कर्मनिर्णय
अथ नामजिज्ञासा
"कर्मनिर्णय" नाम्र आचार्योपज्ञत्त्वे प्रमाणप्रतिज्ञा
अथादौ तावट्टीकाकृत्पादाः परं ब्रह्म श्रीमदानन्दतीर्थार्यांश्च प्रणम्य “व्याकुर्वे कर्मनिर्णयमिति प्रतिजज्ञिरे ।
अत्र केचिद्' अस्य ग्रन्थस्य खण्डार्थनिर्णय इति बह्वर्थमन्वर्थं च नाम ग्रन्थकारैश्श्रीमदाचार्यैः कृतम् । कर्मनिर्णय इति तु निष्कारणं नूतनं नाम नाम-करणानधिकारिणा जयतीर्थमुनिना कृतमित्याहुः । तन्न । उपसंहारप्राबल्यवादिभिश्श्रीमदाचार्यैः- १) एतद्ग्रन्थोपसंहारे कर्मसामान्यनिर्णयस्यैव कृतत्वेन, उपक्रमे च मङ्गलपद्य इज्यते, मखैः सर्वयज्ञभुज इत्येतैः पदैश्च सूचितत्वेन
…………………………………………………………………………………………………………………………………………………………………
१ बन्नञ्जे गोविन्दाचार्या (ब.गो) । तथाहि तद्वाक्यं खण्डार्थचन्द्रिकापुरोवाके (खं.चं. पु. ७) प्रबन्धा प्रबन्धस्य नाम करोति । पिता पुत्रस्य | प्रबन्धा चास्य प्रबन्धस्य " खण्डार्थनिर्णयः” इति बह्वर्थमन्वर्ध च नाम कृतम् | नह्यन्यस्य कस्यापि नामकरणाधिकारः । अथापि कर्मनिर्णय इति नूतनं निष्कारणं नामकरणम् । इति ।
…………………………………………………………………………………………………………………………………………………………………
२) पद्मनाभतीर्थादिसम्प्रदायसिद्धबहुमूलकोशानवलम्ब्य टीकाकृत्पादैः कृते व्याख्याने निर्दिष्टत्वेन ३) नारायणपण्डिताचार्याभिप्रेतत्वेन, ४) अणुमध्वचरिते स्फुटमेवोद्घोषणेन ५) ग्रन्थमालिकास्तोत्रे, तर्कताण्डवे च व्यासराजतीर्थ-श्रीमच्चरणैः स्फुटमभिहितत्वेन, ६) वादिराजतीर्थ श्रीमच्चरणैस्स्फुटं कथितत्वेन ७) रघूत्तमतीर्थराघवेन्द्रश्रीमच्चरणादिभिर्व्याख्यानकारैस्स्वीकृतत्वेन
...............................................................................................................................................................
१ " श्रीमन्मध्वमुनीन्द्रचित्तजलरुङ्घामस्फुरच्छ्रीरमा-रामप्रेमसमृद्धवीक्षणलहर्यामज्जमानः सदा । धीमत्सन्ततिभुत्सवामृतनिधावामज्जयन् सन्ततम्-मौनीन्द्रोऽद्य विराजते ह्यतितरां श्रीमज्जयार्याभिधः ॥ मीमांसाद्वयपारगो गुरुरसौ यः काश्यपीये नये साङ्ख्ये चाप्रतिमल्ल 'ता' नयनिधिः त्र्यक्षोऽक्षपादोक्तिदृक् । यश्चार्वाकविशालमानदमनो दुर्वारबौद्धाम्बुधेः पानानन्दितकुम्भसम्भवमुनिर्दिग्वाससामन्तकः ॥ यस्यात्यद्भुतवाहवाहनमहाशास्त्रप्रयोगादिषु प्रावीण्यं प्रविकत्थितं पृथुमतिश्रीकामदेवेन च || "
इत्यवन्तीभूभृता पृथुमतिना कामदेवेन (कथोदन्ते बौद्धविद्यालयकुलपतिरिति विश्रुतेन) प्रकाममाहता अकामदेवाष्टीकाकृत्पादास्सर्वदर्शनसम्बन्धिनोऽपि ग्रन्थान्स्वदर्शनपथमानीय स्वविमर्शनपथमप्यानिन्युरिति विज्ञायत इतिहासेन । किमेतादृशाः संशोधनं बद्धदीक्षाः कृतस्वमतरक्षाष्टीकाकृत्पादाः स्वमतीयमूलकोशान् न संशोधयाम्बभूवुरिति मतिर्विचारभुवमधितिष्ठेत् ? ।
