द्वापरेऽथ युगे प्राप्ते त्वष्टाविंशतिमे पुनः

दशमोऽध्यायः
सर्वशास्त्रतात्पर्यनिर्णयः

औं ॥ द्वापरेऽथ युगे प्राप्ते त्वष्टाविंशतिमे पुनः ।

स्वयम्भुशर्वशक्राद्या दुग्धाब्धेस्तीरमाययुः ॥ १॥

पयोब्धेरुत्तरं तीरमासाद्य विबुधर्षभाः ।

तुष्टुवुः पुण्डरीकाक्षमक्षयं पुरुषोत्तमम् ॥ २॥

नमोनमोऽगण्यगुणैकधाम्ने समस्तविज्ञानमरीचिमालिने ।

अनाद्यविज्ञानतमोनिहन्त्रे परामृतानन्दपदप्रदायिने ॥ ३॥

स्वदत्तमालाभुविपातकोपतो दुर्वाससः शापत आशु हि श्रिया ।

शक्रे विहीने दितिजैः पराजिते पुरा वयं त्वां शरणं गता स्म ॥ ४॥

त्वदाज्ञया बलिना सन्दधाना वराद् गिरीशस्य परैरचाल्यम् ।

वृन्दारका मन्दरमेत्य बाहुभिर्न शेकुरुद्धर्तुमिमे समेताः ॥ ५॥

तदा त्वया नित्यबलत्वहेतुतो योऽनन्तनामा गरुडस्तदंसके ।

उत्पाट्य चैकेन करेण मन्दरो निधापितस्तं स सह त्वयाऽवहत् ॥ ६॥

पुनः परीक्षद्भिरसौ गिरिः सुरैः सहासुरैरुन्नमितस्तदंसतः ।

व्यचूर्णयत् तानखिलान् पुनश्च ते त्वदीक्षया पूर्ववदुत्थिताः प्रभो ॥ ७॥

पुनश्च वामेन करेण वीश्वरे निधाय तं स्कन्धगतस्त्वमस्य ।

अगाः पयोब्धिं सहितः सुरासुरैर्मथ्ना च तेनाब्धिमथाप्यमथ्नाः ॥ ८॥

कृतश्च कद्र्वास्तनयोऽत्र वासुकिर्नेत्रं त्वया कश्यपजः स नागराट् ।

ममन्थुरब्धिं सहितास्त्वया सुराः सहासुरा दिव्यपयो घृताधिकम् ॥ ९॥

नैच्छन्त पुच्छं दितिजा अमङ्गळं तदित्यथाग्रं जगृहुर्विषोल्बणम् ।

श्रान्ताश्च तेऽतो विबुधास्तु पुच्छं त्वया समेता जगृहुस्त्वदाश्रयाः ॥ १०॥

अथातिभारादविशत् सुकाञ्चनो गिरिः स पाताळमथ त्वमेव ।

तं कच्छपात्मा त्वभरः स्वपृष्ठे ह्यनन्यधार्यं पुरुलीलयैव ॥ ११॥

उपर्यधश्चाऽत्मनि नेत्रगोत्रयोस्त्वया परेणाऽविशता समेधिताः ।

ममन्थुरब्धिं तरसा मदोत्कटाः सुरासुराः क्षोभितनक्रचक्रम् ॥ १२॥

श्रान्तेषु तेष्वेक उरुक्रम त्वं सुधारसाप्त्यै मुदितो ह्यमथ्नाः ।

तदा जगद्ग्रासि विषं समुत्थितं त्वदाज्ञया वायुरधात् करे निजे ॥ १३॥

कलेः स्वरूपं तदतीव दुष्षहं वराद् विधातुः सकलैश्च दुःस्पृशम् ।

करे विमथ्यास्तबलं विधाय ददौ स किञ्चिद् गिरिशाय वायुः ॥ १४॥

