नित्यानित्यजगद्धात्रे नित्याय ज्ञानमूर्तये । पूर्णानन्दाय हरये सर्वयज्ञभुजे नमः

१. मङ्गलाचरणम्
ॐ श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचितं
॥ श्रीयाज्ञीयमन्त्रोपनिषद्भाष्यम्॥

भाष्यम्

नित्यानित्यजगद्धात्रे नित्याय ज्ञानमूर्तये ।

पूर्णानन्दाय हरये सर्वयज्ञभुजे नमः ॥

यस्माद् ब्रह्मेन्द्ररुद्रादिदेवतानां श्रियोऽपि च ।

ज्ञानस्फूर्तिः सदा तस्मै हरये गुरवे नमः ।
श्रीमज्जयतीर्थभिक्षुविरचितं

ईशावास्योपनिषद्भाष्यटीका

यज्ञं यज्ञभुजं प्राज्ञं पूर्णप्रज्ञमुनीश्वरम् ।

मनोज्ञगुणमासेवे सुज्ञानदमहर्निशम् ॥१॥
श्रीमच्छ्रीवदनाम्भोजगतसौन्दर्यसौरभम् ।
लिह
द्भ्यां लोचनालिभ्यां भगवान् पातु नो हरिः ॥ २ ॥

काण्वीं मन्त्रोपनिषदं' यथावद् व्याकरिष्यन् भगवानाचार्यः चिकीर्षिताविघ्नपरिसमाप्त्यादिप्रयोजने तत्प्रतिपाद्यदेवतास्तुतिनती प्रथमं निबध्नाति "नित्य" इति । सर्वयज्ञभुज इति सर्वयज्ञभोक्तृत्वात्, यज्ञनाम्नइत्यर्थः ।यथोक्तं सुखरूपस्य भोक्तृत्वाद्' इति । 'अपूर्ण सुखाः सुखार्थं भोगान् भुञ्जते, किं तथा हरिरपि ?” नेत्याहपूर्णानन्दायइति । 'भोगास्तु लीलया' इति भावः । पू॒र्णान॒न्दत्वं हरेः कुतः ? इत्यत आहजगद्धात्रइति । तदुक्तंको ह्येवान्याद्” (तै. उ. २.७ ) इत्यादि । धातृत्वं च अनित्यानां एव, न तु नित्यानां,  अष्टमस्कन्धे ईशावास्यादिमन्त्रान् याख्याय, ' इति मन्त्रोपनिषदं व्याहरन्तम्" (भा.पु. ८.१.१७) इत्युक्तत्वात् मन्त्रोपनिषदमित्युक्तम् । मन्त्रत्वे सत्युपनिषदमित्यर्थः । गूढकर्तृका भाष्यटीकाटिप्पणी । अनाधेयातिशयत्वाद्, इति नाऽशङ्कनीयमिति भावेन आह " नित्यानित्यइति ।नित्यं नित्यात्मना यतः" इत्यादेः । अशरीरस्य न जगद्धातृत्वं, शरीरित्वे मरणं स्याद्? इत्यत आहज्ञानमूर्तये नित्यायइति । मूर्तिमत्त्वात् जगद् धातृत्वोपपत्तिः । तस्याश्च मूर्तेर्ज्ञानाद्यात्मकत्वेन नित्यत्वोपपत्ति:' इति । वक्ष्यते चैतत्सर्वंयाथातथ्यतोऽर्थान् व्यदधात्” (ई. उ. ८), “वायुरनिलममृतम्” (ई.उ. १७), “यत्ते रूपं कल्याणतमम्” (ई. उ. १६), “स पर्यगाच्छुक्रम्” (ई. उ. ८), “ तस्मिन्नपो मातरिश्वा दधाति” (ई. उ. ४) इत्यादि । देवताप्रणामानन्तरं गुरुप्रणामः कर्तव्यम्' इति शिष्यान् ग्राहयितुं गुरुत्वेनापि हरिं प्रणमति, “यस्माद्इति ।
ब्रह्मादीनामप्राप्तज्ञानमुत्पद्यते श्रियस्तु सर्वदा विद्यत', इति सूचयितुंश्रियोऽपि " इति पृथग् ग्रहणम् । चशब्दोऽवधारणे ।यस्माद्इत्यनेन सम्बद्ध्यते ।ज्ञानस्फूर्तिःज्ञातव्यार्थप्रतिभा । यथायोगं (यथायोग्यं) क्रियाध्याहारः।
॥ याज्ञीयमन्त्रभाष्यविवरणम्॥
ईशावास्योपनिषद्भाष्यटीकाप्रकाशिका

