नारायणानुग्रहतो यथावन्निस्तीर्य तान् द्वादशाब्दान् वने ते

त्रयोविंशोऽध्यायः
सर्वशास्त्रतात्पर्यनिर्णयः

औं ॥ नारायणानुग्रहतो यथावन्निस्तीर्य तान् द्वादशाब्दान् वने ते ।

विसृज्य च ब्राह्मणादीन् सधौम्यानज्ञातवासाय ततो मनो दधुः ॥ १॥

गत्वा विराटस्य पुरीं निधाय हेतीः शम्यां छन्नरूपा बभूवुः ।

यतिः सूदः षण्ढवेषोऽश्वसूतवेषो गोपो गन्धकर्त्री च जाताः ॥ २॥

सर्वे विराटं ययुरत्र देववत् सम्भावितास्तेन शुभोरुलक्षणाः ।

युधिष्ठिरस्यैव शुश्रूषणं ते चक्रुर्हृदा वासुदेवस्य नान्यत् ॥ ३॥

परपाको गृहस्थस्य क्षत्रियस्य विशेषतः ।

न योग्य इति सूदस्य बभ्रे वेषं वृकोदरः ॥ ४॥

वैदिकव्यवहारेषु ज्ञानाधिक्यप्रसिद्धितः ।

जानीयुर्भीम इत्येव शूद्रवेषस्ततोऽभवत् ॥ ५॥

स्वीयं वेदविदां सर्वं देवेशानां च किं पुनः ।

अतस्तेऽन्याश्रयं नैव चक्रुः स्वबलसंश्रयात् ॥ ६॥

शापादेवार्जुनः षण्ढवेषोऽभून्नकुलस्तथा ।

क्षत्रियानन्तरत्वात्तु सूतजातेस्तथाऽभवत् ॥ ७॥

सूतस्यानन्तरत्वात्तु वैश्यजातेस्तथाऽभवत् ।

सहदेवो वैश्यजातिर्गोपालस्तेषु चोत्तमः ।

ततो गोपालतामाप यतिः पूज्योऽखिलैर्यतः ॥ ८॥

यतिरासीद् धर्मजोऽतः सोऽभ्यासार्थं सदैव च ।

अक्षासक्तोऽभवत् पश्चाद् दर्शयिष्यन् स्वशिष्टताम् ॥ ९॥

भीमसेनसधर्मार्थं शूद्रा सैरन्ध्रिकाऽभवत् ।

द्रौपदी भर्तृसाधर्म्यं स्त्रीणां धर्मो यतः सदा ॥ १०॥

अथाऽजगाम मल्लकः समस्तभूमिमण्डले ।

वरेण योऽजितो जयी शिवस्य सञ्जगर्ज च ॥ ११॥

तमीक्ष्य सर्वमल्लका विराटराजसंश्रयाः ।

प्रदुद्रुवुर्भयार्दितास्तदाऽवदद् युधिष्ठिरः ॥ १२॥

य एष सूद आशु तं निहत्य मल्लमोजसा ।

यशस्तवाभिवर्द्धयेत् समाह्वयाद्य तं नृप ॥ १३॥

इतीरिते समाहुतो जगाद मारुतिर्वचः ।

प्रसादतो हरेरहं निसूदयेऽद्य मल्लकम् ॥ १४॥

समस्तदेववृन्दतो महान् य एव केशवः ।

समस्तदेवनामवांस्तदीयभक्तितो बलम् ॥ १५॥

य एव देवनामधा इति श्रुतिर्जगाद हि ।

महांश्च देव एष तत् स मे जयं विधास्यति ॥ १६॥

युधिष्ठिराभिधश्च यो युधिष्ठिरे स्थितः सदा ।

त्वयि स्थितस्त्वमित्यसौ सदाऽभिधीयते हरिः ॥ १७॥

इति ब्रुवाणो मल्लं तमभियातो वृकोदरः ।

अनयन्मृत्युलोकाय बलाढ्यैरपि दुर्जयम् ॥ १८॥

एवं निवसतां तत्र पाण्डवानां महात्मनाम् ।

संवत्सरे द्विमासोने विजित्य दिश आगतः ।

कीचको मत्स्यनृपतेः स्यालो बलवतां वरः ॥ १९॥

स द्रौपदीमीक्ष्य मनोभवार्तः सम्प्रार्थयामास तया निरस्तः ।

मासे गते भगिनीं स्वां सुदेष्णां सम्प्रार्थयामास तदर्थमेव ॥ २०॥

तया निषिद्धोऽपि पुनःपुनस्तां यदा ययाचेऽथ च साऽऽह कृष्णाम् ।

समानयाऽश्वेव सुरां मदर्थमितीरिता नेति भीताऽवदत् सा ॥ २१॥

बलात् तया प्रेषिता तद्गृहाय यदाऽगमत् तेन हस्ते गृहीता ।