२ व्यासराजतीर्थप्रभृतयष्टीकाकृत्पादोत्तरकालिकाष्टकाकृत्पादानेवानुसस्रुः । न तु स्वयं संशोधयामासुः । अतो न तेषां वचनानि प्रमाणीकर्तुं शक्यन्त इति न शङ्कनीयम् । सर्वेषामपि विशिष्टा परम्परा वर्तते । स्वस्वपरम्पराक्रमागतमूलकोशानवलोक्य तत्र तत्र सञ्चरन्तो देशे देशे विशेषतो रजतपीठपुरेऽपि पृथग्विधान् ग्रन्थान् निशाम्य संशोध्यैव च व्याख्याने प्रववृतिर इत्येवावगम्यते । न्यायामृतादिग्रन्थेषु परेषां मूलग्रन्थान् तट्टीकाः, टिप्पणीश्चान्विष्य संशोध्य चोदाहृत्य निमृशन्त एते महानुभावास्स्वकीयानां मूलग्रन्थानां मूलकोशानां संशोधनमकृत्यैव व्याख्याने प्रावर्तिषतेति न हि सम्भाव्यते । विशेषतो वादिराजतीर्थसुरोत्तमतीर्थप्रभृतिभिरधिगततुळुलिपिभिस्तद्देशस्थाः सर्वेऽपि मूलकोशा अवलोकिता एव भवेयुः । तथापि तैष्टीकाकृत्पादपाठ एवान्वस्त्रियत, पलिमारुमठाधीशेः रघुवर्यतीर्थैरपि टीकाकृत्पाद-सम्मत एव तत्त्वसङ्ख्यानपाठोऽन्वसारि । तदेतदुत्तरत्र निरूपयिष्यते । तदनेन टीकाकृत्पादपाठः प्रधानमूलकोशावलम्बी परिशुद्धश्चेति निर्णीयते।अत उत्तरकालिकानामपि ज्ञानिनां वचनानि प्रमाणीकर्तुं शक्यन्त एव ।
………………………………………………………………………………………………………………………………………………………………….
अधिगततुळुलिपिभिस्सुरोत्तमतीर्थादिभिस्स्फुटमुत्कीर्तितत्वेन च कर्मनिर्णयनाम्न आचार्यकृतत्वनिश्चयात् ।
“कर्मनिर्णय”नाम्न उपसंहारोपक्रमवाक्याभ्यां सम्प्रदायाच्च निर्णीतत्त्वकथनम्
०१) तथाहि-ग्रन्थान्ते “भगवद्भक्तिज्ञानवैराग्यपूर्वकं च कर्म कर्तव्यमिति प्रतिज्ञाय कर्मेतिकर्तव्यताबोधकानि बहूनि प्रमाणान्युदाहरन्तश्श्रीमदाचार्या उपसञ्जहुः । तदनेनोपसंहारवाक्यसन्दर्भेणास्य कर्मनिर्णयनाम्न आचार्यकृतत्वनिश्चयो भवति | मङ्गलपद्योपक्रमे च इज्यते, मखैः, सर्वयज्ञभुज इत्येतानि पदानि चिकीर्षितस्यास्य ग्रन्थस्य कर्मनिर्णयनाम्न आचार्यकृतत्वे प्रमाणानि । तदेतदुभयस्य विवरणमुत्तरत्र करिष्यते ।
०२) अपि च साक्षाच्छ्रीमन्मध्वाचार्यशिष्याग्रेसराणां पद्मनाभतीर्थादीनां सम्प्रदायानुसारतो मूलकोशान् लब्ध्वा तदनुसारेण जयतीर्थ श्रीमच्चरणाः कर्मनिर्णय इति नाम निर्दिदिशुः । अत इदं नाम श्रीमदाचार्यकृतमेवेति निश्चीयते ।
कर्मनिर्णयनाम्न आचार्यकृतत्वनिर्णयोपयोगितया नैकमूलकोशवत्त्वसमर्थनपूर्वकं टीकाकृतां मूलकोशानुपलम्भादिनिरास:
'मूलकोश' एव नालाभि टीकाकृत्पादैः, लाभे वा मूलपाठी नावलम्बित इत्यादयः कुशङ्किनामेव शङ्काः । अथापि शिष्यमनोव्याकुलतानिर्मूलनाय निरस्यन्ते ।
मूलकोश एव नालाभि टीकाकृत्पादैरिति तु एक एव मूलकोशः, स च हृषीकेशतीर्थीय एवेति दुराग्रहनिबन्धनम् | योग्येषु तत्त्वज्ञानप्रसारार्थमेव
………………………………………………………………………………………………………………………………………………………………….
