'अकुर्वतः कर्म न लिप्यत इति नास्ति
४.ज्ञानार्थिनां ज्ञानिनाश्च स्वोचितकर्मण आवश्यकत्वम्
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतः समाः ।
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥२॥
भाष्यम्
'अकुर्वतः कर्म न लिप्यत इति नास्ति ।
" अज्ञस्य कर्म लिप्येत कृष्णोपास्तिमकुर्वतः ।
ज्ञानिनोऽपि यतो ह्रास आनन्दस्य भवेद्ध्रुवम् ।
अतोऽलेपेऽपि लेपः स्यादतः कार्यैव सा सदा "
इति नारदीये ॥ २॥
ईशावास्योपनिषद्भाष्यटीका
तृष्णाविच्छेदवत्, स्वोचितकर्मानुष्ठानमप्यावश्यकं ज्ञानार्थिनाम्', इत्येतत् कुर्वन्नेव" इति द्वितीयमन्त्रेण विधत्ते । तत्र "नान्यथेतोऽस्ति" इत्येतद्दुर्गमार्थत्वाद् व्याख्याति, "अकुर्वत" इति ततश्चायं मन्त्रार्थः “शतं समाः”, शतं वर्षाणि, इह मानुषादिजन्मनि यज् “जिजीविषेत्”, जीवितुमिच्छेत्, तत्कर्माणि स्वोचितानि “कुर्वन्नेव” ‘आमरणं भगवत्पूजात्मकान्यसङ्कल्पितफलानि स्वोचितानि कर्माणि सर्वथा कुर्याद्', इति यावत् । कुत: ? एवं कर्माणि कुर्वति, नरे मनुष्यमात्रेऽपि त्वयि “कर्म" पापं “न लिप्यते” । 'स्वोचितेन असङ्कल्पितेन फलेन कर्मणा भगवत्पूजां कुर्वन्तं, अल्पाधिकारिणमपि न प्रागुत्तराणि कर्माणि पापानि बाधन्ते । ततश्च ज्ञानाधिकारी स भवति', इति यावत् । इतः कर्मकरणात् । अन्यथा "कर्म न लिप्यत" इति नास्ति । भगवत्पूजामकुर्वन्तं पापानि बाधन्त एव । ततश्चासौ ज्ञाने नाधिक्रियते, अशुद्धचित्तत्वात् । अतः, कर्माणि कार्याणि इति । अपरे व्याचक्षते ज्ञानिनः सर्वकर्मत्यागः पूर्वमन्त्रेण विहितः । यथा “ईशा” ईशित्रा परमेश्वरेण “यत्किञ्च जगत्यां” पृथिव्यां जगदिदं तत्सर्वं “वास्यम्” आच्छाद्यम् । “तेन” कारणेन “त्यक्तेन”
सर्वकर्मत्यागेन भुञ्जीथाः पालयेथाः । एवं त्यक्तेषणस्त्वं “कस्यस्विद्धनं” “मा गृधः”, मा काङ्क्षीः । अथ वा, “मा गृधः" कस्मात् “कस्यस्विद्धनं”, न कस्यापि । अतो मिथ्याविषये बुद्धिं मा कार्षीः' इति । “यस्तु नरमात्रोऽल्पज्ञस्तं प्रति कर्मानेन मन्त्रेण उच्यते' इति । तदनुपपन्नम् ‘अज्ञवज्ज्ञानिनोऽपि भगवत् पूजात्मकस्वकर्माकरणे पापलेपसद्भावेन द्वाभ्यामपि तत्कर्तव्यतायाः स्मार्तत्वाद्', इति भावेन आह, “अज्ञस्य " इति । 'कृष्णोपास्तिं स्वकर्मणा' इति शेषः । नियतमोक्षत्वेन कर्मणां अकिञ्चित्करत्वादलेपस्य ज्ञानिनः कुतः कर्मलेपः ?' इत्यत आह, “” इति । ‘ह्रासो भवेत्, कृष्णोपास्त्यकरणनिमित्तपापेन' इति शेषः । यतो हासो भवेद्, अतो मोक्षप्रच्युतिरूपलेपरहितेऽपि ज्ञानिनि कर्मलेपः स्यादेव । एवमुभयोर्लेपोऽतो द्वाभ्यामपि सा कृष्णोपास्तिः कार्येव' इत्यर्थः असङ्गतं च तस्येशाच्छाद्यत्वकथनम् । न हि तत् कर्माकरणे हेतुः ? तथा सति, अज्ञस्यापि तत्प्रसङ्गेन उत्तरमन्त्रविरोधात् । ईशावास्यत्व ज्ञानोपलक्षणपक्षेऽपि असङ्गतिरेव । न हि 'जगद् ईशावास्यम् इति जानता, कर्म न कार्यम्, इति नियमोऽस्ति ? 'अद्वैतज्ञानम उपलक्षितम्' इति चेत् ? न, विरोधात् । न हि आच्छाद्याऽच्छादकयोर् अभेदो दृष्टपूर्वः । सर्वमपीशावास्यमङ्गीकुर्वताऽवश्यं “ जगती” पदस्य सर्वोपलक्षणत्वमङ्गीकर्तव्यम् । ततो वरं प्रकृतिवाचकत्वग्रह्णमेव, सर्वार्थलाभात् । न च तत्पक्षे अस्योपयोगोऽस्ति । “भुञ्जीथा" इत्यस्य पालनार्थतायामात्मनेपदविरोधः । धनमिथ्यात्वं च त्यक्षादिविरुद्धम् इति ॥२॥
