बभूव गन्धर्वमुनिस्तु देवकः स आस सेवार्थमथाऽहुकाद्धरेः
द्वादशोऽध्यायः
सर्वशास्त्रतात्पर्यनिर्णयः
औं ॥ बभूव गन्धर्वमुनिस्तु देवकः स आस सेवार्थमथाऽहुकाद्धरेः ।
स उग्रसेनावरजस्तथैव नामास्य तस्मादजनि स्म देवकी ॥ १॥
अन्याश्च याः काश्यपस्यैव भार्या ज्येष्ठां तु तामाहुक आत्मपुत्रीम् ।
चकार तस्माद्धि पितृष्वसा सा स्वसा च कंसस्य बभूव देवकी ॥ २॥
सैवादितिर्वसुदेवस्य दत्ता तस्या रथं मङ्गळं कंस एव ।
संयापयामास तदा हि वायुर्जगाद वाक्यं गगनस्थितोऽमुम् ॥ ३॥
विनाऽपराधं न ततो गरीयसो न मातुलो वध्यतामेति विष्णोः ।
लोकस्य धर्माननुवर्ततोऽतः पित्रोर्विरोधार्थमुवाच वायुः ॥ ४॥
मृत्युस्तवास्या भविताऽष्टमः सुतो मूढेति चोक्तो जगृहे कृपाणाम् ।
पुत्रान् समर्प्यास्य च शूरसूनुर्विमोच्य तां तत्सहितो गृहं ययौ ॥ ५॥
षट् कन्यकाश्चावरजा गृहीतास्तेनैव ताभिश्च मुमोद शूरजः ।
बाह्लीकपुत्री च पुरा गृहीता पुराऽस्य भार्या सुरभिस्तु रोहिणी ॥ ६॥
राज्ञश्च काशिप्रभवस्य कन्यां स पुत्रिकापुत्रकधर्मतोऽवहत् ।
कन्यां तथा करवीरेश्वरस्य धर्मेण तेनैव दितिं दनुं पुरा ॥ ७॥
यो मन्यते विष्णुरेवाहमित्यसौ पापो वेनः पौण्ड्रको वासुदेवः ।
जातः पुनः शूरजात् काशिजायां नान्यो मत्तो विष्णुरस्तीति वादी ॥ ८॥
धुन्धुर्हतो यो हरिणा मधोः सुत आसीत् सुतायां करवीरेश्वरस्य ।
सृगालनामा वासुदेवोऽथ देवकीमुदूह्य शौरिर्न ययावुभे ते ॥ ९॥
ततस्तु तौ वृष्णिशत्रू बभूवतुर्ज्येष्ठौ सुतौ शूरसुतस्य नित्यम् ।
अन्यासु च प्राप सुतानुदारान् देवावतारान् वसुदेवोऽखिलज्ञः ॥ १०॥
येये हि देवाः पृथिवीं गतास्ते सर्वे शिष्याः सत्यवतीसुतस्य ।
विष्णुज्ञानं प्राप्य सर्वेऽखिलज्ञास्तस्माद् यथायोग्यतया बभूवुः ॥ ११॥
मरीचिजाः षण् मुनयो बभूवुस्ते देवकं प्राहसन् कार्ष्यहेतोः ।
तच्छापतः कालनेमिप्रसूता अवध्यतार्थं तप एव चक्रुः ॥ १२॥
धाता प्रादाद् वरमेषां तथैव शशाप तान् क्ष्मातळे सम्भवध्वम् ।
तत्र स्वतातो भवतां निहन्तेत्यात्मान्यतो वरलिप्सून् हिरण्यः ॥ १३॥
दुर्गा तदा तान् भगवत्प्रचोदिता प्रस्वापयित्वा प्रचकर्ष कायात् ।
क्रमात् समावेशयदाशु देवकीगर्भाशये तान् न्यहनच्च कंसः ॥ १४॥
तदा मुनीन्द्रसंयुतः सदो विधातुरुत्तमम् ।
स पाण्डुराप्तुमैच्छत न्यवारयंश्च ते तदा ॥ १५॥
यधर्थमेव जायते पुमान् हि तस्य सोऽकृतेः ।
