आगन्तुकामान् पुरवासिनस्ते संस्थाप्य कृच्छ्रेण कुरुप्रवीराः
द्वाविंशोऽध्यायः
सर्वशास्त्रतात्पर्यनिर्णयः
औं ॥ आगन्तुकामान् पुरवासिनस्ते संस्थाप्य कृच्छ्रेण कुरुप्रवीराः ।
रात्रौ प्रविष्टा गहनं वनं च किर्मीरमासेदुरथो नराशम् ॥ १॥
बकानुजोऽसौ निखिलैरजेयो वराद् गिरीशस्य निहन्तुकामः ।
सदारसोदर्यमभिप्रसस्रे भीमं महावृक्षगिरीन् प्रमुञ्चन् ॥ २॥
स सम्प्रहारं सह तेन कृत्वा भीमो निपात्याऽशु धरातळे तम् ।
चक्रे मखे सङ्गरनामेधेये प्रसँह्य नारायणदैवते पशुम् ॥ ३॥
निहत्य रक्षो वनमध्यसंस्थास्तदा यतीनामयुतैः समेताः ।
अशीतिसाहस्रमुनिप्रवीरैर्दशांशयुक्तैः सहिता व्यचिन्तयन् ॥ ४॥
विचिन्त्य तेषां भरणाय धर्मजः सम्पूज्य सूर्यस्थितमच्युतं प्रभुम् ।
दिनेऽक्षयान्नं पिठरं तदाप रत्नादिदं कामवरान्नदं च ॥ ५॥
बभार तेनैव युधिष्ठिरस्तान् प्रत्येकशस्त्रिंशतदासिदासकान् ।
सुवर्णपात्रेषु हि भुञ्जते ये गृहे तदीये बहुकोटिदासिके ॥ ६॥
सत्सङ्गमाकाङ्क्षिण एव तेऽवसन् पार्थैः सहान्ये च मुनीन्द्रवृन्दाः ।
शृण्वन्त एभ्यः परमार्थसाराः कथा वदन्तश्च पुरातनास्तथा ॥ ७॥
एवं गजानां बहुकोटिवृन्दांस्तथा रथानां च हयांश्च वृन्दशः ।
विसृज्य रत्नानि नरांश्च वृन्दशो वने विजह्रुर्दिवि देववत् सुखम् ॥ ८॥
गवां च लक्षं प्रददाति नित्यशः सुवर्णभारांश्च शतं युधिष्ठिरः ।
सभ्रातृकोऽसौ वनमाप्य शक्रवन्मुमोद विप्रैः सहितो यथासुखम् ॥ ९॥
पार्थेषु यातेषु किमत्र कार्यमिति स्म पृष्टो विदुरोऽग्रजेन ।
आहूय राज्यं प्रतिपादयेति प्राहैनमाहाथ रुषाऽम्बिकेयः ॥ १०॥
ज्ञानं प्रतीपोऽसि ममाऽत्मजानां न मे त्वया कार्यमिहास्ति किञ्चित् ।
यथेष्टस्तिष्ठ वा गच्छ वेति प्रोक्तो ययौ विदुरः पाण्डुपुत्रान् ॥ ११॥
तस्मिन् गते भ्रातृवियोगकर्शितः पपात भूमौ सहसैव राजा ।
सञ्ज्ञामवाप्याऽदिशदाशु सञ्जयं जीवामि चेदाशु ममाऽनयानुजम् ॥ १२॥
इतीरितः सञ्जयः पाण्डवेयान् प्राप्याऽनयद् विदुरं शीघ्रमेव ।
सोऽप्यागतः क्षिप्रमपास्तदोषो ज्येष्ठं ववन्देऽथ स चैनमाश्लिषत् ॥ १३॥
अङ्कं समारोप्य स मूर्ध्नि चैनमाघ्राय लेभे परमां मुदं तदा ।
क्षत्तारमायान्तमुदीक्ष्य सर्वे ससौबला धार्तराष्ट्रा अमर्षात् ।
सम्मन्त्र्य हन्तुं पाण्डवानामुतैकं छन्नोपधेनैव ससूतजा ययुः ॥ १४॥
विज्ञाय तेषां गमनं समस्तलोकान्तरात्मा परमेश्वरेश्वरः ।
व्यासोऽभिगम्यावददाम्बिकेयं निवारयाऽश्वेव सुतं तवेति ॥ १५॥
अवाप्य पार्थानयमद्य मृत्युं सहानुबन्धो गमिता ह्यसंशयम् ।
इतीरिते तेन निवारयेति प्रोक्तो हरिः प्राह न संवदे तैः ॥ १६॥
मैत्रेय आयास्यति सोऽपि वाचं शिक्षार्थमेतेष्वभिधास्यतीह ।
तां चेत् करोत्येष सुतस्तवास्य भद्रं तदा स्याच्छप्स्यति त्वन्यथा सः ॥ १७॥
उक्त्वेति राजानमनन्तशक्तिर्व्यासो ययौ तत्र गतेषु तेषु ।
सुयोधनाद्येषु हतेषु पार्थैर्भूभारहानिर्न भवेदिति प्रभुः ॥ १८॥
सर्वाश्च चेष्टा भगवन्नियुक्ताः सदा समस्तस्य चितोऽचितश्च ।
तथाऽपि विष्णुर्विनिवारयेत् क्वचिद् वाचा विधत्ते च जनान् विडम्बयन् ॥ १९॥
मैत्रेय आगादथ भूपतिश्च पुत्रान् समाहूय सकर्णसौबलान् ।
सम्पूजयामास मुनिं स चाऽह दातुं राज्यं पाण्डवान् सम्प्रशंसन् ॥ २०॥
विशेषतो भीमबलं शशंस किर्मीरनाशादि वदन् मुनीन्द्रः ।
श्रुत्वाऽसहंस्तद् धृतराष्ट्रपुत्र आस्फालयामास निजोरुमुग्रः ॥ २१॥
शशाप चैनं मुनिरुग्रतेजास्तवोरुभेदाय भवेत् सुयुद्धम् ।
इत्यूचिवान् धृतराष्ट्रानतोऽपि ययौ न चेद् राज्यदस्त्वं तथेति ।
श्रुत्वा तु किर्मीरवधं स्वपित्रा पृष्टक्षत्रोक्तं सोऽत्रसद् धार्तराष्ट्रः ॥ २२॥
वने वसन्तोऽथ पृथासुतास्ते वार्तां स्वकीयां प्रापयामासुराशु ।
कृष्णे सोऽपि द्रुतमायात् ससत्यः सम्बन्धिनो ये च पाञ्चालमुख्याः ॥ २३॥
क्रुद्धं कृष्णं धार्तराष्ट्राय पार्थाः क्षमापयामासुरुच्चैर्गृणन्तः ।
गुणांस्तदीयानमितान् प्रणम्य तदा रुदन्ती द्रौपदी चाऽप पादौ ।
सा पादयोः पतिता वासुदेवमस्तौत् समस्तप्रभुमात्मतन्त्रम् ॥ २४॥
अचिन्त्य नित्याव्यय पूर्णसद्गुणार्णवैकदेहाखिलदोषदूर ।
रमाब्जजेशेरसुरेन्द्रपूर्ववृन्दारकाणां सतताभिवन्द्य ।
समस्तचेष्टाप्रद सर्वजीवप्रभो विमुक्ताश्रय सर्वसार ॥ २५॥
इति ब्रुवन्ती सकलानुभूतं जगाद सर्वेशितुरच्युतस्य ।
यस्याधिकानुग्रहपात्रभूता स्वयं हि शेषेशविपादिकेभ्यः ॥ २६॥
श्रुत्वा समस्तं भगवान् प्रतिज्ञां चकार तेषामखिलाश्च योषाः ।
पतीन् समालिङ्ग्य विमुक्तकेश्यान् भीमाहतान् दर्शये नान्यथेति ।
तां सान्त्वयित्वा मधुरैः सुवाक्यैर्नारायणो वाचमिमां जगाद ॥ २७॥
यदीहाहं स्थितो नैवं भविताऽहं त्वयोधयम् ।
साल्वराजं दुरात्मानं हतश्चासौ सुपापकृत् ॥ २८॥
सन्निधानेऽथ दूरे वा कालव्यवहितेऽपि वा ।
स्वभावाद् वा व्यवहिते वस्तुव्यवहितेऽपि वा ।
नाशक्तिर्विद्यते विष्णोर्नित्याव्यवहितत्वतः ॥ २९॥
तथाऽपि नरलोकस्य करोत्यनुकृतिं प्रभुः ।
दुष्टानां दोषवृद्ध्यर्थं भीमादीनां गुणोन्नतेः ॥ ३०॥
युधिष्ठिरेऽतिवृद्धं तु राजसूयादिसम्भवम् ।
धर्मं च सङ्क्रामयितुं कृष्णायामनुजेषु च ॥ ३१॥
योग्यताक्रमतो विष्णुरिच्छयेत्थमचीक्लृपत् ।
एधमानद्विळित्येव विष्णोर्नाम हि वैदिकम् ॥ ३२॥
स्वयोग्यताया अधिकधर्मज्ञानादिजं फलम् ।
भीष्मद्रोणाम्बिकेयादेः पार्थेष्वेव निधापितुम् ॥ ३३॥
पुनश्च पापवृद्ध्यर्थमजो दुर्योधनादिषु ।
व्यासोऽम्बिकासुतं प्राह पार्था मेऽभ्यधिकं प्रियाः ।
तेषां प्रवासनं चैव प्रियं न मम सर्वथा ॥ ३४॥
इति दुर्योधनादीनां पापवृद्ध्यर्थमेव सः ।
प्रिया इत्येव कथनात् पाण्डवानां शुभोन्नतेः ॥ ३५॥
गुरुत्वाद् भीमसेनस्य क्षमा द्यूतेऽर्जुनादिनाम् ।
नातिधर्मस्वरूपोऽत्र धर्मो भीमे निरौपधः ॥ ३६॥
द्रौपद्या अप्यतिक्लेशात् क्षमा धर्मो महानभूत् ।
सा हि भीममनो वेद न कार्यः शाप इत्यलम् ॥ ३७॥
तस्माद् यथायोग्यतया हरिणा धर्मवर्द्धनम् ।
कृतं तत्रासन्निधानकारणं केशवोऽब्रवीत् ॥ ३८॥
साल्वं श्रुत्वा समायातं रौग्मिणेयादयो मया ।
प्रस्थापिता हि भवतां सकाशात् ते ययुः पुरीम् ।
तदा साल्वोऽपि सौभेन द्वारकामर्दयद् भृशम् ॥ ३९॥
प्रद्युम्न आशु निरगादथ सर्वसैन्यैरन्यैश्च यादवगणैः सहितोऽनुजैश्च ।
साल्वोऽवगम्य तनयं मम तद्विमानात् पापोऽवरुह्य रथमारुहदत्र योद्धुम् ॥ ४०॥
कृत्वा सुयुद्धममुना मम पुत्रकोऽसावस्त्राणि तस्य विनिवार्य महास्त्रजालैः ।
दत्तं मया शरममोघमथाऽददे तं हन्तुं नृपं कृतमतिस्त्वशृणोद् वचः खे ॥ ४१॥
नारायणेन हि पुरा मनसाऽभिक्लृप्तं कृष्णावतारमुपगम्य निहन्मि साल्वम् ।
इत्येव तेन हरिणाऽपि स भार्गवेण विद्रावितो न निहतः स्वमनोनुसारात् ॥ ४२॥
वध्यस्त्वया नहि ततोऽयमयं च बाणश्चक्रायुधस्य दयितो नितराममोघः ।
मा मुञ्च तेन तमिमं विनिवर्तयेऽहं साल्वं हृदि स्थित इतीरितमीरणेन ॥ ४३॥
श्रुत्वा वचः स पवनस्य शरं त्वमोघं सञ्जह्र आशु स च साल्वपतिः स्वसौभम् ।
आरुह्य बालकलहेन किमत्र कार्यं कृष्णेन सङ्गर इति प्रययौ स्वदेशम् ॥ ४४॥
प्रद्युम्नसाम्बगदसारणचारुदेष्णाः सेनां निहत्य सह मन्त्रिगणैस्तदीयाम् ।
आह्लादिनः स्वपुरमाययुरप्यहं च तत्रागमं सपदि तैः श्रुतवानशेषम् ॥ ४५॥
यस्मिञ्छरे करगते विजयो ध्रुवः स्यान्मत्तेजसा तदनुसङ्ग्रहणात् सुतान्मे ।
यातं निशम्य रिपुमात्मपुरीं च भग्नां दृष्ट्वैव तेन तदनुब्रजनं कृतं मे ॥ ४६॥
तं सागरोपरिगसौभगतं निशाम्य मुक्ते च तेन मयि शस्त्रमहास्त्रवर्षे ।
तं सन्निवार्य तु मया शरपूगविद्धो माया युयोज मयि पापतमः स साल्वः ॥ ४७॥
ताः क्रीडया क्षणमहं समरे निशाम्य ज्ञानास्त्रतः प्रतिविधूय बहूंश्च दैत्यान् ।
हत्वाऽऽशु तं च गिरिवर्षिणमाशु सौभं वार्धौ न्यपातयमरीन्द्रविभिन्नबन्धम् ॥ ४८॥
तं स्यन्दनस्थितमथो विभुजं विधाय बाणेन तद्रथवरं गदया विभिद्य ।
चक्रेण तस्य च शिरो विनिकृत्य धातृशर्वादिभिः प्रतिनुतः स्वपुरीमगां च ॥ ४९॥
तस्मादिदं व्यसनमास हि विप्रकर्षान्मे कार्यतस्त्विति निगद्य पुनश्च पार्थान् ।
कृष्णां च सान्त्वयितुमत्र दिनान्युवास सत्या च सोमकसुतामनुसान्त्वयन्ती ॥ ५०॥