ईशावास्योपनिषद्भाष्यटीकाप्रकाशिका

ह्यास्यं व्यासकृष्णौ मां प्राणं वाणीं गुरूनपि ।

प्रणम्य वादिराजाख्ययतिना तदनुग्रहात् ॥
ईशावास्योपनिषदो भाष्यटीकाप्रकाशिका ।

क्रियते ह्रियते दुर्वाग्गर्वान्धतमसं यया ||

ईशावास्योपनिषद्भाष्यटीकां चिकीर्षुः जयतीर्थमुनिः उपनिषदुक्त गुणवत्तया प्रतिपाद्यदेवतायाः सेवारूपं मङ्गळमाचरतियज्ञम्इति ।यज्ञम्इति वदता, स्वायम्भुवमनोः दौहित्र
आकूतीसूनुः यज्ञनामा हरिर्देवतेति सूचितम् । मनुना स्वदृष्टमन्त्रैस्तस्यैव स्तुतत्वात् ।यज्ञभुजम्इतितस्मिन्नपो मातरिश्वा दधातिइत्यस्यार्थकथनम् ।अप्पदोपलक्षितसर्वयज्ञादिकर्मणां सकलप्राणिप्रकृष्टचेष्टाहेतुतयाप्राणपद वाच्येन वायुना हरावर्पितत्वस्योक्तत्वात् ।अन चेष्टायाम्इति धातोः प्रकृष्टेकर्मण्यनयति चेष्टयति" इति व्युत्पत्त्या प्रकृष्टचेष्टाहेतुर्हि प्राणः ।टुओवि गतिबुद्धयोःइति धातोः, मातरि सर्वप्रमातरि हरौ सर्वकर्मणामर्पणरूपा गतिर्यस्मात्स हि मातरिश्वा' कविर्मनीषीइत्यत्रोक्तसर्वज्ञत्वापरपर्यायकविशब्दार्थकथनंप्राज्ञम्इति । प्रज्ञासम्बन्धी हि प्राज्ञः । ' प्रकर्षेण आ समन्तात् जानाति' इति प्राज्ञः । यद्वामातरिश्वा इत्यत्रोक्तमातृपदार्थसूचनाय इदम् । "पूर्णप्रज्ञमुनीश्वरम्" इत्यपि मातरिश्वा गतिरवगतिर्यस्य इति व्युत्पत्त्या सिद्धमातरिश्वपदार्थसूचनम् । मातरिश्वनः पूजकत्वोक्त्या मातरिश्वना पूज्यत्वोक्त्या हरेः पूर्णप्रज्ञेश्वरत्वमपि तत्रैव सूचितम् ।मनोज्ञगुणम्" इत्यनेन पदेन "अनेजदेकम्" इत्यादेः अर्थकथनम् । सुज्ञानदम्" इति ततो न विजुगुप्सत" इत्यस्यार्थकथनम् । ततो भगवद्दत्तज्ञानेन स्वकीयतया भुवनस्य प्राग् ज्ञातत्वात् । आत्मानं विशेषेण स्वयम्गुपू रक्षणे”,
इति धातोर्गोप्तुं नेच्छतीति स्वोपासकाय ज्ञानदानस्यार्थत उक्तत्वात् ।अहर्निशम्इति चकुर्वन्नेवेह कर्माणिइत्यस्य फलितार्थकथनम् ।

