सुष्ठु रमणविरुद्धत्वाद्, असुराणां प्राप्यत्वाच्च “असुर्या :
६. विपरीतज्ञाननिन्दायाः तत्त्वज्ञानबुभुत्साजनकत्वम्
असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः
तास्ते प्रेत्याभिगच्छन्ति ये के चात्महन जनाः ॥३॥
भाष्यम्
सुष्ठु रमणविरुद्धत्वाद्, असुराणां प्राप्यत्वाच्च “असुर्या : "
“न च (खलु”) रमन्त्यहो असदुपासनयाऽऽत्महनः” (भा.पु. १०.९४.२४) इत्युक्तत्वात् ।
“महादुःस्वैकहेतुत्वात् प्राप्यत्वादसुरैस्तथा ।
असुर्या नाम तें लोकास्तान् यान्ति विमुखा हरौ” ॥
इति वामने ।
“ये के च" इत्यनेन नियम उक्तः
“नियमेन तमो यान्ति सर्वेऽपि विमुखा हरौ (हरे: ) " इति च ॥३॥
ईशावास्योपनिषद्भाष्यटीका
एवं प्राप्ताधिकारं प्रति परमात्मतत्त्वबुभुत्साजननाय “असुर्या” इति मन्त्रेण अपरमात्मविदां निन्दा क्रियते । तत्र “असुर्या” इत्यस्य वर्णविपर्ययेण 'असुर्याः सूर्यप्रकाशहीना' इति अन्यथाप्रतीतिनिरासाय अर्थमाह “सुष्ठु " इति । सुष्ठु रमणं सुखं सुर्य, तद्विरुद्धमहादुःखत्वादसुर्या', इत्यर्थः । ‘असुराणां प्राप्यत्वाद्' इत्यनेन सकलसुखराहित्यमुपलक्ष्यते । “कुतोऽयं “असुर्य” पदार्थ ?' इत्यत आह, “न च इति । एतमेव मन्त्रं मूलीकृत्य प्रवृत्तेऽस्मिन् वाक्ये "असूर्य पदार्थवर्णनं “ न च रमन्ति” (भा.पु. १०.९४.२४) इति क्रियते । तत्र “च”शब्देन हादुःखमनुभवन्तीत्येषोऽर्थः समुच्चीयते । महादुःखसुखाभावपरता अस्य पदस्योक्तव्याख्यान एव सम्भवति, नान्यथा, इति भाव: ।
आत्मनो नित्यत्वेन हननासम्भवात् तत्र अनर्थकथनमयुक्तम्' इत्येतदपि अनेन परिहृतम्, “असदुपासनया आत्महन” इति व्याख्यातत्वात् । विपरीतं भावयता हि तद्याथात्म्यं तिरस्कृतम्' इति तस्य गौण्या वृत्त्या आत्महन्तॄत्वम् । स्पष्टं चात्र प्रमाणमाह “महादु:ख" इति । “विमुखा हरौ” इति समाख्यया अत्र 'आत्मशब्दो हरिपर' इति चोक्तं भवति । तथा च 'नित्यशुद्धबुद्धमुक्तस्वरूपमात्मानं जीवं ये विपरीतं प्रतिपद्यन्ते “नच रमन्त्यहो” इति प्र. पाठः । यद्यपि भागवततात्पर्यटीकादिसम्मतः पाठोऽयमेवेति भाति । वृत्तसुष्ठुत्वाय च नस्खल्वित्येव पाठः साधीयान् भवति । सप्तदशाक्षरं हि नर्कुटकम् ।- बन्नञ्जे गोविन्दाचार्यः । (भागवततात्पर्यनिर्णये कृतं व्याख्यानं पृ. ३७ द्रष्टव्यम्) ते आत्महन' इति अपव्याख्यानमेव । “ते लोका" इति तच्छब्दः प्रसिद्धिद्योतकः । ‘ये ते प्रसिद्धा, तान् यान्ति', इत्यर्थः । ‘ये आत्महनस्ते केचन तान् लोकान् अभिगच्छन्ति केचन न' इति अन्यथाप्रतीतिनिरासाय आह “ये के च" इति । ‘ये के चात्महनः, ते सर्वेऽपि इत्येवं नियमपरमेवेदं, न तु उक्तप्रकारेण विभागपरम्', इत्यर्थः । कुतः ? इत्यत आह “नियमेन” इति । नियमेनेत्यस्यैव विवरणं सर्वेऽपि', इति । अन्धयतीति “अन्धम्” । “अतिनिबिडान्धकारावृता', इत्यर्थः । “प्रेत्य” मृत्वा । एवं उदाहृतवचनविरोधादेव 'देवादिशरीराणि असुर्या लोका' इति व्याख्यानमयुक्तमेव इति ॥३॥
ईशावास्योपनिषद्भाष्यटीकाप्रकाशिका
श्रुतिगीता हि काचित् श्रुतिं मूलीकृत्य प्रवर्तते । “न च रमन्ति” इति च श्रुतिगीतावाक्यम् । अतः “एवैतमेव मन्त्रं मूलीकृत्य” इत्युक्तम् । “ये के च आत्महनस्ते सर्वेऽपि ” इत्यत्र 'यः कोऽपि ब्राह्मणोऽस्मिन् ग्रामे नास्ति' इत्युक्ते, नियमेन ब्राह्मणाभावस्य प्रसिद्धत्वाद् इति भावः । “देवादिशरीराणि” इत्यस्य स्थाने 'अदेवादिशरीराणि' इति न्याय्यम् । तथा च 'अदेवादिशरीराणि इत्यस्य सुरयोग्या लोकाः देहाः सुर्याः 'ते न भवन्तीत्यसुर्या, अदेवादिदेहाः भूतप्रेतपिशाचादिशरीराणि', इति यावत् । “आदि" पदेन तामसयोन्यन्तरं गृह्यते । “असूर्य”पदशक्तिलभ्योऽपि अयमेवार्थः । सति चैवं सुराणामप्यसुरत्वमभिप्रेत्य परमात्मभावं अद्वयमपेक्ष्य देवादयोऽप्यसुरा (शं. भा. ३) इति परभाष्यं स्वस्वरूपप्रदर्शनपरमेव, इति अवगन्तव्यम् ॥३॥