पाण्डवानां च या भार्याः पुत्रा अपि हि सर्वशः ।
अन्वेव पाण्डवान् याता वनमत्रैव च स्थिताः ॥ ५१॥
धृष्टद्युम्नस्ततः कृष्णां सान्त्वयित्वैव केशवम् ।
प्रणम्य समनुज्ञातो भागिनेयैः पुरं ययौ ॥ ५२॥
धृष्टकेतुश्च भागिनीं काशिराजः सुतामपि ।
पुरं ययतुरादाय कुन्त्यैवान्याः सह स्थिताः ॥ ५३॥
पार्वती नकुलस्याऽसीद् भार्या पूर्वं तिलोत्तमा ।
पूर्वोक्ते चैव यमयोर्भार्ये कुन्त्या हि वारिताः ॥ ५४॥
सुभद्रामभिमन्युं च रथमारोप्य केशवः ।
पाण्डवानभ्यनुज्ञाय सभार्यः स्वपुरीं ययौ ॥ ५५॥
कञ्चित् कालं द्रौपदेया उष्य पाञ्चालके पुरे ।
ययुर्द्वारवतीमेव तत्रोषुः कृष्णलाळिताः ॥ ५६॥
ततः परं धर्मराजो निर्विण्णः स्वकृतेन ह ।
भ्रातृभार्यापदे कृष्णां स्थापयामास सर्वदा ॥ ५७॥
ऊषुर्वने च ते पार्था मुनिशेषान्नभोजिनः ।
भुक्तवत्स्वेवानुजेषु भुङ्क्ते राजा युधिष्ठिरः ॥ ५८॥
अलङ्घ्यत्वात् तदाज्ञाया अनुजाः पूर्वभोजिनः ।
तस्यानन्तरमेवैका भुङ्क्ते सा पार्षतात्मजा ॥ ५९॥
एवं सदा विष्णुपरायणानां तत्प्रापणान्नैकभुजां प्रयातः ।
संवत्सरस्तत्र जगाद कृष्णा भीमाज्ञया धर्मराजं सुवेत्त्री ॥ ६०॥
अतिमार्दवयुक्तत्वाद् धर्मराजश्चतुर्दशे ।
अपि वर्षे गुरुभयाद् राज्यं नेच्छेदिति प्रभुः ।
मारुतिः प्रेषयामास कृष्णां प्रस्तावहेतवे ॥ ६१॥
क्षमा सर्वत्र धर्मो न पापहेतुश्च दुर्जने ।
राज्ञां सामर्थ्ययुक्तानामिति संस्थाप्य शास्त्रतः ॥ ६२॥
हत्वा चतुर्दशे वर्षे धार्तराष्ट्रानराज्यदान् ।
कर्तुं राज्यं पुरो गन्ता भवानीत्यग्रजेन ह ॥ ६३॥
कारयन् सत्यशपथं विवादस्य क्रमेच्छया ।
आदिशत् प्रथमं कृष्णां भीमः सा नृपमब्रवीत् ॥ ६४॥
नैव क्षमा कुजनतासु नृपस्य धर्मस्तां त्वं वृथैव धृतवानसि सर्वकालम् ।
इत्युक्त आह नृपतिः परमा क्षमैव सर्वत्र तद्विधृतमेव जगत् समस्तम् ॥ ६५॥
कर्ता च सर्वजगतः सुखदुःखयोर्हि नारायणस्तदनुदत्तमिहास्य सर्वम् ।
तस्मान्न कोपविषयोऽस्ति कुतश्च कश्चित् तस्मात् क्षमैव सकलेषु परोऽस्य धर्मः ॥ ६६॥
इत्युक्तवन्तं नृपमाह पार्षती यदि क्षमा सर्वनरेषु धर्मः ।
राज्ञा न कृत्यं नच लोकयात्रा भवेज्जगत् कापुरुषैर्विनश्येत् ॥ ६७॥
सत्यं च विष्णुः सकलप्रवर्तको रमाविरिञ्चेशपुरस्सराश्च ।
काष्ठादिवत् तद्वशगाः समस्तास्तथाऽपि न व्यर्थता पौरुषस्य ॥ ६८॥
तदाज्ञया पुरुषश्चेष्टमानश्चेष्टानुसारेण शुभाशुभस्य ।
भोक्ता न तच्चेष्टितमन्यथा भवेत् कर्ता तस्मात् पुरुषोऽप्यस्य वश्यः ॥ ६९॥
वृथा यदि स्यात् पौरुषं कस्य हेतोर्विधिर्निषेधश्च समस्तवेदगः ।
विधेर्निषेधस्य च नैव गोचरः पुमान् यदि स्याद् भवतो हि तौ हरेः ॥ ७०॥
तेनैव लेपश्च भवेदमुष्य पुण्येन पापेन च नैव चासौ ।
लिप्येत ताभ्यां परमस्वतन्त्रः कर्ता ततः पुरुषोऽप्यस्य वश्यः ॥ ७१॥
इतीरितो धर्मजः कृष्णयैव निरुत्तरत्वं गमितस्त्वभर्त्सयत् ।
कुतर्कमाश्रित्य हरेरपि त्वमस्वातन्त्र्यं साधयसीति चोक्त्वा ॥ ७२॥
छलेन तेन प्रतिभर्त्सिता सा क्षमापयामास नृपं यतः स्त्री ।
वाचाळता नातितरां हि शोभते स्त्रीणां ततः प्राह वृकोदरस्तम् ॥ ७३॥
राजन् विष्णुः सर्वकर्ता नचान्यस्तत्तन्त्रमेवान्यदसौ स्वतन्त्रः ।
तथाऽपि पुंसा विहितं स्वकर्म कार्यं त्याज्यं चान्यदत्यन्तयत्नात् ॥ ७४॥
प्रत्यक्षमेतत् पुरुषस्य कर्म तेनानुमेया प्रेरणा केशवस्य ।
स्वकर्म कृत्वा विहितं हि विष्णुना तत्प्रेरणेत्येव बुधोऽनुमन्यते ॥ ७५॥
तेनैति सम्यग्गतिमस्य विष्णोर्जनोऽशुभो दैवमित्येव मत्वा ।
हित्वा स्वकं कर्म गतिं च तामसीं प्रयाति तस्मात् कार्यमेव स्वकर्म ॥ ७६॥
ज्ञातव्यं चैवास्य विष्णोर्वशत्वं कर्तव्यं चैवाऽत्मनः कार्यकर्म ।
प्रत्यक्षैषा कर्तृता जीवसंस्था तथाऽऽगमादनुमानाच्च सर्वम् ॥ ७७॥
विष्णोर्वशे तन्न हेयं द्वयं च जानन् विद्वान् कुरुते कार्यकर्म ।
तत्प्रेरकं विष्णुमेवाभिजानन् भवेत् प्रमाणत्रितयानुगामी ॥ ७८॥
पूर्णं प्रमाणं तत्त्रयं चाविरोधेनैकत्रस्थं तत्त्रयं चाविरोधि ।
पृथङ् मध्यं चाप्रमाणं विरोधि स्यात् तत् तस्मात् त्रयमेकत्र कार्यम् ॥ ७९॥
अज्ञः प्रत्यक्षं त्वपहायैव दैवं मत्वा कर्तृ स्वात्मकर्म प्रजह्यात् ।
विद्वान् जीवं विष्णुवशं विदित्वा करोति कर्तव्यमजस्रमेव ॥ ८०॥
स्वभावाख्या योग्यता या हठाख्या याऽनादिसिद्धा सर्वजीवेषु नित्या ।
सा कारणं तत् प्रथमं तु द्वितीयमनादि कर्मैव तथा तृतीयः ।
जीवप्रयत्नः पौरुषाख्यस्तदेतत् त्रयं विष्णोर्वशगं सर्वदैव ॥ ८१॥
स कस्यचिन्न वशे वासुदेवः परात् परः परमोऽसौ स्वतन्त्रः ।
हठश्चासौ तारतम्यस्थितो हि ब्रह्माणमारभ्य कलिश्च यावत् ।
हठाच्च कर्माणि भवन्ति कर्मजो यत्नो यत्नो हठकर्मप्रयोक्ता ॥ ८२॥
विना यत्नं न हठो नापि कर्म फलप्रदौ वासुदेवोऽखिलस्य ।
स्वातन्त्र्यशक्तेर्विनियामको हि तथाऽप्येतान् सोऽप्यपेक्ष्यैव युञ्जेत् ॥ ८३॥
एतानपेक्ष्यैव फलं ददानीत्यस्यैव सङ्कल्प इति स्वतन्त्रता ।
नास्यापगच्छेत् स हि सर्वशक्तिर्नाशक्तता क्वचिदस्य प्रभुत्वात् ॥ ८४॥
तस्मात् कार्यं तेन क्लृप्तं स्वकर्म तत्पूजार्थं तेन तत्प्राप्तिरेव ।
अतोऽन्यथा निरयः सर्वथा स्यात् स्वकर्म विप्रस्य जपोपदेशौ ।
विष्णोर्मुखाद् विप्रजातिः प्रवृत्ता मुखोत्थितं कर्म तेनास्य सोऽदात् ॥ ८५॥
बाह्वोर्जातः क्षत्रियस्तेन बाह्वोः कर्मास्य पापप्रतिवारणं हि ।
प्रवर्तनं साधुधर्मस्य चैव मुखस्य बाह्वोश्चातिसामीप्यतोऽस्य ।
जपोपदेशौ क्षत्रियस्यापि विष्णुश्चक्रे धर्मौ यज्ञकर्मापि विप्रे ॥ ८६॥
वैश्यो यस्मादूरुजस्तेन तस्य प्रजावृद्धिस्तज्जकर्मैव धर्मः ।
तत्सादृश्यात् स्थावराणां च वृद्धिः करोरूर्वोः सन्निकृष्टत्वहेतोः ।
वार्तात्मकं कर्म धर्मं चकार विष्णुस्तस्यैवाङ्घ्रिजः शूद्र उक्तः ॥ ८७॥
गतिप्रधानं कर्म शुश्रूषणाख्यं सादृश्यतो हस्तपदोस्तथैव ।
हस्तोद्भवं कर्म तस्यापि धर्मः सन्तानवृद्धिश्च समीपगत्वात् ॥ ८८॥
भुजावुरो हृदयं यद् बलस्य ज्ञानस्य च स्थानमतो नृपाणाम् ।
बलं ज्ञानं चोभयं धर्म उक्तः पाणौ कृतीनां कौशलं केवलं हि ।
तस्मात् पाण्योरूरुपदोरुपस्थितेर्विट्छूद्रकौ कर्मणां कौशलेतौ ॥ ८९॥
प्राधान्यतो धर्मविशेष एष सामान्यतः सर्वमेवाखिलानाम् ।
वयं हि देवास्तेन सर्वं हि कर्म प्रायेण नो धर्मतामेति शश्वत् ॥ ९०॥
एतैर्धर्मैर्विष्णुना पूर्वक्लृप्तैः सर्वैर्वर्णैर्विष्णुरेवाभिपूज्यः ।
तद्भक्तिरेवाखिलानां च धर्मो यथायोग्यं ज्ञानमस्यापि पूजा ॥ ९१॥
पिता गुरुः परमं दैवतं च विष्णुः सर्वेषां तेन पूज्यः स एव ।
तद्भक्तत्वाद् देवताश्चाभिपूज्या विशेषतस्तेषु येऽत्यन्तभक्ताः ॥ ९२॥
सम्पूजितो वासुदेवः स मुक्तिं दद्यादेवापूजितो दुःखमेव ।
स्वतन्त्रत्वात् सुखदुःखप्रदोऽसौ नान्यः स्वतस्तद्वशा यत् समस्ताः ॥ ९३॥
स्वतन्त्रत्वात् सुखसज्ज्ञानशक्तिपूर्वैर्गुणैः पूर्ण एषोऽखिलैश्च ।
स्वतन्त्रत्वात् सर्वदोषोज्झितश्च निस्सीमशक्तिर्हि यतः स्वतन्त्रः ॥ ९४॥
दोषास्पृष्टौ गुणपूर्तौ च शक्तिर्निस्सीमत्वाद् विद्यते तस्य यस्मात् ।
एवं गुणैरखिलैश्चापि पूर्णो नारायणः पूज्यतमः स्वधर्मैः ।
अस्माकं यत् तेन नातिक्षमैव धर्मो दुष्टानां वारणं ह्येव कार्यम् ॥ ९५॥
हन्याद् दुष्टान् यः क्षत्रियः क्षत्रियांश्च विशेषतो युद्धगतान् स्मरन् हरिम् ।
स्वबाहुवीर्येण च तस्य बाहू चैतन्यमात्रौ भवतः सदेहौ ॥ ९६॥
पापाधिकांश्चैव बलाधिकांश्च हत्वा मुक्तावधिकानन्दवृद्धिः ।
प्रीतिश्च विष्णोः परमैव तत्र तस्माद्धन्तव्याः पापिनः सर्वथैव ॥ ९७॥
ये त्वक्षधूर्ता ग्रहणं गता वा पापास्तेऽन्यैर्घातनीयाः स्वदोर्भ्याम् ।
राजानं वा राजपुत्रं तथैव राजानुजं वाऽभियातं निहन्यात् ॥ ९८॥
राज्ञः पुत्रोऽप्यकृतोद्वाहको यः स घातनीयो न स्वयं वध्य एव ।
क्रूरं चान्यद् धर्मयुक्तं परैस्तत् प्रसाधनीयं क्षत्रियैर्न स्वकार्यम् ।
एवं धर्मो विहितो वेद एव वाक्यं विष्णोः पञ्चरात्रेषु तादृक् ॥ ९९॥
अक्षद्यूतं निकृतिः पापमेव कृतं त्वया गर्हितं सौबलेन ।
न कुत्रचिद् विधिरस्यास्ति तेन न तद् दत्तं द्यूतहृतं वदन्ति ॥ १००॥
