पूर्णशक्तिचिदानन्दश्रीतेजः स्पष्टमूर्तये । ममात्यधिकमित्राय (ममाभ्यधिकमित्राय) नमो नारायणाय ते
२०. अन्तिमं मङ्गलाचरणम्
भाष्यम्
पूर्णशक्तिचिदानन्दश्रीतेजः स्पष्टमूर्तये ।
ममात्यधिकमित्राय (ममाभ्यधिकमित्राय) नमो नारायणाय ते ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं याज्ञीयमन्त्रव्याख्यानं सम्पूर्णम्
ईशावास्योपनिषद्भाष्यटीका
अथ समापितभाष्योऽपि भगवानाचार्यो “यत्ते रूपं कल्याणतमम्” (ई.उ. १६), “योऽसावसौ पुरुष" (ई. उ. १७), इत्यादिना प्रतिपादितं नारायणं स्तुतिनतिभ्यां प्रीणयति “पूर्ण” इति ।
'पूर्णशक्तिचिदानन्दश्रीतेजांस्येव मूर्तिः यस्य' इत्युक्ते, 'करचरणादिमान् विग्रहो नास्तीति प्रतीतिः स्यात् ?' अत उक्तं “स्पष्ट” इति । स्पष्टा उदाहृता एषा स्मृतिः ब्रह्मसूत्रभाष्ये अन्तिमप्राणाधिकरणे (१.१.३१) । प्रसिद्धा । `करचरणादिमति' इत्यर्थः । “अभ्यधिकमित्रम्” निरतिशयोपकारकम्, अतिपरमप्रीतिविषयश्च, इति ॥ कमलावदनाम्भोजराजहंसाय विष्णवे
नमो जगज्जनिस्थेमहेतवे परमात्मने ॥
इति श्रीमज्जयतीर्थभिक्षुविरचितं याज्ञीयमन्त्रभाष्यविवरणं सम्पूर्णम्
भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु
ईशावास्योपनिषद्भाष्यटीकाप्रकाशिका
नियुङ्क्ते देहिनो योऽन्तः स्वयं भुङ्क्ते सुखानि च
तदन्ते मुक्तिदस्तं ते भजन्ते चिन्तितार्थदम् ॥
ग्रन्थेनानेन भगवानिन्दिरारमणः प्रभुः
नन्दितीर्थमुनेर्बन्धुः स दद्यात्सकलेप्सितम् ॥
इति श्रीवादिराजपूज्यपादविरचिता
॥ ईशावास्योपनिषद्भाष्यटीकाप्रकाशिका समाप्ता ॥