द्विधैवाचेतनं मतम् नित्यानित्यत्वभेदेन

अचेतनविभागः

टीका

एवं चेतनविभागमभिधायाचेतनविभागमाह– द्विधैवेति ।।

तत्वविवेकः

..... द्विधैवाचेतनं मतम् ।। ७ ।।

नित्यानित्यत्वभेदेन ..... ..... ।

एवकारेण सर्वनित्यत्वं सर्वानित्यत्वं च व्यावर्तयति । सर्वनित्यत्वे कारकवैयर्थ्यम् । अभिव्यक्तयर्थमिति चेत् । तदाऽभिव्यक्तेरप्यसत्या एवोत्पत्तिः । न चेदुक्तवैयर्थ्यानिस्तारः । व्यक्तेरपि व्यक्तयङ्गीकृतावनवस्था ।

मन्दारमञ्जरी

अभिव्यक्तिः किं सती उतासती । अन्त्ये सर्वनित्यत्वभङ्गः । व्यक्तेरसत्या एवोत्पत्तेरित्याह ।। तदा व्यक्तेरिति ।। आद्ये कारकवैयर्थ्यमित्याह ।। न चेदिति ।। ननु व्यक्तेस्सत्त्वेऽपि न कारकवैयर्थ्यम् । व्यक्तयर्थत्वात्कारकाणमित्यत आह ।। व्यक्तेरिति ।।

तत्वविवेकटीकाविवरणं

सर्वनित्यत्व इति । सर्वनित्यत्वमङ्गीकृत्य तस्य सत्कार्यवादाङ्गीकार इत्यर्थः ।। कारकेति । घटादेस्सर्वस्य नित्यत्वे दण्डचक्रादिरूपकारकसमूहस्य वैयर्थ्यं स्यादित्यर्थः । पूर्वं मृत्पिण्डे विद्यमानस्यैव घटादेरभिव्यक्तयर्थं कारकचक्रमुपयुज्यते । अतो न वैयर्थ्यमित्याशङ्कते ।। अभिव्यक्तयर्थमिति चेदिति । तत्र प्रष्टव्यम् । साऽभिव्यक्तिरपि किं पूर्वमसत्येवोत्पद्यते उत सती । नाद्यः । अत्यन्तसत्कार्यवादभङ्गापत्त्या सर्वनित्यत्वभङ्गापत्तेः । व्यक्तेरसत्या एवोत्पत्त्यङ्गीकारादित्याह ।। तदा व्यक्तेरिति । द्वितीये तु कारकचक्रवैयर्थ्यमित्याह ।। न चेदिति । ननु पूर्वं सत्या एव व्यक्तेरुत्पत्त्यङ्गीकारेऽपि न कारकचक्रवैयर्थ्यम् । व्यक्तयभिव्यक्तयर्थत्वात् कारकचक्रस्येत्याशङ्क्य निषेधति ।। व्यक्तेरपीति ।। अनवस्थेति । व्यक्तिनिष्ठा व्यक्तिरपि यद्यपि सत्येवोत्पद्यते तर्ह्यत्यन्तसत्कार्यवादभङ्गापत्त्या सर्वनित्यत्वभङ्गः । सती चेत्कारकचक्रवैयर्थ्यम् । तस्या अपि व्यक्तेः पुनर्व्यक्तयन्तराङ्गीकारेऽनवस्थेत्यर्थः ।।

Load More