भीतेन दत्तं द्यूतदत्तं तथैव दत्तं कामिन्यै पुनराहार्यमेव ।
एवं धर्मः शाश्वतो वैदिको हि द्यूते स्त्रियां नाल्पमाहार्यमाहुः ॥ १०१॥
यद्येषां वै भोग्यमल्पं तदीयं भोगेन तद्बन्धुभिस्तच्च हार्यम् ।
निवारणे पुरुषस्य त्वशक्तैस्तद् राज्यं न पुनराहार्यमेव ॥ १०२॥
त्वं धर्मनित्यश्चाग्रजश्चेति राजन् ऋतेऽनुज्ञां न मया तत् कृतं च ।
दातास्यनुज्ञां यदि तान् निहत्य त्वय्येव राज्यं स्थापयाम्यद्य सम्यक् ॥ १०३॥
सत्यं पापेष्वपि कर्तुं यदीच्छा तथाऽपि मासा द्वादशः नः प्रयाताः ।
वेदप्रामाण्याद् वत्सरास्ते हि मासैः सहस्राब्दं सत्रमुक्तं नराणाम् ।
अज्ञातमेकं मासमुष्याऽथ शत्रून् निहत्य राज्यं प्रतिपालयामः ॥ १०४॥
मा मित्राणां तापकस्त्वं भवेथास्तथाऽमित्राणां नन्दकश्चैव राजन् ।
ज्वलस्वारीणां मूर्ध्नि मित्राणि नित्यमाह्लादयन् वासुदेवं भजस्व ॥ १०५॥
स्वतन्त्रत्वं वासुदेवस्य सम्यक् प्रत्यक्षतो दृश्यते ह्यद्य राजन् ।
यस्मात् कृष्णो व्यजयच्छङ्करादीन् जरासुतादीन् कादिवरैरजेयान् ॥ १०६॥
ब्रह्मादीनां प्रकृतेस्तद्वशत्वं दृष्टं हि नो बहुशो व्यासदेहे ।
पाराशर्यो दिव्यदृष्टिं प्रदाय स्वातन्त्र्यं नोऽदर्शयत् सर्वलोके ॥ १०७॥
तस्माद् राजन्नभिनिर्याहि शत्रून् हन्तुं सर्वान् भोक्तुमेवाधिराज्यम् ।
एवञ्च ते कीर्तिधर्मौ महान्तौ प्राप्यौ राजन् वासुदेवप्रसादात् ॥ १०८॥
एवमुक्तोऽब्रवीद् भीमं धर्मपुत्रो युधिष्ठिरः ।
त्रयोदशाब्दस्यान्तेऽहं कुर्यामेव त्वदीरितम् ॥ १०९॥
सत्यमेतन्न सन्देहः सत्येनाऽत्मानमालभे ।
लोकापवादभीरुं मां नातोऽन्यद् वक्तुमर्हसि ॥ ११०॥
तुदसे चातिवाचा मां यद्येवं भीम मां वदेः ।
तदैव मेऽत्ययः कार्यो हन्तव्याश्चैव शत्रवः ।
नैतादृशैरिदानीं तु वाक्यैर्बाधितुमर्हसि ॥ १११॥
भीष्मद्रोणादयोऽस्त्रज्ञा निवार्याश्च कथं युधि ।
पूज्यास्ते बाहुयुद्धेन न निवार्याः कथञ्चन ॥ ११२॥
अस्त्राणि जानन्नपि हि न प्रयोजयसि क्वचित् ।
तस्माद् तदैव गन्तव्यं विज्ञातास्त्रे धनञ्जये ॥ ११३॥
इत्युक्तो भीमसेनस्तु स्नेहभङ्गभयात् ततः ।
नोवाच किञ्चिद् वचनं स्वाभिप्रेतमवाप्य च ॥ ११४॥
अभिप्रायो हि भीमस्य निश्चयेन त्रयोदशे ।
युधिष्ठिरस्य राज्यार्थं गमनार्थे प्रतिश्रवः ।
अन्यथाऽतिमृदुत्वात् स न गच्छेद् भिन्नधीः परैः ॥ ११५॥
कृतकृत्ये तथा भीमे स्थिते धर्मात्मजो हि सः ।
भीष्मद्रोणादिविजयः कथं स्यादित्यचिन्तयत् ॥ ११६॥
निवारणं गुरूणां हि भीम इच्छति न क्वचित् ।
तस्मात् ते ह्यर्जुनेनैव निवार्या इत्यचिन्तयत् ॥ ११७॥
आपद्येव हि भीमस्तान् निवारयति नान्यथा ।
एवं चिन्तासमाविष्टं विज्ञायैव युधिष्ठिरम् ॥ ११८॥
सर्वज्ञः सर्वशक्तिश्च कृष्णद्वैपायनोऽगमत् ।
नृपतिं बोधयामास चिन्ताव्याकुलमानसम् ॥ ११९॥
इमं मन्त्रं वदिष्यामि येन जेष्यति फल्गुनः ।
भीष्मद्रोणादिकान् सर्वान् तं त्वं वद धनञ्जये ॥ १२०॥
इत्युक्त्वैवावदन्मन्त्रं सर्वदैवतदृष्टिदम् ।
न स्वयं ह्यवदत् पार्थे फलाधिक्यं यतो भवेत् ॥ १२१॥
भीष्मद्रोणादिविजय एतावद् वीर्यमेव हि ।
अलं नातोऽधिकं कार्यमेतावद् योग्यमस्य च ।
फल्गुनस्येति भगवान् न स्वयं ह्यवदन्मनुम् ॥ १२२॥
गते व्यासे भगवति सर्वज्ञे सर्वकर्तरि ।
धर्मराजोऽदिशन्मन्त्रं फल्गुनाय रहस्यमुम् ॥ १२३॥
तमाप्य फल्गुनो मन्त्रं ययौ ज्येष्ठौ प्रणम्य च ।
यमजौ च समाश्लिष्य गिरिमेवेन्द्रकीलकम् ।
तपश्चचार तत्रस्थः शङ्करस्थं हरिं स्मरन् ॥ १२४॥
षण्मासेऽतिगतेऽपश्यन्मूकं नामासुरं गिरौ ।
वराहरूपमायातं वधार्थं फल्गुनस्य च ॥ १२५॥
तं ज्ञात्वा फल्गुनो वीरः सज्यं कृत्वा तु गाण्डिवम् ।
चिक्षेप वज्रसमितांस्तत्काये सायकान् बहून् ॥ १२६॥
किरातरूपस्तमनु सभार्यश्च त्रियम्बकः ।
स ममार हतस्ताभ्यां दानवः पापचेतनः ॥ १२७॥
तेनोक्तोऽसौ मयैवायं वराहोऽनुगतोऽद्य हि ।
तमविध्यो यतस्त्वं हि तद् युद्ध्यस्व मया सह ॥ १२८॥
इत्युक्तः फल्गुनः प्राह तिष्ठ तिष्ठ न मोक्ष्यसे ।
इत्युक्त्वा तावुभौ युद्धं चक्रतुः पुरुषर्षभौ ॥ १२९॥
तत्राखिलानि चास्त्राणि फल्गुनस्याग्रसच्छिवः ।
ततोऽर्जुनस्तु गाण्डीवं समादायाभ्यताडयत् ॥ १३०॥
तदप्यग्रसदेवासौ प्रहसन् गिरिशस्तदा ।
बाहुयुद्धं ततस्त्वासीत् तयोः पुरुषसिंहयोः ॥ १३१॥
पिण्डीकृत्य ततो रुद्रश्चिक्षेपाथ धनञ्जयम् ।
मूर्च्छामवाप महतीं फल्गुनो रुद्रपीडितः ॥ १३२॥
पूर्वं सम्प्रार्थयामास शङ्करो गरुडध्वजम् ।
अवराणां वरं मत्तो येषां त्वं सम्प्रयच्छसि ।
अजेयत्वं प्रसादात् ते विजेयाः स्युर्मयाऽपि ते ॥ १३३॥
इत्युक्तः प्रददौ विष्णुरुमाधीशाय तं वरम् ।
तेनाजयच्छ्वेतवाहं गिरिशो रणमध्यगम् ॥ १३४॥
केवलान् वैष्णवान् मन्त्रान् व्यासः पार्थाय नो ददौ ।
एतावताऽलं भीष्मादेर्जयार्थमिति चिद्धनः ॥ १३५॥
केवलैर्वैष्णवैर्मन्त्रैः स्वदत्तैर्विजयावहैः ।
अतिवृद्धस्य पार्थस्य दर्पः स्यादित्यचिन्तयत् ॥ १३६॥
पार्थः सञ्ज्ञामवाप्याथ जयार्थ्याराधयच्छिवम् ।
व्यासोदितेन मन्त्रेण तानि पुष्पाणि तच्छिरः ॥ १३७॥
आरुहन् स तु तं ज्ञात्वा रुद्र इत्येव फल्गुनः ।
नमश्चक्रे ततः प्रादादस्त्रं पाशुपतं शिवः ॥ १३८॥
अस्त्रं तद् विष्णुदैवत्यं साधितं शङ्करेण यत् ।
तस्मात् पाशुपतं नाम स्वान्यस्त्राण्यपरे सुराः ।
ददुस्तदैव पार्थाय सर्वे प्रत्यक्षगोचराः ॥ १३९॥
इन्द्रोऽर्जुनं समागम्य प्राह प्रीतोऽस्मि तेऽनघ ।
रुद्रदेहस्थितं ब्रह्म विष्ण्वाख्यं तोषितं त्वया ।
तेन लोकं ममाऽगच्छ प्रेषयामि रथं तव ॥ १४०॥
इत्युक्त्वा प्रययाविन्द्रस्तद्रथेन च मातलिः ।
आयात् पार्थस्तमारुँह्य ययौ तातनिवेशनम् ॥ १४१॥
पूजितो दैवतैः सर्वैरिन्द्रेणैव निवेशितः ।
तेन सार्द्धमुपासीदत् तस्मिन्नैन्द्रे वरासने ॥ १४२॥
प्रीत्या समाश्लिष्य कुरुप्रवीरं शक्रो द्वितीयां तनुमात्मनः सः ।
ईक्षन् मुखं तस्य मुमोद सोऽपि ह्युवास तस्मिन् वत्सरान् पञ्च लोके ॥ १४३॥
अस्त्राणि तस्मा अदिशत् स वासवो महान्ति दिव्यानि तदोर्वशी तम् ।
सम्प्राप्य भावेन तु मानुषेण माता कुलस्येति निराकृताऽभूत् ॥ १४४॥
षण्ढो भवेत्येव तयाऽभिशप्ते पार्थे शक्रोऽनुग्रहं तस्य चादात् ।
संवत्सरं षण्ढरूपी चरस्व न षण्ढता ते भवतीति धृष्णुः ॥ १४५॥
ततोऽवसत् पाण्डवेयो गान्धर्वं वेदमभ्यसन् ।
गन्धर्वाच्चित्रसेनात्तु तथाऽस्त्राणि सुरेश्वरात् ॥ १४६॥
सुभद्रयाऽभिमन्युना सह स्वकां पुरं गतः ।
जनार्दनोऽत्र संवसन् कदाचिदित्थमैक्षत ॥ १४७॥
मया वरो हि शम्भवे प्रदत्त आस पूर्वतः ।
वरं ग्रहीष्य एव ते सकाशतो विमोहयन् ॥ १४८॥
' त्वामाराध्य तथा शम्भो ग्रहीष्यामि वरं सदा ।
द्वापरादौ युगे भूत्वा कलया मानुषादिषु' ॥ १४९॥ (पद्म पु\. ६\.७१\.१०६)
इति वाक्यमृतं कर्तुमभिप्रायं विजज्ञुषी ।
प्रीत्यर्थं वासुदेवस्य रुग्मिणी वाक्यमब्रवीत् ॥ १५०॥
' जातेऽपि पुत्रे पुत्रार्थं सा हि वेद मनोगतम् ।
पुत्रो मे बलवान् देव स्यात् सर्वास्त्रविदुत्तमः' ॥ १५१॥
इत्युक्तो भगवान् देव्या सम्मोहाय सुरद्विषाम् ।
ययौ सुपर्णमारुह्य स्वीयं बदरिकाश्रमम् ॥ १५२॥
' एष मोहं सृजाम्याशु यो जनान् मोहयिष्यति ।
त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय ॥ १५३॥
अतत्थ्यानि वितत्थ्यानि दर्शयस्व महाभुज ।
प्रकाशं कुरु चाऽत्मानमप्रकाशं च मां कुरु ॥ १५४॥
अहं त्वां पूजयिष्यामि लोकसम्मोहनोत्सुकः ।
तमोऽसुरा नान्यथा हि यान्तीत्येतन्मतं मम' ॥ १५५॥
इत्युक्तवचनं पूर्वं केशवेन शिवाय यत् ।
तत् सत्यं कर्तुमायातं कृष्णं बदरिकाश्रमम् ।
सर्वज्ञा मुनयः सर्वे पूजयाञ्चक्रिरे प्रभुम् ॥ १५६॥
रात्रौ कृष्णे मुनिमध्ये निविष्टे घण्टाकर्णः कर्णनामा पिशाचौ ।
समायातां गिरिशेन प्रदिष्टौ कृष्णं द्रष्टुं द्वारकां गन्तुकामौ ॥ १५७॥
तौ दृष्ट्वा मुनिमध्यस्थं केशवं तदबोधतः ।
कृत्वा स्वजातिचेष्टाश्च ध्यानेनैनमपश्यताम् ॥ १५८॥
दृष्ट्वा हृदि स्थितं तं तु कौतूहलसमन्वितौ ।
स्तुत्वा भक्त्या प्रणामं च बहुशश्चक्रतुः शुभौ ॥ १५९॥
तयोः प्रसन्नो भगवान् स्पृष्ट्वा गन्धर्वसत्तमौ ।