शुभां गतिं नतु व्रजेद् ध्रुवम् ततो न्यवारयन् ॥ १६॥
प्रधानदेवताजने नियोक्तुमात्मनः प्रियाम् ।
बभूव पाण्डुरेष तद् विना न तस्य सद्गतिः ॥ १७॥
अतोऽन्यथा सुतानृते व्रजन्ति सद्गतिं नराः ।
यथैव धर्मभूषणो जगाम सन्ध्यकासुतः ॥ १८॥
तदा कलिश्च राक्षसा बभूवुरिन्द्रजिन्मुखाः ।
विचित्रवीर्यनन्दनप्रियोदरे हि गर्भगाः ॥ १९॥
तदस्य सोऽनुजोऽशृणोन्मुनीन्द्रदूषितं च तत् ।
विचार्य तु प्रियामिदं जगाद वासुदेवधीः ॥ २०॥
य एव मद्गुणाधिकस्ततः सुतं समाप्नुहि ।
सुतं विना न नो गतिं शुभां वदन्ति साधवः ॥ २१॥
तदस्य कृच्छ्रतो वचः पृथाऽग्रहीज्जगाद च ।
ममास्ति देववश्यदो मनूत्तमः सुताप्तिदः ॥ २२॥
न ते सुरानृते समः सुरेषु केचिदेव च ।
अतस्तवाधिकं सुरं कमाह्वये त्वदाज्ञया ॥ २३॥
वरं समाश्रिता पतिं व्रजेत या ततोऽधमम् ।
न काचिदस्ति निष्कृतिर्न भर्तृलोकमृच्छति ॥ २४॥
कृते पुरा सुरास्तथा सुराङ्गनाश्च केवलम् ।
निमित्ततोऽपि ताः क्वचिन्न तान् विहाय मेनिरे ॥ २५॥
मनोवचःशरीरतो यतो हि ताः पतिव्रताः ।
अनादिकालतोऽभवंस्ततः सभर्तृकाः सदा ॥ २६॥
स्वभर्तृभिर्विमुक्तिगाः सहैव ता भवन्ति हि ।
कृतान्तमाप्य चाप्सरःस्त्रियो बभूवुरूर्जिताः ॥ २७॥
अनावृताश्च तास्तथा यथेष्टभर्तृकाः सदा ।
अतस्तु ता न भर्तृभिर्विमुक्तिमापुरुत्तमाम् ॥ २८॥
सुरस्त्रियोऽतिकारणैर्यदाऽन्यथा स्थितास्तदा ।
दुरन्वयात् सुदुःसहा विपत् ततो भविष्यति ॥ २९॥
अयुक्तमुक्तवांस्ततो भवांस्तथाऽपि ते वचः ।
अलङ्घ्यमेव मे ततो वदस्व पुत्रदं सुरम् ॥ ३०॥
इतीरितोऽब्रवीन्नृपो न धर्मतो विना भुवः ।
नृपोऽभिरक्षिता भवेत् तदाह्वयाऽशु तं विभुम् ॥ ३१॥
स धर्मजः सुधार्मिको भवेद्धि सूनुरुत्तमः ।
इतीरिते तया यमः समाहुतोऽगमद् द्रुतम् ॥ ३२॥
ततश्च सद्य एव सा सुषाव पुत्रमुत्तमम् ।
युधिष्ठिरं यमो हि स प्रपेद आत्मपुत्रताम् ॥ ३३॥
यमे सुते तु कुन्तितः प्रजात एव सौबली ।
अदँह्यतेर्ष्यया चिरं बभञ्ज गर्भमेव च ॥ ३४॥
स्वगर्भपातने कृते तया जगाम केशवः ।
पराशरात्मजो न्यधाद् घटेषु तान् विभागशः ॥ ३५॥
शतात्मना विभेदिताः शतं सुयोधनादयः ।
बभूवुरन्वहं ततः शतोत्तरा च दुःशळा ॥ ३६॥
स देवकार्यसिद्धये ररक्ष गर्भमीश्वरः ।
पराशरात्मजः प्रभुर्विचित्रवीर्यजोद्भवम् ॥ ३७॥
कलिः सुयोधनोऽजनि प्रभूतबाहुवीर्ययुक् ।