स तत् पिबत् कण्ठगतेन तेन निपातितो मूर्च्छित आशु रुद्रः ।

हरेः करस्पर्शबलात् स सञ्ज्ञामवाप नीलोऽस्य गळस्तदाऽऽसीत् ॥ १५॥

अथ त्वदाज्ञां पुरतो निधाय निधाय पात्रे तपनीयरूपे ।

स्वयं च निर्मथ्य बलोपपन्नं पपौ स वायुस्तदु चास्य जीर्णम् ॥ १६॥

अत्यल्पपानाच्च बभूव शूला शिवस्य शीर्ष्णश्च करावशिष्टम् ।

अभूत् कलिः सर्वजगत्सु पूर्णं पीत्वा विकारो न बभूव वायोः ।

कलेः शरीरादभवन् कुनागाः सवृश्चिकाः श्वापदयातुधानाः ॥ १७॥

अथ त्वयाऽब्धौ तु विमथ्यमाने सुराऽभवत् तामसुरा अवापुः ।

उच्चैःश्रवा नाम तुरङ्गमोऽथ करी तथैरावतनामधेयः ॥ १८॥

अन्ये च दिक्पालगजा बभूवुर्वरं तथैवाप्सरसां सहस्रम् ।

तथाऽऽयुधान्याभरणानि चैव दिवौकसां पारिजातस्तरुश्च ॥ १९॥

तथैव साक्षात् सुरभिर्निशेशो बभूव तत् कौस्तुभं लोकसारम् ।

अथेन्दिरा यद्यपि नित्यदेहा बभूव तत्रापरया स्वतन्वा ॥ २०॥

ततो भवान् दक्षिणबाहुना सुधाकमण्डलुं कलशं चापरेण ।

प्रगृह्य तस्मान्निरगात् समुद्राद् धन्वन्तरिर्नाम हरिन्मणिद्युतिः ॥ २१॥

ततो भवद्धस्तगतं दितेः सुताः सुधाभरं कलशं चापजह्रुः ।

मुक्तं त्वया शक्तिमताऽपि दैत्यान् सत्यच्युतान् कारयता वधाय ॥ २२॥

ततो भवाननुपममुत्तमं वपुर्बभूव दिव्यप्रमदात्मकं त्वरन् ।

श्यामं नितम्बार्पितरत्नमेखलं जाम्बूनदाभाम्बरभृत् सुमध्यमम् ॥ २३॥

बृहन्नितम्बं कलशोपमस्तनं सत्पुण्डरीकायतनेत्रमुज्ज्वलम् ।

समस्तसारं परिपूर्णसद्गुणं दृष्ट्वैव तत् सम्मुमुहुः सुरारयः ॥ २४॥

परस्परं तेऽमृतहेतुतोऽखिला विरुद्ध्यमानाः प्रददुः स्म ते करे ।

समं सुधायाः कलशं विभज्य निपाययास्मानिति वञ्चितास्त्वया ॥ २५॥

धर्मच्छलं पापजनेषु धर्म इति त्वया ज्ञापयितुं तदोक्तम् ।

यद्यत् कृतं मे भवतां यदीह संवाद एवोद्विभजे सुधामिमाम् ॥ २६॥

यथेष्टतोऽहं विभजामि सर्वथा न विश्वसध्वं मयि केनचित् क्वचित् ।

इति प्रहस्याभिहितं निशम्य स्त्रीभावमुग्धास्तु तथेति तेऽवदन् ॥ २७॥

ततश्च संस्थाप्य पृथक् सुरासुरांस्तवातिरूपोच्चलितान् सुरेतरान् ।

सर्वान् भवद्दर्शिन ईक्ष्य लज्जिताऽस्म्यहं दृशो मीलयतेत्यवोचः ॥ २८॥

निमीलिताक्षेष्वसुरेषु देवता न्यपाययः साध्वमृतं ततः पुमान् ।