चकार क्षणमात्रेण दिव्यरूपस्वरान्वितौ ॥ १६०॥
ताभ्यां पुनर्नृत्तगीतसंस्तवैः पूजितः प्रभुः ।
ययौ कैलासमद्रीशं चकारेव तपोऽत्र च ॥ १६१॥
स्वीयानेव गुणान् विष्णुर्भुञ्जन् (युञ्जन्) नित्येन शोचिषा ।
शार्वं तपः करोतीव मोहयामास दुर्जनान् ॥ १६२॥
पूर्वं तेनोदितं यत्तल्लोकान् मोहयताऽञ्जसा ।
शर्वं प्रति तवाहं तु कुर्यां द्वादशवत्सरम् ॥ १६३॥
तपोऽसुराणां मोहाय सुराः सन्तु गतज्वराः ।
इति तस्मात् तदा कृष्ण एकाहेन बृहस्पतिम् ॥ १६४॥
आज्ञया चारयामास क्षिप्रं द्वादशराशिषु ।
द्वादशाब्दमभूत् तेन तदहः केशवेच्छया ॥ १६५॥
एकस्मिन्नह्नि भगवान् राशिंराशिं च वत्सरम् ।
कल्पयित्वोपवासादीन् मनसा नियमानपि ॥ १६६॥
मासब्रतं सार्द्धशतश्वासकालैरकल्पयत् ।
मनसैव स्वभक्तानां द्वादशाब्दव्रताप्तये ॥ १६७॥
तत्रास्य गरुडाद्याश्च परिचर्यां स्वपार्षदाः ।
चक्रुर्होमादिकाश्चैव क्रियाश्चक्रे जनार्दनः ।
स्वात्मानं प्रति पापानां शिवायेति प्रकाशयन् ॥ १६८॥
एवं स्थितं तमरविन्ददलायताक्षं ब्रह्मेन्द्रपूर्वसुरयोगिवरप्रजेशाः ।
अभ्याययुः पितृमुनीन्द्रगणैः समेता गन्धर्वसिद्धवरयक्षविहङ्गमाद्याः ॥ १६९॥
शर्वोऽपि सर्वसुरदैवतमात्मदैवमायातमात्मगृहसन्निधिमाश्ववेत्य ।
अभ्याययौ निजगणैः सहितः सभार्यो भक्त्याऽतिसम्भ्रमगृहीतसमर्हणाग्र्यः ॥ १७०॥
अभ्येत्य पादयुगळं जगदेकभर्तुः कृष्णस्य भक्तिभरितः शिरसा ननाम ।
चक्रे स्तुतिं च परमां परमस्य पूर्णषाड्गुण्यविग्रहविदोषमहाविभूतेः ॥ १७१॥
कृष्णोऽप्ययोग्यजनमोहनमेव वाञ्छंस्तुष्टाव रुद्रहृदिगं निजमेव रूपम् ।
रुद्रो निशम्य तदुवाच सुरान् समस्तान् सत्यं वदामि शृणुताद्य वचो मदीयम् ।
विष्णुः समस्तसुजनैः परमो ह्युपेयस्तत्प्राप्तयेऽहमनिलोऽथ रमाऽभ्युपायाः ॥ १७२॥
एष ह्यशेषनिगमार्थविनिर्णयोत्थो यद् विष्णुरेव परमो मम चाब्जयोनेः ।
अव्यक्ततः सकलजीवगणाच्च नित्य इत्येव निश्चय उतैतदनुस्मरध्वम् ।
इत्युक्तवत्यखिलदेवगणा गिरीशे कृष्णं प्रणेमुरतिवृद्धरमेशभक्त्या ॥ १७३॥
उक्तैरन्यैश्च गिरिशवाक्यैस्तत्त्वविनिर्णयैः ।
कृष्णस्यैव गुणाख्यानैः पुनरिन्द्रादिदेवताः ।
ज्ञानाभिवृद्धिमगमन् पुराऽपि ज्ञानिनोऽधिकम् ॥ १७४॥
सर्वदेवोत्तमं तं हि जानन्त्येव सुराः सदा ।
तथाऽपि तत्प्रमाणानां बहुत्वाद् येऽत्र संशयाः ।
युक्तिमात्रे तेऽपि रुद्रवाक्यादपगतास्तदा ॥ १७५॥
ततः कृष्णः सुतवरं त्वत्त आदास्य इत्यजः ।
यदुक्तवाञ्छिवं पूर्वं सत्यं कर्तुं तदब्रवीत् ॥ १७६॥
पुत्रं देहीति सोऽप्याह पूर्वमेव सुतस्तव ।
जातः प्रद्युम्ननामा यः स मद्दत्तः प्रवादतः ॥ १७७॥
पुरा दग्धो मया कामस्तदाऽयाचत मां रतिः ।
देहि कान्तं ममेत्येव तदा तामहमब्रुवम् ॥ १७८॥
उत्पत्स्यते वासुदेवाद् यदा तं पतिमाप्स्यसि ।
इत्यतोऽसौ मया दत्त इव देव त्वदाज्ञया ॥ १७९॥
दासोऽस्मि तव देवेश पाहि मां शरणागतम् ।
इत्युक्त्वाऽभिप्रणम्यैनं पुनराह सुरान् हरः ॥ १८०॥
यदर्थमेष आयातः केशवः शृणुतामराः ।
योऽसुरो वक्रनामाऽऽसीदवध्यो ब्रह्मणो वरात् ।
तदाजाताद् वासुदेवपुत्रात् कामादृते क्वचित् ॥ १८१॥
तं हन्तुमेव पुत्रं स्वं प्रद्युम्नमुदरेऽर्प्य च ।
आयात इह तं चापि ददाह स्वोदरात् सुतम् ।
निस्सारयित्वा कक्षं च दग्धं पश्यत देवताः ॥ १८२॥
ज्वालामालाकराळेन स्वतेजोवर्द्धितेन च ।
प्रद्युम्नेनैव तं दैत्यं दग्ध्वा वनसमन्वितम् ।
पुनश्च स्वोदरे पुत्रं स्थापयामास केशवः ॥ १८३॥
सद्योगर्भं पुनस्तं च रुग्मिण्यां जनयिष्यति ।
पूर्ववत् क्षणमात्रेण युवा च स भविष्यति ॥ १८४॥
दृष्टमेतन्नारदाद्यैर्मुनिभिः सर्वमेव च ।
एवं क्रीडत्ययं देवः पूर्णैश्वर्येण केवलम् ।
इत्युक्ते केशवं नेमुर्देवाः शक्रपुरोगमाः ॥ १८५॥
ततो हरिर्ब्रह्मसुरेन्द्रमुख्यैः सुरैः स्तुतो गरुडस्कन्धसंस्थः ।
पुनःपुनः प्रणतः शङ्करेण स्तुतस्तृतीयेऽह्नि निजां पुरीमगात् ॥ १८६॥
कृष्णे प्रयाते निलयं पुरद्विषो रात्रौ पौण्ड्रौ वासुदेवः समागात् ।
सहैकलव्येन निजेन मातुः पित्रा तथाऽक्षोहिणिकत्रयेण ॥ १८७॥
पुरीं प्रभञ्जन्तममुं विदित्वा सरामशैनेययदुप्रवीराः ।
संयोधयामासुरथाभ्यवर्षच्छरैर्निषादाधिप एकलव्यः ॥ १८८॥
तदस्त्रशस्त्रैः सहसा विषण्णा यदुप्रवीरा विहतप्रदीपाः ।
सहैव रामेण शिनेश्च नप्त्रा समाविशन् स्वां पुरमेव सर्वे ॥ १८९॥
पुनः समादाय तथोरुदीपिका अग्रे समाधाय च रौहिणेयम् ।
विनिस्सृता आत्तशस्त्राः स्वपुर्याः सिंहा यथा धर्षिताः सद्गुहायाः ॥ १९०॥
' अथाऽससादैकलव्यं रथेन रामः शैनेयः पौण्ड्रकं वासुदेवम् ।
अयुद्ध्यतां तौ सात्यकिः पौण्ड्रकश्च तथाऽन्योन्यं विरथं चक्रतुश्च' ॥ १९१॥
(हरिवंशे भविष्यत्पर्वणि अ\. १०२) ततो गदायुद्धमभूत् तयोर्द्वयोस्तथा रामश्चैकल्व्यश्च वीरौ ।
कृत्वाऽन्योन्यं विरथं गदाभ्यामयुद्ध्यतां जातदर्पौ बलाग्र्यौ ॥ १९२॥
तस्मिन् काले केशवो वैनतेयमारुँह्याऽयाद् यत्र ते युद्दसंस्थाः ।
दृष्ट्वा कृष्णं हर्षसम्पूरितात्मा रामो हन्तुं चैकलव्यं समैच्छत् ॥ १९३॥
उद्यम्य दोर्भ्यां स गदां जवेनैवाभ्यापतद् रौहिणेयो निषादम् ।
बलं कोपं चास्य दृष्ट्वैकलव्यः पराद्रवज्जीवितेच्छुः सुदूरम् ॥ १९४॥
विद्रावयन् रौहिणेयोऽन्वयात् तं भीतोऽपतच्चैकलव्योऽम्बुधौ सः ।
वेलान्तं तं द्रावयित्वाऽत्र तस्थौ रामो गदापाणिरदीनसत्त्वः ॥ १९५॥
सुपापोऽसावेकलव्यः सुभीतो रामं मत्वैवानुयातं पुनश्च ।
समुद्रेऽशीतिं योजनानामतीत्य पश्चादैक्षद् द्वीपमेवाधिरुँह्य ॥ १९६॥
रामो विजित्यातिबलं रणे रिपुं मुदैव दामोदरमाससाद ।
पौण्ड्रस्त्ववज्ञाय शिनिप्रवीरं निवार्यमाणोऽपि ययौ जनार्दनम् ॥ १९७॥
तं केशवो विरथं व्यायुधं च क्षणेन चक्रे स ययौ निजां पुरीम् ।
प्रस्थापयामास पुनश्च दूतं कृष्णायैको वासुदेवोऽहमस्मि ॥ १९८॥
मदीयलिङ्गानि विसृज्य चाऽशु समागच्छेथाः शरणं मामनन्तम् ।
तद्दूतोक्तं वाक्यमेतन्निशम्य यदुप्रवीरा उच्चकैः प्राहसन् स्म ॥ १९९॥
कृष्णः प्रहस्याऽह तवाऽयुधानि दास्याम्यहं लिङ्गभूतानि चाऽजौ ।
इत्युक्तोऽसौ दूत एत्याऽह तस्मै स चाभ्यागाद् योद्धुकामो हरिश्च ॥ २००॥
तं शातकौम्भे गरुडे रथस्थे स्थितं चक्रादीन् कृत्रिमान् सन्दधानम् ।
श्रीवत्सार्थे दग्धवक्षस्थलं च दृष्ट्वा कृष्णः प्राहसत् पापबुद्धिम् ॥ २०१॥
ततोऽस्त्रशस्त्राण्यभिवर्षमाणं विजित्य तं वासुदेवोऽरिणैव ।
चकर्त तत्कन्धरं तस्य चानु मातामहस्याच्छिनत् सायकेन ॥ २०२॥
अपातयच्चाऽशु शिरः स तेन काशीश्वरस्येश्वरो वारणास्याम् ।
स च ब्रह्माहं वासुदेवोऽस्मि नित्यमिति ज्ञानादगमत् तत् तमोऽन्धम् ॥ २०३॥
साहाय्यकृच्चास्य च काशिराजो यथैव किर्मीरहिडिम्बसाल्वाः ।
अन्ये च दैत्या अपतंस्तमोऽन्धे तथैव सोऽप्यपतत् पापबुद्धिः ॥ २०४॥
निहत्य तौ केशवो रौग्मिणेयं पुनर्वैदर्भ्यां जनयामास सद्यः ।
स चैकलव्यो रामजितः शिवाय चक्रे तपोऽजेयतां चाऽप तस्मात् ॥ २०५॥
स शर्वदत्तेन वरेण दृप्तः पुनर्योद्धुं कृष्णमेवाऽससाद ।
तस्यास्त्रशस्त्राणि निवार्य केशवश्चक्रेण चक्रे तमपास्तकन्धरम् ।
स चाऽप पापस्तम एव घोरं कृष्णद्वेषान्नित्यदुःखात्मकं तत् ॥ २०६॥
एवं यदूनामृषभेण सूदिते पौण्ड्रे तथा काशिनृपे च पापे ।
काशीशपुत्रस्तु सुदक्षिणाख्यस्तपोऽचरच्छङ्करायोरुभक्त्या ॥ २०७॥
प्रत्यक्षगं तं शिवं पापबुद्धिः कृष्णाभावं याचते दुष्टचेताः ।
कृत्यामस्मै दक्षिणाग्नौ शिवोऽपि दैत्यावेशादददादावृतात्मा ॥ २०८|
स दक्षिणाग्निश्चासुरावेशयुक्तः सम्पूजितः काशिराजात्मजेन ।
वरादुमेशस्य विवृद्धशक्तिर्ययौ कृष्णो यत्र सम्पूर्णशक्तिः ॥ २०९॥
कृष्णस्तस्य प्रतिघातार्थमुग्रं समादिशच्चक्रमनन्तवीर्यः ।
जाज्वल्यमानं तदमोघवीर्यं व्यद्रावयद् वह्निमिमं सुदूरम् ॥ २१०॥
कृत्यात्मको वह्निरसौ प्रधानवह्नेः पुत्रश्चक्रविद्रावितोऽथ ।
सहानुबन्धं च सुदक्षिणं तं भस्मीचकाराऽशु सपुत्रभार्याम् ॥ २११॥
दग्ध्वा पुरीं वारणसीं सुदर्शनः पुनः पार्श्वं वासुदेवस्य चाऽगात् ।
सुदक्षिणोऽसौ तम एव जग्मिवान् कृष्णद्वेषात् सानुबन्धः सुपापः ॥ २१२॥
