यदा रामादवाप्तानि दिव्यास्त्राणि प्रपेदिरे

अष्टादशोऽध्यायः
सर्वशास्त्रतात्पर्यनिर्णयः

औं ॥ यदा रामादवाप्तानि दिव्यास्त्राणि प्रपेदिरे ।

द्रोणात् कुमारास्तेष्वासीत् सर्वेष्वप्यधिकोऽर्जुनः ॥ १॥

निजप्रतिभया जानन् सर्वास्त्राणि ततोऽधिकम् ।

नास्त्रयुद्धं क्वचिद् भीमो मन्यते धर्ममञ्जसा ॥ २॥

नहि भागवतो धर्मो देवताभ्युपयाचनम् ।

ज्ञानभक्ती हरेस्तृप्तिं विना विष्णोरपि क्वचित् ॥ ३॥

नाऽकाङ्क्ष्यं किमुतान्येभ्यो ह्यस्त्रं काम्यफलप्रदम् ।

शुद्धे भागवते धर्मे निरतो यद् वृकोदरः ॥ ४॥

न काम्यकर्मकृत् तस्मान्नायाचद् देवमानुषान् ।

न हरिश्चार्थितस्तेन कदाचित् कामलिप्सया ॥ ५॥

भिक्षामटंश्च हुङ्कारात् करवद् वैश्यतोऽग्रहीत् ।

नान्यदेवा नतास्तेन वासुदेवान्न पूजिताः ॥ ६॥

न प्रतीपं हरेः क्वापि स करोति कथञ्चन ।

अनुपस्करिणो युद्धे नाभियाति ह्युपस्करी ।

नापयाति युधः क्वापि न क्वचिच्छद्म चाऽचरेत् ॥ ७॥

नैवोर्ध्वदैहिकानुज्ञामवैष्णवकृतेऽकरोत् ।

न करोति स्वयं नैषां प्रियमप्याचरेत् क्वचित् ॥ ८॥

सख्यं नावैष्णवैश्चक्रे प्रतीपं वैष्णवे नच ।

परोक्षेऽपि हरेर्निन्दाकृतो जिह्वां छिनत्ति च ॥ ९॥

प्रतीपकारिणो हन्ति विष्णोर्वैनानजीघनत् ।

न संशयं कदाऽप्येष धर्मे ज्ञानेऽपि वाऽकरोत् ॥ १०॥

विद्योपजीवनं नैष चकाराऽपद्यपि क्वचित् ।

अतो न धर्मनहुषौ प्रत्युवाच कथञ्चन ॥ ११॥

आज्ञयैव हरेर्द्रौणेरस्त्राण्यस्त्रैरशातयत् ।

अदृश्योऽलम्बुसो भग्नो नान्यत्र तु कथञ्चन ॥ १२॥

नह्यस्त्रयुद्धे सदृशो द्रौणेरस्त्यर्जुनादृते ।

सर्ववित्त्वं ततो भीमे प्रदर्शयितुमीश्वरः ।

अदादाज्ञामस्त्रयुद्धे तथैवालम्बुसं प्रति ॥ १३॥

प्रत्यक्षीभूतदेवेषु बन्धुज्येष्ठेषु वा नतिम् ।

मर्यादास्थितयेऽशासद् भगवान् पुरुषोत्तमः ॥ १४॥

तत्रापि विष्णुमेवासौ नमेन्नान्यं कथञ्चन ।

आज्ञयैवास्त्रदेवांश्च प्रेरयामास नार्थनात् ॥ १५॥

अन्वेनमेव तद्धर्मे कृष्णैका संस्थिता सदा ।

धृतराष्ट्रादपि वरं ततो नाऽत्मार्थमग्रहीत् ॥ १६॥

नाशपद् धार्तराष्ट्रांश्च महापद्यपि सा ततः ।

न वाचा मनसा वाऽपि प्रतीपं केशवेऽचरत् ॥ १७॥

अन्ये भागवतत्वेऽपि खिन्नधर्माः क्वचित्क्वचित् ।

स्यमन्तकार्थे रामोऽपि कृष्णस्य विमनाऽभवत् ॥ १८॥

अवमेनेऽर्जुनः कृष्णं विप्रस्य शिशुरक्षणे ।

प्रद्युम्न उद्धवः साम्बोऽनिरुद्धाद्याश्च सर्वशः ॥ १९॥