प्रधानवायुसन्निधेर्बलाधिकत्वमस्य तत् ॥ ३८॥
पुरा हि मेरुमूर्धनि त्रिविष्टपौकसां वचः ।
वसुन्धरातळोद्भवोन्मुखं श्रुतं दितेः सुतैः ॥ ३९॥
ततस्तु ते त्रिलोचनं तपोबलादतोषयन् ।
वृतश्च देवकण्टको ह्यवध्य एव सर्वतः ॥ ४०॥
वरादुमापतेस्ततः कलिः स देवकण्टकः ।
बभूव वज्रकाययुक् सुयोधनो महाबलः ॥ ४१॥
अवध्य एव सर्वतः सुयोधने समुत्थिते ।
घृताभिपूर्णकुम्भतः स इन्द्रजित् समुत्थितः ॥ ४२॥
स दुःखशासनोऽभवत् ततोऽतिकायसम्भवः ।
स वै विकर्ण उच्यते ततः खरोऽभवद् बली ॥ ४३॥
स चित्रसेननामकस्तथाऽपरे च राक्षसाः ।
बभूवुरुग्रपौरुषा विचित्रवीर्यजात्मजाः ॥ ४४॥
समस्तदोषरूपिणः शरीरिणो हि तेऽभवन् ।
मृषेति नामतो हि या बभूव दुःशळाऽसुरी ॥ ४५॥
कुहूप्रवेशसंयुता ययाऽऽर्जुनेर्वधाय हि ।
तपः कृतं त्रिशूलिने ततो हि साऽत्र जज्ञुषी ॥ ४६॥
तयोदितो हि सैन्धवो बभूव कारणं वधे ।
स कालकेयदानवस्तदर्थमास भूतळे ॥ ४७॥
तथाऽऽस निर्.हृथाभिधोऽनुजः स निर्.हृतेरभूत् ।
स नासिकामरुद्युतो युयुत्सुनामकः कृती ॥ ४८॥
स चाऽम्बिकेयवीर्यजः सुयोधनादनन्तरः ।
बभूव वैश्यकन्यकोदरोद्भवो हरिप्रियः ॥ ४९॥
युधिष्ठिरे जात उवाच पाण्डुर्बाह्वोर्बलाज्ज्ञानबलाच्च धर्मः ।
रक्ष्योऽन्यथा नाशमुपैति तस्माद् बलद्वयाढ्यं प्रसुवाऽशु पुत्रम् ॥ ५०॥
यज्ञाधिको ह्यश्वमेधो मनुष्यदृश्येषु तेजस्स्वधिको हि भास्करः ।
वर्णेषु विप्रः सकलैर्गुणैर्वरो देवेषु वायुः पुरुषोत्तमादृते ॥ ५१॥
विशेषतोऽप्येष पितैव मे प्रभुर्व्यासात्मना विष्णुरनन्तपौरुषः ।
अतश्च ते श्वशुरो नैव योग्यो दातुं पुत्रं वायुमुपैहि तत् प्रभुम् ॥ ५२॥
इतीरिते पृथयाऽऽहूतवायुसंस्पर्शमात्रादभवद् बलद्वये ।
समो जगत्यस्ति न यस्य कश्चिद् भक्तौ च विष्णोर्भगवद्वशः सुतः ॥ ५३॥
स वायुरेवाभवदत्र भीमनामा भृता माः सकला हि यस्मिन् ।
स विष्णुनेशेन युतः सदैव नाम्ना सेनो भीमसेनस्ततोऽसौ ॥ ५४॥
तज्जन्ममात्रेण धरा विदारिता शार्दूलभीताज्जननीकराद् यदा ।
पपात सञ्चूर्णित एव पर्वतस्तेनाखिलोऽसौ शतशृङ्गनामा ॥ ५५॥
तस्मिन् प्रजाते रुधिरं प्रसुस्रुवुर्महासुरा वाहनसैन्यसंयुताः ।
नृपाश्च तत्पक्षभवाः समस्तास्तदा भीता असुरा राक्षसाश्च ॥ ५६॥
अवर्द्धतात्रैव वृकोदरो वने मुदं सुराणामभितः प्रवर्द्धयन् ।
तदैव शेषो हरिणोदितोऽविशद् गर्भं सुताया अपि देवकस्य ॥ ५७॥
स तत्र मासत्रयमुष्य दुर्गयाऽपवाहितो रोहिणीगर्भमाशु ।
