ननु परमपुरुषादितत्वानां विवेकः शास्त्र एव कृतः

ग्रन्थवैयर्थ्यशङ्का तत्परिहारश्च

टीका

ननु परमपुरुषादितत्वानां विवेकः शास्त्र एव कृतः । तत्किमनेन प्रकरणेन । विक्षिप्तसङ्ग्रहार्थमिति चेन्न । सङ्ग्रहस्यापि तत्वसङ्ख्याने कृतत्वात् । सत्यम् । तथापि तत्वसङ्ख्यानोक्तार्थे साक्षित्वेन भगवत्प्रणीततत्वविवेकगतवाक्यान्येवाचार्यैरुदाहृतानीत्यदोषः ।

तत्वविवेकटीकाविवरणं

अस्य प्रकरणस्य शास्त्रेण तत्वसङ्ख्यानेन च गतार्थतामाशङ्क्य परिहरति ।। नन्वित्यादिना ।। साक्षित्वेनेति । संवादित्वेनेत्यर्थः । तथा च तत्वसङ्ख्यानोक्तप्रकारेण परापरतत्वयोरेव विषयत्वात् । तज्ज्ञानमोक्षयोरवान्तरमुख्यप्रयोजनत्वात् । तदर्थं तज्जिज्ञासोरधिकारित्वात् । यथायोग्यं सम्बन्धसद्भावाच्चारम्भणीयमेवेदं प्रकरणमिति न तदभावप्रयुक्तानारम्भणीयताशङ्केति भावः ।।