१ मूलकोशानबलम्बः । तदिदं गङ्गामपहाय तत्सङ्गिन्यां कुनद्यामवगाहनम् । तेनाशुद्धपाठानां पुरस्करणम् । खं. चं.पु-७
………………………………………………………………………………………………………………………………………………………………….
भुवमवतीर्णाश्श्रीमदाचार्या एकमेव मूलकोशं कारयामासुरिति त्वसम्भवदुक्तिकम् । बहवः कर्मन्दिशिष्याः कर्मिशिष्याश्च स्वाध्यायार्थं अध्यापनार्थं व्याख्यानार्थं चाचार्यवाक्यानि स्वयमलिखन्तस्सर्वमूलमूलकोशमसम्पादयन्तो हृषीकेशतीर्थीयमेकमेव सर्वदा शरणङ्गता इति तु न श्रद्धास्पदम् ।
किञ्च पूजार्थं संस्थानप्रतिमाः, व्याख्यानार्थं सर्वमूलपुस्तकानि तप्तमुद्रादानार्थं शङ्खचक्रमुद्रे च श्रीमदाचार्येभ्य एव पद्मनाभतीर्थादयः प्रापुः । ततः शिष्यप्रशिष्यादि-पारम्पर्यक्रमेण तत्सम्प्रदायागता अन्येऽपि प्राप्नुवन्निति श्रीमठस्थप्राचीनहस्तलिखितसम्प्रदायपद्धतिग्रन्थेनावगम्यते । मूलकोशानां बहुत्वाभावे नेदं युज्यत इति स्फुटमेव ।
किञ्च यद्यन्यत्र मूलकोशा एव न स्युस्तर्हि सर्वेषु मठेषु विद्यालयेषु पाठप्रवचनपरम्परैव न स्यात् । अस्मदीये श्रीमदुत्तरादिमठेऽद्यापि नित्यं पूज्यमानः प्राचीनमूलकोशावशेषो विराजते । अन्येष्वपि मठेषु स्युरेव । इदानीमनुपलम्भस्तु महति कालेऽनवरतबहुतरपाठप्रवचनप्रयुक्तजीर्णतमतानिमित्तक एव । तथा च सन्ति बहवो मूलकोशा इति स्फुटमेव ।
किञ्चानुव्याख्याने' युक्तिपादे नविलक्षणत्वाधिकरणे "केवलं तु कथा वादो
………………………………………………………………………………………………………………………………………………………………..