नियुक्तया केशवेनाथ तत्र स्थित्वा मासान् सप्त जातः पृथिव्याम् ॥ ५८॥
स नामतो बलदेवो बलाढ्यो बभूव तस्यानु जनार्दनः प्रभुः ।
आविर्बभूवाखिलसद्गुणैकपूर्णः सुतायामिह देवकस्य ॥ ५९॥
यः सत्सुखज्ञानबलैकदेहः समस्तदोषस्पर्शोज्झितः सदा ।
अव्यक्ततत्कार्यमयो न यस्य देहः कुतश्चित् क्वच स ह्यजो हरिः ॥ ६०॥
न शुक्लरक्तप्रभवोऽस्य कायस्तथाऽपि तत्पुत्रतयोच्यते मृषा ।
जनस्य मोहाय शरीरतोऽस्या यदाविरासीदमलस्वरूपः ॥ ६१॥
आविश्य पूर्वं वसुदेवमेव विवेश तस्मादृतुकाल एव ।
देवीमुवासात्र च सप्त मासान् सार्धांस्ततश्चाऽविरभूदजोऽपि ॥ ६२॥
यथा पुरा स्तम्भत आविरासीदशुक्लरक्तोऽपि नृसिंहरूपः ।
तथैव कृष्णोऽपि तथाऽपि मातापितृक्रमादेव विमोहयत्यजः ॥ ६३॥
पितृक्रमं मोहनार्थं समेति न तावता शुक्लतो रक्ततश्च ।
जातोऽस्य देहस्त्विति दर्शनाय सशङ्खचक्राब्जगदः स दृष्टः ॥ ६४॥
अनेकसूर्याभकिरीटयुक्तो विद्युत्प्रभे कुण्डले धारयंश्च ।
पीताम्बरो वनमाली स्वनन्तसूर्योरुदीप्तिर्ददृशे सुखार्णवः ॥ ६५॥
स कञ्चयोनिप्रमुखैः सुरैः स्तुतः पित्रा च मात्रा च जगाद शूरजम् ।
नयस्व मां नन्दगृहानिति स्म ततो बभूव द्विभुजो जनार्दनः ॥ ६६॥
तदैव जाता च हरेरनुज्ञया दुर्गाभिधा श्रीरनु नन्दपत्न्याम् ।
ततस्तमादाय हरिं ययौ स शूरात्मजो नन्दगृहान् निशीथे ॥ ६७॥
संस्थाप्य तं तत्र तथैव कन्यकामादाय तस्मात् स्वगृहं पुनर्ययौ ।
हत्वा स्वसुर्गर्भषट्कं क्रमेण मत्वाऽष्टमं तत्र जगाम कंसः ॥ ६८॥
गर्भं देवक्यां सप्तमं मेनिरे हि लोकाः सुतं त्वष्टमं तां ततः सः ।
मत्वा हन्तुं पादयोः सम्प्रगृह्य सम्पोथयामास शिलातळे च ॥ ६९॥
सा तद्धस्तात् क्षिप्रमुत्पत्य देवी खेऽदृश्यतैवाष्टभुजा समग्रा ।
ब्रह्मादिभिः पूज्यमाना समग्रैरत्यद्भुताकारवती हरिप्रिया ॥ ७०॥
उवाच चाऽर्या तव मृत्युरत्र क्वचित् प्रजातो हि वृथैव पाप ।
अनागसीं मां विनिहन्तुमिच्छस्यशक्यकार्ये तव चोद्यमोऽयम् ॥ ७१॥
उक्त्वेति कंसं पुनरेव देवकीतल्पेऽशयद् बालरूपैव दुर्गा ।
नाज्ञासिषुस्तामथ केचनात्र ऋते हि मातापितरौ गुणाढ्याम् ॥ ७२॥
श्रुत्वा तयोक्तं तु तदैव कंसः पश्चात्तापाद् वसुदेवं सभार्यम् ।
प्रसादयामास पुनःपुनश्च विहाय कोपं च तमूचतुस्तौ ।
सुखस्य दुःखस्य च राजसिंह नान्यः कर्ता वासुदेवादिति स्म ॥ ७३॥