कृष्णः क्रीडन् द्वारवत्यां सुपूर्णनित्यानन्दः क्वचिदाह स्म भैष्मीम् ।
विडम्बयन् गृहिणामेव चेष्टा नित्याविरोधोऽपि तया विदोषया ॥ २१३॥
त्वया न कार्यं मम किञ्च भद्रे मयाऽरीणां मानभङ्गार्थमेव ।
समाहृताऽसीति सा चावियोगं सदा कृष्णेनाऽत्मनोऽप्येव वेत्त्री ॥ २१४॥
स्त्रिया भेतव्यं भर्तुरित्येव धर्मं विज्ञापयन्ती दुःखितेवाऽस देवी ।
तां सान्त्वयामास गृहस्थधर्मं विज्ञापयन् देवदेवोऽप्यदुःखाम् ॥ २१५॥
एवं क्रीडत्यब्जनाभे रमायां कृष्णादिष्टो गोकुलं रौहिणेयः ।
प्रायाद् दृष्ट्वा तत्र नन्दं यशोदां तत्पूजितः कृष्णवार्तां च पृष्टः ॥ २१६॥
' मासौ तत्र न्यवसद् गोपिकाभी रेमे क्षीबो यमुनामाह्वयच्च ।
मत्तोऽयमित्येव नदीमनागतां चकर्ष रामो लाङ्गलेनाग्र्यवीर्यः' ॥ २१७॥
(भा\.पु\. १०\.६५\.१७) पुनस्तया प्रणतः संस्तुतश्च व्यसर्जयत् तामथ नन्दगोपम् ।
आपृच्छ्य जगाद द्वारकां केशवाय न्यवेदयन्नन्दगोपादिभक्तिम् ॥ २१८॥
तदैव मैन्दो विविदश्च भौमे हते सखायौ दानवावेशयुक्तौ ।
आनर्तराष्ट्रं वासुदेवप्रतीपौ व्यनाशयेतां वासुदेवोऽथ चोचे ॥ २१९॥
रामाय सोऽदाद् वरमब्जनाभो वध्यावेतौ भवतां तेऽप्यवध्यौ ।
वराद् विरिञ्चस्य तथाऽमृताशनादुभौ च मैन्दो विविदो व्रजेति ॥ २२०॥
गत्वा स मैन्दं प्रथमं जघान क्रोधात् युद्धायाऽगतं रैवताग्रे ।
दिने परस्मिन् विविदं जघान शिला वर्षन्तं मुसलेनाग्र्यकर्मा ।
तयोराविष्टौ तावसुरौ तमोऽन्धं प्राप्तौ च तावश्विनौ स्वं च लोकम् ॥ २२१॥
दुर्योधनस्याऽस पुत्री रतिर्या पूर्वं नाम्ना लक्षणा कान्तरूपा ।
स्वयम्बरस्थां तां बलादेव साम्बो जग्राह सा चैनमासानुरक्ता ॥ २२२॥
बलाद् गृहीतां वीक्ष्य तां कर्णमुख्या दुर्योधनाद्या युयुधुः क्रोधदीप्ताः ।
कृच्छ्रेण तं विरथीकृत्य चैकं सर्वे समेता जगृहुर्धार्तराष्ट्राः ।
कर्णेन भूरिश्रवसा च सार्द्धं बाह्वोर्बलादेव दुर्योधनस्य ॥ २२३॥
श्रुत्वैव तद् वृष्णयः सर्व एव समुद्यमं चक्रिरे कौरवेषु ।
निवार्य तान् बलभद्रः स्वयं ययौ सहोद्धवः कौरवेयाञ्छमार्थी ॥ २२४॥
पुरस्य बाह्योपवने स्थितः स प्रास्थापयच्चोद्धवं कौरवार्थे ।
आगत्य सर्वे कुरवोऽस्य पूजां चक्रुः स चाऽहोग्रसेनस्य चाऽज्ञाम् ॥ २२५॥
आज्ञापयद् वो नृपतिः स्म यन्नः कुमारकः प्रगृहीतो भवद्भिः ।
एकः समेतैर्बहुभिर्बान्धवार्थं क्षान्तं तन्नो मुञ्चताऽश्वेव साम्बम् ॥ २२६॥
आज्ञापयामास व उग्रसेन इत्युक्तमेव तु निशम्य कुरुप्रवीराः ।
संश्राव्य दुष्टवचनानि बलं पुरं स्वं क्रोधात् समाविविशुरत्र चुकोप रामः ॥ २२७॥
' स लाङ्गलेन तत् पुरं विकृष्य जाह्नवीजले ।
निपातयन् निवारितः प्रणम्य सर्वकौरवैः' ॥ २२८॥ (भा\.पु\. १०\.६८\.५४)
' स लाङ्गलेन तत् पुरं विकृष्य जाह्नवीजले ।
सभार्यमाशु पुत्रकं सुयोधनाभिपूजितम् ।
सपारिबर्हमप्य च प्रजग्मिवान् स्वकां पुरम् ॥ २२९॥
इत्यादिकर्माणि महान्ति रामस्याऽसञ्छेषस्याच्युतावेशिनोऽलम् ।
यस्याच्युतावेशविशेषकालं ज्ञात्वा भीमोऽप्यस्य नोदेति युद्धे ॥ २३०॥
क्रीडायुद्धे बहुशो रौहिणेये व्यक्तिं विष्णोर्भीमसेनो विदित्वा ।
तात्कालिकीं क्रीडमानोऽपि तेन नैवोद्यमं कुरुते विष्णुभक्त्या ॥ २३१॥
तदा जयी प्रभवत्येष रामो नातिव्यक्तस्तत्र यदा जनार्दनः ।
तदा भीमो विजयी स्यात् सदैव विष्णोः केशावेशवान् यत् स रामः ॥ २३२॥
एतादृशेनैव रामेण युक्ते कृष्णे द्वार्वत्यां निवसत्यब्जनाभे ।
स्वप्नेऽनिरुद्धेन रता कदाचिद् बाणात्मजोषा चित्रलेखामुवाच ॥ २३३॥
तमानयेत्यथ सा चित्रवस्त्रे प्रदर्श्य लोकान् समदर्शयत् तम् ।
पौत्रं विदित्वा वचनाच्च तस्याः कृष्णस्य तं चाऽनयत् तत्र रात्रौ ॥ २३४॥
अनिरुद्धं गुणोदारमानीतं चित्रलेखया ।
प्राप्य रेमे बाणसुता दिवसान् सुबहूनपि ॥ २३५॥
गूढं कन्यागृहे तं तु ज्ञात्वा कन्याभिरक्षिणः ।
ऊचुर्बाणायादिशच्च किङ्करान् ग्रहणेऽस्य सः ॥ २३६॥
आगताननिरुद्धस्तान् परिघेण महाबलः ।
निहत्य द्रावयामास स्वयमायात् ततोऽसुरः ।
स तु युद्ध्वाऽतिकृच्छ्रेण नागास्त्रेण बबन्ध तम् ॥ २३७॥
अथ कृष्णः समारुह्य गरुडं रामसंयुतः ।
प्रद्युम्नेन च तत्रागात् प्रथमं तत्र वह्निभिः ॥ २३८॥
युद्ध्वैवाङ्गिरसा चैव क्षणाद् विद्राप्य तान् हरिः ।
विद्राप्य सर्वप्रमथानाससाद ज्वरं ततः ॥ २३९॥
तेन भस्मप्रहारेण ज्वरितं रोहिणीसुतम् ।
आश्लिष्य विज्वरं चक्रे वासुदेवो जगत्प्रभुः ॥ २४०॥
स्वयं विक्रीड्य तेनाथ कञ्चित् कालं जनार्दनः ।
निष्पिष्य मुष्टिभिश्चान्यं ससर्ज ज्वरमच्युतः ॥ २४१॥
स्वयं जित्वाऽपि गिरिशभृत्यं नालमिति प्रभुः ।
स्वभृत्येनैव जेतव्य इत्यन्यं ससृजे तदा ॥ २४२॥
ज्वरेण वैष्णवेनासौ सुभृशं पीडितस्तदा ।
ग्रासार्थमुपनीतश्च जगाम शरणं हरिम् ।
तेन स्तुतः स भगवान् मोचयामास तं विभुः ॥ २४३॥
क्रीडार्थमत्यल्पजनेष्वपि प्रभुः कथञ्चिदेव व्यजयद् व्यथां विना ।
इत्यादि मोहाय स दर्शयत्यजो नित्यस्वतन्त्रस्य कुतो व्यथादयः ॥ २४४॥
यदा ज्वराद्या अखिलाः प्रविद्रुतास्तदा स्वयं प्राप हरिं गिरीशः ।
तयोरभूद् युद्धमथैनमच्युतो विजृम्भयामास ह जृम्भणास्त्रतः ॥ २४५॥
विजृम्भिते शङ्करे निष्प्रयत्ने स्थाणूपमे संस्थिते कञ्जजातः ।
दैत्यावेशाद् वासुदेवानभिज्ञं सम्बोधयामास सदुक्तिभिर्विभुः ॥ २४६॥
प्रगृह्य शर्वं च विवेश विष्णोः स तूदरं दर्शयामास तत्र ।
शिवस्य रूपं स्तम्भितं बिल्वनाम्नि वने गिरीशेन च यत् तपः कृतम् ॥ २४७॥
शैवं पदं प्राप्तुमेवाच्युताच्च तच्चावदत् कञ्जजः शङ्करस्य ।
अपेतमोहोऽथ वृषध्वजो हरिं तुष्टाव बाणोऽभिससार केशवम् ।
तस्याच्युतो बाहुसहस्रमच्छिनत् पुनश्चारिं जगृहे तच्छिरोर्थे ॥ २४८॥
तदा शिवेन प्रणतो बाणरक्षणकाम्यया ।
कृत्वा स्वभक्तं बाणं तं ररक्ष द्विभुजीकृतम् ।
मोचयित्वाऽनिरुद्धं च ययौ बाणेन पूजितः ॥ २४९॥
एवमग्नीनङ्गिरसं ज्वरं स्कन्दमुमापतिम् ।
बाणं चायत्नतो जित्वा प्रायाद् द्वारवतीं पुनः ॥ २५०॥
येनायत्नेन विजितः सर्वलोकहरो हरः ।
किं ज्वरादिजयो विष्णोस्तस्यानन्तस्य कथ्यते ॥ २५१॥
ईदृशानन्तसङ्ख्यानां शिवानां ब्रह्मणामपि ।
रमाया अपि यद्वीक्षां विना न चलितुं बलम् ॥ २५२॥
नच ज्ञानादयो भावा नचास्तित्वमपि क्वचित् ।
अनन्तशक्तेः कृष्णस्य न चित्रः शूलिनो जयः ॥ २५३॥
चित्रलेखासमेतोषान्वितपौत्रसमन्वितः ।
सरामः ससुतो वीन्द्रमारुह्य द्वारकां गतः ।
रेमे तत्र चिरं कृष्णो नित्यानन्दो निजेच्छया ॥ २५४॥
एवंविधान्यगणितानि यदूत्तमस्य कर्माण्यगण्यमहिमस्य महोत्सवस्य ।
नित्यं रमाकमलजन्मगिरीशशक्रसूर्यादिभिः परिनुतानि विमुक्तिदानि ॥ २५५॥
एवं वसत्यमितपौरुषवीर्यसारे नारायणे स्वपुरि शक्रधनञ्जयोक्तः ।
सम्प्राप्य लोमशमुनिः सकलानि तीर्थान्याप्तुं स पाण्डुतनयेषु सहाय आसीत् ॥ २५६॥
पृथ्वीं प्रदक्षिणत एत्य समस्ततीर्थस्नानं यथाक्रमत एव विधाय पार्थाः ।
सम्पूज्य तेषु निखिलेषु हरिं सुभक्त्या कृष्णे समर्पयितुमापुरथ प्रभासम् ।
सम्भावनाय सकलैर्यदुभिः समेतस्तेषां च रामसहितो हरिराजगाम ॥ २५७॥
पार्थैः सम्पूजितस्तत्र कृष्णो यदुगणैः सह ।
पार्थान् सम्पूजयामासुर्वृष्णयश्चाऽज्ञया हरेः ॥ २५८॥
तत्र भीमं तपोवेषं दृष्ट्वाऽतिस्नेहकारणात् ।
दुर्योधनं निन्दयति रामे सात्यकिरब्रवीत् ॥ २५९॥
सर्वे वयं निहत्याद्य सकर्णान् धृतराष्ट्रजान् ।
अभिमन्युं स्थापयामो राज्ये यावत् त्रयोदशम् ॥ २६०॥
संवत्सरं समाप्यैव पुरं यास्यन्ति पाण्डवाः ।
ततो युधिष्ठिरो राजा राज्यं शासतु पूर्ववत् ॥ २६१॥
एवं वदत्येव शिनिप्रवीरे जनार्दनः पार्थमुखान्युदीक्ष्य ।
उवाच शैनेय न पाण्डुपुत्राः परेण संसाधितराज्यकामाः ॥ २६२॥
स्वबाहुवीर्येण निहत्य शत्रूनाप्स्यन्ति राज्यं त इतीरितेऽमुना ।
तथेति पार्था अवदंस्ततस्ते कृष्णं पुरस्कृत्य ययुर्दशार्हाः ॥ २६३॥
क्रमेण पार्था अपि शैशिरं गिरिं समासदंस्तत्र कृष्णां सुदुर्गे ।
विषज्जन्तीमीक्ष्य तैः सम्स्मृतोऽथ हैडिम्ब आयात् सहितो निशाचरैः ॥ २६४॥
उवाह कृष्णां स तु तस्य भृत्या ऊहुः पार्थांस्ते बदर्याश्रमं च ।
प्राप्यात्र नारायणपूजया कृतस्वकीयकार्या ययुरुत्तरां दिशम् ॥ २६५॥