हरेरिष्टं सुभद्रायाः फल्गुने दानमञ्जसा ।

ज्ञात्वाऽपि रुरुधुः सम्यक् सात्यकिः कृष्णसम्मितम् ॥ २०॥

कदाचिन्मन्यते पार्थं धर्मजोऽपि नरं हरिम् ।

मत्वाऽबिभेज्जरासन्धवधे कृष्णमुदीरितुम् ॥ २१॥

बन्धनं शङ्कमानो हि कृष्णस्य विदुरोऽपितु ।

कौरवेयसभामध्ये नावतारमरोचयत् ॥ २२॥

नकुलः करदानाय प्रेषयामास केशवे ।

अवमेने हरेर्बुद्धिं सहदेवः कुलक्षयात् ॥ २३॥

देवकीवसुदेवाद्या मेनिरे मानुषं हरिम् ।

भीष्मस्तु भार्गवं राममवमेने युयोध च ॥ २४॥

द्रोणकर्णद्रौणिकृपाः कृष्णाभावे मनो दधुः ।

देवाः शिवाद्या अपितु विरोधं चक्रिरे क्वचित् ॥ २५॥

ऋषिमानुषगन्धर्वा वक्तव्याः किमतः परम् ।

जन्मजन्मान्तरेऽज्ञानादवजानन्ति यत् सदा ॥ २६॥

तस्मादेको वायुरेव धर्मे भागवते स्थिरः ।

लक्ष्मीः सरस्वती चेति परशुक्लत्रयं श्रुतम् ॥ २७॥

सर्वमेतच्च कथितं तत्रतत्रामितात्मना ।

व्यासेनैव पुराणेषु भारते च स्वसंविदा ॥ २८॥

यदा ते सर्वशस्त्रास्त्रवेदिनो राजपुत्रकाः ।

बभूवू रङ्गमध्ये तान् भारद्वाजोऽप्यदर्शयत् ॥ २९॥

रक्तचन्दनसत्पुष्पवस्त्रशस्त्रगुळोदनैः ।

सम्पूज्य भार्गवं राममनुजज्ञे कुमारकान् ॥ ३०॥

ते भीष्मद्रोणविदुरगान्धारीधृतराष्ट्रकान् ।

सराजमण्डलान् नत्वा कुन्तीं चादर्शयञ्छ्रमम् ॥ ३१॥

सर्वैः प्रदर्शितेऽस्त्रे तु द्रोणादात्तमहास्त्रवित् ।

द्रौणिरस्त्राण्यमेयानि दर्शयामास चाधिकम् ॥ ३२॥

ततोऽप्यतितरां पार्थो दिव्यास्त्राणि व्यदर्शयत् ।

अविध्यन्माशके पादे पक्षिणः पक्ष्म एव च ।

एवमादीनि चित्राणि बहून्येष व्यदर्शयत् ॥ ३३॥

तदैव कर्ण आगत्य रामोपात्तास्त्रसम्पदम् ।

दर्शयन्नधिकः पार्थादभूद् राजन्यसंसदि ॥ ३४॥

कुन्ती निजं सुतं ज्ञात्वा लज्जया नावदच्च तम् ।

पार्थोऽसहंस्तं युद्धायैवाऽह्वयामास संसदि ॥ ३५॥

रणायाक्षत्रियाह्वानं जानन् धर्मप्रतीपकम् ।

भीमो निवार्य बीभत्सुं कर्णायादात् प्रतोदकम् ॥ ३६॥

अक्षत्रसंस्कारयुतो जातोऽपि क्षत्रिये कुले ।

न क्षत्रियो हि भवति यथा व्रात्यो द्विजोत्तमः ॥ ३७॥

निरुत्तरे कृते कर्णे भीमेनैव सुयोधनः ।

अभ्यषेचयदङ्गेषु राजानं पित्रनुज्ञया ।

धृतराष्ट्रः पक्षपातात् पुत्रस्यानुवशोऽभवत् ॥ ३८॥

अभिषिक्ते तदा कर्णे प्रायादधिरथः पिता ।

सर्वराजसदोमध्ये ववन्दे तं वृषा तदा ।

तुतुषुः कर्मणा तस्य सन्तः सर्वे समागताः ॥ ३९॥

भीमदुर्योधनौ तत्र शिक्षासन्दर्शनच्छलात् ।

समादाय गदे गुर्वी संरम्भादभ्युदीयतुः ॥ ४०॥