१ मूलकोशान्तरं दृष्ट्वा लिखितस्यापि मूलकोशत्वमेष्टव्यमेव । अन्यथाऽनुव्याख्यानविषये हृषीकेशतीर्थीयस्य कथं मूलकोशत्वमिति शङ्कायाः कथं वारणम् ? तथाहि युगपदेव अनुव्याख्यानमध्यायचतुष्टयं लेखयामासुराचार्या, एकैकमध्यायम् एकैकेनेति स्फुटमेव पण्डिताचार्यवचनात् ( युगपद्रचयन्नेनां कदाचित् स निरन्तरम् । चतुरश्चतुरः शिष्यांलीलयाऽलेस्वयत् खलु ॥ सु. स.१५, श्लो. ८९ ॥ (वेदा टि) युगपदिति । एनां श्रीमदनुव्याख्यां रचयन् चतुरः कुशलः सरश्रीमध्वः कदाचिन्निरन्तरं चतुरशिष्यान् युगपल्लीलया अलेखयत् खलु । स्वयं रचयन्नेवाध्यायचतुष्टयं चतुर्भिश्शिष्यैः निरन्तरमलेखयदित्यर्थः ||) । तत्र एकमध्यायं हृषीकेशतीर्थैर्लेखयामासुराचार्या इत्यस्तु । परं सम्प्रत्युपलभ्यमाने हृषीकेशतीर्थीयेऽध्यायचतुष्टयमप्युपलभ्यतेऽनुव्याख्यानस्य । अध्यायान्तरविषये मूलकोशान्तरं दृष्ट्वा लिखितस्यास्य कथं मूलकोशत्वम् कथंबा तत्तन्मूलकोशमनुसृत्य
…………………………………………………………………………………………………………………………………………………………………
जल्पोर्थादिव्यपेक्षया । सतामेव कथा ज्ञेया वितण्डा त्वसतां सताम् । अप्रकाश्य स्वसिद्धान्तमसतां पक्षदूषणम् । उक्ते तैः प्रथमं माने वक्तव्यं तस्य दूषणम् । विद्यापरीक्षापूर्वैव...." इत्यादिक्रमेण सम्प्रत्युपलभ्यमाने हृषीकेशतीर्थीये वर्तते । तत्क्रमेण च टीकाकृद्भिर्व्याख्यायि । परं क्वचित् " केवलं तु कथा वादो जल्पोर्थादिव्यपेक्षया । इत्यनन्तरं सतामेवेत्यादि सार्धश्लोको न पठ्यते । किन्तु विद्यापरीक्षा...." इत्यादिदशश्लोक्यनन्तरं पठ्यते । सन्न्यायरत्नावलीकारैः पद्मनाभतीर्थभट्टारकैस्तत्रैव च व्याख्यातम् । अत्र पृच्छाम:-किं हृषीकेशतीर्थ-लिखितस्य मूलपाठत्वं किं वा पद्मनाभतीर्थ भट्टारकैर्व्याख्यातस्य किं वोभयोः ? उभयोरित्येव वक्तव्यं गत्यन्तराभावात् । तथा च सन्त्यनेके मूलकोशास्सन्ति चात एवानेके मूलपाठा इति स्फुटमेव ' ।
सत्यम् । सन्ति बहवो मूलकोशा इति ।
परं... नैकोऽपि मूलकोश उपालाभि टीकाकृत्पादैरिति चेत् । न । अप्रामाणिकत्वात् प्रमाणविरुद्धत्वाच्च ।
तथाहि - “ऐक्यप्रतीत्यभावेन भेद एव गवाश्वयोरि” ति तृतीयाध्यायद्वितीय-पादीयानुव्याख्यानव्याख्यानसुधायां “गवश्वयोरिति प्रमादपाठः । मूलकोशेष्व-दर्शनादि " ति स्पष्टमवोचन् टीकाकाराः । तथा गीताभाष्यटीकाप्रमेयदीपिकायाम् "एते सृती सोपाये ज्ञात्वाऽनुष्ठाय न मुह्यति । तच्चाह स्कान्दे-
सृती ज्ञात्वा तु सोपाये अनुष्ठाय च साधनम् ।
न कश्चिन्मोहमाप्नोति न चान्या तत्र ने गतिः " ॥ (गी.भा.)
……………………………………………………………………………………………………………………………………………………….