अतीत्य शर्वश्वशुरं गिरिं ते सुवर्णकूटं निषधं गिरिं च ।
मेरोः प्राच्यां गन्धमादे गिरौ च प्रापुर्बदर्याश्रममुत्तमं भुवि ॥ २६६॥
तस्मिन् मुनीन्द्रैरभिपूज्यमाना नारायणं पूजयन्तः सदैव ।
चक्रुस्तपो ज्ञानसमाधियुक्तं सत्तत्त्वविद्यां प्रतिपादयन्तः ॥ २६७॥
एवं बदर्यां विहरत्सु तेषु क्वचिद् रहः कृष्णया वायुसूनौ ।
स्थिते गरुत्मानुरगं जहार महाह्रदाद् वासुदेवासनाग्र्यः ॥ २६८॥
तत्पक्षवातेन विचालिते तु तस्मिन् गिरौ कमलं हैममग्र्यम् ।
पपात कृष्णाभीमयोः सन्निधाने उद्यद्भानोर्मण्डलाभं सुगन्धम् ॥ २६९॥
दृष्ट्वाऽतिगन्धं वरहेमकञ्जं कुतूहलाद् द्रौपदी भीमसेनम् ।
बहून्ययाचत् तादृशान्यानुभावमविषह्यं जानती देवदैत्यैः ॥ २७०॥
तयाऽर्थितः सगदस्तुङ्गमेनं गिरिं वेगादारुहद् वायुसूनुः ।
प्रशस्यमानः सुरसिद्धसङ्घैः मृत्नन् दैत्यान् सिंहशार्दूलरूपान् ॥ २७१॥
आसेदिवांस्तत्र हनूमदाख्यं निजं रूपं प्रोद्यदादित्यभासम् ।
जानन्नप्येनं स्वीयरूपं स भीमश्चिक्रीड एतेन यथा परेण ॥ २७२॥
धर्मो देवानां परमो मानुषत्वे स्वीये रूपेऽप्यन्यवदेव वृत्तिः ।
अनादानं दिव्यशक्तेर्विशेषान्नरस्वभावे सर्वदा चैव वृत्तिः ।
तस्माद् भीमो हनुमांश्चैक एव ज्यायःकनीयोवृत्तिमत्राभिपेदे ॥ २७३॥
सर्वे गुणा आवृता मानुषत्वे युगानुसारान्मूलरूपानुसारात् ।
क्रमात् सुराणां भागतोऽव्यक्तरूपा आदानतो व्यक्तिमायान्त्युरूणाम् ॥ २७४॥
नैवाव्यक्तिः काचिदस्तीह विष्णोः प्रादुर्भावेऽप्यतिसुव्यक्तशक्तेः ।
इच्छाव्यक्तिः प्रायशो मारुतस्य तदन्येषां व्यक्तता कारणेन ॥ २७५॥
तस्माद् भीमो धर्मवृद्ध्यर्थमेव स्वीये रूपेऽप्यन्यवद् वृत्तिमेव ।
प्रदर्शयामास तथाऽसुराणां मोहायैवाशक्तवच्छक्तिरूपः ॥ २७६॥
तद्रूपवृद्धिं भीमसेनोऽथ दृष्ट्वा श्रुत्वा हनूमन्मुखतः कथाश्च ।
रामस्य तच्चातुरात्म्यं च दिव्यं चातुर्युगं धर्ममप्यग्र्यमेव ॥ २७७॥
ध्वजाद् बीभत्सोर्गर्जनेनैव शत्रुपराभवे तेन दत्तेऽर्जुनस्य ।
ययौ प्रणम्यैनमाश्वेव भीमः सौगन्धिकं वनमत्यग्र्यरूपम् ॥ २७८॥
नरागम्यां नळिनीमेत्य तत्र दृष्ट्वा पद्मान्यद्भुताकारवन्ति ।
हैमानि दिव्यान्यतिगन्धवन्ति सामासदद् वार्यमाणो नराशैः ॥ २७९॥
ते भीममात्तायुधमुग्ररूपं महाबलं रूपनवावतारम् ।
न्यवारयन् क्रोधवशा समेताः शतं सहस्राण्यजितानि सङ्खे ॥ २८०॥
वराच्छिवस्यैव परैरजेयाः शस्त्रास्त्रवृष्टिं मुमुचुः सुभीमाम् ।
भीमेऽखिलज्ञे तपसां निधाने बलोदधौ शैवशास्त्रं वदन्तः ॥ २८१॥
तान् वैष्णवैरेव शास्त्रैः स भीमो विजित्य पूर्वं वाङ्मये सङ्गरे तु ।
शास्त्रास्त्रवर्षस्य कुर्वन् प्रतीपं जघ्नेऽखिलान् गदया तेषु वीरान् ॥ २८२॥
वातेन कुन्त्यां बलवान् स जातः शूरस्तपस्वी द्विषतां निहन्ता ।
सत्ये च धर्मे च रतः सदैव पराक्रमे शत्रुभिरप्रधृष्यः ॥ २८३॥
तत्रापरांश्चैव बहूनसत्यं निरीश्वरं चाप्रतिष्ठं च लोकम् ।
सिद्धोऽहमीशोऽहमिति ब्रुवाणान् गुणान् विष्णोः ख्यापयन् वादतोऽजैत् ॥ २८४॥
भिन्नं विष्णुमधिकं सर्वतश्च ब्रुवन् प्रवीरान् लक्षमेषां निजघ्ने ।
ते तस्य वीर्यं च बलं च दृष्ट्वा विद्याबलं बाहुबलं तथैव ।
अशक्नुवन्तः सहिताः समस्ता हतप्रवीराः सहसा निवृत्ताः ॥ २८५॥
विक्रम्य तान् गदयाऽसौ निहत्य विद्राप्य सर्वान् नळिनीं प्रविश्य ।
पीत्वाऽमृताम्भश्च ततोऽम्बुजानि दिव्यानि जग्राह कुरुप्रवीरः ॥ २८६॥
अथो कलहशंसीनि निमित्तानि युधिष्ठिरः ।
दृष्ट्वा कृष्णामपृच्छच्च क्व भीम इति दीनधीः ॥ २८७॥
सौगन्धिकार्थं यातं तं श्रुत्वा कृष्णामुखान्नृपः ।
आरुह्य राक्षसश्रेष्ठान् कृष्णया भ्रातृभिः सह ॥ २८८॥
ययौ वृकोदरो यत्र दृष्ट्वा चैनमवस्थितम् ।
उवाच मैवमित्येनं भीतो गिरिशकोपतः ॥ २८९॥
देवेभ्यो मरणाद् भीता राक्षसा वित्तपाज्ञया ।
तदीयां नळिनीं ते हि रक्षन्त्यस्याऽश्रयो हरः ।
जानन् वित्तेश्वरो भीममाहात्म्यं न चुकोप ह ॥ २९०॥
वसत्सु तत्र पार्थेषु पुनः कतिपयैर्दिनैः ।
उवाच भीमसेनस्य यशोधर्मादिभिवृद्धये ॥ २९१॥
पञ्चवर्णानि पुष्पानि कृष्णा वीक्ष्याऽहृतानि तु ।
मारुतेन कुबेरस्य गृहान्नृभिरगम्यतः ॥ २९२॥
अगम्योऽयं गिरिः सर्वैः कुबेरेणाभिपालितः ।
अद्य त्वयैव गन्तव्यो विधूयाखिलराक्षसान् ॥ २९३॥
इत्युक्त आशु सगदः सधनुः सबाणो भीमो गिरीन्द्रमजितोरुबलो विगाहे ।
प्राप्तं निशाम्य बलदैवतसूनुमत्र पद्मत्रयं न्यरुणदुद्धतराक्षसानाम् ॥ २९४॥
अग्रे निधाय मणिमन्तमजेयमुग्रं शम्भोर्वराद् विविधशस्त्रमहाभिवृष्ट्या ।
तान् सर्वराक्षसगणान् मणिमत्समेतान् भीमो जघान सपदि प्रवरैः शरौघैः ॥ २९५॥
अवध्यांस्तान् क्षणेनैव हत्वा भीमो महाबलः ।
रणे क्रोधवशान् सर्वानतिष्ठद् गिरिमूर्द्धनि ॥ २९६॥
ते हता भीमसेनेन प्रापुरन्धन्धन्तमोऽखिलाः ।
हताः सौगन्धिकवने मणिमांश्च पुनः कलौ ।
जातो मिथ्यामतिं सम्यगास्तीर्याऽपुस्तमोऽधिकम् ॥ २९७॥
ततो वैश्रवणो राजा महापद्मत्रये हते ।
राक्षसानामवध्यानां सखाये मणिमत्यपि ।
आरुरोह रथं दिव्यं योद्धुकामो वृकोदरम् ॥ २९८॥
असुरावेशतस्तस्य भीमे क्रोधो महानभूत् ।
स आजगाम भीमेन योद्धुं वित्तपतिः स्वयम् ॥ २९९॥
तस्मिन् काले भीमसेनस्य घोषं श्रुत्वा राजाऽपृच्छदाशु स्म कृष्णाम् ।
क्व भीम इत्येव तयोदितं च श्रुत्वा जगामऽशु रक्षोऽंससंस्थः ॥ ३००॥
सभ्रातृके मुनिभिः कृष्णया च गते राजन्यत्र भीमं कुबेरः ।
दृष्ट्वाऽसुरावेशतो धर्मजं च किञ्चिन्मुक्तः स्नेहयुक्तस्तथाऽऽस ॥ ३०१॥
धृतायुधं भीममीक्ष्यापि किञ्चिद् दैत्यावेशाद् बहु मेने न भीमम् ।
अगस्त्यशापं चावदत् स्वस्य पूर्वं सखायनाशे कारणं राजराजः ॥ ३०२॥
दैत्यावेशादुज्झितः शान्तभावो ददौ निजं स्थानमेषां सुतुष्टः ।
आवासार्थं तेऽवसंस्तत्र पार्थास्तथाऽन्येषां दैवतानां गृहेषु ॥ ३०३॥
तत्रैव तेषां वसतां महात्मनामानन्दिनामब्दचतुष्टये गते ।
पञ्चाब्दमध्याप्य महान्ति चास्त्राणीन्द्रो गुर्वर्थं फल्गुनेनार्थितोऽभूत् ॥ ३०४॥
वधं वव्रे स्वशत्रूणामिन्द्रः पार्थात् स्वरूपतः ।
निवातकवचाख्यानां येषां ब्रह्मा ददौ वरम् ।
अवध्यत्वं सुरैर्दैत्यैर्गन्धर्वैः पक्षिराक्षसैः ॥ ३०५॥
पुनरिन्द्रेणार्थितोऽदाज्जहीमान् नरदेहवान् ।
इति तेनार्जुनं शक्रः स्वात्मानं नरदेहगम् ।
जगाद तान् जहीत्येव किरीटं स्वं निबद्ध्य च ॥ ३०६॥
ऐन्द्रं स्यन्दनमारुह्य पार्थो मातलिसंयुतः ।
गाण्डीवं धनुरादाय ययौ हन्तुं महासुरान् ॥ ३०७॥
शङ्खं ददुस्तस्य देवा देवदत्तः स शङ्खराट् ।
नादयन् शङ्खघोषेण धनुर्विष्फरयन् महत् ॥ ३०८॥
दधानः कुण्डले दिव्ये शक्रदत्ते सुभास्वरे ।
आससाद पुरं दिव्यं दैत्यानामिन्द्रनन्दनः ॥ ३०९॥
तस्य शङ्खध्वनिं श्रुत्वा गाण्डीवस्य च निस्स्वनम् ।
अभिसस्रुर्महावीर्या निवातकवचासुराः ॥ ३१०॥
तिस्रः कोट्यो दानवानां स्वयम्भुवरगर्विताः ।
नानायुधै रणे पार्थमभ्यवर्षन् सुसंहताः ॥ ३११॥
तेषां स शस्त्राणि किरीटमाली निवार्य गाण्डीवधनुःप्रमुक्तैः ।
शरैः शिरांसि प्रचकर्त वीरो महास्त्रशिक्षाबलसम्प्रयुक्तैः ॥ ३१२॥
सर्वे हतास्तेन महारथेन ते दानवाः सोऽपि ययौ तथाऽन्यान् ।
पौलोमकालेयगणाभिधानान् षष्टिं सहस्राणि महारथानाम् ॥ ३१३॥
तानस्त्रशस्त्राण्यभिवर्षमाणान् धनञ्जयः पाशुपतास्त्रतो द्राक् ।
दग्ध्वा ययौ पुनरेवेन्द्रसद्म तं सस्वजे प्रीतियुक्तश्च शक्रः ॥ ३१४॥
ययुरन्धं तमस्तेऽपि सर्वदेवद्विषोऽसुराः ।
अथानुज्ञाप्य पितरं रथेनैन्द्रेण भास्वता ।
सोदर्याणां सकाशं स ययौ वज्रधरात्मजः ॥ ३१५॥
आयान्तमीक्ष्य बीभत्सुं मुमुदुर्भ्रातरोऽधिकम् ।
ऊषुश्च चतुरोऽब्दांस्ते पुनर्मेरौ प्रमोदिनः ॥ ३१६॥
कथाभिर्वासुदेवस्य ध्यानेनाभ्यर्चनेन च ।
ययौ कालः सुखेनैव तेषां विष्णुरतात्मनाम् ॥ ३१७॥
नैव शत्रूननुत्साद्य नानादाय महद् यशः ।
नाकृत्वा वासुदेवाज्ञां राज्ञां मुख्यगतिर्भवेत् ॥ ३१८॥
तदन्येषां तु वर्णानां क्षमा बाह्येषु शत्रुषु ।
प्रायो धर्म इति प्रोक्तो हरेराज्ञाऽखिलस्य च ॥ ३१९॥
इति भीमवचः श्रुत्वा ससोदर्यो युधिष्ठिरः ।
राक्षसस्कन्धमारूढः कृष्णया चाऽययौ पुनः ॥ ३२०॥