देवासुरमनुष्यादि जगदेतच्चराचरम् ।

सर्वं तदा द्विधा भूतं भीमदुर्योधनाश्रयात् ॥ ४१॥

देवा देवानुकूलाश्च भीममेव समाश्रिताः ।

असुरा आसुराश्चैव दुर्योधनसमाश्रयाः ।

द्विधाभूता मानुषाश्च देवासुरविभेदतः ॥ ४२॥

जय भीम महाबाहो जय दुर्योधनेति च ।

हुङ्कारांश्चैव भिट्कारांश्चक्रुर्देवासुरा अपि ॥ ४३॥

दृष्ट्वा जगत् सुसंरब्धं द्रोणोऽथ द्विजसत्तमः ।

नेदं जगद् विनश्येत भीमदुर्योधनाश्रयात् ।

इति पुत्रेण तौ वीरौ न्यवारयदरिन्दमौ ॥ ४४॥

स्वकीयायांस्वकीयायां योग्यतायां नतु क्वचित् ।

युवयोः सम इत्युक्त्वा द्रौणिरेतौ न्यवारयत् ।

द्रोणाज्ञया वारितौ तौ ययतुः स्वंस्वमालयम् ॥ ४५॥

सुरासुरान् सुसंरब्धान् कालेन द्रक्ष्यथेति च ।

ब्रह्मा निवार्य ससुरो ययौ सेशः स्वमालयम् ॥ ४६॥

कर्णं हस्ते प्रगृह्यैव धार्तराष्ट्रो गृहं ययौ ।

पार्थं हस्ते प्रगृह्यैव भीमः प्रायात् स्वमालयम् ॥ ४७॥

पार्थेन कर्णो हन्तव्य इत्यासीद् भीमनिश्चयः ।

वैपरीत्येन तस्याऽसीद् दुर्योधनविनिश्चयः ।

तदर्थं नीतिमतुलां चक्रतुस्तावुभावपि ॥ ४८॥

तथोत्कर्षे फल्गुनस्य यशसो निजयस्य च ।

उद्योग आसीद् भीमस्य धार्तराष्ट्रस्य चान्यथा ॥ ४९॥

भीमार्थं केशवोऽन्ये च देवाः फल्गुनपक्षिणः ।

आसन् यथैव रामाद्याः सङ्ग्रहेण हनूमतः ।

सुराः सुग्रीवपक्षस्थाः पूर्वमासंस्तथैव हि ॥ ५०॥

तदर्थमेव भीमस्य ह्यनुजत्वं सुरेश्वरः ।

आप पूर्वानुतापेन तेन भीमस्तथाऽकरोत् ॥ ५१॥

दुर्योधनार्थं कर्णस्य पक्षिणो दैत्यदानवाः ।

आसुः सर्वे ग्लहावेतावासतुः कर्णफल्गुनौ ॥ ५२॥

अथ पृष्टो दक्षिणार्थं द्रोण आह कुमारकान् ।

बद्ध्वा पाञ्चालराजानं दत्तेत्यूचुस्तथेति ते ॥ ५३॥

ते धार्तराष्ट्राः कर्णेन सहिताः पाण्डवा अपि ।

ययुर्द्रोणेन सहिताः पाञ्चालनगरं प्रति ॥ ५४॥

अथाऽह भीमः सामर्थ्यविवेकाभीप्सया गुरुम् ।

गर्व एष कुमाराणामनिवार्यो द्विजोत्तम ।

गच्छन्त्वेतेऽग्रतो नैषां वशगो द्रुपदो भवेत् ॥ ५५॥

निवृत्तेष्वकृतार्थेषु वयं बद्ध्वा रिपुं तव ।

आनयाम न सन्देह इति तस्थौ ससोदरः ॥ ५६॥

सद्रोणकेषु पार्थेषु स्थितेष्वन्ये ससूतजाः ।

ययुरात्तप्रहरणाः पाञ्चालान्तःपुरं द्रुतम् ॥ ५७॥

कुमारान् ग्रहणेप्सूंस्तानुपयातानुदीक्ष्य सः ।

अक्षोहिणीत्रितययुङ् निस्सृतो द्रुपदो गृहात् ॥ ५८॥

ते शरैरभिवर्षन्तः परिवार्य कुमारकान् ।

अर्दयामासुरुद्द्वृत्तान् स्त्रियो बालाश्च सर्वशः ॥ ५९॥