भगवत्यादरात् सकलवाङ्मनसदेवताया रमाया अपि उपसर्जनतया स्मरणाय पुनरप्याशीर्वादरूपं मङ्गळमाचरतिश्रीमद्" इति । अलिरपि पुष्पसौरभं दूरत आघ्राय तदन्तिकमायाति । भगवल्लोचनाली तु श्रीमुखसौन्दर्याख्यसौरभलोभात् प्रतिक्षणमायाति इति भावः ।
चिकीर्षिताविघ्नपरिसमाप्त्यादि" इत्यत्रतं हासुरा ऋत्वा विदध्वसुः” (छा. उ. १.२.७ ) इति श्रुत्युक्तवायुरूपपूर्णप्रज्ञस्य विघ्नाभावपरिसमाप्त्योः स्वतः सिद्धत्वात् भगवत्प्रसादाख्यफलस्य सम्भावितविघ्नध्वंसस्य शिष्यप्रशिष्यादिषु प्रचयाख्यफलस्य च सूचनायआदि" पदम् । अत्र नम्यत्वोपपादकनित्यानित्यजगद् धातृत्वादिगुणानां वस्तुगत्या स्तुतिरूपत्वेन मङ्गळत्वाच्च स्तुतिनती" इत्युक्तम् । एवमन्यत्राप्यूह्यम् ।सर्वयज्ञभोक्तृत्वाद्यज्ञनाम्नइत्यनेनय॒जनं यज्ञ' इति भावव्युत्पत्तिर्नात्राभिप्रेता, किन्तु " इज्यत इति यज्ञ' इति कर्मव्युत्पत्तिरेव सूचिता । कर्तु अकर्तु अन्यथा कर्तुं समर्थस्य हरेर्नित्यनाशकत्वशक्तिरप्यस्ति, इत्यतोनित्यं नित्यात्मना यतइत्युक्तम् ।ज्ञानाद्यात्मकत्वेनइति वदता 'मनःपरिणामरूपज्ञानस्य त्रिक्षणावस्थायित्वेऽपि करचरणाद्यात्मकज्ञानस्य विलक्षणत्वात् नित्यत्वमेव सम्भावितम्', इति सूचितम् ।याथातथ्यतोऽर्थान् व्यदधाद्इत्यनेन नित्यानित्यजगद्धातृत्वमुक्तं भवति । यथा यथा प्रतीयते, तथा विद्यमानं हि यथातथम् तस्य भावश्च याथातथ्यम् । एवं च बहुकालस्थायिक्षित्याद्यर्थान् सृष्ट्वा स्थापयति इत्यपि सिद्धम् । न तु सृष्टिमात्रकथनमिदम्, अतो जगद्धातृत्वमपि उक्तं भवति ।

तथावायुरनिलममृतम्इत्यत्र "अमृत" पदेन नित्यत्वं उक्तम् ।यत्ते रूपं कल्याणतमम्" इत्यनेन ज्ञानमूर्तित्वं उक्तं भवति ।अकायमव्रणम्इत्यादिना व्रणादियोग्यप्राकृत कायराहित्यमुक्त्वायत्ते रूपं कल्याणतमम्" इति पुनः कल्याणतमत्वं वदन्ती ज्ञानाद्यात्मिकामेव मूर्तिमभिप्रतीति मूर्तेर्ज्ञानाद्यात्मकत्वं कथं न सिद्ध्येत्? “स पर्यगाच्छुक्रम्" इत्यत्रशुक्र पदोक्त शोकेराहित्योपपादनाय पूर्णानन्दत्वं च श्रुतेः कथं नाभिप्रेतम् ? अपूर्णानन्दानां जीवानां शोकसद्भावदर्शनात् । तस्मिन्नपो मातरिश्वा दधाति इत्येतत्सर्वयज्ञभोक्तृत्वार्थकतया पूर्वमेव व्याख्यातम् ।ब्रह्मादीनामप्राप्तज्ञानमुत्पद्यतइत्यत्र 'आलोचने सर्वविषयकज्ञानवतो ब्रह्मणः, कथमप्राप्तज्ञानम्?” इति नाऽशङ्कनीयम्, अनालोचनदशायामप्राप्तज्ञानस्यापि सम्भवात् । प्रवाहतो नित्यस्य मनोवृत्तिरूपज्ञानस्यानित्यत्वेन पूर्वपूर्वप्रज्ञान उत्पत्तिकाले उत्तरोत्तरज्ञानस्याप्राप्तत्वावश्यम्भावाच्च । ब्रह्मादिषु भवेदिति क्रियाध्याहारः, लक्ष्म्यां तु स्पष्टीभवेदिति क्रियाध्याहार इति भावेनाऽह्यथायोग्यम्इति ।