आनीय कंसोऽथ गृहे स्वमन्त्रिणः प्रोवाच कन्यावचनं समस्तम् ।
श्रुत्वा च ते प्रोचुरत्यन्तपापाः कार्यं बालानां निधनं सर्वशोऽपि ॥ ७४॥
तथेति तांस्तत्र नियुज्य कंसो गृहं स्वकीयं प्रविवेश पापः ।
चेरुश्च ते बालवधे सदोद्यता हिंसाविहाराः सततं स्वभावतः ॥ ७५॥
अथ प्रभाते शयने शयानमपश्यतामब्जदलायताक्षम् ।
कृष्णं यशोदा च तथैव नन्द आनन्दसान्द्राकृतिमप्रमेयम् ॥ ७६॥
मेनात एतौ निजपुत्रमेनं स्रष्टारमब्जप्रभवस्य चेशम् ।
महोत्सवात् पूर्णमनाश्च नन्दो विप्रेभ्योऽदाल्लक्षमितास्तदा गाः ॥ ७७॥
सुवर्णरत्नाम्बरभूषणानां बहूनि गोजीविगणाधिनाथः ।
प्रादादथोपायनपाणयस्तं गोपा यशोदां च मुदा स्त्रियोऽगमन् ॥ ७८॥
गतेषु तत्रैव दिनेषु केषुचिज्जगाम कंसस्य गृहं स नन्दः ।
पूर्वं हि नन्दः स करं हि दातुं बृहद्वनान्निस्सृतः प्राप कृष्णाम् ॥ ७९॥
सहाऽगता तेन तदा यशोदा सुषाव दुर्गामथ तत्र शौरिः ।
निधाय कृष्णं प्रतिगृह्य कन्यकां गृहं ययौ नन्द उवास तत्र ॥ ८०॥
निरुष्य तस्मिन् यमुनातटे स मासं ययौ द्रष्टुकामो नरेन्द्रम् ।
राज्ञेऽथ तं दत्तकरं ददर्श शूरात्मजो वाक्यमुवाच चैनम् ॥ ८१॥
याह्युत्पाताः सन्ति तत्रेत्युदीरितो जगाम शीघ्रं यमुनां स नन्दः ।
रात्रावेवाऽगच्छमाने तु नन्दे कंसस्य धात्री तु जगाम गोष्ठम् ॥ ८२॥
सा पूतना नाम निजस्वरूपमाच्छाद्य रात्रौ शुभरूपवच्च ।
विवेश नन्दस्य गृहं बृहद्वनप्रान्ते हि मार्गे रचितं प्रयाणे ॥ ८३॥
तीरे भगिन्यास्तु यमस्य वस्त्रगृहे शयानं पुरुषोत्तमं तम् ।
जग्राह मात्रा तु यशोदया तया निद्रायुजा प्रेक्ष्यमाणा शुभेव ॥ ८४॥
तन्मायया धर्षिता निद्रया च न्यवारयन्नैव हि नन्दजाया ।
तया प्रदत्तं स्तनमीशिताऽसुभिः पपौ सहैवाऽशु जनार्दनः प्रभुः ॥ ८५॥
मृता स्वरूपेण सुभीषणेन पपात सा व्याप्य वनं समस्तम् ।
तदाऽऽगमन्नन्दगोपोऽपि तत्र दृष्ट्वा च सर्वेऽप्यभवन् सुविस्मिताः ॥ ८६॥
सा ताटका चोर्वशिसम्प्रविष्टा कृष्णावध्यानान्निरयं जगाम ।
सा तूर्वशी कृष्णभुक्तस्तनेन पूता स्वर्गं प्रययौ तत्क्षणेन ॥ ८७॥
सा तुम्बुरोः सङ्गत आविवेश रक्षस्तनुं शापतो वित्तपस्य ।
कृष्णस्पर्शाच्छुद्धरूपा पुनर्दिवं ययौ तुष्टे किमलभ्यं रमेशे ॥ ८८॥
यदाऽऽप देवश्चतुरः स मासांस्तदोपनिष्क्रामणमस्य चाऽसीत् ।
जन्मर्क्षमस्मिन् दिन एव चाऽसीत् प्रातः किञ्चित् तत्र महोत्सवोऽभवत् ॥ ८९॥
