यत् स्वसत्तादौ स्वाधीनं न तु परापेक्षं तत् स्वतन्त्रम्
स्वतन्त्रास्वतन्त्रतत्वलक्षणम्
टीका
यत् स्वसत्तादौ स्वाधीनं न तु परापेक्षं तत् स्वतन्त्रम् ।। यत् पुनस्तत्र परायत्तं तत् परतन्त्रमिति संज्ञानिरुक्तिरेवानयोर्लक्षणम् ।।
पूर्वोक्तार्थे प्रमाणसूचनेन तत्परीक्षा
मतं प्रमितमित्युक्तार्थे प्रमाणसद्भावसूचनेन प्रकारान्तरं निरस्तं भवति । तथा हि । यदि प्रमेयमेव न स्यात् तदा प्रत्यक्षादिविरोधः । तस्य च भ्रान्तित्वे बाधकं वाच्यम् । न च भ्रान्तिबाधावधिष्ठाना-वधिविधुरौ विद्येते इति तदेव प्रमेयमस्तु । ननु केशोण्ड्रकादिभ्रमो निरधिष्ठान इति चेन्न । तस्यापि तेजोधिष्ठानत्वाभ्युपगमात् । नास्त्येव प्रमेयमिति ज्ञानस्य प्रमात्वाप्रमात्वयोर्व्याहतिश्च ।
मन्दारमञ्जरी
स्वसत्तायां स्वाधीनत्वं स्वप्रतीतौ स्वाधीनत्वं स्वप्रवृत्तौ स्वाधीनत्वमित्यनेकलक्षणसूचनाय स्वसत्तादावित्यादिपदप्रयोगः । यद्यपि देशस्य सर्वगत्ववत् कालस्य त्रिकालसम्बन्धित्ववत् ईश्वरस्य स्वाधीनत्वं विशेषबलाद्युक्तं तथापि विशेषे विप्रतिपद्यमानं प्रति परानधीनत्वमेव लक्षणमस्तु इति भावेन न तु परापेक्षमित्युक्तम् । साञ्ज्ञानिरुक्तया लक्षणस्येव मतग्रहणेन प्रमाणस्यापि सूचितत्वात्परीक्षापि अर्थात्कृतेति न न्यूनतेत्याह ।। मतं प्रमितमिति ।। येन स्वातन्त्र्यपारतन्त्र्याभ्यां प्रमेयद्वैविध्यं नाङ्गीक्रियते स प्रष्टव्यः । किं प्रमेयस्यैवाभावात्तदनङ्गीकारः । भावेऽपि तस्यानेकत्वाभावाद्वा । अनेकत्वेऽपि सर्वस्यापि स्वतन्त्रत्वादिना ऐकविध्येन द्वैविध्यासम्भवाद्वा प्रकरान्तरेण द्वैविध्यसम्भवाद्वा त्रैविध्यादिसम्भवाद्वेति । तत्राऽद्यं दूषयति ।। यदि प्रमेयमेव न स्यादिति ।। यदि प्रमेयमेव न स्यात्तदा ‘अयं घटः’ इत्यादिप्रत्यक्षप्रमितिविरोधः । विषयं विना प्रमित्यनुपपत्तेरित्यर्थः । यद्वा ‘अयं घटः प्रमेयः’ इत्यादिप्रत्यक्षविरोध इत्यर्थः ।। बाधकं वाच्यमिति ।। न च वक्तुं शक्यम् । अनुमानादेः प्रत्यक्षमूलत्वेन तद्बाधाक्षमत्वादिति शेषः । भ्रान्तिबाधके अङ्गीकुर्वाणेनापि भ्रान्त्यधिष्ठानबाधावधिभूततत्वसिद्धिर्वाच्या । निरधिष्ठानभ्रान्तेर्निरवधिकबाधस्य चाभावात् । न हीत्थमित्येव क्वचिद् भ्रान्तिः । किं तु इदमित्थमिति । नापि किमपि नैवेति क्वचिद्बाधः । किन्तु अत्रेदं नेति भावेनाह ।। न चेति ।। शङ्कते ।। नन्विति ।। तेजोधिष्ठानत्वाभ्युपगमादिति ।। निबिडान्धकारे तद्भ्रमाभावादिति भावः । नास्त्येव प्रमेयमिति ज्ञानस्य प्रमात्वे तद्विषयस्य प्रमेयाभावरूपस्य प्रमेयस्य सिद्धिः । अप्रमात्वे तद्विषयस्य प्रमेयाभावस्य बाधे प्रमेयसिद्धिरिति तन्निषेधे व्याहतिरित्याह ।। नास्त्येवेति ।।
