अ॒न्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया
१२. अन्यथाज्ञाननिन्दासमुच्चितस्य यथार्थज्ञानस्यैव साम्परायसाधनत्वम्
अ॒न्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया ।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १० ॥
ईशावास्योपनिषद्भाष्यटीका
किं विपक्षे अनर्थप्राप्तेरेव सम्यग्ज्ञानासम्यग्ज्ञाननिन्दनयोः कर्तव्यता? नेति ब्रूमः 'किन्तु मोक्षफलस्यांशत उभयसाध्यत्वादपि इति प्रतिपादको “अन्यदेवाहुर्विद्यया इति द्वितीयमन्त्रः । तथा हि “विद्यया” यथार्थज्ञानेन “अन्यदेव” मोक्षैकलक्षणं फलं प्राप्यमाहुः वृद्धाः । “अविद्यया”, ‘अन्यथाज्ञाननिन्दया च' इति यावत् । अन्यदेव फलमाहुरिति “धीराणां” धीमतां वृद्धवचनसम्मतियुक्तं वचनं “शुश्रुम” । ‘ये धीराः नोऽस्मभ्यं मोक्षसाधनं विचचक्षिरे व्याचचक्षिरे, तस्माद् उपपन्नः समुच्चयः' इति ॥ १० ॥
ईशावास्योपनिषद्भाष्यटीकाप्रकाशिका
“अविद्यया अन्यथाज्ञाननिन्दया” इत्यत्र अविद्यया मोक्षैकदेशप्राप्तेरसम्भवात् अविद्यानिन्दनस्य प्राक्प्रस्तुतत्वाच्च यथाश्रुतविद्याविद्ययोः भिन्नफलत्वस्य सर्वसम्मतत्वेनावक्तव्यक्तत्वाच्च “अविद्यया मृत्युं तीर्त्वा" इति मोक्षैकदेशरूपफलस्य वक्ष्यमाणत्वाच्च “निन्दया” इति पदमध्याहृत्य व्याख्येयम्, इति भावः । लौकिकधैर्यस्य अप्रयोजकत्वात्, “धियां रता इति धीरा" इति भावेनोक्तम् “धीमताम्” इति । तेऽपि धीराः कल्पनाशक्त्या नोक्तवन्त इति भावेनोक्तम् “वृद्धवचनसम्मतियुक्तम्" इति ॥ १० ॥