यथार्थज्ञानं प्रमा । तद्विषयः प्रमेयम्
तत्वसामान्यलक्षणपरीक्षा
टीका
यथार्थज्ञानं प्रमा । तद्विषयः प्रमेयम् । नन्वीश्वरज्ञानं तावत्प्रमा । तत्र शुक्तिरजतादिकं तद्विषयो न वा । न चेत्तस्यासार्वज्ञ्यप्रसङ्गः । तद्विषयत्वे तदपि तत्वं स्यादिति । मैवम् । परमार्थाशेषार्थज्ञत्वमेव सार्वज्ञ्यमित्यङ्गीकारात् । तथाप्यस्मदादीनां शुक्तिरजतादिविभ्रममीश्वरो वेत्ति न वा । वेत्तीति ब्रूमः । विषयविशेषितज्ञानस्यावगमे विषयस्यापि प्रमेयत्वं स्यादिति चेन्न । यत् प्रमया अस्तीति विधीयते तत् प्रमेयमित्यङ्गीकारात् । न चेश्वरादिप्रमा शुक्तिरजतादिविधिरूपा । किं तु भ्रान्तोऽयं शुक्तिकाशकलं कलधौतया कल्पयतीत्यनुवादरूपैव । ननु भ्रमेऽपि इदमिति ज्ञानं तावत्प्रमा । किं तावताऽपि । न हि तद्विषयः शुक्तिकायां रजतत्वं येन तत् प्रमेयं स्यात् । ननु इदं रजतमित्येकमेव ज्ञानम् । सत्यम् । अत एव विशिष्टोल्लेखीदमप्रमैवेति उल्लिखितं विशिष्टमतत्वमेवेति ।
मन्दारमञ्जरी
ननु प्रमेयं चेतत्वं तर्हि तत्वानुभूतेः प्रमात्वादन्योन्याश्रय स्स्यादित्याशङ्क्याह ।। यथार्थज्ञानं प्रमेति ।। तत्र शुक्तिरजतादिकमिति ग्रन्थे तत्रेत्यस्य तथा सतीत्यर्थः ।। परमार्थाशेषार्थेति ।। अर्यते इति व्युत्पत्त्या अर्थशब्दोक्तस्य ज्ञेयत्वस्य शुक्तिरूप्यादावपि भावात्तद्व्यावृत्त्यर्थमबाधितवाचकस्य परमार्थपदस्य प्रयोगः ।। वेत्ति न वेति ।। वेत्ति चेद्विषयाविशेषितस्य ज्ञानस्य बुद्धावनारोहात्तद्विषयविशेषितस्यावगमे विषयस्यापि प्रमेयत्वं स्यात् । न वेत्ति चेज्ज्ञानस्य परमार्थत्वात्परमार्थाशेषार्थज्ञत्वरूपमपि सर्वज्ञत्वं न स्यादिति वाक्यशेषः । वेत्तीति पक्षे पूर्वोक्तदोषं स्मारयति पूर्वपक्षी ।। विषयविशेषितज्ञानस्यावगम इति ।। यत्प्रमयाऽस्तीति विधीयत इति ।। अस्तीत्यनेन प्रकारेण यत्प्रमया विधीयते सत्ताविशिष्टतया बोध्यते न तु नास्तीति निषिध्यते न वा अन्येनैवं ज्ञातमित्यनूद्यते तत्प्रमेयम् । न चेश्वरप्रमा शुक्तिरजतस्य स्वयमस्तित्वग्रहणरूपा । शुक्तिरजतमस्तीत्यग्रहणात् । किं तु ‘भ्रन्तोऽयं शुक्तिं रजतत्वेन जानाति’ इत्यनुवादरूपा । तेन भ्रान्तनिष्ठज्ञानविषयतया ईश्वरप्रमया विषयीक्रियमाणस्यापि शुक्तिरूप्यस्य ज्ञानान्तरप्रणाडीमन्तरा अस्तीति प्रमीयमाणत्वरूपं प्रमेयत्वं नास्तीति नातिव्याप्तिरित्यर्थः ।
एतेन ‘भ्रमो ममासीत्’ इत्यस्मदादिनिष्ठस्यानुव्यवसायस्य प्रमात्वात् तस्य चार्थावच्छिन्नभ्रमविषयकत्वात् भ्रमविषयस्य वैशिष्ट्यस्यापि प्रमेयत्वापात इति निरस्तम् । अत एव शुक्तिरूप्यस्य शशशृृङ्गादेश्च असत्वाकारेण प्रमाविषयत्वादतिव्याप्तिस्स्यादिति निरस्तम् । अस्तीति प्रमागोचरत्वाभावात् । न चैवमव्याप्तिः अभावस्यापि ‘अभावोऽस्ति’ इति कदाचित्प्रमया ग्रहणात् । अतीतादावपि वर्तमानदशायां अस्तीति ग्रहणादिति द्रष्टव्यम् । ननु इदं रूप्यमिति विशिष्टविषयकभ्रमे इदमिति धर्म्यंशे ज्ञानं तावत्प्रमा । तच्च इदं रूप्यमित्येवमाकारकमेकं विशिष्टज्ञानं शुक्तिरूप्यमस्तित्वाकारेण गृह्णातीति लक्षणस्य तत्रातिव्याप्तिरिति गूढाभिसन्धिः शङ्कते ।।