तत्वविवेकटीकाविवरणं
यत्स्वसत्तादावित्यादिना । आदिपदेन प्रमितिप्रवृत्त्योर्ग्रहणम् । तथा च स्वरूपलक्षणसत्तायां स्वप्रमितिलक्षणसत्तायां स्वप्रवृत्तिलक्षणसत्तायां च स्वाधीनमेव न तु परापेक्षं यत्तत्स्वतन्त्रमिति लक्षणत्रयं विवक्षितम् । अतो न वैयर्थ्यशङ्का । केचिन्मन्यन्ते स्वरूपमेव वस्तुनस्सत्वं न ततोऽतिरिक्तमस्तीति । अपरे तु प्रमाणयोग्यत्वमिति । अन्ये तु पुनरर्थक्रियावत्त्वमिति । तदनुसारेण स्वरूपप्रमितिप्रवृत्तीनां सत्वव्यवहार इति ध्येयम् ।। तत्रेति । स्वरूपप्रमितिप्रवृत्तिषु ।। संज्ञानिरुक्तिरेवेति ।। स्वस्य तन्त्रं अधीनं स्वतन्त्रम् । परस्याधीनं परतन्त्रमिति नामनिरुक्तिरेवेत्यर्थः । देशस्सर्वत्रास्ति कालस्सर्वदाऽस्तीतिवत् ईश्वरस्यापि स्वाधीनत्वं विशेषबलाद्युक्तम् । विशेषे वि(प्रतिपद्यमा)वदमानं प्रति पराधीनत्वरूपपरानपेक्षत्वमेव लक्षणमस्त्विति भावेन न तु परापेक्षमित्युक्तमिति ज्ञातव्यम् ।। उक्तार्थे प्रमाणेति । प्रमेयं स्वतन्त्रास्वतन्त्रभेदेन द्विविधमित्युक्तार्थे सर्वत्रेत्यर्थः । अनेन परीक्षापि कृतप्रायेति न न्यूनतेत्यपि ज्ञातव्यम् ।
येन स्वतन्त्रं परतन्त्रं चेति प्रमेयद्वैविध्यं नाङ्गीक्रियते स प्रष्टव्यः । किं प्रमेयस्यैवाभावात्तदनङ्गीकारः । भावेऽपि तस्यैकत्वेनानेकप्रकारत्वभावाद्द्वैविध्यं नाङ्गीक्रियते । अथ प्रमेयस्यानेकत्वेऽपि स्वतन्त्रत्वेन वा अस्वतन्त्रत्वेन वा सर्वस्यैकविधत्वेन द्वैविध्यासम्भवाद्वा । उत प्रकारान्तरेण द्वैविध्यसम्भवाद्वा । त्रैविध्यादिसम्भवाद्वेति विकल्पपञ्चकं हृदि निधायाद्यमनूद्य दूषयति ।। यदि प्रमेयमेवेति ।। प्रत्यक्षादिविरोध इति । घटपटपरात्मेश्वरधर्माधर्मादिप्रमेयाणामस्तितायाः प्रत्यक्षचेष्टाद्यनुमानसिद्धत्वेन तदनङ्गीकारे तद्विरोधः स्यादित्यर्थः । प्रत्यक्षादिप्रत्ययस्य भ्रान्तित्वमाशङ्क्य निराकरोति ।। तस्य चेति । घटपटादिप्रमेयस्वरूपास्तित्वावगाहिप्रत्यक्षादिप्रत्ययस्येत्यर्थः ।। बाधकं वाच्यमिति । न च तदत्र वक्तुं शक्यते । अनुमानादेः