तदा शयानः शकटस्य सोऽधः पदाऽक्षिपत् तं दितिजं निहन्तुम् ।
अनः समाविश्य दितेः सुतोऽसौ स्थितः प्रतीपाय हरेः सुपापः ॥ ९०॥
क्षिप्तोऽनसिस्थः शकटाक्षनामा स विष्णुनेत्वा सहितः पपात ।
ममार चाऽशु प्रतिभग्नगात्रो व्यत्यस्तचक्राक्षमभूदनश्च ॥ ९१॥
ससम्भ्रमात् तं प्रतिगृह्य शङ्क्या कृष्णं यशोदा द्विजवर्यसूक्तिभिः ।
सा स्नापयामास नदीतटात् तदा समागता नन्दवचोऽभितर्जिता ॥ ९२॥
हत्वा तु तं कंसभृत्यं स कृष्णः शिश्ये पुनः शिशुवत् सर्वशास्ता ।
एवं गोपान् प्रीणयन् बालकेळीविनोदतो न्यवसत् तत्र देवः ॥ ९३॥
विवर्द्धमाने लोकदृष्ट्यैव कृष्णे पाण्डुः पुनः प्राह पृथामिदं वचः ।
धर्मिष्ठो नौ सूनुरग्रे बभूव बलद्वयज्येष्ठ उतापरश्च ॥ ९४॥
यदैक एवातिबलोपपन्नो भवेत् तदा तेन परावमर्दे ।
प्रवर्त्यमाने स्वपुरं हरेयुश्चौर्यात् परे तद् द्वयमत्र योग्यम् ॥ ९५॥
शस्त्रास्त्रविद् वीर्यवान् नौ सुतोऽन्यो भवेद् देवं तादृशमाह्वयातः ।
शेषस्तव भ्रातृसुतोऽभिजातस्तस्मान्नासौ सुतदानाय योग्यः ॥ ९६॥
नवै सुपर्णः सुतदो नरेषु प्रजायते वाऽस्य यतस्तथाऽऽज्ञा ।
कृता पुरा हरिणा शङ्करस्तु क्रोधात्मकः पालने नैव योग्यः ॥ ९७॥
अतो महेन्द्रो बलवाननन्तरस्तेषां समाह्वानमिहार्हति स्वराट् ।
इतीरिता साऽऽह्वयदाशु वासवं ततः प्रजज्ञे स्वयमेव शक्रः ॥ ९८॥
स चार्जुनो नाम नरांशयुक्तो विष्ण्वावेशी बलवानस्त्रवेत्ता ।
रूप्यन्यः स्यात् सूनुरित्युच्यमाना भर्त्रा कुन्ती नेति तं प्राह धर्मात् ॥ ९९॥
बृहस्पतिः पूर्वमभूद्धरेः पदं संसेवितुं पवनावेशयुक्तः ।
स उद्धवो नाम यदुप्रवीराज्जातो विद्वानुपगवनामधेयात् ॥ १००॥
द्रोणात्मकं नातितरां स्वसेवकं कुर्याद्धरिर्मामिति भूय एव ।
स उद्धवात्माऽवततार यादवेष्वासेवनार्थं पुरुषोत्तमस्य ॥ १०१॥
बृहस्पतेरेव स सर्वविद्या अवाप मन्त्री निपुणः सर्ववेत्ता ।
वर्षत्रये तत्परतः स सात्यकिर्जज्ञे दिने चेकितानश्च तस्मिन् ॥ १०२॥
मरुत्सु नाम प्रतिभो यदुष्वभूत् स चेकितानो हरिसेवनार्थम् ।
तदैव जातो हृदिकात्मजोऽपि वर्षत्रये तत्परतो युधिष्ठिरः ॥ १०३॥
ततोऽब्दतो भूभरसंहृतौ हरेरङ्गत्वमाप्तुं गिरिशोऽजनिष्ट ।
अश्वत्थामा नामतोऽश्वध्वनिं स यस्माच्चक्रे जायमानो महात्मा ॥ १०४॥
स सर्वविद् बलवानस्त्रवेत्ता कृपस्वसायां द्रोणवीर्योद्भवोऽभूत् ।
