स्वतन्त्रं परतन्त्रं च प्रमेयं द्विविधं मतम्
तत्वस्य सामान्यत उद्देशलक्षणविभागाः
टीका
तत्रादौ तावत्सामान्येन तत्वस्य विभागोद्देशं करोति– स्वतन्त्रमिति ।।
तत्वविवेकः
स्वतन्त्रं परतन्त्रं च प्रमेयं द्विविधं मतम् ।
मन्दारमञ्जरी
।। तत्रादौ तावदित्यादि ।। तत्र वक्तव्यत्वेन बुद्धिस्थानां उद्देशलक्षणविभागपरीक्षाणां मध्य इत्यर्थः । द्विविधं परतन्त्रञ्चेत्यादिना करिष्यमाणयोरुद्देशविभागयोर्विशेषविषयकत्वादत्र क्रियमाणयोस्सामान्यविषयकत्वादपुनरुक्तिरिति दर्शयितुं सामान्येनेत्युक्तम् । विशेषोद्देशविभागस्य सामान्योद्देशादिपूर्वकत्वात् अयमेवादौ कर्तव्य इति भावेन आदावित्युक्तम् । न च न्यूनता विशेषोद्देशविभागस्यापि करिष्यमाणत्वादिति भावेन तावदित्युक्तम् । विभागोद्देशमिति समाहारद्वन्द्वः । अत्र प्रमेयमिति सामान्योद्देशः । द्विविधमिति विभागः । स्वतन्त्रं परतन्त्रञ्चेत्यनेन तदेव द्वैविध्यं दर्शितमिति द्रष्टव्यम् ।
यद्वा विभागेनोद्देशो विभागोद्देश इति तृतीयासमासः । अस्मिन्पक्षे प्रमेयमित्यनूद्यावशिष्टेन विभागपूर्वकमुद्देशः कृत इति द्रष्टव्यम् ।
यद्यप्यत्र प्रमेयमित्यनुवादेनैव तत्वसामान्यलक्षणं स्वतन्त्रमित्यादिना विशेषलक्षणं चार्थादुक्तमेव । तथा मतमित्यनेन प्रमाणं सूचयता परीक्षाऽप्यर्थात्कृतैव । तथाप्युद्देशविभागवल्लक्षणपरीक्षयोस्साक्षादकृतत्वात् विभागेनोद्देशं करोतीत्युक्तम् ।
तत्वविवेकटीकाविवरणं
तत्रेति । बुद्धिस्थानामुद्देशविभागलक्षणपरीक्षाणां मध्य इत्यर्थः । यद्वा तत्वे सङ्गृह्य निरूपणीय इत्यर्थः । सङ्गृह्य तत्वनिरूपणस्य प्रकरणावान्तरप्रयोजनत्वेन प्रागुक्तत्वान्निरूपणस्य चोद्देशात्मकत्वेन तादृशे तत्वस्य निरूपणे कर्तव्ये सत्यादौ तावत्सामान्यतो विभागोद्देशावाहेत्यर्थः । स्वतन्त्रं परतन्त्रं चेत्यनेनैवोद्देशविभागयोर्लब्धत्वेन प्रमेयं द्विविधमिति पुनरुक्तिरित्याशङ्कापरिहारायोक्तम् । सामान्येनेति । तथाच प्रमेयमिति सामान्येनोद्देशः । द्विविधमिति सामान्येन विभागः । स्वतन्त्रं परतन्त्रं चेति तद्विवरणम् । तथाच स्वतन्त्रपरतन्त्रं चेति करिष्यमाणोद्देशविभागौ विशेषविषयावित्यपुनरुक्तिरिति भावः । विशेषोद्देशविभागयोस्सामान्योद्देशादिपूर्वकत्वादयमेवादौ कर्तव्य इति भावेनादावित्युक्तम् । तावच्छब्दः क्रमार्थकः। तथा च विशेषोद्देशादिकं च पश्चात्करिष्यत इति न न्यूनता शङ्कनीयेत्याशयः । द्वन्द्वैकवद्भावं नपुंसकत्वं चाश्रित्य विभागोद्देशमित्युक्तम् । विभागेन सहितमुद्देशमिति वा ।