ये विदुः सह (ते हि ) सज्जनाः

१३.विद्योपासनाविद्यानिरसनयोः अमृताशनमृत्युतरणकारणत्वम्

विद्यां चाविद्यां च यस्तद्वदोभयः सह I

अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ॥ ११ ॥

भाष्यम्

.........ये विदुः सह (ते हि ) सज्जनाः
निन्दया यथार्थस्य दुःखाज्ञानादिरूपिणः ।

दुःखाज्ञानादिसन्तीर्णाः सुखज्ञानादिरूपिणः

यथार्थस्य परिज्ञानात् सुखज्ञानादिरूपताम् । यान्ति ॥ ११ ॥

ईशावास्योपनिषद्भाष्यटीका

अस्यैवार्थस्य विवरणार्थो “विद्यां च” इति तृतीयो मन्त्रः । तस्येदं व्याख्यानं “ये विदुः” इति । “यथास्वरूपं तु” इत्याद्युक्तावृत्त्याऽन्वयः । तेन “विद्या" पदं ईश्वरयाथात्म्यस्य, “अविद्या”पदं च अन्यथाज्ञाननिन्द्यत्वस्य, उपलक्षणम्' इत्युक्तं भवति । “स ह” इत्येकपुरुषार्थहेतुत्वेन, इत्यर्थः । दुःखाज्ञानादिरूपिणो अयथार्थस्य', इति, तज्ज्ञानस्येत्यर्थः । ‘अयथार्थज्ञाननिन्दया मृत्युपदोदितदुःखादितरणं भवति, यथार्थज्ञानेन च सुखज्ञानादिरूपतालक्षणामृतप्राप्तिः भवति' इत्येतदुपपादनाय 'दुःखाज्ञानादिरूपिणोऽयथार्थस्य सुखज्ञानादिरूपिणो यथार्थस्य' इति विशेषणोपादानं कृतम् । तथा च श्रुतिः “तं यथा यथोपासते  तदेव भवति” (शतपथ ब्रा. १०.५.२.२० ) इति ॥ ११ ॥

ईशावास्योपनिषद्भाष्यटीकाप्रकाशिका

क्रमिकज्ञानयो: युगपदुत्पत्त्यभावात् सहशब्दार्थमाह “एकपुरुषार्थता" इति ॥ ११ ॥