हर्म्यसंस्थाः स्त्रियो बाला ग्रावभिर्मुसलैरपि ।

अत्यर्थमर्दयामासुः कुमारान् सुसुखेधितान् ॥ ६०॥

द्रुपदस्य वरो ह्यस्ति सूर्यदत्तस्तपोबलात् ।

आ योजनात् पुरमुप न त्वा जेष्यति कश्चन ॥ ६१॥

इति तेन वरेणैव सुखसंवर्द्धिताश्च ते ।

भग्नाः कुमारा आवृत्य दुद्रुवुर्यत्र पाण्डवाः ॥ ६२॥

स्त्रीबालवृद्धसहितैः पाञ्चालैरप्यनुद्रुताः ।

भीमार्जुनेति वाशन्तो ययुर्यत्र स्म पाण्डवाः ॥ ६३॥

तान् प्रभग्नान् समालोक्य भीमः प्रहरतां वरः ।

आरुरोह रथं वीरः पुर आत्तशरासनः ॥ ६४॥

तमन्वयादिन्द्रसुतो यमौ तस्यैव चक्रयोः ।

युधिष्ठिरस्तु द्रोणेन सह तस्थौ निरीक्षकः ॥ ६५॥

आयान्तमग्रतो दृष्ट्वा भीममात्तशरासनम् ।

दुद्रुवुः सर्वपाञ्चालाः विविशुः पुरमेव च ॥ ६६॥

द्रुपदस्त्वभ्ययाद् भीमं सपुत्रः सारसेनया ।

चक्ररक्षौ तु तस्याऽस्तां युधामन्यूत्तमौजसौ ॥ ६७॥

धात्रर्यमावेशयुतौ विश्वावसुपरावसू ।

सुतौ तस्य महावीर्यौ सत्यजित् पृष्ठतोऽभवत् ।

स मित्रांशयुतो वीरश्चित्रसेनो महारथः ॥ ६८॥

अग्रतस्तु शिखण्ड्यागाद् रथोदारः शरान् क्षिपन् ।

जनमेजयस्तमन्वेव पूर्वं चित्ररथो हि यः ।

त्वष्टुरावेशसंयुक्तः स शरानभ्यवर्षत ॥ ६९॥

तावुभौ विरथौ कृत्वा विचापौ च विवर्मकौ ।

भीमो जघान तां सेनां सवाजिरथकुञ्जराम् ॥ ७०॥

अथैनं शरवर्षेण युधामन्यूत्तमौजसौ ।

अभीयतुस्तौ विरथौ चक्रे भीमो निरायुधौ ॥ ७१॥

हस्तप्राप्तं च पाञ्चालं नाग्रहीत् स वृकोदरः ।

गुर्वर्थामर्जुनस्योर्वी प्रतिज्ञां कर्तुमप्यृताम् ।

मानभङ्गाय कर्णस्य पार्थमेव न्ययोजयत् ॥ ७२॥

स शरान् क्षिपतस्तस्य पाञ्चालस्यार्जुनो द्रुतम् ।

पुप्लुवे स्यन्दने चापं छित्वा तं चाग्रहीत् क्षणात् ।

सिंहो मृगमिवाऽदाय स्वरथे चाभिपेतिवान् ॥ ७३॥

अथ प्रकुपितं सैन्यं फल्गुनं पर्यवारयत् ।

जघान भीमस्तरसा तत् सैन्यं शरवृष्टिभिः ॥ ७४॥

अथ सत्यजिदभ्यागात् पार्थं मुञ्चञ्छरान् बहून् ।

तमर्जुनः क्षणेनैव चक्रे विरथकार्मुकम् ॥ ७५॥

घ्नन्तं भीमं पुनः सैन्यमर्जुनः प्राह मा भवान् ।

सेनामर्हति राज्ञोऽस्य वीर हन्तुमशेषतः ॥ ७६॥

सम्बन्धयोग्यस्तातस्य सखाऽयं न सुधार्मिकः ।

नेष्याम एनमेवातो गुरोर्वचनगौरवात् ॥ ७७॥

स्नेहपाशं ततश्चक्रे बीभत्सौ द्रुपदोऽधिकम् ।

ततः सेनां विहायैव भीमो बीभत्सुमन्वयात् ॥ ७८॥

मुक्ता कथञ्चिद् भीमास्यात् सा सेना दुद्रुवे भयात् ।

