अन्यथोपासका ये तु तमोऽन्धं यान्त्यसंशयम्

११.अविद्योपासकानां अविद्याऽविनिन्दकानाञ्च तमःप्राप्तिप्रतिपादनम्

अन्धं तमः प्रवि॒शन्त येऽविद्यामुपासते ।

ततो भूय इव ते तमो य उ विद्याया रताः ॥९॥

भाष्यम्

अन्यथोपासका ये तु तमोऽन्धं यान्त्यसंशयम् ।

ततोऽधिकमिव व्यक्तं यान्ति तेषामनिन्दकाः

तस्माद् यथास्वरूपं तु नारायणमनामयम्

अयथार्थस्य निन्दां च ॥ ९ ॥ १० ॥

ईशावास्योपनिषद्भाष्यटीका

अन्धन्तमः प्रविशन्तिइत्यादिमन्त्रान् अप्रतीत्यन्यथाप्रतीतिनिरासाय स्मृत्यैव व्याचष्टेअन्यथोपासकाइति । यथावत् परमात्मज्ञानं मोक्षसाधनम्' इत्युक्तम् । न केवलं तत् । किं नाम ? अन्यथाज्ञाननिन्दासमुचितमेवेत्येतदर्थप्रतिपादकं आद्यमन्त्रत्रयम् । तत्र तावत् यथावज्ज्ञानस्येव अन्यथाज्ञाननिन्दायाऽपि आवश्यकत्वोपपादनाय अन्यथाज्ञानस्य उक्तमसुर्यलोकसाधनत्वमनूद्य अन्यथाज्ञान अनिन्दनस्य ततोऽधिकानर्थसाधनत्वमाद्येन मन्त्रेणोच्यते । तस्यार्थोअन्यथाइति । उपासका विष्णोः' इति शेषः । सर्वत्र ज्ञानशब्दस्य उपासनापर्यन्तत्वात् व्यामिश्रोक्तिः । तत्रअविद्या" पदं विषयिवाचकं विषयस्य अन्यथाकारस्य लक्षकम्, इत्यभिप्रेत्यअविद्यामुपासत इत्येतद् अन्यथोपासका' इति व्याख्यातम् । ततो अन्यथाज्ञानिप्राप्यात्तमसोऽधिकमिव ।इव" अर्थमाह, “व्यक्तम्इति ।शब्दोऽवधारणार्थः ।विद्यायाम्इत्यनेन सम्बद्धयते । तेन विद्यायां यथार्थज्ञान एव रताः । न तु अन्यथाज्ञाननिन्दां कुर्वन्ति इत्येषोऽर्थो लभ्यते । अत उक्तंतेषामनिन्दकाइति । ततः किम्?" इत्यतो वक्ति, ‘त्तस्माद्इति । यस्माद् मिथ्याज्ञान तदनिन्दाभ्यां तमप्राप्तिः । निन्दां च विद्याद्' इति शेषः ।अयथार्थस्य निन्दाम्" इति अयथार्थज्ञानस्य निन्द्यत्वम् इत्यर्थः ॥९॥

ईशावास्योपनिषद्भाष्यटीकाप्रकाशिका

तमसि अनुभूयमानदुःखातिशयस्य ततोऽधिकमित्यनेनैव प्राप्तेः पुनःइवशब्दो व्यर्थ इव भाति, अतस्तदर्थमाह भाष्यकारःव्यक्तम्इति । तमः प्रवेशयन्ति वायुदूताः । अविद्योपासकस्तु सद्विद्यामजानन्नत एव दुर्विद्यानिन्दनमपि अजानन् भगवतो जीवस्वरूपत्वमुक्त्वा दुःखभोक्तृत्वं अज्ञातृत्वं मूलस्वरूपेऽपि निर्गुणत्वादिकमुपास्ते । त्वं तु सद्विद्यां जानन्नत एव दुर्विद्यानिन्दनमपि जानन् दुष्प्रमेयं न निन्दसि केवलविद्यामेवोपास्से । एवं च भगवद्द्द्वेष्युपेक्षकत्वाज्ज्ञात्वा कृतब्रह्महत्यावत्तव भगवदपराधोऽधिक इति दोषाधिक्यं घोषयित्वा तमोमार्गे तं जत्रुताडन- तर्जन-ताडन- जिह्वाच्छेदन-देहदाहादिना बहुतरदुःखादिकं दत्त्व नयन्ति । तं तु न त । ततोऽधिकदुःखानुभवस्यभूय: "पदेनैव प्राप्त, इति भावः ॥ ९ ॥