विधूय तं प्राद्रवत् सा सभायै स्मृत्वाऽऽदित्यस्थं वासुदेवं परेशम् ॥ २२॥

अनुद्रुत्यैतां पातयित्वा पदा स सन्ताडयामास तदा रविस्थितः ।

नारायणो हेतिनामैव रक्षो न्ययोजयत् तददृश्यं समागात् ॥ २३॥

वायुस्तमाविश्य तु कीचकं तं न्यपातयत् तां समीक्ष्यैव भीमः ।

चुकोप वृक्षं च समीक्षमाणं तं वारयामास युधिष्ठिरोऽग्रजः ॥ २४॥

कृष्णा रात्रौ भीमसकाशमेत्य हन्तुं पापं कीचकं प्रैरयत् तम् ।

भीमस्य बुद्ध्या निशि सा कीचकं च जगाद गन्तुं शून्यगृहं स चागात् ॥ २५॥

तत्रैनमासाद्य तु भीमसेनो विजित्य तं बाहुयुद्धे निहत्य ।

शिरो गुदे पाणिपादौ च तस्य प्रवेशयामास विमृद्य वीरः ॥ २६॥

अवध्यं तं निहतं वीक्ष्य तस्य पञ्चोत्तरं शतमेवानुजानाम् ।

सर्वं वराच्छङ्करस्य ह्यवध्यं सहैव कृष्णां तेन दग्धुं बबन्ध ॥ २७॥

सा नीयमाना कीचकैः संरुराव श्रुत्वैव तं भीमसेनो महान्तम् ।

उद्धृत्य वृक्षं तेन जघान सर्वानादाय कृष्णां पुनरागात् पुरं च ॥ २८॥

एवं यत्नात् तपसा तैरवाप्तो वरः शिवादजयत्वं रणेषु ।

अवध्यता चैव षडुत्तरास्ते शतं हता भीमसेनेन सङ्खे ॥ २९॥

गन्धर्व इत्येव निहत्य सर्वान् मुमोद भीमो द्रौपदी चाऽथ कृष्णाम् ।

याहीत्यूचे तां सुदेष्णा भयेन त्रयोदशाहं पालयेत्याह तां सा ।

अस्त्वित्येनामाह भयात् सुदेष्णा तथाऽवसन् पूर्णमब्दं च तेऽत्र ॥ ३०॥

तदा पार्थान् प्रविचिन्त्याखिलायां पृथ्व्यां छन्नान् धार्तराष्ट्रस्य दूताः ।

अविज्ञाय प्रययुर्धार्तराष्ट्रमूचुर्हतं कीचकं योषिदर्थे ॥ ३१॥

तेनावदद् द्रौपदीकारणेन दुर्योधनो निहतं कीचकं तम् ।

भीमेनागुस्तत्र दुर्योधनाद्या भीष्मादिभिः सह कर्णेन चैव ॥ ३२॥

अग्रे ययौ तत्र योद्धुं सुशर्मा स गा विराटस्य समाजहार ।

श्रुत्वा विराटोऽनुययौ ससेनस्तं पाण्डवाश्चानुययुर्विनाऽर्जुनम् ॥ ३३॥

विजित्य सङ्खे जगृहे विराटं तदा सुशर्मा तमयाद् वृकोदरः ।

स तस्य सेनां विनिहत्य मात्स्यं विमोच्य जग्राह सुशर्मराजम् ।

युधिष्ठिरो मोचयामास तं च ततो रात्रौ न्यवसन् बाह्यतस्ते ॥ ३४॥

ततोऽपरदिने सर्वे भीष्मद्रोणपुरस्सराः ।

रहितं कीचकैर्मात्स्यं शक्यं मत्वाऽभिनिर्ययुः ॥ ३५॥

कीचकस्य हिडिम्बस्य बककिर्मीरयोरपि ।

जरासन्धस्य नृपतेः कंसादीनां च सर्वशः ॥ ३६॥

न बाधनाय भीष्माद्या अपि शेकुः कथञ्चन ।

तस्मात् ते कीचकं शान्तं श्रुत्वा मात्स्यं ययुर्युधे ॥ ३७॥

यतिष्ये रक्षितुं भीमाद् धार्तराष्ट्रानिति स्वकाम् ।

सत्यां कर्तुं प्रतिज्ञां तु ययौ द्रोणः सपुत्रकः ॥ ३८॥

यदि युद्धाय निर्यान्ति ज्ञाताः स्युः पाण्डवास्तदा ।

न चेद् विराटमनतं नमयिष्यामहे वयम् ।

इति मत्वा विराटस्य जगृहुर्गाः समन्ततः ॥ ३९॥

तदोत्तरः सारथित्वे प्रकल्प्य पार्थं ययौ तान् निशाम्यैव भीतः ।

ततोऽर्जुनः सारथिं तं विधाय कृच्छ्रेण संस्थाप्य च तं ययौ कुरून् ॥ ४०॥