दुर्योधनस्तच्चतुर्थेऽह्नि जातस्तस्यापरेद्युर्भीमसेनः सुधीरः ॥ १०५॥
यदा स मासद्वितयी बभूव तदा रोहिण्यां बलदेवोऽभिजातः ।
बली गुणाढ्यः सर्ववेदी य एव सेवाखिन्नो लक्ष्मणोऽग्रे हरेर्भूत् ॥ १०६॥
यदा हि पुत्रान् विनिहन्तुमेतौ सहैव बद्धौ गतिशृङ्खलायाम् ।
कंसेनापापौ देवकीशूरपुत्रौ वियोजिताः शौरिभार्याः पराश्च ॥ १०७॥
विनिश्चयार्थं देवकीगर्भजानामन्या भार्या धृतगर्भाः स कंसः ।
स्थानान्तरे प्रसवो यावदासां संस्थापयामास सुपापबुद्धिः ॥ १०८॥
हेतोरेतस्माद् रोहिणी नन्दगेहे प्रसूत्यर्थं स्थापिता तेन देवी ।
लेभे पुत्रं गोकुले पूर्णचन्द्रकान्ताननं बलभद्रं सुशुभ्रम् ॥ १०९॥
यदा त्रिमासः स बभूव देवस्तदाऽऽविरासीत् पुरुषोत्तमोऽजः ।
कृष्णशेषावाप्तुकामौ सुतौ हि तपश्चक्राते देवकीशूरपुत्रौ ॥ ११०॥
विष्ण्वावेशी बलवान् यो गुणाधिकः स मे सुतः स्यादिति रोहिणी च ।
तेपे तपोऽतो हरिशुक्लकेशयुतः शेषो देवकीरोहिणीजः ॥ १११॥
अवर्द्धतासौ हरिशुक्लकेशसमावेशी गोकुले रौहिणेयः ।
कृष्णोऽपि लीला लळिताः प्रदर्शयन् बलद्वितीयो रमयामास गोष्ठम् ॥ ११२॥
स प्राकृतं शिशुमात्मनमुच्चैर्विजानन्त्या मातुरादर्शनाय ।
विजृम्भमाणोऽखिलमात्मसंस्थं प्रदर्शयामास कदाचिदीशः ॥ ११३॥
साऽण्डं महाभूतमनोऽभिमानमहत्प्रकृत्यावृतमब्जजादिभिः ।
सुरैः शिवेतैर्नरदैत्यसङ्घैर्युतं ददर्शास्य तनौ यशोदा ॥ ११४॥
न्यमीलयच्चाक्षिणी भीतभीता जुगूह चाऽत्मानमथो रमेशः ।
वपुः स्वकीयं सुखचित्स्वरूपं पूर्णं सत्सु ज्ञापयंस्तद्ध्यदर्शयत् ॥ ११५॥
कदाचित् तं लाळयन्ती यशोदा वोढुं नाशक्नोद् भूरिभाराधिकार्ता ।
निधाय तं भूमितळे स्वकर्म यदा चक्रे दैत्य आगात् सुघोरः ॥ ११६॥
तृणावर्तो नामतः कंसभृत्यः सृष्ट्वाऽत्युग्रं चक्रवातः शिशुं तम् ।
आदायाऽयादन्तरिक्षं स तेन शस्तः कण्ठग्राहसंरुद्धवायुः ॥ ११७॥
पपात कृष्णेन हतः शिलातळे तृणावर्तः पर्वतोदग्रदेहः ।
सुविस्मयं चाऽपुरथो जनास्ते तृणावर्तं वीक्ष्य सञ्चूर्णिताङ्गम् ॥ ११८॥
अक्रुद्ध्यतां केशवोऽनुग्रहाय शुभं स्वयोग्यादधिकं निहन्तुम् ।
स क्रुद्ध्यतां नवनीतादि मृष्णंश्चचार देवो निजसत्सुखाम्बुधिः ॥ ११९॥
यस्मिन्नब्दे भाद्रपदे स मासे सिंहस्थयोर्गुरुरव्योः परेशः ।
उदैत् ततः फाल्गुने फल्गुनोऽभूद् गते ततो माद्रवती बभाषे ॥ १२०॥
जाताः सुतास्ते प्रवराः पृथायामेकाऽनपत्याऽहमतः प्रसादात् ।