द्रुपदं स्थापयामासाथार्जुनो द्रोणसन्निधौ ॥ ७९॥

पप्रच्छैनं तदा द्रोणसख्यमस्त्युत नेति ह ।

अस्तीदानीमिति प्राह द्रुपदोऽङ्गिरसां वरम् ॥ ८०॥

अथाऽह द्रुपदं द्रोणः सख्यमिच्छेऽक्षयं तव ।

नह्यराज्ञा भवेत् सख्यं तवेतीदं कृतं मया ॥ ८१॥

न विप्रधर्मो यद् युद्धमतस्त्वं न मया धृतः ।

शिष्यैरेतत् कारितं मे तव सख्यमभीप्सता ॥ ८२॥

अतः सख्यार्थमेवाद्य त्वद्राज्यार्द्धो हृतो मया ।

गङ्गाया दक्षिणे कूले त्वं राजैवोत्तरे त्वहम् ।

नह्यराजत्व एकस्य सख्यं स्यादावयोः सखे ॥ ८३॥

इत्युक्त्वोन्मुच्य तं द्रोणो राज्यार्द्धं गृह्य चामुतः ।

ययौ शिष्यैर्नागपुरं न्यवसत् सुखमत्र च ।

ब्राह्मण्यत्यागभीरुः स न गृह्णन् धनुरप्यसौ ॥ ८४॥

धार्तराष्ट्रैस्तु भीमस्य भयात् पादौ प्रणम्य च ।

शरणार्थं याचितत्वात् सपुत्रो युयुधे परैः ।

एवं हरीच्छयैवासौ क्षात्रं धर्ममुपेयिवान् ॥ ८५॥

द्रुपदस्तु दिवारात्रं तप्यमानः पराभवात् ।

भीमार्जुनबलं दृष्ट्वा चेच्छन् पाण्डवसंश्रयम् ॥ ८६॥

सम्बन्धीत्यर्जुनवचश्चिकीर्षुः सत्यमेव च ।

मार्दवं चार्जुने दृष्ट्वा सुतामैच्छत् तदर्थतः ।

पुत्रं च द्रोणहन्तारमिच्छन् विप्रवरौ ययौ ॥ ८७॥

याजोपयाजावानीयाथार्बुदेन गवां नृपः ।

चकारेष्टिं तु तद्भार्या द्विजाभ्यामत्र चाऽहुता ।

द्रुपदात् सुतलब्ध्यर्थं साऽहङ्काराद् व्यळम्बयत् ॥ ८८॥

किमेतयेत्यवज्ञाय तावुभौ विप्रसत्तमौ ।

अजुह्वतां तत् पुत्रार्थं पत्न्याः प्राश्यं हविस्तदा ॥ ८९॥

हुते हविषि मन्त्राभ्यां वैष्णवाभ्यां तदैव हि ।

दीप्ताङ्गारनिभो वह्निः कुण्डमद्ध्यात् समुत्थितः ॥ ९०॥

किरीटी कुण्डली दीप्तौ हेममाली वरासिमान् ।

रथेनाऽदित्यवर्णेन नदन् द्रुपदमाद्रवत् ॥ ९१॥

धृष्टत्वाद् द्योतनत्वाच्च धृष्टद्युम्न इतीरितः ।

मुनिभिर्द्रुपदेनापि सर्ववेदार्थतत्त्ववित् ॥ ९२॥

अन्वेनं भारती साक्षाद् वेदिमद्ध्यात् समुत्थिता ।

प्राणो हि भरतो नाम सर्वस्य भरणाच्छ्रुतः ॥ ९३॥

तद्भार्या भारती नाम वेदरूपा सरस्वती ।

शंरूपमाश्रिता वायुं श्रीरित्येव च कीर्तिता ॥ ९४॥

आवेशयुक्ता शच्याश्च श्यामळायास्तथोषसः ।

ताश्चेन्द्रधर्मनासत्यसंश्रयाच्छ्रिय ईरिताः ॥ ९५॥

सा कृष्णा नामतश्चाऽसीदुत्कृष्टत्वाद्धि योषिताम् ।

कृष्णा सा वर्णतश्चाऽसीदुत्कृष्टानन्दिनी च सा ॥ ९६॥

उत्पत्तितश्च सर्वज्ञा सर्वाभरणभूषिता ।

सम्प्राप्तयौवनैवाऽसीदजरा लोकसुन्दरी ।

