“सर्वगं परमात्मानं सर्वं च परमात्मनि
८.भगवतः सर्वभूताश्रयत्ववेत्तुः फलकथनम्
यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति ।
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ ६॥
भाष्यम्
“सर्वगं परमात्मानं सर्वं च परमात्मनि ।
यः पश्येत् स भयाभावान्नाऽत्मानं गोतुमिच्छति” ॥ इति सौकरायणश्रुतिः ॥६॥
ईशावास्योपनिषद्भाष्यटीका
“तद्दूरे तद्वन्तिक” इत्यादौ परमेश्वरस्य सर्वभूताश्रयतया सर्वभूतगतत्वमुक्तम् । तज्ज्ञानफलं “यस्तु सर्वाणि” इति मन्त्रेणोच्यते । “तत्र जीवस्य सर्वभूतात्मकत्वमुच्यत” इति अपव्याख्याननिरासाय मन्त्रं श्रुत्या व्याचष्टे “सर्वगम्” इति । “सर्वगं परमात्मानम्” इति “सर्वभूतेषु च आत्मानम्" इत्यस्यार्थः । “सर्वं च परमात्मनि” इति पूर्वार्धस्य । “भयाभावाद्” इति “ ततो न विजुगुप्सत” इत्येतद् व्याख्यानस्य “नात्मानं गोप्तुं इच्छति” इत्यस्य उपपादनम् । अभेदार्थतायां सप्तम्यनुपपत्तिश्च ॥६॥
ईशावास्योपनिषद्भाष्यटीकाप्रकाशिका
“सर्वभूतानि आत्मनि आत्मत्वेन अभिपश्यति” इति अपव्याख्यानकर्तुरभिप्राय इति भावेनाह “जीवस्य सर्वभूतात्मकत्वम्” इति । इदं चोपलक्षणम् । सर्वभूतानि आत्मनि स्वस्मिन् जीव' इति यथाश्रुतार्थकथनाशा अपि एकस्मिन् जीवे सर्वजीवानामभावेन परस्यानुपपन्नैव । अस्माकं तु विश्वरूपे भगवति सर्वजीवानामाश्रितत्वात् न काऽप्यनुपपत्तिः “ब्रह्माणमीशं कमलासनस्थं
ऋषींश्च सर्वानुरगांव दिव्यान् । पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्घान् इति हि स्मृतिः ॥ ६॥ ॥ (भ.गी. ११.१५ )