तवैव भूयासमहं सुतेता विधत्स्व कुन्तीं मम मन्त्रदात्रीम् ॥ १२१॥
इतीरितः प्राह पृथां स माद्र्यै दिशस्व मन्त्रं सुतदं वरिष्ठम् ।
इत्यूचिवांसं पतिमाह यादवी दद्यां त्वदर्थे तु सकृत्फलाय ॥ १२२॥
उवाच माद्र्यै सुतदं मनुं च पुनः फलं ते न भविष्यतीति ।
मन्त्रं समादाय च मद्रपुत्री व्यचिन्तयत् स्यां नु कथं द्विपुत्रा ॥ १२३॥
सदाऽवियोगो दिविजेषु दस्रौ नचैतयोर्नामभेदः क्वचिद्धि।
एका भार्या सैतयोरप्युषा हि तदायातः सकृदावर्तनाद् द्वौ ॥ १२४॥
इतीक्षन्त्याऽऽकारितावश्विनौ तौ शीघ्रप्राप्तौ पुत्रकौ तत्प्रसूतौ ।
तावेव देवौ नकुलः पूर्वजातः सहदेवोऽभूत् पश्चिमस्तौ यमौ च ॥ १२५॥
पुनर्मनोः फलवत्त्वाय माद्री सम्प्रार्थयामास पतिं तदुक्ता ।
पृथाऽवादीत् कुटिलैषा मदाज्ञामृते देवावाह्वयामास दस्रौ ॥ १२६॥
अतो विरोधं च मदात्मजानां कुर्यादेषेत्येव भीतां न मां त्वम् ।
नियोक्तुमर्हः पुनरेव राजन्नितीरितोऽसौ विरराम क्षितीशः ॥ १२७॥
विशेषनाम्नैव समाहुतः सुतान् दद्युः सुरा इत्यविशेषितं ययोः ।
विशेषनामापि समाह्वयत् तौ मन्त्रावृत्तिर्नामभेदेऽस्य चोक्ता ॥ १२८॥
युधिष्ठिराद्येषु चतुर्षु वायुः समाविष्टः फल्गुनेऽथो विशेषात् ।
युधिष्ठिरे सौम्यरूपेण विष्टो वीरेण रूपेण धनञ्जयेऽसौ ॥ १२९॥
शृङ्गाररूपं केवलं दर्शयानो विवेश वायुर्यमजौ प्रधानः ।
शृङ्गारकैवल्यमभीप्समानः पाण्डुर्हि पुत्रं चकमे चतुर्थम् ॥ १३०॥
शृङ्गाररूपो नकुले विशेषात् सुनीतिरूपः सहदेवं विवेश ।
गुणैः समस्तैः स्वयमेव वायुर्बभूव भीमो जगदान्तरात्मा ॥ १३१॥
सुपुल्लवाकारतनुर्हि कोमळः प्रायो जनैः प्रोच्यते रूपशाली ।
ततः सुजातं वरवज्रकायौ भीमार्जुनावप्यृते पाण्डुरैच्छत् ॥ १३२॥
अप्राकृतानां तु मनोहरं यद् रूपं द्वात्रिंशल्लक्षणोपेतमग्र्यम् ।
तन्मारुतो नकुले कोमळाभ एवं वायुः पञ्चरूपोऽत्र चाऽसीत् ॥ १३३॥
अतीतेन्द्रा एव ते विष्णुषष्ठाः पूर्वेन्द्रोऽसौ यज्ञनामा रमेशः ।
स वै कृष्णो वायुरथ द्वितीयः स भीमसेनो धर्म आसीत् तृतीयः ॥ १३४॥
युधिष्ठिरोऽसावथ नासत्यदस्रौ क्रमात् तावेतौ माद्रवतीसुतौ च ।
पुरन्दरः षष्ठ उतात्र सप्तमः स एवैकः फल्गुनो ह्येत इन्द्राः ॥ १३५॥
क्रमात् संस्कारान् क्षत्रियाणामवाप्य तेऽवर्द्धन्त स्वतवसो महित्वना ।
सर्वे सर्वज्ञाः सर्वधर्मोपपन्नाः सर्वे भक्ताः केशवेऽत्यन्तयुक्ताः ॥ १३६॥