उमांशयुक्ताऽतितरां सर्वलक्षणसंयुता ॥ ९७॥

पूर्वं ह्युमा च देव्यस्ताः कदाचिद् भर्तृभिर्युताः ।

विलासं दर्शयामासुर्ब्रह्मणः पश्यतोऽधिकम् ॥ ९८॥

शशाप तास्तदा ब्रह्मा मानुषीं योनिमाप्स्यथ ।

तत्रान्यगाश्च भवतेत्येवं शप्ताः सुराङ्गनाः ॥ ९९॥

विचार्य भारतीमेत्य सर्वमस्यै निवेद्य च ।

सहस्रवत्सरं चैनां शुश्रूषित्वा बभाषिरे ॥ १००॥

देवि नो मानुषं प्राप्यमन्यगात्वं च सर्वथा ।

तथाऽपि मारुतादन्यं न स्पृशेम कथञ्चन ॥ १०१॥

ब्रह्मणैव च शप्ताः स्म पूर्वं चान्यत्र लीलया ।

एकदेहत्वमाप्यैनं यदा वञ्चयितुं गताः ॥ १०२॥

एकदेहा मानुषत्वमाप्स्यथ त्रिश उद्धताः ।

त्रिशो मद्वञ्चनायेता इति तेनोदिता वयम् ॥ १०३॥

अतस्त्वयैकदेहत्वमिच्छामो देवि जन्मसु ।

चतुर्ष्वपि यतोऽस्माकं शापद्वयनिमित्ततः ।

चतुर्जन्म भवेद् भूमौ त्वां नान्यो मारुताद् व्रजेत् ॥ १०४॥

नियमोऽयं हरेर्यस्मादनादिर्नित्य एव च ।

अतस्त्वयैकदेहान्नो नान्य आप्नोतिःमारुतात् ॥ १०५॥

इतीरिते तथेत्युक्त्वा पार्वत्यादियुतैव सा ।

विप्रकन्याऽभवत् तत्र चतस्रः पार्वतीयुताः ।

एकदेहस्थिताश्चक्रुर्गिरीशाय तपो महत् ॥ १०६॥

तद्देहस्था भारती तु रुद्रदेहस्थितं हरिम् ।

तोषयामास तपसा कर्मैक्यार्थं धृतव्रता ॥ १०७॥

तस्यै स रुद्रदेहस्थो हरिः प्रादाद् वरं प्रभुः ।

अनन्ततोषणं विष्णोः स्वभर्त्रा सह जन्मसु ॥ १०८॥

सर्वेष्वपीति चान्यासां ददौ शङ्कर एव च ।

वरं स्वभर्तृसंयोगं मानुषेष्वपि जन्मसु ॥ १०९॥

ततस्तदैव देहं ता विसृज्य नळनन्दिनी ।

बभूवुरिन्द्रसेनेति देहैक्येन सुसङ्गताः ॥ ११०॥

तदाऽऽसीन्मुद्गलो नाम मुनिस्तपसि संस्थितः ।

चकमे पुत्रिकां ब्रह्मेत्यशृणोत् स कथान्तरे ॥ १११॥

अपाहसत् सोऽब्जयोनिं शशापैनं चतुर्मुखः ।

भारत्याद्याः पञ्च देवीर्गच्छ मानिन्नभूतये ॥ ११२॥

इतीरितस्तं तपसा तोषयामास मुद्गलः ।

शापानुग्रहमस्याथ चक्रे कञ्जसमुद्भवः ॥ ११३॥

न त्वं यास्यसि ता देवी मारुतस्त्वच्छरीरगः ।

यास्यति त्वं सदा मूर्छां गतो नैव विबुद्ध्यसे ॥ ११४॥

नच पापं ततस्ते स्यादित्युक्ते चैनमाविशत् ।

मारुतोऽथेन्द्रसेनां च गृहीत्वाऽथाभवद् गृही ॥ ११५॥

रेमे चे स तया सार्द्धं दीर्घकालं जगत्प्रभुः ।

ततो मुद्गलमुद्बोध्य ययौ च स्वं निकेतनम् ॥ ११६॥

ततो देशान्तरं गत्वा तपश्चक्रे स मुद्गलः ।

सेन्द्रसेना वियुक्ताथ भर्त्रा चक्रे महत् तपः ॥ ११७॥

तद्देहगा भारती तु केशवं शङ्करे स्थितम् ।