आदाय गाण्डीवमथ ध्वजं च हनूमदङ्कं सदरोऽग्रतो गाः ।

निवर्त्य युद्धाय ययौ कुरूंस्तान् जिग्ये सर्वान् द्वैरथेनैव सक्तान् ॥ ४१॥

एकीभूतान् पुनरेवानुयातान् सम्मोहनास्त्रेण विमोहयित्वा ।

जग्राह तेषामुत्तरीयाण्यृते तु भीष्मस्य वेदास्त्रघातं स एव ॥ ४२॥

विधाय भीष्मं विरथं जगाम तदा श्रुत्वा मत्स्यपतिर्जितान् कुरून् ।

मुमोद पुत्रेण जिता इति स्म तदाऽऽह षण्ढेन जितान् युधिष्ठिरः ॥ ४३॥

तदा क्रुद्धः प्राहरत् तं विराटः सोऽक्षेण तद् भीमधनञ्जयाभ्याम् ।

श्रुतं तदा कुपितौ तौ निशाम्य न्यवारयत् तावपि धर्मसूनुः ॥ ४४॥

निजस्वरूपेण समास्थितान् नो यदि स्म नासौ प्रणिपातपूर्वकम् ।

क्षमापयेद् वध्य इत्यात्मरूपं समास्थितास्तस्थुरथापरे दिने ॥ ४५॥

तदा विराटासनमास्थितं नृपं युधिष्ठिरं वीक्ष्य विराट आह ।

किमेतदित्यूचिवानुत्तरोऽस्मै तान् पाण्डवान् गोग्रहणे च वृत्तम् ॥ ४६॥

ततो विराटो भयकम्पिताङ्गः प्रणम्य पार्थाञ्छरणं जगाम ।

ददौ च कन्यामुत्तरां फल्गुनाय पुत्रार्थमेव प्रतिजग्राह सोऽपि ॥ ४७॥

एवं विराटं मोचयित्वैव गाश्च तमस्यन्धे कीचकान् पातयित्वा ।

प्राप्तो धर्मः सुमहान् वायुजेन तस्यानु पार्थेन च गोविमोक्षणात् ॥ ४८॥

अयातयन् केशवायाथ दूतान् सहाभिमन्युः सोऽपि रामेण सार्द्धम् ।

आगादनन्तानन्दचिद् वासुदेवो विवाहयामासुरथाभिमन्युम् ॥ ४९॥

आसीन्महानुत्सवस्तत्र तेषां दशार्हवीरैः सह पाण्डवानाम् ।

स पाञ्चालानां वासुदेवेन सार्द्धमज्ञातवासं समतीत्य मोदताम् ॥ ५०॥

दुर्योधनाद्याः सूतपुत्रेण सार्द्धं ससौबलेया युधि पार्थपीडिताः ।

भीष्मादिभिः सार्द्धमुपेत्य नागपुरं मन्त्रं मन्त्रयामासुरत्र ॥ ५१॥

अज्ञातवासे फल्गुनो नोऽद्य दृष्टस्तस्मात् पुनर्यान्तु पार्था वनाय ।

इति ब्रुवाणानाह भीष्मोऽभ्यतीतमज्ञातवासं द्रोण आहैवमेव ॥ ५२॥

तयोर्वाक्यं ते त्वनादृत्य पापा वनं पार्थाः पुनरेव प्रयान्तु ।

इति दूतं प्रेषयामासुरत्र जानन्ति विप्रा इति धर्मजोऽवदत् ॥ ५३॥

सौरमासानुसारेण धार्तराष्ट्रा अपूर्णताम् ।

आहुश्चान्द्रेण मासेन पूर्णः कालोऽखिलोऽप्यसौ ॥ ५४॥

दिनानामधिपः सूर्यः पक्षमासाब्दपः शशी ।

तस्मात् सौम्याब्दमेवात्र मुख्यमाहुर्मनीषिणः ।

सौम्यं कालं ततो यज्ञे गृह्णन्ति नतु सूर्यजम् ॥ ५५॥

तदेतदविचार्यैव लोभाच्च धृतराष्ट्रजैः ।

राज्यं न दत्तं पार्थेभ्यः पार्थाः कालस्य पूर्णताम् ।

ख्यापयन्तो विप्रवरैरुपप्लाव्यमुपाययुः ॥ ५६॥

सुवासुदेवा अखिलैश्च यादवैः पाञ्चालमत्स्यैश्च युताः सभार्याः ।

उपप्लाव्ये ते कतिचिद् दिनानि वासं चक्रुः कृष्णसंशिक्षितार्थाः ॥ ५७॥

{इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते}

{श्रीमहाभारततात्पर्यनिर्णये}

{अज्ञातवाससमाप्तिर्नाम त्रयोविंशोऽध्यायः}