क्षणेन भूत्वा पिबतः सुधां शिरो राहोर्न्यकृन्तश्च सुदर्शनेन ॥ २९॥

तेनामृतार्थं हि सहस्रजन्मसु प्रतप्य भूयस्तप आरितो वरः ।

स्वयम्भुवस्तेन भवान् करेऽस्य बिन्दुं सुधां प्रास्य शिरो जहार ॥ ३०॥

शिरस्तु तस्य ग्रहतामवाप सुरैः समाविष्टमथो सबाहु ।

क्षिप्तः कबन्धोऽस्य शुभोदसागरे त्वया स्थितोऽद्यापि हि तत्र सामृतः ॥ ३१॥

अथासुराः प्रत्यपतन्नुदायुधाः समस्तशस्ते च हतास्त्वया रणे ।

कलिस्तु स ब्रह्मवरादजेयो ह्यृते भवन्तं पुरुषेषु संस्थितः ॥ ३२॥

तस्यार्द्धदेहात् समभूदलक्ष्मीस्तत्पुत्रका दोषगणाश्च सर्वशः ।

अथेन्दिरा वक्षसि ते समास्थिता त्वत्कण्ठगं कौस्तुभमास धाता ॥ ३३॥

यथाविभागं च सुरेषु दत्तास्त्वया तथाऽन्येऽपि हि तत्र जाताः ।

इत्थं त्वया साध्वमृतं सुरेषु दत्तं हि मोक्षस्य निदर्शनाय ॥ ३४॥

भवेद्धि मोक्षो नियतं सुराणां नैवासुराणां स कथञ्चन स्यात् ।

उत्साहयुक्तस्य च तत् प्रतीपं भवेद्धि राहोरिव दुःखरूपम् ॥ ३५॥

कलिस्त्वयं ब्रह्मवरादिदानीं विबाधतेऽस्मान् सकलान् प्रजाश्च ।

अज्ञानमिथ्यामतिरूपतोऽसौ प्रविश्य सज्ज्ञानविरुद्धरूपः ॥ ३६॥

त्वदाज्ञया तस्य वरोऽब्जजेन दत्तः स आविश्य शिवं चकार ।

कदागमांस्तस्य कुयुक्तिबाधान् नहि त्वदन्यश्चरितुं समर्थः ॥ ३७॥

वेदाश्च सर्वे सहशास्त्रसङ्घा उत्सादितास्तेन न सन्ते तेऽद्य ।

तत् साधु भूमाववतीर्य वेदानुद्धृत्य शास्त्राणि कुरुष्व सम्यक् ॥ ३८॥

अदृश्यमज्ञेयमतर्क्यरूपं कलिं निलीनं हृदयेऽखिलस्य ।

सच्छास्त्रशस्त्रेण निहत्य शीघ्रं पदं निजं देहि महाजनस्य ॥ ३९॥

ऋते भवन्तं नहि तं निहन्ता त्वमेक एवाखिलशक्तिपूर्णः ।

ततो भवन्तं शरणं गता वयं तमोनिहत्यै निजबोधविग्रहम् ॥ ४०॥

इतीरितस्तैरभयं प्रदाय सुरेश्वराणां परमोऽप्रमेयः ।

प्रादुर्बभूवामृतभूरिळायां विशुद्धविज्ञानघनस्वरूपः ॥ ४१॥

वसिष्ठनामा कमळोद्भवात्मजः सुतोऽस्य शक्तिस्तनयः पराशरः ।

तस्योत्तमं सोऽपि तपोऽचरद्धरिः सुतो मम स्यादिति तद्धरिर्ददौ ॥ ४२॥

उवाच चैनं भगवान् सुतोषितो वसोर्मदीयस्य सुताऽस्ति शोभना ।

वने मृगार्थं चरतोऽस्य वीर्यं पपात भार्यां मनसा गतस्य ॥ ४३॥