ईशावास्योपनिषद्भाष्यटीकाप्रकाशिका
“न प्रागुत्तराणि कर्माणि पापानि बाधन्त" इत्यस्य 'निरन्तरभगवत्पूजाया अपि सकलपापप्रायश्चित्तरूपत्वाद्' इति भावः । “न हि जगदीशावास्यमिति जानता” इत्यत्र रात्रौ तमसाऽह्नि हिमान्या च जगत आच्छाद्यत्वं जानताऽपि सन्ध्यावन्दनादिकर्मकरण दर्शनाद्, इति भावः । “अद्वैतज्ञानमनेनोपलक्ष्यत” इत्येतदपि
न प्रकृतोपयोगि । अद्वैतज्ञानवता मायावादिना आचार्येणैव जपादिकर्मणां क्रियमाणत्वात् । अङ्गीकृत्य दूषणान्तरमाह “न हि” इति । “न च तत्पक्षेऽस्योपयोगोऽस्ति” इत्यस्य ईशाच्छाद्यस्वर्गाद्यर्थं तैरपि यज्ञादेः क्रियमाणत्वादिति भावः । “भुजोऽनवन” (अष्टा. १.३.३६) इत्यवनार्थे आत्मनेपदनिषेधादिति भावेनाह “आत्मनेपदविरोध” इति । किं च ' ईशा ईशित्रा आच्छाद्यं जगद्' इति च न मायावादिना वक्तुं शक्यते, 'ईश्वरो मायया अविद्यमानमेव जगद्दर्शयति' इति हि तन्मतम् । कथमन्यथा दृश्यत्वेन मिथ्यात्वं वदेत् ? अपि च रक्षसा रसातळे आच्छादितजगतः वराहरूपिणा भगवता आच्छादकजलादुद्धृत्य प्रकाशितत्वाच्च कथमीशाच्छाद्यत्वम्? “तमेव भान्तमनुभा सर्वम्” (श्वे.उ. ६.१४, मु.उ. २.२.११) इति च तत्पक्षः । अतोऽपि नेशाच्छाद्यत्वम् । किं च “यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्” (भ.गी. १५.१२) इति गीतायां जगदीशेन कृष्णेनैवोक्तत्वात् कथमीशाच्छाद्यं जगत् ? अतो “यत्किञ्चिद्” एतत् । प्रत्युत “तदव्यक्तमाह हि” (ब्र. सू. ३.२.२३), “यत्तदद्रेश्यमग्राह्यम्” (मु.उ. १.१.६), “अदृश्यत्वादिगुणको धर्मोक्तः " ( ब्र. सू. १.२.२१), "मायायवनिकाच्छुन्नमहिम्ने ब्रह्मणे नमः” इत्यादिश्रुतिस्मृतिभ्यः, स्वमते ब्रह्मैव आच्छाद्यम् । ब्रह्मणो जगदारोपाधिष्ठानत्वाङ्गीकाराच्च स्वप्रक्रियया ब्रह्मैव आच्छाद्यम् । एवं च ईशाच्छाद्यत्वेन त्यागे ब्रह्मण एवं त्यागप्रसङ्गः, न तु कर्मणः । अतोऽपि स्वाज्ञानविजृम्भितमेवेदं व्याख्यानम् । अपि च जगदीशाच्छाद्यं चेत् कर्म कुतः त्याज्यम्? 'कर्मणोऽपि जगदन्तःपातित्वाद्' इति चेत् तर्हि मोक्षसाधनमनोवृत्तिरूप अपरोक्षज्ञानस्यापि तत एवोपेक्ष्यत्वं स्यात् ? किं च इन्द्रवाय्वादिरूपतया महाज्ञानिभिः पाण्डवैरेव महता प्रयत्नेन राजसूयाश्वमेधादिकर्मणां कृतत्वात्कथं ज्ञानिना कर्म त्याज्यम् ? किं च महाज्ञानिनं पार्थं प्रति “कर्मण्येवाधिकारस्ते मा फलेषु कदाचन" (भ.गी. २.४७) इति निवृत्तरूपकर्मण्येव ज्ञानिन एवाधिकारस्योक्तत्वात् । अनेनैव ‘क्वचित् कर्मणां त्याज्यत्वोक्तिः काम्यकर्मणामेव' इति सूचितम् “
नियतस्य तु सन्न्यासः कर्मणो नोपपद्यते ।
मोहात् तस्य परित्यागः तामसः परिकीर्तितः”
(भ.गी. १८. ७) इति सन्ध्यावन्दनादिकर्मणामत्याज्यत्वस्यैव भगवता कथनाच्च । “पालयेथा” इत्यत्र पालनविषयतया कर्म च न परेण वक्तुं शक्यम् । ईशाच्छाद्यसकलजगतामुपेक्षणे सति आत्मै र्वरितः एव च स्वात्मानमेव त्वं पालयेथा इत्युक्तं स्यात्? तच्च कर्तृकर्मभावविरोधान्नित्यस्यात्मनः पाल्यत्वायोगाच्च अयुक्तम् । अतो, 'मर्कटः स्वकरगतरत्नमालाया इव उपनिषदामपकर्तेव परो, न व्याकर्ता' इति युक्तमुत्पश्यामः ॥२॥