ईशस्य (आ) वासयोग्यं, “ईशावास्यम्”
तत्त्वज्ञानाधिकारार्थं वैराग्यस्य सम्पाद्यत्वम्
ॐ ईशावास्यमिद सर्वं यत्किञ्च जगत्यां जगत् ।
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् ॥ १॥
भाष्यम्
ईशस्य (आ) वासयोग्यं, “ईशावास्यम्” । “जगत्याम्” प्रकृतौ । “तेन” ईशेन, “त्यक्तेन” दत्तेन, “भुञ्जीथाः "
“स्वतः प्रवृत्त्यशक्तत्वादीशावास्यमिदं जगत् ।
प्रवृत्तये प्रकृतिगं यस्मात् स प्रकृतीश्वरः
तदधीनप्रवृत्तित्वात् तदीयं सर्वमेव यत् ।
तद्दत्तेनैव भुञ्जीथा अतो नान्यं प्रयाचयेद्”
इति ब्राह्मे (ब्रह्माण्डे) ॥ १ ॥
ईशावास्योपनिषद्भाष्यटीका
उपदिष्टमपि तत्त्वं अधिकारिण एव हि हृदये अवतिष्ठते, नान्यस्य, इति तत्त्वं विवक्षुरुपनिषदधिकारसिद्धयर्थं विच्छिन्नतृष्णत्वं तावदाद्येन मन्त्रेण सोपपत्तिकं विधत्ते । तत्र “ईशावास्य" पदं दुर्गमार्थत्वाद् व्याख्याति “ईशस्य” इति । अनेन 'आवासमर्हतीत्यावास्यं ईशस्याऽवास्यं ईशावास्यम्' इत्युक्तं भवति । “जगत्याम्” इत्येतत् “पृथिव्याम्” (शं.भा. १) इत्यन्यथाप्रतीतिनिरासाय व्याचष्टे “जगत्याम्” इति । “तेन” इति परामर्शस्य विषयो न प्रतीयते त्यक्तस्य च भोगसाधनत्वमयुक्तमतो दुर्गमार्थं तृतीयपदं व्याख्याति “तेन” इति । समासे उपसर्जनीभूतस्यापि ईशस्य बुद्ध्या विवेकेनायं परामर्श, इति भावः । पूर्वार्धोक्ततात्पर्यपरामर्शश्चायं, इति ज्ञातव्यम् ।
ततश्चायं मन्त्रार्थः 'यत्किञ्च जगदिदं तत्सर्वं प्रवृत्त्यर्थं आत्मानं ईशस्याऽवासमर्हति' इति तावत् “तदेवानुप्राविशद् (तै. उ. २.६.१) इति श्रुतिप्रसिद्धम् । तेन ज्ञायते स्वयमिदं प्रवृत्तावशक्तं, परमेश्वराधीनं, इति । किं च जगत्यां प्रकृताविदं सर्वमाश्रितं, इत्येतत् “आकाश एव तदोतं च प्रोतं च” (बृ. उ. ३.८.७ ) इति श्रुतिसिद्धम् । प्रकृतिश्च परमेश्वराधीना, “एतस्मिन् खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च”
(बृ. उ. ३.८.११) इत्यादिश्रुतेः । ततोऽपि सर्वमस्वतन्त्रं, परमेश्वराधीनं, इति विज्ञायते । यत एवमीश्वर एव स्वतन्त्रस्तेन कारणेन “तेन” ईशेन, “त्यक्तेन” दत्तेन वित्तेन 'यदृच्छया लब्धेन' इति यावत्, “भुञ्जीथाः” भोगं कुर्याः । यतश्च ईशादन्यदस्वतन्त्रं तेन तस्य दाने सामर्थ्याभावात् “कस्यस्वित्" कस्यापि राजादेः सकाशात् धनं “मा गृधः" मा काङ्क्षेथाः । मन्त्रार्थस्थापनाय स्मृतिसमाख्यामाह “स्वत" इति । स्वतः प्रवृत्त्यशक्तत्वादेवेदं जगत् प्रवृत्तय “ईशावास्यम्” । अन्यथा, तन्न स्यात्? अत ईशावास्यत्वात् स्वतः प्रवृत्त्यशक्तमीशाधीनम् । किं च यस्मादिदं प्रकृतिगं यस्माच्च विष्णुः प्रकृतीश्वरस्ततोऽपि । यद्यस्मादेवमुक्तप्रकारेण तदधीनस्वरूपत्वात् सर्वं वित्तं तदीयमेव, अतस्तद्दत्तेनैव “भुञ्जीथाः” । अतः, ‘परमेश्वरादन्यं न प्रयाचेत भवान् इत्यर्थः ॥१॥
ईशावास्योपनिषद्भाष्यटीकाप्रकाशिका
यद्यपि तेनेशावास्यमित्यत्रोक्तेन “ईशेन” इति परामर्शो युज्यते । तथापि तत्पदस्य यत्पदसापेक्षत्वमभिप्रेत्योक्तं “बुद्ध्या विवेकेन" इति । य ईशः तेन इति परामर्श' इति भावः । यद्यपि “तत्सृष्ट्वा तदेवानुप्राविशद्” (तै. उ. २. ६.१) इति श्रुतौ प्रवेशमात्रमुच्यते । तथाऽपि स्वभावत एव सर्वत्र व्याप्तस्य सृष्ट्यनन्तरं स्वसृष्टवस्तुषु पुनः प्रवेशस्तत्प्रवर्तनार्थम्, इति भावः । अव्याकृताकाशस्य प्रकृत्यात्मकत्वात् प्रकृतिस्वामिकत्वात् “आकाश एव तदोतं प्रोतं च (बृ. उ. ३.८.७ ) इति श्रुतौ “आकाश” पदेन प्रकृतिरेवोच्यत इति भावः । “नान्यं प्रयाचयेद्” इति भाष्ये स्वयं न याचेत, अन्यमुखेन याचयेद्’
इति भ्रमनिवारणाय, "स्वार्थिको णिज्" इति भावेनोक्तं “न प्रयाचेत भवान्” इति ।
अन्यथा निर्व्यलीकवैराग्याभावप्रसङ्गात् । "मा गृधः कस्यस्विद्धनम्" इति मूलश्रुतिविरोधाच्च ॥ १ ॥