तच्छ्येनहस्ते प्रददौ स तस्यै दातुं तदन्येन तु युद्ध्यतोऽपतत् ।

जग्रास तन्मत्स्यवधूर्यमस्वसुर्जलस्थमेनां जगृहुश्च दाशाः ॥ ४४॥

तद्गर्भतोऽभून्मिथुनं स्वराज्ञे न्यवेदयन् सोऽपि वसोः समर्पयत् ।

पुत्रं समादाय सुतां स तस्मै ददौ सुतोऽभूदथ मत्स्यराजः ॥ ४५॥

कन्या तु सा दाशराजस्य सद्मन्यवर्द्धतातीव सुरूपयुक्ता ।

नाम्ना च सा सत्यवतीति तस्यां तवाऽत्मजोऽहं भविताऽस्म्यजोऽपि ॥ ४६॥

इतीरितश्चक्रधरेण तां मुनिर्जगाम मार्ताण्डसुतां समुद्रगाम् ।

उत्तारयन्तीमथ तत्र विष्णुः प्रादुर्बभूवाऽशु विशुद्धचिद्घनः ॥ ४७॥

विदोषविज्ञानसुखैकरूपोऽप्यजो जनान् मोहयितुं मृषैव ।

योषित्सु पुंसो ह्यजनीव दृश्यते न जायते क्वापि बलादिविग्रहः ॥ ४८॥

यथा नृसिंहाकृतिराविरासीत् स्तम्भात् तथा नित्यतनुत्वतो विभुः ।

आविर्भवद् योषिति नो मलोत्थस्तथाऽपि मोहाय निदर्शयेत् तथा ॥ ४९॥

स्त्रीपुम्प्रसङ्गात् परतो यतो हरिः प्रादुर्भवत्येष विमोहयन् जनम् ।

अतो मलोत्थोऽयमिति स्म मन्यते जनोऽशुभः पूर्णगुणैकविग्रहम् ॥ ५०॥

द्वीपे भगिन्याः स यमस्य विश्वकृत् प्रकाशते ज्ञानमरीचिमण्डलः ।

प्रभासयन्नण्डबहिस्तथाऽन्तः सहस्रलक्षामितसूर्यदीधितिः ॥ ५१॥

अगण्यदिव्योरुगुणार्णवः प्रभुः समस्तविद्याधिपतिर्जगद्गुरुः ।

अनन्तशक्तिर्जगदीश्वरः समस्तदोषातिविदूरविग्रहः ॥ ५२॥

शुभमरतकवर्णो रक्तपादाब्जनेत्राधरकरनखरसनाग्रश्चक्रशङ्खाब्जरेखः ।

रविकरवरगौरं चर्म चैणं वसानस्तटिदमलजटासन्दीप्तजूटं दधानः ॥ ५३॥

विस्तीर्णवक्षाः कमळायताक्षो बृहद्भुजः कम्बुसमानकण्ठः ।

समस्तवेदान् मुखतः समुद्गिरन्ननन्तचन्द्राधिककान्तसन्मुखः ॥ ५४॥

प्रबोधमुद्राभयदोर्द्वयान्वितो यज्ञोपवीताजिनमेखलोल्लसन् ।

दृशा महाज्ञानभुजङ्गदष्टमुज्जीवयानो जगदत्यरोचत ॥ ५५॥

स लोकधर्माभिरिरक्षया पितुर्द्विजत्वमाप्याऽशु पितुर्ददौ निजम् ।

ज्ञानं तयोः संस्मृतिमात्रतः सदा प्रत्यक्षभावं परमात्मनो ददौ ॥ ५६॥

द्वैपायनः सोऽथ जगाम मेरुं चतुर्मुखाद्यैरनुगम्यमानः ।

उद्धृत्य वेदानखिलान् सुरेभ्यो ददौ मुनिभ्यश्च यथाऽऽदिसृष्टौ ॥ ५७॥

सर्वाणि शास्त्राणि तथैव कृत्वा विनिर्णयं ब्रह्मसूत्रं चकार ।