पादेषु तेषु निवसत्सु हिमाचलस्य याम्याश्रितेषु पवमानसुतः कदाचित् ।
धन्वी मृगाननुचरन् सहसाऽऽससाद हाऽयोः सुतं नहुषमाजगरोरुरूपम् ॥ ३२१॥
पूर्वं हि वृत्रवधतोऽम्बुजनाळतन्तुसंस्थे शचीप्रणयिनि प्रविचिन्त्य देवाः ।
चक्रुस्त्रिलोकपतिमायुसुतं वरं च दत्वाऽक्षिगोचरतपोऽस्य बलं च सर्वम् ॥ ३२२॥
स सर्वसुरविप्रेन्द्रतपश्च बलमक्षयम् ।
अवाप्य ववृधे नित्यं दर्पादैच्छच्छचीमपि ॥ ३२३॥
स इन्द्रवचनाच्छच्या महर्षिगणवाहने ।
नियुक्तो वञ्चनायैव वाहयामास तानृषीन् ॥ ३२४॥
स शचीप्रतिषेधार्थमगस्त्येन महात्मना ।
वेदप्रामाण्यविषये पृष्टो नेत्याह मूढधीः ।
प्रमाणमिति तेनोक्तः शिरस्येनं पदाऽहनत् ॥ ३२५॥
तदा भृगुं तस्य जटासु लीनं कदाऽपि तस्याक्षिपथं न यातम् ।
आविश्य कञ्जप्रभवः शशाप व्रजाऽशु पापाजगरत्वमेव ॥ ३२६॥
षष्ठे काले यस्त्वयाऽसादितः स्यात् स ते वशं यातु बलाधिकोऽपि ।
यदा गृहीतं पुरुषं निहन्तुं न शक्ष्यसे यदि स त्वद्गृहीतः ।
शक्तोऽपि नाऽत्मानमभिप्रमोचयेत् तदाऽस्य स्यात् त्वत्तपोऽग्र्यं बलं च ॥ ३२७॥
सर्वदेवमुनीनां यत् तपस्त्वां समुपाश्रितम् ।
तच्च सर्वं तमेवैति नात्र कार्या विचारणा ॥ ३२८॥
यदा प्रश्नांस्त्वदीयांश्च कश्चित् परिहरिष्यति ।
तदा गन्ताऽसि च दिवं विसृज्याऽजगरं तनुम् ।
स्मृतिश्च मत्प्रसादेन सर्वदा ते भविष्यति ॥ ३२९॥
भृगुदेहगतेनैवं शप्तः कमलयोनिना ।
पपाताजगरो भूत्वा नहुषः क्षणमात्रतः ॥ ३३०॥
इन्द्रोऽप्यवाप स्वं स्थानमिष्ट्वा विष्णुं विपापकः ।
धर्मवृद्ध्यर्थमेवैतत् पापमासीच्छचीपतेः ॥ ३३१॥
नहि लोकावनं पापं त्रैलोक्येशस्य वज्रिणः ।
वृत्रं हत्वा महानासेत्यादि वेदपदं च यत् ॥ ३३२॥
क्वचित् पापं च पुण्यानां वृद्धये भवति स्फुटम् ।
वृत्रहत्या यथेन्द्रस्य जाता धर्मस्य वृद्धये ॥ ३३३॥
देवानां वा मुनीनां वा भवेदेवं नवै नृणाम् ।
पापं यत् पुण्यमेवैतदसुराणां विलोमतः ।
एवं स्कान्दे हि वचनं न पापं तच्छचीपतेः ॥ ३३४॥
नान्यस्य पदमाप्स्यन्ति तद् देवानां व्रतं परम् ।
तस्मात् ते नहुषं शक्रपदे निदधुरीश्वराः ॥ ३३५॥
तस्मिन्नेवं निपतिते ब्रह्मणः शापकारणात् ।
अष्टाविंशतिमे प्राप युगे भीमस्तमुल्बणम् ।
जानन्नेव तदीयं तत् तप आदातुमीप्सया ॥ ३३६॥
यत्तत् सुराणां सर्वेषां मुनीनां च तपः स्थितम् ।
तद् गृहीतुं वशगवदिच्छयैवाऽस मारुतिः ॥ ३३७॥
देवानां हि नृजातानामल्पं व्यक्तं भवेद् बलम् ।
इच्छया व्यक्ततां याति वायोरन्येषु तच्च न ॥ ३३८॥
नित्यव्यक्ता गुणा विष्णोरिति शास्त्रस्य निर्णयः ।
एवमन्येऽपि हि गुणा मानुषादिषु जन्मसु ॥ ३३९॥
देवानां मानुषादौ तु शक्येऽप्यव्यक्तताकृतेः ।
धर्मवृद्धिर्भवेत् तेषां प्रीतो भवति केशवः ॥ ३४०॥
तन्मानुषे बले तस्य वराद् वारितवत् स्थिते ।
दैवं बलं न शक्तोऽपि व्यक्तं चक्रे न मारुतिः ॥ ३४१॥
आत्ममोक्षाय न प्रश्नान् व्याजहार स चाभिभूः ।
विद्योपजीवनं धर्मो विप्राणामपि नो यतः ॥ ३४२॥
किमुत क्षत्रियस्येति जानन्नपि वृकोदरः ।
तत्प्रश्नपरिहारेण नाऽत्ममोक्षं समैच्छत ॥ ३४३॥
अयतन्तमपि ह्येनं चालनायापि नाशकत् ।
पूर्णोऽपि सर्वलोकानां बलेन नहुषस्तदा ।
वेष्टयित्वैव तं भीमं स्थितोऽसौ नाशकत् परम् ॥ ३४४॥
भ्रातृमात्रादिषु स्नेहात् क्षिप्रमात्मविमोक्षणम् ।
इच्छन्नपि न मोक्षाय यत्नं चक्रे वृकोदरः ।
सर्ववेदमुनीन्द्राणां तप आदातुमत्रगम् ॥ ३४५॥
भ्रात्रादिषु स्नेहवशान्न स्थातव्यमिहेत्यपि ।
मन्वानः कालतो भङ्गं स्वयमेवैष यास्यति ।
आज्ञया वासुदेवस्य दार्ढ्याद् देहस्य मे तथा ॥ ३४६॥
स्रस्ताङ्गे पतिते सर्पे यास्यामीति विचिन्तयन् ।
तस्थौ भीमो हरिं ध्यायन् स्वभावान्न तदिच्छया ॥ ३४७॥
तदैव ब्रह्मवचनात् पूर्वोक्तात् केशवाज्ञया ।
बलं तपश्च सर्वस्य तत्स्थमायाद् वृकोदरम् ॥ ३४८॥
पूरिते नहुषस्थेन तपसा च बलेन च ।
भीमे स नहुषोऽथाऽसीत् स्रस्तभोगः शनैःशनैः ॥ ३४९॥
गते भीमे निमित्तानि दृष्ट्वा राजा युधिष्ठिरः ।
पप्रच्छ क्व गतो भीम इति कृष्णां चलन्मनाः ॥ ३५०॥
यातं मृगार्थं स निशम्य तस्यास्तदूरुवेगात् पतितान् नगेन्द्रान् ।
दृष्ट्वा पथा तेन ययौ स तत्र दृष्ट्वा च सर्पावृतमन्वपृच्छत् ॥ ३५१॥
स कारणं नहुषात् सर्वमेव शुश्राव तत्प्रश्नमशेषतश्च ।
भ्रातृस्नेहाद् व्याकरोद् धर्मसूनुस्तदैव सोऽप्यारुहत् स्वर्गलोकम् ॥ ३५२॥
दिव्याम्बरे कुण्डलिनि स्वपूर्वे गते विमानेन स धर्मराजः ।
भीमश्चाऽयात् स्वाश्रमायैव सर्वं युधिष्ठिरः कथयामास तत्र ॥ ३५३॥
श्रुत्वा कृष्णा भ्रातरश्चास्य सर्वे सर्वे मुनीन्द्रा भीमसेनेऽतिभक्ताः ।
व्रीळां ययुर्भीमसेनग्रहेण तथाऽब्रुवन् स्नेहतो भीमसेनम् ॥ ३५४॥
नैतादृशं साहसं तेऽनुरूपं शक्तोऽपि यत् स्वात्मनो मोक्षणाय ।
नैवाऽचरो यत्नमतो निजानां महद् दुःखं हृदये प्रार्पयस्त्वम् ॥ ३५५॥
मैवं पुनः कार्यमिति ब्रुवन्तः समाश्लिषन् सर्व एवैत्य भीमम् ।
ततोऽहोभिः कैश्चिदापुः कुरूणां राष्ट्रं पार्था मुनिमुख्यैः समेताः ॥ ३५६॥
ततोऽमितौजाभगवानुपागमन्नारायणः सत्यभामासहायः ।
सम्पूजितः पाण्डवैस्तैः समेतश्चक्रेऽथ सौहार्दनिमित्तसत्कथाः ॥ ३५७॥
कृष्णा च सत्या च परस्परं मुदा सम्भाषणं चक्रतुर्योषिदग्र्ये ।
परीक्षन्त्या सत्यया सर्ववेत्त्र्या निर्दोषया चोदिता प्राह कृष्णा ॥ ३५८॥
स्त्रीधर्मानखिलांस्तत्र सत्यां निर्दोषसंविदम् ।
ज्ञात्वाऽपि कृष्णा प्रोवाच लोकशिक्षार्थमेव तु ॥ ३५९॥
क्रीडार्थमेव वचनं ज्ञात्वा सत्यासमीरितम् ।
तस्यानुसारवाक्यानि तत्प्रीत्या एव साऽब्रवीत् ॥ ३६०॥
ततः कतिपयाहानि निरुष्यात्र जनार्दनः ।
ययौ सभार्यः स्वपुरीं पाण्डवाननुमान्य च ॥ ३६१॥
ततः कदाचिन्मृगयां गतेषु पार्थेषु राजा सैन्धव आससाद ।
सकोटिकाश्यः सबलश्च तेषां वराश्रमं सोऽत्र ददर्श कृष्णाम् ॥ ३६२॥
ब्रजन् विवाहार्थमसौ निशाम्य कृष्णां कोटिं प्रेषयित्वैव काश्यम् ।
आयाहि मामित्यवदत् सुपापस्तया निरस्तो जगृहे करे च ॥ ३६३॥
तया धुतो निपपाताऽशु भूमौ पुनश्च सज्जोऽभ्यपतद् विलज्जः ।
ततोऽसहायत्वत एव कृष्णा धौम्यायोक्त्वा साग्निरन्वेहि मेति ।
समारुहत् सैन्धवस्यैव यानं सुखं न यासीति तमीरयित्वा ॥ ३६४॥
तदा निमित्तानि निशाम्य पार्थाः समाययुस्त्वरयैवाऽश्रमाय ।
श्रुत्वा दासीवचनात् सर्वमेव चक्रुः क्षिप्रं सैन्धवस्यानुयानम् ॥ ३६५॥
आक्रोशमानं भीमसेनेति धौम्यं दृष्ट्वा तस्याग्रे सैन्धवं चातिपापम् ।
चक्रुर्नादान् सिंहवत् पाण्डुपुत्रा दृष्ट्वा कृष्णा चावतरद् रथात् तदा ।
धौम्येन सार्द्धं सा ययौ चाऽश्रमाय सैन्यं पार्थास्तत्र निजघ्नुरोजसा ॥ ३६६॥
अग्रे कृष्णां योऽवदत् सिन्धुराजं याहीति तं कोटिकाश्यं सुपापम् ।
छित्वा शिरो मृत्यवे भीमसेनो निवेदयामास तमः स चागात् ॥ ३६७॥
हत्वा सेनामखिलां सैन्धवस्य भीमार्जुनौ सयमं धर्मराजम् ।
विसृज्य धावन्तमथानुजग्मतुर्जयद्रथं विरथं फल्गुनोऽकः ॥ ३६८॥
पद्भ्यां धावन्तं भीमसेनो निगृह्य दत्वा प्रहारांश्च भृशं तमार्तम् ।
आदायाधाद् द्रौपदीपादयोश्च तं मोचयामास च धर्मसूनुः ॥ ३६९॥
दासो द्रौपद्या अहमित्येव वाक्ये तेनैवोक्ते भीमसेनोऽप्यमुञ्चत् ।
स ब्रीळितोऽवाग्वदनो ययौ वनं पार्थाश्च तत्रोषुरतिप्रमोदिनः ॥ ३७०॥
मार्कण्डेयस्तदाऽऽगत्य तेषामकथयत् कथाः ।
बह्व्यश्चैव विचित्राश्च भाषात्रयसमन्विताः ॥ ३७१॥
लोकदर्शनमाश्रित्य देवाश्च मुनयस्तथा ।
ब्रूयुः कथास्तत्र शिक्षा ग्राह्या नार्थाः कथञ्चन ॥ ३७२॥
अर्थः समाधिभाषासु ग्राह्यः सर्वोऽप्यसंशयम् ।
परदर्शनभाषासु ज्ञेयं तद्दर्शनं तथा ॥ ३७३॥
ग्राह्यो नार्थो वैदिकं तु दर्शनं ग्राह्यमेव च ।
अन्यार्थो गुह्यभाषासु ग्राह्य एवं विनिर्णयः ॥ ३७४॥
जयद्रथस्तु भीमेन तदा पञ्चशिखीकृतः ।
तपसा शिवमारध्य वव्रे पाण्डवरोधनम् ।
ऋतेऽर्जुनादर्जुनस्य तुष्टो हि तपसा शिवः ॥ ३७५॥
वने वसत्स्वेव च पाण्डवेषु चक्रे यज्ञं पौण्डरीकाख्यमेव ।
संस्पर्धया राजसूयस्य राजा दुर्योधनो नाप्यसौ तत्कलार्हः ॥ ३७६॥
दुर्योधनस्याऽज्ञया पाण्डवानां दुःशासनः प्रेषयामास तत्रः ।