तोषयामास तपसा कर्मैक्यार्थं हि पूर्ववत् ।

उमाद्या रौद्रमेवात्र तपश्चक्रुर्यथा पुरा ॥ ११८॥

प्रत्यक्षे च शिवे जाते तद्देहस्थे च केशवे ।

पृथक्पृथक् स्वभर्त्राप्त्यै ताः पञ्चाप्येकदेहगाः ।

प्रार्थयामासुरभवत् पञ्चकृत्वो वचो हि तत् ॥ ११९॥

शिवदेहस्थितो विष्णुर्भारत्यै तु ददौ पतिम् ।

अन्यासां शिव एवाथ प्रददौ चतुरः पतीन् ॥ १२०॥

देव्यश्चतस्रस्तु तदा दत्तमात्रे वरेऽमुना ।

देवानामवतारार्थं पञ्च देव्यः स्म इत्यथ ।

नाजानन्नेकदेहत्वाच्चिद्योगात् क्षीरनीरवत् ॥ १२१॥

ताः श्रुत्वा स्वपतिं देवि नचिरात् प्रप्स्यसीति च ।

विष्णूक्तं शङ्करोक्तं च चत्वारः पतयः पृथक् ॥ १२२॥

भविष्यन्तीत्यथैकस्या मेनिरे पञ्चभर्तृताम् ।

रुरुदुश्चैकदेहस्था एकैवाहमिति स्थिताः ॥ १२३॥

अथाभ्यागान्महेन्द्रोऽत्र सोऽब्रवीत् तां वरस्त्रियम् ।

किमर्थं रोदिषीत्येव साऽब्रवीद् वटुरूपिणम् ॥ १२४॥

शङ्करं दर्शयित्वैव पञ्चभर्तृत्वमेष मे ।

वरार्थमर्थितः प्रादादिति तं शिव इत्यथ ॥ १२५॥

अजानन् शक्र आहोच्चैः किमेतद् भुवनत्रये ।

मत्पालिते योषितं त्वं वृथा शपसि दुर्मते ॥ १२६॥

इतीरिते शिवः प्राह पत मानुष्यमाप्नुहि ।

अस्याश्च भर्ता भवसि त्वामेवैषा वरिष्यति ॥ १२७॥

पश्यात्र मदवज्ञानात् पतितांस्त्वादृशान् सुरान् ।

गिरेरधस्तादस्यैवेत्युक्तोऽसौ पाकशासनः ॥ १२८॥

उद्बबर्ह गिरिं तं तु ददर्शात्र च तान् सुरान् ।

पूर्वेन्द्रान् मारुतवृषनासत्यांश्चतुरः स्थितान् ।

मानुषेष्ववताराय मन्त्रं रहसि कुर्वतः ॥ १२९॥

ततो वरेण्यं वरदं विष्णुं प्राप्य स वासवः ।

तत्प्रसादान्नरांशेन युक्तो भूमावजायत ॥ १३०॥

मदवज्ञानिमित्तेन पतिता इति तान् सुरान् ।

मारुतादीन् मृषाऽवादीरिति ब्रह्मा शिवं तदा ॥ १३१॥

शशाप मानुषेषु त्वं क्षिप्रं जातः पराभवम् ।

शक्रान्नरतनोर्यासि यस्मै त्वं तु मृषाऽवदः ॥ १३२॥

मच्छप्तानां च देवीनामविचार्य मया यतः ।

पतियोगवरं प्रादा नावाप्स्यसि ततः प्रियाम् ॥ १३३॥

मानुषेषु ततः पश्चाद् भारतीदेहनिर्गताम् ।

स्वलोके प्राप्स्यसि स्वार्थे वरोऽयं ते मृषा भवेत् ॥ १३४॥

एषा सा द्रौपदी नाम पञ्चदेवीतनुर्भवेत् ।

मृषा वाग् येषु ते प्रोक्ता मारुताद्यास्तु तेऽखिलाः ॥ १३५॥

तासां पतित्वमाप्स्यन्ति भारत्यैव तु पार्वती ।

संयुक्ता व्यवहारेषु प्रवर्तेत नचान्यथा ॥ १३६॥

एते हि मारुताद्यास्ते देवकार्यार्थगौरवात् ।