तच्छुश्रुवुर्ब्रह्मगिरीशमुख्याः सुरा मुनीनां प्रवराश्च तस्मात् ॥ ५८॥

समस्तशास्त्रार्थनिदर्शनात्मकं चक्रे महाभारतनामधेयम् ।

वेदोत्तमं तच्च विधातृशङ्करप्रधानकैस्तन्मुखतः सुरैः श्रुतम् ॥ ५९॥

अथो गिरीशादिमनोनुशायी कलिर्ममाराऽशु सुवाङ्मयैः शरैः ।

निकृत्तशीर्षो भगवन्मुखेरितैः सुराश्च सज्ज्ञानसुधारसं पपुः ॥ ६०॥

अथो मनुष्येषु तथाऽसुरेषु रूपान्तरैः कलिरेवावशिष्टः ।

ततो मनुष्येषु च सत्सु संस्थितो विनाश्य इत्येष हरिर्व्यचिन्तयत् ॥ ६१॥

ततो नृणां कालबलात् सुमन्दमायुर्मतिं कर्म च वीक्ष्य कृष्णः ।

विव्यास वेदान् स विभुश्चतुर्धा चक्रे तथा भागवतं पुराणम् ॥ ६२॥

येये च सन्तस्तमसाऽनुविष्टास्तांस्तान् सुवाक्यैस्तमसो विमुञ्चन् ।

चचार लोकान् स पथि प्रयान्तं कीटं व्यपश्यत् तमुवाच कृष्णः ॥ ६३॥

भवस्व राजा कुशरीरमेतत् त्यक्त्वेति नैच्छत् तदसौ ततस्तम् ।

अत्यक्तदेहं नृपतिं चकार पुरा स्वभक्तं वृषलं सुलुब्धम् ॥ ६४॥

लोभात् स कीटत्वमुपेत्य कृष्णप्रसादतश्चाऽशु बभूव राजा ।

तदैव तं सर्वनृपाः प्रणेमुर्ददुः करं चास्य यथैव वैश्याः ॥ ६५॥

उवाच तं भगवान् मुक्तिमस्मिंस्तव क्षणे दातुमहं समर्थः ।

तथाऽपि सीमार्थमवाप्य विप्रतनुं विमुक्तो भव मत्प्रसादात् ॥ ६६॥

ज्ञानं च तस्मै विमलं ददौ स महीं च सर्वां बुभुजे तदन्ते ।

त्यक्त्वा तनुं विप्रवरत्वमेत्य पदं हरेराप सुतत्त्ववेदी ॥ ६७॥

एवं बहून् संसृतिबन्धतः स व्यमोचयद् व्यासतनुर्जनार्दनः ।

बहून्यचिन्त्यानि च तस्य कर्माण्यशेषदेवेशसदोदितानि ॥ ६८॥

अथास्य पुत्रत्वमवाप्तुमिच्छंश्चचार रुद्रः सुतपस्तदीयम् ।

ददौ च तस्मै भगवान् वरं तं स्वयं च तप्त्वेव तपो विमोहयन् ॥ ६९॥

विमोहनायासुरसर्गिणां प्रभुः स्वयं करोतीव तपः प्रदर्शयेत् ।

कामादिदोषांश्च मृषैव दर्शयेन्न तावता तेऽस्य हि सन्ति कुत्रचित् ॥ ७०॥

ततस्त्वरण्या स्म बभूव पुत्रकः शिवोऽस्य सोऽभूच्छुकनामधेयः ।

शुकी हि भूत्वाऽभ्यगमद् घृताची व्यासं विमथ्नन्तमुतारणी तम् ॥ ७१॥

अकामयन् कामुकवत् स भूत्वा तयाऽर्थितस्तं शुकनामधेयम् ।