ननु भ्रमेऽपीति ।। यथा एकस्यैव चैत्रस्य पितृत्वपुत्रत्वे पुत्रपितृरूपप्रतिसम्बन्धिभेदेन व्यवस्थिते यथा च चैत्रपुत्रस्य मैत्रस्य न पुत्रजन्यत्वं मैत्रं प्रति चैत्रस्य पितृत्वेन पुत्रत्वाभावात् तथा इदं रजतमिति विशिष्टज्ञानस्यैकत्वेऽपि शुक्तिरजतवैशिष्ट्यविषयकत्वेऽपि प्रमात्वाप्रमात्वे इदमंशवैशिष्ट्यांशरूपप्रतिसम्बन्धिभेदेन व्यवस्थिते वाच्ये । अन्यथा विरोधात् । इदमंशस्याबाधो रजतांशस्य बाध इति व्यवस्थानुपपत्तेश्च । तथा च न वैशिष्ट्यस्य प्रमाविषयत्वम् । वैशिष्ट्यं प्रति इदं रूप्यमिति ज्ञानस्य प्रमात्वाभावात् । एवं च नातिव्याप्तिरिति गूढाभिसन्धिः परिहरति ।। किं तावतापीति ।। यथा शुक्तिरजतादिभ्रममीश्वरो वेत्तीत्येतावता किम् । न किमपि । तत्प्रयुक्तदोषस्योद्धृतत्वात् । तथा भ्रमस्य धर्म्यंशे प्रमात्वमित्येतावताऽपि किम् । न किमपि । तत्प्रयुक्तदोषस्याप्युद्धर्तुं शक्यत्वादित्यपिशब्दार्थः । अज्ञातसिद्धान्त्याशयः पूर्वपक्षी स्वाभिप्रायमाविष्करोति ।। नन्विदं रजतमितीति । सिद्धान्ती तु ज्ञानस्यैकत्वादेव विशिष्टोल्लेखित्वेन अप्रमारूपतया तदुल्लिखितं तत्वमेव स्यात् । अन्यथा ज्ञानद्वयाङ्गीकारे अख्यातिपक्ष इव विशिष्टोल्लेखित्वाभावेन प्रमैव स्यादिति तदुल्लिखितं तत्वमेव स्यात् । ततश्च ज्ञानैकत्वमतिव्याप्तिप्रतिकूलमेव न त्वनुकूलम् । भ्रमस्य धर्म्यंशे प्रमात्वेऽपि वैशिष्ट्यांशे प्रमात्वाभावेनातिव्याप्तेः परिहृतत्वादिति भावेन परिहरति ।। सत्यमित्यादिना ।।
तत्वविवेकटीकाविवरणं
एकार्थत्वमुपपादयति ।। यथार्थेति । शुक्तिरजतादिकमीश्वरप्रमाविषयो भवति न वेति विकल्प्य द्वितीयं तावदनूद्य दूषयति ।। शुक्तिरजतादिकमिति ।। असार्वज्ञेति । शुक्तिरजतविषयकज्ञानाभावादिति भावः। आद्यमनूद्य दूषयति ।। तद्विषयत्वमिति । ईश्वरप्रमायाः शुक्तिरजतविषयकत्व इत्यर्थः । तदपि शुक्तिरजतमपि ।। तत्वं स्यादिति । प्रमितिविषयत्वादिति भावः । द्वितीयपक्षमेवाङ्गीकृत्य तत्रोक्तदोषं परिहरति ।। परमार्थेति । तथा चेश्वरप्रमायाः शुक्तिरजतविषयकत्वाभावेऽपीश्वरस्य न सर्वज्ञत्वहानिः । परमार्थाशेषार्थविषयकज्ञानवत्त्वस्यैव सर्वज्ञशब्दार्थत्वात् । शुक्तिरजतादेरबाधितत्वापरपर्यायपरमार्थत्वाभावादिति भावः । गूढाभिसन्धिः पूर्वपक्षी विकल्पयति ।। तथापीति । अस्मदादीनां जायमानो यश्शुक्तिरजतादिभ्रमस्तमीश्वरो वेत्ति न वेत्यर्थः । विदितपूर्वपक्ष्यभिप्रायः