सृतियुक् च द्विधा मतः ..मुक्तोऽमुक्त इति
सृतियुक्चेतनविभागः
टीका
तत्प्रभेदमाह– सृतियुगिति ।।
तत्वविवेकः
... ... ... सृतियुक् च द्विधा मतः ।। ४ ।।
मुक्तोऽमुक्त इति ... ...... ... ......।
मन्दारमञ्जरी
मुक्तोऽमुक्त इति मूलग्रन्थे संसारध्वंसाधिकरणत्वं मुक्तत्वम् । वर्तमानसंसारत्वममुक्तत्वमिति भेदो द्रष्टव्यः ।
तत्वविवेकटीकाविवरणं
तत्प्रभेदमाहेति । धाल्प्रत्ययस्य सृतियुगपेक्षयैव तत्प्रयुक्तत्वादवान्तरभेदमाहेत्यर्थः । मुक्तोऽमुक्त इति मूले संसारप्रध्वंसाधिकरणत्वं मुक्तत्वम् । वर्तमानसंसारवत्वममुक्तत्वमिति द्रष्टव्यम् ।।