गुणक्रियाजातिपूर्वा धर्माः सर्वेऽपि वस्तुनः रूपमेव
गुणादीनां विवेचनाभावे कारणोक्तिः
टीका
स्यादेतत्, सर्वेणाप्यनेन प्रबन्धेन द्रव्याणामभावानां च विवेकः सिद्धः । नैतावता सर्वं तत्वं विविक्तं भवति । गुणादीनामविचारितत्वात् । न च ते न सन्त्येव । प्रत्यक्षादिसिद्धत्वादित्यत आह– गुणेति ।।
तत्वविवेकः
गुणक्रियाजातिपूर्वा धर्माः सर्वेऽपि वस्तुनः ।। ९ ।।
रूपमेव ....... ...... ....... ...... ।
गुणा रूपाद्याः । क्रिया उत्क्षेपणाद्याः । जातिः सत्ताद्या । पूर्वपदेन शक्तिसादृश्यविशिष्टादिग्रहणम् । वस्तुनो द्रव्यस्य । सत्यं, सन्ति गुणादयः । किं नाम । यथा भावादयोऽत्यन्तभिन्नाः न तथा गुणादयः । अपि तु स्वाश्रयद्रव्यस्वरूपभूता एव । अतो न ते पृथक्कथ्यन्ते । यदा तु बुद्ध्या विविच्यन्ते तदा विवेकोऽपि कर्तव्य इति ।।
मन्दारमञ्जरी
।। यदा तु बुद्ध्या विविच्यन्त इति ।। यथा प्रमेयाभिधेययोरभेदेऽपि घटकलशवन्निर्विशेषाभेदाभावात् प्रमाविषयः प्रमेयं अभिधाविषयोऽभिधेय इति बुद्ध्या विवेकः क्रियते तथा द्रव्यगुणादेरपि निर्विशेषाभेदाभावाद्बुद्ध्या विवेकः क्रियत इत्यर्थः ।
(श्री.टि) विविक्तं भवतीति । विवेकेन निरूपितं भवतीत्यर्थः । सर्वस्य तत्वस्य विवेको विचारो न कृतो भवतीति यावत् । गुणादीनामित्यादिपदेन कर्मसामान्यादेर्ग्रहणम् । ते गुणाद्याः ।। प्रत्यक्षादीति । इह पटे शौक्ल्यं इह पटे पटत्वमिति प्रत्यक्ष(प्रतीति)सिद्धत्वादित्यर्थः ।। सत्ताद्येति । आद्यपदेन द्रव्यत्वगुणत्वकर्मत्वानां तदवान्तरजातीनां पृथिवीत्वादिरूपत्वाद्युत्क्षेपणत्वादीनां च ग्रहणम् । नन्वेवं गुणादीनां स्वाश्रयद्रव्यस्वरूपत्वे शुक्लरूपवान्पट इत्यादिभेदप्रतीतेः का गतिरित्यत आह ।। यदा त्विति । गुणादेर्द्रव्यादिना भेदो यदा बुद्ध्या विविच्य विवेकं कृत्वा रूपवान्पट इत्यादिरूपेण व्यवह्रियते । तदाऽत्यन्ताभेदस्थले विशेषाङ्गीकारेण भेदाभेदस्थले भेदाभेदाङ्गीकारेण विवेको भेदव्यवहारोऽपि कर्तव्य इत्यर्थः ।