एषां विकारोऽनित्यः स्यात्

अनित्यनिर्देशः

टीका

अनित्यं निर्दिशति– एषामिति ।।

तत्वविवेकः

एषां विकारोऽनित्यः स्यात् ... .... .... ।

एषां यथासम्भवं कालादीनां विकार उपचितादिभागः । तत्र कालस्य क्षणाद्यवयवाः । महदादीनामुपचयांशः । एवमेषां महदादीनां विकारं कार्यं ब्रह्माण्डं तदन्तर्गतं सर्वमनित्यमिति ।

ननु चेतना नित्या अनित्या बहिर्भूता वा । नाद्यद्वितीयौ । नित्यत्वानित्यत्वयोरचेतनप्रभेदत्वेनोक्तत्वात् । न तृतीयः । नित्यानित्यत्वयोः परस्परविरुद्धत्वेन तृतीयप्रकारासम्भवादित्यत आह– नित्या एवेति ।।

तत्वविवेकः

... ... ... ... नित्या एव हि चेतनाः ।

हिशब्दस्तत्र प्रमाणं सूचयति । यथोक्तं जीवो नित्यो धातुरस्य त्वनित्यः इति ।

न चैवं नित्यत्वानित्यत्वयोरचेतनविभागत्वोक्तिविरोधः । अचेतनं नित्यानित्यभेदाद् द्विधैव । न तु नित्यमेव नाप्यनित्यमेवेत्येवंपरा सा । न त्वचेतनमेवैवंविधमिति व्याख्येयत्वात् । उपलक्षणं चैतत् । अन्यदप्येवं प्रामाणिकं ग्राह्यम् । यथा स्वतन्त्रतत्वस्य भावत्वं चेतनत्वं नित्यमुक्तत्वं नित्यत्वं वा अभावस्याचेतनत्वं तत्रापि प्रागभावस्यानादित्वे सत्यनित्यत्वं प्रध्वंसाभावस्य सादित्वे सति नित्यत्वं अत्यन्ताभावस्यानादिनित्यत्वमिति । विभागस्यान्यनिषेधार्थत्वाभावात् ।

मन्दारमञ्जरी

।। नित्यत्वानित्यत्वयोः परस्परविरुद्धत्वेनेति ।। आकारभेदं विनेति शेषः ।। अनादिनित्यत्वमिति ।। अनादित्वं प्रागभावाप्रतियोगित्वम् । नित्यत्वं ध्वंसाप्रतियोगित्वमिति भेदः ।

तत्वविवेकटीकाविवरणं

एषामिति । नित्यत्वेन निर्दिष्टानामित्यर्थः । काले महदादौ तत्कार्यब्रह्माण्डादौ च विकारशब्दस्यैकार्थत्वाभावाद्यथा सम्भवमित्युक्तम् । तदेव विवृणोति ।। उपचितादिभाग इत्यादिना । इदमसंसृष्टम् । एवमित्यादिना संसृष्टं दर्शितम् ।। उक्तत्वादिति । द्विधैवाचेतनं मतं नित्यानित्यत्वभेदेनेत्युक्तत्वादित्यर्थः ।। धातुरिति । शरीरमित्यर्थः ।। न चैवमिति । जीवानां चेतनत्वात्तेषां च नित्यत्वाङ्गीकारादित्यर्थः ।। एवंपरा सेति । द्विधैवाचेतनं मतं नित्यानित्यत्वभेदेनेत्युक्तिः एवंपरा एवमर्थे तात्पर्यवतीत्यर्थः । तदर्थविशदनप्रकारोऽचेतनमित्यादिनकृतः ।। द्विधैवेति । न त्वेकप्रकारमेवेत्यर्थः । तदेव विशदयति ।। न तु नित्यमेवेति ।। नत्वचेतनमेवेति । तथा च द्विधैवेत्येवकारस्य द्विधेत्यनेन सम्बन्धो न त्वचेतनमित्यनेनेत्यर्थः ।। एवंविधमिति । नित्यमनित्यञ्चेत्यर्थः । अचेतनं द्विविधमित्यस्य यद्यचेतनमेव नित्यानित्यप्रभेदेन द्विविधमित्यर्थस्स्यात् । तदैव चेतनानां नित्यत्वोक्तिर्विरुद्धा स्यादिति भावः ।। एतदिति । जीवानां नित्यत्ववचनमित्यर्थः । एतदेव दर्शयति ।। यथा स्वतन्त्रस्येति । स्वतन्त्रस्य विष्णोरित्यर्थः ।। प्रागभावस्यानादित्वे सत्यनित्यत्वमिति । घटादावतिव्याप्तिवारणायानादित्वे सतीत्युक्तम् । तावत्येवोक्तौ गगनादावतिव्याप्तिस्स्यादतोऽनित्यत्वमित्युक्तम् ।

ननु समग्रस्यापि लक्षणस्यानादिप्रकृतिबन्धात्मकलिङ्गशरीरेऽतिव्याप्तिः । तस्याप्यनादित्वे सति अनित्यत्वादिति चेन्न । अनादित्वे सत्यनित्याभावत्वमिति विशेषणस्याभिप्रेतत्वाददोषः ।। सादित्वे सतीति । अत्रापि गगनादावतिव्याप्तिवारणाय सादित्वे सतीति । घटादावतिव्याप्तिवारणाय नित्यत्वमित्युक्तम् । नन्वेवं पुराणेष्वतिव्याप्तिस्स्यात् । तेषामपि सादित्वे सति नित्यत्वादिति चेन्न । पुराणानामन्यथा शब्दरचनमेवानित्यत्वमित्युक्तत्वेन नित्यपदेनैव तद्व्यावृत्तिसिद्धेः । सादित्वे सति नित्याभावत्वमित्यभावपदं वा देयमित्यदोषः ।। अनादिनित्यत्वमिति । नित्यत्वमात्रं ध्वंसेऽतिव्याप्तम् । अनादित्वमात्रं प्रागभावे । समग्रं गगनादौ । अतोऽनादिनित्याभावत्वमिति तत्राप्यभावपदं देयमित्यदोषः । ननु द्विविधं परतन्त्रं च भावोऽभाव इतीरित इत्यादिना भावत्वचेतनत्वादेः परतन्त्रप्रभेदत्वेनोक्तत्वात्कथं स्वतन्त्रस्य विष्णोर्भावत्वादिकम् । तथा कथमभावस्याचेतनत्वं चेतनोऽचेतनश्चेति भावोऽपि द्विविधस्स्मृत इति अचेतनस्य भावप्रभेदत्वेनोक्तत्वादित्यत आह ।। विभागस्येति ।। अन्यनिषेधेति ।। स्वतन्त्रस्य भावत्वादिनिषेधार्थत्वस्याभावस्याचेतनत्वनिषेधार्थत्वस्य चाभावादित्यर्थः । द्विविधं परतन्त्रमिति विभागोक्तिः परतन्त्रं भावोऽभाव इति द्विविधमेव न त्वेकविधमित्येवंपरा । न तु परतन्त्रमेवैवं द्विविधमिति । तथा चेतनश्चेति विभागोक्तिरपि भावश्चेतनोऽचेतनश्चेति द्विविध एव न त्वेकविध इत्येवं परा । न तु भाव एवैवं द्विविध इत्यर्थाङ्गीकारान्न स्वतन्त्रतत्वस्य भावत्वादिकं अभावस्याचेतनत्वं च विरुद्धमिति भावः ।।