सिद्धान्ती न वेत्तीति पक्षे शुक्तिरजतादिज्ञानस्वरूपस्य स्वमते परमार्थत्वेन परमार्थाशेषार्थज्ञत्वरूपमपि सार्वज्ञ्यं न स्यादिति दोषभयात्तं पक्षं परित्यज्य द्वितीयपक्षं प्रतिगृह्णाति ।। वेत्तीति ब्रूम इति । पूर्वपक्षी स्वाशयोद्घाटनेन तत्र दूषणमाह ।। विषयविशेषितेति । विषयाविशेषितज्ञानमात्रस्य बुद्धावनारोहाच्छुक्तिरजतादिविषयावच्छिन्नस्य शुक्तिरजतादिज्ञानस्येश्वरप्रमया विषयीकरणे शुक्तिरजता(दावीश्व)देरपीश्वरप्रमाविषयत्वप्राप्त्या प्रमेयत्वं प्राप्तमित्यतिव्याप्तिरित्यर्थः ।। यत्प्रमयेति । अस्तीत्यनेन प्रकारेण यत्प्रमया विधीयते सत्ताविशिष्टतया बोध्यत इति यावत् । न तु नास्तीति निषिध्यते न वाऽनेनैवं ज्ञातमित्यनूद्यते तत्प्रमेयम् । न चेश्वरप्रमा शुक्तिरजतस्य स्वयमस्तित्वविधिरूपा । शुक्तिरजतमस्तीत्यग्रहणात् । किं तु भ्रान्तोऽयं शुक्तिकाशकलमेव रजततया जानातीत्यनुवादरूपैव । तथा च भ्रान्तनिष्ठज्ञानविषयतयेश्वरप्रमया विषयीक्रियमाणस्यापि शुक्तिरजतस्य ज्ञानान्तरद्वारमन्तरेण साक्षादस्तीति प्रतीयमानत्वरूपं प्रमेयत्वं नास्तीति नातिव्याप्तिरित्यर्थः । कलधौततया रजततया । ‘‘कलधौतं सितं गौरं रजतं रूप्यमश्रुजमित्यभिधानम्’’ ।
गूढाभिसन्धिश्शङ्कते ।। ननु भ्रमेऽपीति । इदं रूप्यमिति भ्रमस्यापीदमिति धर्म्यंशे प्रमात्वं तावदस्तीत्यर्थः । सिद्धान्ती अविदिताशय इव पृच्छति ।। किं तावतापीति । भ्रमस्य धर्म्यंशे प्रमात्वमस्तीत्येतावतापि किं दूषणं त्वया दत्तमित्यर्थः । ननु भ्रमस्य धर्म्यंशे प्रमात्वेन रजतत्वरूपे प्रकारांशेऽतिव्याप्तिरिति ममाभिप्राय इति पूर्वपक्षिणोक्ते विदिततदभिप्रायः सिद्धान्ती परिहरति ।। न हीति । तद्विषयः इदमिति धर्म्यंशप्रमाविषयः । शुक्तिकायां प्रकारत्वेन प्रतीयमानं रजतत्वमित्यर्थः । तथाच यदंशे ज्ञानस्य प्रमितत्वं तदंशविषयत्वमेव विवक्षितम् । भ्रमप्रकारे च रजतत्वैतदंशविषयत्वाभावान्नातिव्याप्तिरिति भावः । ज्ञानद्वयाङ्गीकारेण परिहृतमिति मत्वा पूर्वपक्षी शङ्कते ।। नन्विति । तथा च ज्ञानद्वयाङ्गीकारे भवतामख्यातिपक्षपातः स्यादिति भावः । नास्माभिर्ज्ञाने द्वित्वमङ्गीकृत्य परिहृतम् । येनाख्यातिपक्षपातः शङ्केत । किं नामेदंपदार्थविशेष्यकं रजतत्वप्रकारकं विशिष्टज्ञानमेकमेवेत्यङ्गीकृत्यांशभेदेन परिहार उक्त इत्याशयेनाह ।। सत्यमिति । अंशभेदाविवक्षायां तु तत्रातिव्याप्तिरेव नास्तीत्याह ।। अत एवेति । ज्ञानस्यैकत्वादेवेत्यर्थः । अंशभेदाविवक्षयेति शेषः ।। विशिष्टोल्लेखीति । पुरोवर्तिनि रजतवैशिष्ट्योल्लेखीत्यर्थः ।। उल्लिखितमिति । अप्रमाभूतेदं रजतमिति ज्ञानविषयीभूतमित्यर्थः ।। अतत्वमेवेति । तथाच वैशिष्ट्ये प्रमाविषयत्वप्रसक्तेरेवाभावान्नातिव्याप्तिरिति भावः ।।