द्विविधं परतन्त्रञ्च भावोऽभाव इतीरितः
परतन्त्रतत्वविभागः
टीका
परतन्त्रस्य भेदमाह– द्विविधमिति ।।
तत्वविवेकः
द्विविधं परतन्त्रञ्च भावोऽभाव इतीरितः ।
भाव इतीरित एका विधा । अभाव इतीरितश्चापरा । एवं परतन्त्रं च द्विविधमिति योज्यम् । ईरितग्रहणाद्ये भावाभावविभागं नेच्छन्ति तेषामागमविरोध उक्तो भवति । किं च भावानभ्युपगमे अभाव एव न स्यात् । प्रतियोगिनोऽभावात् । अभावानभ्युपगतौ प्रतीतिविरोधः । विभागानभ्युपगमे तु प्रतीतिविरोध इति । अत्रापि भावाभावपदाभ्यामेव विधिनिषेधात्मकत्वं द्वयोर्लक्षणं सूचितं भवति ।। पूर्ववद्विधाग्रहणेनावान्तरभेदश्च ।
मन्दारमञ्जरी
ननु न केवलं तत्वं स्वातन्त्र्यादिना द्विविधम् । अपि तु परतन्त्रमपि भावोऽभाव इति द्विविधमीरितमिति ईरितशब्दस्य नपुंसकत्वेन भाव्यम् । पुल्लिङ्गनिर्देशस्तु कथमित्याशङ्क्य भाव इतीरितो भावपदार्थ एका विधा । अभाव इतीरितोऽभावपदार्थोऽपरा विधा एवं द्विविधमिति योज्यम् । एवं च पुल्लिङ्गान्तेनाऽवृत्तेन ईरितशब्देन भावमभावं च विशेषयता आचार्येण तयोरयं भावः तद्विरुद्धोऽयमभाव इति परस्परविरुद्धतया लोकागमयोरीरितत्वेन तद्विभागानङ्गीकारे आगमविरोधस्सूचितो भवतीत्याह ।। भाव इतीरित इत्यादिना विभागानभ्युपगमे तु इत्यन्तेन ।। विधिनिषेधात्मकत्वमिति ।। प्रथमप्रतीतावस्तीत्युपलभ्यमानत्वं विधित्वं तत्र नास्तीत्युपलभ्यमानत्वं निषेधत्वमिति द्रष्टव्यम् । अवान्तरभेदश्चेत्यस्यानुषक्तेन सूचित इत्यनेनान्वयः ।
तत्वविवेकटीकाविवरणं
ननु परतन्त्रप्रमेयं भावोऽभाव इति द्विविधमीरितमिति ईरितशब्दस्य नपुंसकत्वेन भाव्यम् । पुल्लिङ्गनिर्देशस्तु कथमित्याशङ्कायामाह ।। भाव इतीरित इति । भावपदार्थ इति शेषः । एवमभाव इतीरित इत्यनन्तरमभावपदार्थ इति शेषः ।। आगमेति । स चान्यत्र द्रष्टव्यः । अभावपदार्थमङ्गीकृत्य भावपदार्थानभ्युपगमे युक्तिविरोधं चाह ।। किञ्चेति ।। प्रतियोगिन इति । भावस्येत्यर्थः । सद्य्भामधिकरणप्रतियोगिभ्यामभावो निरूप्यत इति वचनादिति ज्ञेयम् । ननु शशविषाणादेः प्रतियोगिनः सत्वाभावेऽपि ज्ञानमात्रेणाभावप्रतीतिदर्शनादिहापि तथैवास्त्विति चेत् । अस्त्यत्राभिप्रायविशेषः । प्रतियोगिभावस्याभावे तदभावो न स्यादित्यस्य प्रतियोग्यारोपपूर्वकप्रतीतिविषयो न स्यादित्यर्थः । प्रतियोगिभूतं भावमारोप्य तन्निषेधः कर्तव्यः । स तु न सम्भवति । भावारोपे प्रधानभूतस्य वास्तवस्य भावस्याभावादिति । भावपदार्थमङ्गीकृत्याभावपदार्थानभ्युपगमे इह भूतले घटो नास्तीति विरोधस्स्यादित्याह ।। अभावानभ्युपगताविति । भावाभावभेदेन परतन्त्रविभागानभ्युपगमे त्वन्यत्रोदाहृतागमविरोध इत्याशयेनाह ।। विभागेति । ननु भावाभावयोर्लक्षणाकथनान्न्यूनतेत्यत आह ।। भावाभावपदाभ्यामेवेति ।
विधिनिषेधात्मकत्वं नामास्तित्वनास्तित्वात्मकत्वम् । प्रथमप्रतीतौ योऽस्तीत्युपलभ्यते स भावः । यश्च प्रथमप्रतीतौ नास्तीति प्रतीयते सोऽभावः । कुत एतद्वैचित्र्यमिति चेदुच्यते । स्वरूपेण हि भावाभावौ विधिनिषेधात्मानौ रूपान्तरेण निषेधविधिरूपौ । तत्रापातजायां संविदि स्वरूपमात्रमवभासते । द्वितीयादिप्रतीतौ रूपान्तरम् । सामग्रीभेदस्य कार्यगम्यत्वात् । तथाहि प्रतीतिः । अस्त्यत्र घटस्स न शुक्ल इति । इदं च ज्ञानं न प्राथमिकम् । प्रतियोगिज्ञानादिविलम्बनात् । एवं नास्त्यत्र घटः । अस्ति घटाभाव इति । अभावविशेषणकं सत्ताविशेष्यकं ज्ञानमेतत् । इदमपि न प्रथमभावि । विशेषणीभूतस्याभावस्य पूर्वमज्ञानात् । नास्त्यत्र घट इति ज्ञाने तु घटाभावस्य विशेष्यत्वात् तज्ज्ञानस्य चाकारणत्वान्न विलम्ब इत्याशयः ।। विधाग्रहणेनेति । प्रकारवचने धालित्युक्तत्वेन द्विविधमित्यत्र प्रकारार्थकविधाग्रहणेनेत्यर्थः ।