लिखितानामन्येषाममूलकोशत्वम् । तथा च सन्त्यनेके मूलकोशा उपविष्टाष्टीकाचार्योत्सङ्गमुपारुह्येत्येव सुन्दरम् ।
१ यद्यप्यत्र बहूनि प्रमाणान्युपलभ्यन्ते । तथापि दिग्दर्शनमात्रमत्र कृतमित्यवधेयम् ।
……………………………………………………………………………………………………………………………………………………………
इत्यष्टमाध्यायान्तिमश्लोकभाष्यव्याख्यानसन्दर्भे " भाष्ये पुराणे च अनुष्ठाय इत्याकारस्थाने क्वचिदीकारो लेखकदोषेण पतितः । मूलपुस्तकेष्वदर्शनादि" ति च स्फुटमवादिषुः । तेन मूलकोशोपलम्भोऽत एवं मूलपाठावलम्बश्च स्फुट एव ।
अवश्यञ्चैतदेवं विज्ञेयम् । "व्याख्यास्यत्येष गोराडि"ति स्वशिष्येभ्यः कथनपूर्वकं श्रीमदाचार्या श्रीमज्जयतीर्थमुनीन् टीकारचनाय प्रेरयाम्बभूवुरिति श्रीमज्जयतीर्थशिष्यव्यासतीर्थकृतजयतीर्थविजयग्रन्थात्सिद्धम् । तत्कथं स्वकृतसर्वमूलग्रन्थमूलकोशानलम्भयन्तश्श्रीमदाचार्याः टीकाकारान् जयतीर्थमुनीन् टीकारचनायै प्रेरयामासुरिति सम्भाव्यते ।
किञ्च साक्षाच्छ्रीमदाचार्यमुखारविन्दात् तत्त्वोपदेशं लब्धवतां साक्षादेव सम्पादितमूलकोशानां पद्मनाभतीर्थानां नरहरितीर्थानां माधवतीर्थानामक्षोभ्यतीर्थानां तथा जयतीर्थमुनीनां न कालस्य महदन्तरमस्ति' । येन मूलकोशांनुपलब्धिसम्भाव्येत । इदानीमनुपलम्भात् प्राचीनकाले वर्तमानैश्श्रीमदाचार्याणां कालतो नेदिष्ठैरपि महद्भिर्नालाभीति कथनं तु दुस्साहसमेव । नैवं कथने पूर्वाग्रहादन्यत् कारणं पश्यामः |
किञ्च नैकः, किन्तु नैके मूलकोशास्सङ्गृहीता व्याख्यानकर्मणि टीकाकृद्भिरित्यनुभवसाक्षिकं टीकास्वधीतिनाम् । अत एव प्रथमं स्वयं बहुमूलकोशानुसारिणं पाठं व्याख्याय तत्र तत्र क्वाचित्कमूलकोशान्तर्गतमपि मूलपाठं व्याकुर्वन्ति टीकाकृत्यादा: ।
……………………………………………………………………………………………………………………………………………………………….
१ उपलब्धशासनेन तत्रभवन्तेश्श्रीमज्जयतीर्थपूज्यचरणाः १२९५ शा. शके (१३७३) कामदेवेन मानिता इति विज्ञायते । अयं च कालो भगवत्पादकालात् शतेनापि वत्सरैर्नान्तरित इति स्फुटम् । तावत्येवाल्पीयसि काले हृषीकेशतीर्थीयातिरिक्तानां निखिलानां मूलकोशानां विनाशः, न कस्यापि तदुपलब्धि:, इति तु कल्पनाया दुर्विलासमात्रम्|
................................................................................................................................................................
प्रसङ्गात् टीकाकृतां मूलकोशानुपलम्भे तत्त्वनिर्णयटीकास्थं " प्रक्षिप्तमित्याहुः" इति वाक्यं प्रमाणयतां मतस्य निरासः
न च " इतः परं प्रत्यक्षानुमानसिद्धत्वे च इत्यतः पूर्वं वाक्यद्वयं मूलकोशेष्वदर्शनात्प्रक्षिप्तमित्याहुः । तथापि गङ्गाजलानुप्रविष्टक्षुद्रनदीजलस्येव तस्याप्युपादेयत्वाद्वयाख्यानं क्रियत” इति तत्त्वनिर्णयटीकावलोकनेन मूलकोशा न प्रापिषत टीकाकारैरिति गम्यते । अन्यथाऽऽहुरिति नोच्येतेति वाच्यम् । प्रागुक्तनिरवकाशप्रमाणैर्मूलकोशानां बहुत्वस्य, टीकाकृतां व्याख्यानस्य बहुमूलकोशानुसारित्वस्य च सिद्धत्वेनास्य वाक्यस्य मूलकोशानुपलम्भासाधकत्वात् । तथा चायमाशयष्टीका- काराणाम् । इदं वाक्यद्वयं सम्प्रदायविदः प्रक्षिप्तमित्याहुः । न केवलं सम्प्रदायः, किन्तु मूलकोशेष्वदर्शनमप्यत्र प्रमाणमुपलभामहे । परं तत्त्वोद्योतान्तिमश्लोकवत् श्रीमदाचार्यानुमत्या प्रक्षिप्तत्वात् पूर्वेणान्योन्यं च सङ्गतार्थत्वाच्च, अस्य वाक्यद्वयस्याविच्छिन्नप्रवृत्तये, तत्त्वमार्गगमने सर्वोपजीव्यैष्टीकाकारैः पद्मनाभतीर्थ-भट्टारकैर्व्याख्यानं व्यधायि । अत एव तन्मार्गमनुसरद्भिरस्माभिरपि व्याख्यायत इति । तमेतमाशयमजानाना यथाकथाच 'टीकाकृतां मूलकोशानुपलम्भो मूलपाठानवलम्बश्चेति कथयन्तीत्यतिहेयमतोऽखिलैः ।
……………………………………………………………………………………………………………………………………………………………..