चक्रे ह्यरण्योस्तनयं च सृष्ट्वा विमोहयंस्तत्त्वमार्गेष्वयोग्यान् ॥ ७२॥

शुकं तमाशु प्रविवेश वायुर्व्यासस्य सेवार्थमथास्य सर्वम् ।

ज्ञानं ददौ भगवान् सर्ववेदान् सभारतं भागवतं पुराणम् ॥ ७३॥

शेषोऽथ पैलं मुनिमाविशत् तदा वीशः सुमन्तुमपि वारुणिं मुनिम् ।

ब्रह्माऽविशत् तमुत वैशपायनं शक्रश्च जैमिनिमथाऽविशद् विभुः ॥ ७४॥

कृष्णस्य पादपरिसेवनोत्सुकाः सुरेश्वरा विविशुराशु तान् मुनीन् ।

समस्तविद्याः प्रतिपाद्य तेष्वसौ प्रवर्तकांस्तान् विदधे हरिः पुनः ॥ ७५॥

ऋचां प्रवर्तकं पैलं यजुषां च प्रवर्तकम् ।

वैशम्पायनमेवैकं द्वितीयं सूर्यमेव च ॥ ७६॥

चक्रेऽथ जैमिनिं साम्नामथर्वाङ्गिरसामपि ।

सुमन्तुं भारतस्यापि वैशम्पायनमादिशत् ।

प्रवर्तने मानुषेषु गन्धर्वादिषु चाऽत्मजम् ॥ ७७॥

नारदं पाठयित्वा च देवलोकप्रवृत्तये ।

आदिशत् ससृजे सोऽथ रोमाञ्चाद् रोमहर्षणम् ॥ ७८॥

तं भारतपुराणानां महारामायणस्य च ।

पञ्चरात्रस्य कृत्स्नस्य प्रवृत्त्यर्थमथाऽदिशत् ॥ ७९॥

तमाविशत् कामदेवः कृष्णसेवासमुत्सुकः ।

स तस्मै ज्ञानमखिलं ददौ द्वैपायनः प्रभुः ॥ ८०॥

सनत्कुमारप्रमुखांश्चक्रे योगप्रवर्तकान् ।

भृग्वादीन् कर्मयोगस्य ज्ञानं दत्वाऽमलं शुभम् ॥ ८१॥

जैमिनिं कर्ममीमांसाकर्तारमकरोत् प्रभुः ।

देवमीमांसिकाद्यन्तः कृत्वा पैलमथाऽदिशत् ।

शेषं च मध्यकरणे पुराणान्यथ चाकरोत् ॥ ८२॥

शैवान् पाशुपताच्चक्रे संशयार्थं सुरद्विषाम् ।

वैष्णवान् पञ्चरात्राच्च यथार्थज्ञानसिद्धये ।

ब्राह्मांश्च वेदतश्चक्रे पुराणग्रन्थसङ्ग्रहान् ॥ ८३॥

एवं ज्ञानं पुनः प्रापुर्देवाश्च ऋषयस्तथा ।

सनत्कुमारप्रमुखा योगिनो मानुषास्तथा ।

कृष्णद्वैपायनात् प्राप्य ज्ञानं ते मुमुदुः सुराः ॥ ८४॥

समस्तविज्ञानगभस्तिचक्रं विताय विज्ञानमहादिवाकरः ।

निरस्य(निपीय) चाज्ञानतमो जगत्ततं प्रभासते भानुरिवावभासयन् ॥ ८५॥

चतुर्मुखेशानसुरेन्द्रपूर्वकैः सदा सुरैः सेवितपादपल्लवः ।

प्रकाशयंस्तेषु सदाऽऽत्मगुह्यं मुमोद मेरौ च तथा बदर्याम् ॥ ८६॥

{इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते}

{श्रीमहाभारततात्पर्यनिर्णये}

{व्यासावतारानुवर्णनं नाम दशमोऽध्यायः}