जाता इति श्रुतिस्तत्र नावज्ञा तेऽत्र कारणम् ।

दीर्घकालं मनुष्येषु ततस्त्वं स्थितिमाप्स्यसि ॥ १३७॥

इत्युक्त्वा प्रययौ ब्रह्मा सोऽश्वत्थामा शिवोऽभवत् ।

पञ्चदेवीतनुस्त्वेषा द्रौपदी नाम चाभवत् ॥ १३८॥

वेदेषु सपुराणेषु भारते चावगम्यते ।

उक्तोऽर्थः सर्व एवायं तथा पूर्वोदिताश्च ये ॥ १३९॥

मुमुदुः सर्वपाञ्चाला जातयोः सुतयोस्तयोः ।

मानुषान्नोपभोगेन संसर्गान्मानुषेषु च ॥ १४०॥

मनुष्यपुत्रतायाश्च भावो मानुष एतयोः ।

अभून्नातितरामासीत् तदयोनित्वहेतुतः ॥ १४१॥

याजोपयाजौ तावेव दयिता द्रुपदस्य सा ।

मातृस्नेहार्थमनयोर्ययाचे ददतुश्च तौ ॥ १४२॥

जातमात्मनिहन्तारं भारद्वाजो निशम्य तम् ।

यशोर्थमस्त्राणि ददावग्रहीत् सोऽपि लोभतः ।

रामास्त्राणां दुर्लभत्वात् त्रिदशेष्वपि वीर्यवान् ॥ १४३॥

भीमार्जुनाभ्यां बद्धं तं श्रुत्वा पाञ्चालभूपतिम् ।

प्राहिणोत् कृतवर्माणं पाण्डवानां जनार्दनः ।

पाण्डवेष्वतुलां प्रीतिं लोके ख्यापयितुं प्रभुः ॥ १४४॥

स मान्य पाण्डवान् सोऽपि शूरानुजसुतासुतः ।

तैर्मानितः कृष्णभक्त्या भ्रातृत्वाच्च हरिं ययौ ॥ १४५॥

ततः प्रभृति सन्त्यज्य देवपक्षा जरासुतम् ।

पाण्डवानाश्रिता भूपा ज्ञात्वा भैमार्जुनं बलम् ॥ १४६॥

विशेषतश्च कृष्णस्य विज्ञाय स्नेहमेषु हि ।

पराजिताश्च बहुशः कृष्णेनाचिन्त्यकर्मणा ॥ १४७॥

प्रतापाद्ध्येव ते पूर्वं जरासन्धवशं गताः ।

न स्नेहात् तद् बलं ज्ञात्वा पार्थानां केशवस्य च ॥ १४८॥

जन्मान्तराभ्यासवशात् स्निग्धाः कृष्णे च पाण्डुषु ।

जरासन्धभयं त्यक्त्वा तानेव च समाश्रिताः ॥ १४९॥

अपि तं बहुशः कृष्णविजितं नैव तत्यजुः ।

आसुराः पूर्वसंस्कारात् संस्कारो बलवान् यतः ॥ १५०॥

देवा हि कारणादन्यानाश्रयन्तोऽपि नाऽन्तरम् ।

स्नेहं त्यजन्ति दैवेषु तथाऽन्येऽन्येष्वपि स्फुटम् ॥ १५१॥

धृतराष्ट्रो बलं ज्ञात्वा बहुशो भीमपार्थयोः ।

दैवत्वाच्च स्वभावेन ज्येष्ठत्वाद् धर्मजस्य च ।

सुप्रीत एव तं चक्रे यौवराज्याभिषेकिणम् ॥ १५२॥

भीमार्जुनावथो जित्वा सर्वदिक्षु च भूपतीन् ।

चक्रतुः करदान् सर्वान् धृतराष्ट्रस्य दुर्जयौ ॥ १५३॥

तयोः प्रीतोऽभवत् सोऽपि पौरजानपदास्तथा ।

भीष्मद्रोणमुखाः सर्वेऽप्यतिमानुषकर्मणा ॥ १५४॥

{इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते}

{श्रीमहाभारततात्पर्यनिर्णये}

{भीमार्जुनदिग्विजयो नाम अष्टादशोऽध्यायः}