तो बलात् स जगृहे धृतराष्ट्रसूनुः ॥ २०४॥

तत्राथ रुद्रवरतः स जरासुतेन युक्तो बबन्ध च सुयोधनमाशु जित्वा ।

कर्णः पराद्रवदिह स्म सुतेषु पाण्डोर्यस्मात् स्पृधाऽगमदतः स पराजितोऽभूत् ॥ २०५॥

दुर्योधनेऽनुजजनैः सह तैर्गृहीते भीष्माम्बिकेयविदुराग्रजवाक्यनुन्नः ।

भीमो विजित्य नृपतीन् सजरासुतांस्तान् हत्वा सुवज्रममुचद् धृतराष्ट्रपुत्रान् ॥ २०६॥

तेऽपि स्म कर्णसहिता मृतकप्रतीका नागाह्वयं पुरमथाऽययुरप्यमीषाम् ।

दृष्ट्वा विरोधमवदन्नृपतिश्च धर्मपुत्रं पुरन्दरकृतस्थलमाशु याहि ॥ २०७॥

तत्रार्द्धराज्यमनुभुङ्क्ष्व सहानुजैस्त्वं कोशार्द्धमेव च गृहाण पुरा हि शक्रः ।

तत्राभिषिक्त उत कञ्जभवादिदेवैस्तत्रस्थ एव स चकार चिरं च राज्यम् ॥ २०८॥

त्वं वीर शक्रसम एव ततस्तवैव योग्यं पुरं तदत आश्वभिषेचयामि ।

इत्युक्त आह स युधिष्ठिर औंइति स्म चक्रेऽभिषेकमपि तस्य स आम्बिकेयः ॥ २०९॥

तस्याभिषेकमकरोत् प्रथमं हि कृष्णो वासिष्ठनन्दन उरुर्भव चक्रवर्ती ।

यष्टाऽश्वमेधनिखिलात्मकराजसूयपूर्वैर्मखैः सततमेव च धर्मशीलः ॥ २१०॥

इत्येव पार्षतसुतासहितेऽभिषिक्ते कृष्णोऽपि वृष्णिवृषभः स तथाऽभ्यषिञ्चत् ।

एवं च मारुतिशिरस्यभिषेकमेतौ सञ्चक्रतुः स्म युवराजपदे सभार्यम् ॥ २११॥

भीमे च पार्षतसुतासहितेऽभिषिक्ते ताभ्यामनन्तसुखशक्तिचिदात्मकाभ्याम् ।

अन्यैश्च विप्रवृषभैः सुकृतेऽभिषेके धर्मात्मजानु मुमुदुर्निखिलाश्च सन्तः ॥ २१२॥

तस्मिन् महोत्सववरे दिनसप्तकानुवृत्ते वसिष्ठवृषभेण च वृष्णिपेन ।

कृष्णेन ते युयुरमा पृथया तया च पाञ्चालराजसुतया स्थलमिन्द्रवासम् ॥ २१३॥

कोशस्य चार्द्धसहितास्तु यदैव पार्था गच्छन्ति ताननुययुर्निखिलाश्च पौराः ।

ऊचुश्च हा बत सुयोधन एष पापो दूरे चकार ननु पाण्डुसुतान् गुणाढ्यान् ॥ २१४॥

भीमप्रतापमवलम्ब्य कलिङ्गबन्धान्मुक्तः सुतामपि हि तस्य पुरं निनाय ।

द्वेष्ट्येवमप्यतिबलान् हि सदैव पार्थान् यामो वयं गुणिभिरद्य सहैव पार्थैः ॥ २१५॥

आज्ञापयत्यपि स भेरिरवेण पार्थान् नैवानुगच्छत यदि व्रजथानु वोऽद्य ।

वित्तं हरिष्य इह सर्वमपीति तच्च पापः करोतु न वयं विजहाम पार्थान् ॥ २१६॥

सद्भिर्हि सङ्गतिरिहैव सुखस्य हेतुर्मोक्षैकहेतुरथ तद्विपरीतमन्यत् ।

तस्माद् व्रजेम सह पाण्डुसुतैर्हि शक्रप्रस्थं त्विति स्म धृतचेतस आह धार्मः ॥ २१७॥

प्रीतिर्यदि स्म भवतां मयि सानुजेऽस्ति तिष्ठध्वमत्र पितुरेव हि शासने मे ।

कीर्तिर्हि वोऽनुगमनात् पितुरत्ययेन नश्येन्न इत्यनुसरध्वमिहाऽम्बिकेयम् ॥ २१८॥

इत्येव तैः पुरजना निखिलैर्निषिद्धाः कृच्छ्रेण तस्थुरपि तान् मनसाऽन्वगच्छन् ।

प्राप्याथ शक्रपुरमस्मरतां च कृष्णौ देवेशवर्धकिमथाऽगमदत्र सोऽपि ॥ २१९॥

वासिष्ठपेन यदुपेन च पाण्डवानां रत्नोत्करं कुरु पुरं पुरुहूतपुर्याः ।

सादृश्यतस्त्विति नियुक्त उभौ प्रणम्य सर्वेश्वरौ स कृतवांश्च पुरं तथैव ॥ २२०॥

देशं च नातिजनसंवृतमन्यदेशसंस्थैर्जनैरभिपुपूरिर आशु पार्थाः ।

तेषां गुणैर्हरिपदानतिहेतुतश्च राष्ट्रान्तरा इह शुभा वसतिं स्म चक्रुः ॥ २२१॥

प्रस्थाप्य दूरमनुजस्य सुतान् स राजा चक्रेऽभिषेकमपि तत्र सुयोधनस्य ।

दुःशासनं च युवराजमसौ विधाय मेने कृतार्थमिव च स्वमशान्तकामः ॥ २२२॥

पार्थाश्च ते मुमुदुरत्र वसिष्ठवृष्णिवर्योदितानखिलतत्त्वविनिर्णयांस्तु ।

शृण्वन्त एव हि सदा पृथिवीं च धर्माद् भुञ्जन्त आश्रितरमापतिपादयुग्माः ॥ २२३॥

{इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते}

{श्रीमहाभारततात्पर्यनिर्णये}

{पाण्डवराज्यलाभो नाम एकोनविंशोऽध्यायः}