१ विमतं सकर्तृकं कार्यत्वाद् घटवदित्युक्ते विमतं विकर्तृकमस्मत्सम्मतकर्तृरहितत्वादात्मवदित्यनुमान-विरोधात्। अकार्यत्वमुपाधिरित्युक्ते शरीरिजन्यत्वमितरत्राप्युपाधिरित्युत्तरम् । इति वाक्यव्याख्यान-सन्दर्भ इदं टीकवाक्यमुपलभ्यते । परं विमर्शकाः केचनास्य टीकावाक्यत्व एव विप्रतिपद्यन्ते ।
२ यद्यप्यत्र वैयात्यवता, दैवात्कथञ्चित् तत्त्वनिर्णयमूलकोशमात्रस्योत्सन्नत्वादलाभोक्तिस्तन्मात्रविषयकतया सम्भावयितुं शक्या तथापि वक्ष्यमाणगत्यन्तरस्यापि सम्भवादुक्तरीत्यैव सम्भावनीयमित्यत्र विनिगमनाविरह इति भावः ।
३ ननु कुतस्तर्हि प्रक्षिप्तत्वांशस्तैनोक्त इति चेत्, तदानीं सुप्रसिद्धत्वात् । कुतस्तर्हि एतैरुच्यत इति चेत् । श्रुणु प्राचीनैरपि व्याख्यायि अस्माभिश्च इति शिष्याणामस्यापि मूलवाक्यत्वभ्रमस्स्यात् । तन्मा भूदिति वस्तुतत्त्वप्रदर्शनशीलैस्संशोधकभूषामणिभिः श्रीमट्टीकाकृत्पादैर्वस्तुस्थितिरियमावेदिता । ननु कुतस्तर्हि तत्त्वोद्योतान्तिमश्लोका न व्याख्याता: प्राचीनैरिति चेदुक्तमुत्तरं टीकायामेव 'अन्योन्यं सङ्गत्यभावादि'ति । परमेषामविच्छिन्नप्रवृत्तय, उपाधिखण्डनटीकायामन्त एष्वन्तर्गतं "द्रवत द्रवताशु" इतीमं श्लोकमृदाहरद्भिः पद्मनाभतीर्थभट्टारकैः प्रयतितमित्यवधेयम् ।
………………………………………………………………………………………………………………………………………………………………..
तथा च टीकाकृत्पादैः प्राचीनानुसृतमार्गेण बहुमूलकोशानुसारी शुद्धः पाठ एव व्याख्यायीत्यवधेयम् । अत एव तदुत्तरकालीनैस्सर्वैरपि स एव पाठोऽन्वस्त्रियतेति विदितमेव समेषां विदुषामिति दिक् ।
“कर्मनिर्णय”नाम्नो नारायणपण्डिताचार्यसूचितत्वान्वर्थकत्वयोः समर्थनम्
०३) अपि च सुमध्वविजये षोडशे सर्गे-
सर्वज्ञोऽप्ययमधिकं न यज्ञभङ्गीं संवित्ते यतिरिति बद्धनिश्चयोऽसौ ।
आभान्तं परिषदि मत्सरादपृच्छत् कर्मार्थश्रुतिगहनार्थखण्डभावम् ॥ ४२ ॥
……………………………………………………………………………………………………………………………………………………………..