आगच्छतेत्यवमानाय तं तु भीमोऽवादीद् रणयज्ञं स्वगम्यम् ॥ ३७७॥
ततो दिनैः कैश्चन धार्तराष्ट्राः सकर्णगान्धारनृपाः कुमन्त्रतः ।
सभार्यकाः पाण्डवान् द्रौपदीं च महैश्वर्यं दर्शयित्वाऽवमन्तुम् ॥ ३७८॥
ते स्यन्दनैः काञ्चनरत्नचित्रैर्महागजैस्तुरगैः पत्तिभिश्च ।
स्वलङ्कृताश्चित्रमाल्याम्बराश्च विनिर्ययुर्द्वैतवनाय शीघ्रम् ॥ ३७९॥
गवां दृष्टिच्छद्मना निर्गतांस्तान् ज्ञात्वा शक्रस्तेजसो भङ्गकामः ।
तत्सामर्थ्यं वरमस्मै प्रदाय तद्बन्धनायादिशच्चित्रसेनम् ॥ ३८०॥
स षष्टिसाहस्रककोटियूथपैर्गन्धर्वमुख्यैः संवृतोऽगात् सरस्तत् ।
यस्मिन् स्नातुं वाञ्छति धार्तराष्ट्रस्तदाज्ञया पुरुषास्तानथोचुः ॥ ३८१॥
स्नातुं समायास्यति धार्तराष्ट्रो राजेश्वरो निस्सरध्वं तदस्मात् ।
तीर्थादाज्ञां धारयन्तश्च तस्येत्युक्ता गन्धर्वा जहसुस्तानथोच्चैः ॥ ३८२॥
ऊचुर्वयं मानयामस्तदाज्ञां त्रिलोकानां यः पतिः शक्रदेवः ।
न मानुषाणामपि चक्रवर्तिनां किम्वल्पसारस्य सुयोधनस्य ॥ ३८३॥
इतीरिते कुपितो धार्तराष्ट्रो जघान गन्धर्ववराञ्छरौघैः ।
जघ्नुः सकर्णा अपि तस्य सोदरा जघ्नुश्च ते धार्तराष्ट्रस्य सेनाम् ॥ ३८४॥
मुहूर्तमासीत् सममेव युद्धं तेषां तदा धार्तराष्ट्रस्य चैव ।
पुरां भिन्दोर्वरतो मायया च गन्धर्ववीरा ववृधुस्ततः स्म ॥ ३८५॥
तेजोभङ्गं तत्र सुयोधनस्य पार्थार्थमत्र प्रविधातुमेव च ।
बलं ददावब्जजः केशवश्च गन्धर्वाणां तेऽभ्ययुर्धार्तराष्ट्रान् ॥ ३८६॥
स चित्रसेनः प्रथमं कर्णमेव युयोध पार्थस्पर्धया तेन युद्ध्यन् ।
कर्णो नाशक्नोद् वचनाद् भार्गवस्य रामस्य नित्यामितषड्गुणस्य ॥ ३८७॥
स भग्नयानश्च विकर्णयानमास्थाय तस्यैव नियम्य वाजिनः ।
पराद्रवत् तेन सहैव शीघ्रं दुर्योधनश्चित्रसेनं युयोध ॥ ३८८॥
मुहूर्तमेनेन समं स युद्ध्यन्नन्यैर्गन्धर्वैर्बहुभिर्माययैव ।
भग्ने रथे भूमितळे स्थितः सन् गृहीत आसीच्चित्रसेनेन सङ्खे ॥ ३८९॥
महाबलो धार्तराष्ट्रोऽपि शक्रवराद् विष्णोराज्ञया चाभिवृद्धे ।
स चित्रसेनेन धृतस्तदाऽऽसीद् बद्धः पाशैर्वैद्युतैरिन्द्रदत्तैः ॥ ३९०॥
तस्यानुजाः शकुनी राजभार्याः सर्वे बद्धाः शक्रभृत्यैः प्रणीताः ।
आदाय तानम्बरं सम्प्रयातेष्वरूरुवन् पाण्डवान् मन्त्रिणोऽस्य ॥ ३९१॥
समीपमागत्य पृथासुतानां परिभूतं वः कुलं शक्रभृत्यैः ।
धृतः सभार्यः सानुजो धार्तराष्ट्रस्तं मोचयध्वं भ्रातरं भारताग्र्याः ॥ ३९२॥
इत्युक्त ऊचे भीमसेनोऽग्रजं स्वं जाने राजन् यादृशोऽयं विमर्दः ।
ऐश्वर्यं स्वं दर्शयन् न समागाद् दुर्योधनस्तेजसो भङ्गमिच्छन् ॥ ३९३॥
विज्ञाय तेषां मन्त्रितं वज्रबाहुरेतच्चक्रे नात्र नः कार्यहानिः ।
दिव्यं ज्ञानं स्वात्मनो दर्शयन् स एतावदुक्त्वा विरराम भीमः ॥ ३९४॥
एकाहयज्ञे दीक्षितेनैव राज्ञा सम्प्रेषितो भीमसेनोऽर्जुनश्च ।
समाद्रेयो चित्रसेनं रणे तौ विजित्य दुर्योधनमाश्वमुञ्चताम् ॥ ३९५॥
स चित्रसेनो वासवोक्तं च सर्वं कुमन्त्रितं धार्तराष्ट्रस्य चाऽह ।
पार्थस्य भीमस्य च तन्निशम्य सुब्रीळितो धृतराष्ट्रात्मजोऽभूत् ॥ ३९६॥
समाप्य यज्ञं च ततोऽभियातं सर्वे प्रापुर्धर्मराजं स चाऽशु ।
सम्पूज्य तूत्सृज्य च चित्रसेनमूचे गान्धारे न पुनः कार्यमीदृक् ॥ ३९७॥
स पाण्डवैर्मोचितः सानुजश्च सभार्यकः किञ्चिदतोऽपगम्य ।
सम्मेळनायोपविष्टश्च तत्र सुब्रीळितः सूतपुत्रं ददर्श ॥ ३९८॥
स चाऽह दिष्ट्या जयसि राजन्निति सुयोधनम् ।
ब्रीळितो नेति तं चोक्त्वा यथावृत्तं सुयोधनः ।
उक्त्वा प्रायोपवेशं च चक्रे तत्र सुदुःखितः ॥ ३९९॥
कर्णदुःशासनाभ्यां च सौबलेन च देविना ।
अन्यैश्च याच्यमानोऽपि नैवोत्तस्थौ सुयोधनः ॥ ४००॥
ततो निशायां प्राप्तायां स्वपक्षे प्रविषीदति ।
मन्त्रयित्वाऽसुरैः कृत्या निर्मिता होमकर्मणा ॥ ४०१॥
शुक्रेणोत्पादिता कृत्या सा प्रसुप्तेषु मन्त्रिषु ।
धार्तराष्ट्रं समादाय ययौ पाताळमाशु च ।
अथ सम्बोधयामासुर्दैत्या दुर्योधनं नृपम् ॥ ४०२॥
त्वं दिव्यः पुरुषो वीरः सृष्टोऽस्माभिः प्रतोषितात् ।
तपसा शङ्कराद् वज्रकायोऽवध्यश्च सर्वदा ।
अस्माकं पक्षभूतस्त्वं देवानां चैव पाण्डवाः ॥ ४०३॥
इदानीं सर्वदेवानां वरात् त्वं विजितो रणे ।
वयं तथा करिष्यामो यथा जेष्यसि पाण्डवान् ॥ ४०४॥
कृष्णेन निहतश्चैव नरकः कर्ण आस्थितः ।
स च कृष्णार्जुनाभावं करिष्यति न संशयः ॥ ४०५॥
भीष्मादींश्च वयं सर्वानाविशाम जयाय ते ।
तपसा वर्द्धयिष्यामस्त्वां कर्णादींश्च सर्वशः ॥ ४०६॥
तस्माद् गत्वा पालयस्व राज्यं राजन्नपेतभीः ।
इदं कस्यापि नाऽख्येयं सुगुप्तं भूतिवर्द्धनम् ॥ ४०७॥
इत्युक्त्वा कृत्यया भूयः स्वस्थाने स्थापितो नृपः ।
उमया निर्मितात्मार्द्धमुत्तरं हरनिर्मितम् ।
ज्ञात्वैवावध्यतां चैव राज्ये बुद्धिं चकार सः ॥ ४०८॥
नोवाच कस्यचित् तेषु स्वानुभूतं सुयोधनः ।
प्रभातायां तु शर्वर्यां पुनः कर्णो वचोऽब्रवीत् ॥ ४०९॥
भृत्यैस्तवैव पार्थैर्यन्मोचितोऽसि परन्तप ।
तेन मान्योऽधिकं लोके यद् भृत्या एव तादृशाः ।
किमु त्वं राजशार्दूल तदुत्तिष्ठ स्थिरो भव ॥ ४१०॥
या च तेऽर्जुनमाहात्म्ये शङ्का सा व्यैतु मे शृणु ।
यावन्नैवार्जुनं हन्यां पादौ प्रक्षाळये स्वयम् ॥ ४११॥
इत्युक्तोऽवरजैश्चैव सर्वैः शकुनिना तथा ।
याचितो रथमारुह्य ययौ नागपुरं द्रुतम् ॥ ४१२॥
सकुण्डलं सकवचमवध्यं सूर्यनन्दनम् ।
ज्ञात्वेन्द्र उभयं तस्मादैच्छदादातुमुत्तमम् ॥ ४१३॥
तद् विज्ञाय रविः कर्णं स्वप्न उक्त्वा न्यवारयत् ।
सर्वथा दास्य इत्युक्ते प्राहाऽदेयं वरायुधम् ॥ ४१४॥
ददौ चोत्कृत्य कवचं कुण्डले च शचीपतेः ।
अमोघां शक्तिमादाय ज्ञात्वैव द्विजरूपिणम् ॥ ४१५॥
ऋतेऽर्जुनादेकमेव वधिष्यस्यनयेति सः ।
दत्वा शक्तिं ययौ शक्रः सार्द्धं कवचकुण्डलैः ॥ ४१६॥
पार्था विमुच्यैव सुयोधनं तं वने वसन्तो मुदिताः सदैव ।
सहारणीभाण्डमथो मृगेण हृतं द्विजस्याऽशु निशम्य चान्वयुः ॥ ४१७॥
तस्मिन्नदृश्ये तृषिता एकैक उदकार्थिनः ।
ययुर्युधिष्ठिरमृते सुप्तास्ते धर्ममायया ॥ ४१८॥
अदृश्येनैव धर्मेण वारिता वारिपायिनः ।
क्षत्रधर्मस्य रक्षार्थं न तत्प्रश्नान् विदां वराः ।
व्याचक्रुः शक्तिमन्तोऽपि पानीयार्थमरिन्दमाः ॥ ४१९॥
न विप्राणां च धर्मोऽयं विद्याया उपजीवनम् ।
क्षत्रियाणां तु किमुत प्रसभं तेन ते पपुः ॥ ४२०॥
देवा अपि मनुष्येषु जाताः सुबलिनोऽपि हि ।
मानुषेणैव भावेन युक्ताः स्युः केशवादृते ।
कार्येष्वेषां क्रमेणैव व्यक्तिमायान्ति सद्गुणाः ॥ ४२१॥
अतो भीमार्जुनौ धर्मादत्युत्तमबलावपि ।
देवमायां समाश्रित्य धर्मेण स्वापितौ क्षणात् ॥ ४२२॥
मुहूर्तमेव सा माया तयोराच्छादनक्षमा ।
ततः प्रबुद्धयोर्धर्मो नैव शक्तिशतांशभाक् ॥ ४२३॥
उक्तं पाद्मपुराणे च तदेतत् सर्वमञ्जसा ।
तस्मान्नाशक्तिरनयोः सम्भाव्या भीमपार्थयोः ॥ ४२४॥
धर्मात्मजोऽथाऽजगामोदकान्तं दृष्ट्वा भ्रात्Qंस्तत्र दुःखाभितप्तः ।
इच्छन् पातुं वारि संवारितश्च पित्रा बकाकारमितेन नापात् ॥ ४२५॥
अर्थे भ्रात्Qणामैच्छदसौ तदीयप्रश्नप्रतिव्याहरणं दयाळुः ।
ततो धर्मो यक्षतनुः स भूत्वा प्रश्नांश्चक्रे व्याकरोत् तान् स पार्थः ॥ ४२६॥
ततस्तुष्टो वरमस्मै ददौ स एकोत्थानं भ्रातृमध्ये स वव्रे ।
यद्येकः स्यान्नकुलोऽस्त्वित्यथाऽह तुष्टो धर्मः कथमेतत् कृतं ते ।
अतिप्रीतिर्भीमसेने तवास्ति बली चासौ राज्यहेतुस्तव स्यात् ॥ ४२७॥
इत्युक्त ऊचे माद्रिपुत्रं विहाय कुन्तीपुत्रो न मयोत्थापनीयः ।
स एवमुक्तो नितरां प्रीयमाण उत्थापयामास च तान् समस्तान् ॥ ४२८॥
यथेष्टरूपप्राप्तिमेषां पुनश्च स्वकामतोनिजरूपाप्तिमादात् ।
अज्ञातवासेऽज्ञाततां सर्वदैव ददौ तेषां प्रीत इवाऽनृशंस्यात् ।
एवं क्रीडन् पुत्र इत्यात्मनैव यशोधर्मावात्मनो वर्द्धयन् सः ॥ ४२९॥
युधिष्ठिरात्मनस्तस्य यशोधर्मविवृद्धये ।
कृत्वाऽरण्यपहारादि पुनर्दत्वा च तत् स्वयम् ।
दातुं विप्राय तद्धस्ते ययौ धर्मो दिवं पुनः ॥ ४३०॥
ततो राजा भीमसेनार्जुनौ च सार्द्धं यमाभ्यामरणीं प्रदाय ।
मुदा युताः कृष्णया सार्द्धमेव सन्तुष्टुवुः कृष्णमनन्तमच्युतम् ॥ ४३१॥