व॒युनं ज्ञानम् । “त्वद् (यद्) दत्तया वयुनयेदमचष्ट विश्वम्"
१९. साक्षात्कारानन्तरं मोक्षार्थमग्निप्रतीकस्य भगवतः प्रार्थना
अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान ।
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्तिं विधेम ॥ २० ॥ २ ॥
भाष्यम्
व॒युनं ज्ञानम् । “त्वद् (यद्) दत्तया वयुनयेदमचष्ट
विश्वम्" (भा.पु. ४.९.८) इति वचनात् । “जुहुराणं”
"अस्मान् ” अल्पं कुर्वत् (अल्पीकुर्वत्) । "युयोधि” वियोजय ।
“यदस्मान् कुरुतेऽत्यल्पांस्तदेनोऽस्मद् वियोजय
नय नो मोक्षवित्तायेत्यस्तौद् यज्ञं मनुः स्वराड्”
इति स्कान्दे ।
“युयु वियोगे” इति धातुः । भक्तिज्ञानाभ्यां "भूयिष्ठां” "नम" इत्युक्ति (उक्तिं) "विधेम " ॥ २० ॥ २ ॥
ईशावास्योपनिषद्भाष्यटीका
साक्षात्कारप्रार्थनानन्तरमग्निप्रतीकं भगवन्तं मोक्षार्थं प्रार्थयते, “अग्न” इति । ' वयुनानि कर्माणि' इति केषाञ्चिद् व्याख्यानम् तदसत् । मोक्षस्य कर्मसाध्यत्वाभावेन तदुक्तेः वैयर्थ्यप्रसङ्गादित्यभिप्रेत्य “वयुन”शब्दार्थमाह “वयुनम्” इति । वयुनशब्दस्य ज्ञानवाचित्वं कुत: ?' इति चेत्, प्रयोगं दर्शयति “त्वद्दत्तया” इति । “जुहुराणं कुटिलम् (शं. भा. २०) इति अन्यथाप्रतीतिनिरासाय आह “अस्मान्” इत्यन्वयसिद्ध्यर्थमावर्तितम् । युयोधीत्यप्रतीतार्थपदं व्याख्याति युयोधि इति । “जुहुराणम्” इति । 'कुतोऽयं पदद्व्ययार्थः ?' इत्यतः 'समाख्यानाद्', इत्याह् “यद्” इति । “युयोधि” इत्यस्य वियोगार्थसिद्धये धातुसूत्रमपि पठति “युयु वियोग इति धातुः" इति । 'धातुव्याख्यानम्', इत्यर्थः । नम उक्तेर्भूयिष्ठत्वं अभ्यस्तत्वमतोऽभ्यधिकार्थं वदन् नमस्कारस्य कथमुक्तित्वम्? इत्याशङ्कां परिहरति “भक्ति” इति ॥ २० ॥ ततश्चायमर्थः हे “अग्ने”, “अस्मान्” “सुपथा” पुनरावृत्तिवर्जितेन अर्चिरादिमार्गेण, राये मोक्षाख्यवित्ताय “नय” । कुतः ? “हे देव अस्मदनुष्ठितानि विश्वानि ।
सम्पूर्णानि मोक्षाय पर्याप्तानि ' इति यावत् । “वयुनानि” ज्ञानानि भवान् वेद । प्रारब्धकर्मभिः बद्धस्य कथं मोक्ष ? इत्यत उक्तम्, “युयोधि" इति । ‘अस्मान् जुहुराणमल्पीकुर्वत्, संसारे परिवर्तयद्' इति यावत् । 'एनः पापमनिष्टं कर्म', इति यावत् । 'अस्मद् युयोधि । अस्मत्तों वियोजय । वयं तुभ्यं भूयिष्ठां नम उक्तिं विधेम । न तु तत्प्रतिकर्तुं शक्नुम' इति ॥ २० ॥
ईशावास्योपनिषद्भाष्यटीकाप्रकाशिका
मोक्षप्राप्तये “तेऽर्चिषमभिसम्भवन्ति” (छा. उ. ५.१०.१) इति श्रुत्युक्तार्चिर्नामकाग्निकुमारलोकस्य अग्निशिखाद्वारा प्राक्प्राप्यत्वात् । 'गजतुरगशिबिकादिना राजमन्दिरं गच्छतोऽपि नदीनिरोधपरिहाराय नद्युत्तारकपुरुषप्रार्थनवत्, राजान्तःपुरप्रवेशाय प्राक्प्रतिहारप्रार्थनवद्वा “अग्ने नय” इत्यग्निस्थभगवत्प्रार्थनम्' इति भावेनाह “अग्निप्रतीकम्” इति । यद्वा "कुर्वन्नेवेह कर्माणि इति कर्मानुष्ठानस्योक्तत्वात् कर्मानुष्ठातृणां च “अग्नौ क्रियावतां विष्णुर्योगिनां हृदये हरिः”, इति स्मृते: 12 'अग्नेरपेक्षितत्वाद् अग्निप्रार्थनम्' इति ज्ञातव्यम् ॥ २०॥