प्रत्यक्षबाधाक्षमत्वात् । बलवत्प्रत्यक्षमेव तद्बाधकं वाच्यम् । तदत्र नास्तीति भावः । अस्तु वा अयं घट इत्यादिप्रतीतिभ्रान्तिस्तथापि तदन्यथानुपपत्त्यैव प्रमेयसिद्धिरित्याह ।। न च भ्रान्तिबाधाविति । भ्रान्तिरधिष्ठानविधुरा न विद्यते बाधश्चावधिविधुरो न विद्यत इति विवेकः । अयमर्थः । सर्वस्याः प्रतीतेः भ्रान्तित्वमभ्युपगच्छता भ्रान्तेः किञ्चिदधिष्ठानमङ्गीकार्यम् । न हीत्थमि(त्येवक्व)ति क्वचिद्भ्रमः । किं त्विदमित्थमिति । तथा च यदधिष्ठानन्तदेवैकं प्रमेयमङ्गीकार्यम् ।
नन्वस्तु भ्रान्तेर्निरधिष्ठानत्वम् । भ्रमे यावत्प्रतीयते तावत्सर्वमपि असदेवेति स्वीकारादतो नेदं दूषणमित्याशङ्कापरिहारायोक्तम् । बाधोऽवधिविधुरो न विद्यत इति । अवधिराश्रयः । भ्रमप्रतीतिनिषेधस्य तावत्पर्यन्तत्वात् । सर्वस्या अपि प्रतीतेः भ्रान्तित्वं बाधकैकगम्यम् । बाधश्चेदमित्थं न भवतीति वा अत्रेदं नास्तीति वा किञ्चिदवधिको दृष्टः । इत्थं न भवतीदं नास्तीत्येव बाधाभावात् । बाधेन च यदवधित्वेन विषयीक्रियते तदेव प्रमेयमङ्गीकार्यम् । तस्यापि भ्रान्तिसिद्धत्वे तत्रापि बाधो वाच्यः । सोऽपि पुनस्सावधिक इत्यनवस्थेति । अन्ये तु घटादिप्रतीतीनां भ्रमत्वस्य बाधैकगम्यतया बाधो वाच्यः । तथा च तद्विषयस्यैव तत्वता स्यात् । न च बाधोऽपि भ्रम एव । तस्यापि बाधे तद्विषयस्य तत्वतापत्त्या तस्यापि भ्रमत्वेऽनवस्थाप्रसङ्गात् । इष्टापत्तिरिति चेत्तत्रोक्तं बाधोऽवधिविधुरो न विद्यत इति । अवधिविधुरो निरवसानः । अप्रामाणिकत्वात् । अप्रामाणिकत्वे च तदेव प्रमेयं स्यादिति भाव इत्यप्याहुः । भ्रान्तिरधिष्ठानविधुरा न विद्यत इति तदन्यथानुपपत्त्या प्रमेयसिद्धेरिति यदुक्तं तत्र शङ्कते ।। ननु केशोण्ड्रकादीति । आतपव्याप्ते गगने दृष्टिसञ्चारे सति वर्तुलाकाराः पदार्थविशेषाः इतस्तत(स्सर्पन्ती)स्संचरन्तीव दृश्यन्ते ते केशोऽण्ड्रका इत्याहुः । तेजोधिष्ठानत्वेनेति । सौरतेजोरूपाधिष्ठानत्वाभ्युपगमादित्यर्थः । अत एव निबिडान्धकारे तद्भ्रमो न भवतीति भावः । प्रमेयमेव नास्तीत्यङ्गीकारे दूषणान्तरमाह ।। नास्त्येवेति । नास्त्येव प्रमेयमिति ज्ञानस्य प्रमात्वे एतद्विषयस्य प्रमेयाभावस्यैव प्रमेयत्वप्राप्त्या नास्त्येव प्रमेयमित्यनेन व्याहतिः । अप्रमात्वे तु प्रमेयसद्भावस्यैव प्राप्त्या नास्त्येव प्रमेयमित्यनेन व्याहतिरित्यर्थः ।