प्रणम्य रमणं लक्ष्म्याः पूर्णबोधान्गुरूनपि । व्याख्यां तत्वविवेकस्य करिष्यामो यथामति
अथ श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितः
तत्वविवेकः
मङ्गलाचरणम्
श्रीजयतीर्थभिक्षुविरचितया टीकया समलङ्कृतः
टीका
प्रणम्य रमणं लक्ष्म्याः पूर्णबोधान्गुरूनपि ।
व्याख्यां तत्वविवेकस्य करिष्यामो यथामति ।। १ ।।
अथ श्रीव्यासतीर्थयतिविरचिता
तत्वविवेकटीकाटिप्पणी मन्दारमञ्जरी प्रारभ्यते
मन्दारमञ्जरी
कमलारमणं नत्वा पूर्णबोधेष्टदैवतम् ।
व्याख्यां तत्वविवेकस्य करिष्यामो यथामति ।। १ ।।
स्पष्टार्थो य इह ग्रन्थस्स न व्याक्रियते मया ।
ग्रन्थगौरवभीरुत्वान्न चोद्ग्रन्थं बहूच्यते ।। २ ।।
बिदरह•ी श्रीनिवासतीर्थविरचितं टीकाविवरणं प्रारभ्यते
तत्वविवेकटीकाविवरणं
श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः ।।
आनन्दादिगुणोद्रिक्तं स्वाश्रितानन्ददायकम् ।
आनन्दात्मकसद्देहं भजेऽहं बादरायणम् ।। १ ।।
श्रीमदानन्दतीर्थार्यान्जयराजमुनीनपि ।
वेदेशाख्यमुनीन् वन्दे गुरूणामपि सद्गुरून् ।। २ ।।
प्रणम्य यादवाचार्यगुरूणां पादपङ्कजे ।
टीकां तत्वविवेकस्य व्याकुर्वे तत्कृपाबलात् ।। ३ ।।
इह हि परमकारुणिको जयतीर्थश्रीमच्चरणस्तत्वविवेकव्याख्याङ्कर्तुकामः प्रारिप्सितपरिसमाप्त्यादिप्रयोजनतया शिष्टाचारपरंपरावगतां रमापतिप्रणतिमादिगुरूणां परमगुरूणां च प्रणतिं विधाय शिष्यशिक्षायै ग्रन्थादौ तामुपनिबध्नन् श्रोतृबुध्यनुकूलनार्थं स्वचिकीर्षितं प्रतिजानीते ।। प्रणम्येति । प्रणम्येति ल्यपा नमस्कारस्य ग्रन्थकरणात्पूर्वभावकथनात्तयोरङ्गाङ्गिभावस्सूचितो ज्ञातव्यः । गुरून् पद्मनाभतीर्थश्रीमच्चरणान् अक्षोभ्यतीर्थश्रीमच्चरणांश्च ।