१ न केवलं श्रीमट्टीकाकृत्पादपरम्पराप्राप्तैर्महनीयैर्व्याख्यातृभिः किन्तु तुळुमण्डलभूषामणिभिर्वादिराजतीर्थादिभिरपि । किं बहुना हृषीकेशतीर्थसंस्थानमधिरूढैर्हषीकेशतीर्थमूलकोशानुसारेण लिपिकृद्धी रघुवर्यतीर्थैरपि । [श्रीशशीत्यै...' इति प्रमेयनवमालिकाप्रथमश्लोकव्याख्याने सौरमप्रकाशिकायां-'स्वतन्त्रमस्वतन्त्रं च द्विविधं तत्वमिष्यते । इत्यादावन्यपरमपि भक्त्यानुष्ठितं तत्पदकीर्तनं साधयत्येव मङ्गलम् । यथोक्तं-अन्यपरमपि तद् भक्त्यानुष्ठितं साधयत्येवाखिलमङ्गलानि । इति । इति रघुवर्यतीर्थैर्मङ्गल लोकसहितं हृषीकेशतीर्थीयं तत्वसङ्ख्यानपाठं परित्यज्य टीकाकृदादृतो मङ्गलश्लोकरहितस्तत्वसङ्ख्यानपाठ एवादृत इति बोध्यम् )
२ अयं श्लोको वेदाङ्गतीर्थैरेवं व्याख्यातः-(प.दी.) सर्वज्ञ इति । अयं श्रीमध्वः सर्वज्ञोऽपि यतिः, हेतुगर्भविशेषणमेतत्, यतित्वादित्यर्थः अयं सर्वज्ञोऽपि यतित्वाद् यज्ञानधिकारित्वात् यज्ञभङ्गी यज्ञप्रकारं अधिकं न संवित्ते न जानाति इति बद्धनिश्चयोऽसौ जनः परिषदि सभायामाभान्तं शोभमानं श्रीमध्वाचार्यं कर्मार्थश्रुतिगहनार्थखण्डभावम् कर्मपरा श्रुतिः कर्मार्थश्रुतिः, ब्राह्मणमित्यर्थः, पदसमन्वयपक्षे सर्वश्रुतीनां परममुख्यवृत्त्या ब्रह्मपरत्वेऽपि ब्राह्मणस्य वाक्यसमन्वयपक्षे भगवत्पूजार्थत्वेन कर्मपरत्वाभ्युपगमात् । तथाच कर्मार्थश्रुतौ बहृचब्राह्मणे विद्यमानस्य गहनार्थस्य दुर्विज्ञेयार्थस्य खण्डस्य."छन्दसां वै षष्ठेनाहाऽऽप्तानां रसोऽत्यनेदत् । स प्रजापतिरबिभेत् । पराङ्कुयं छन्दसां रसो लोकानत्येष्यतीति । तं पुरस्ताच्छन्दोभिः पर्यगृह्नान्नाराशंस्या गायत्र्या रैभ्या त्रिष्टुभः " इत्यस्य खण्डस्यार्थं मत्सरादपृच्छत् । "दुहियाचि" इत्यादिना द्विकर्मकत्वम् ॥ ४२ ॥ इति
…………………………………………………………………………………………………………………………………………………………………
छन्दोभ्यश्च्युतरससङ्ग्रहप्रवीणान् षष्ठेऽह्नि प्रतिविहितान् प्रजाधिपेन ।
नाराशंस्यचरमचारुमन्त्रभेदान् ऊचेऽसौ तमभिदधद् विसंशयांशः ॥ ४३ ॥
पाण्डित्यं परममवेत्य तस्य तादृक् संङ्घर्षक्षुभितमना विपक्षसङ्घः ।
नार्थस्यादयमिति वर्णयन्नथ त्वं तं ब्रूहीत्युरुमतिनेरितोऽद्रवद् द्राक् ॥ ४४ ॥
अत्र यज्ञप्रकारविषये परीक्षार्थमेवोजेर्यपण्डितानां प्रवृत्तिः । अत एव कर्मार्थश्रुतौ बह्वृचब्राह्मणे विद्यमानस्यैव खण्डस्यार्थः पृष्टः । ततः श्रीमदाचार्यास्स्पष्टं तस्य खण्डस्यार्थं व्यवरिषत । ते पण्डिता नायमर्थ इत्यवादिषुः । कथ्यतां भवद्भिस्तर्हि तस्य खण्डस्यार्थ इति श्रीमदाचार्यैरीरिताः कथयितुमपारयन्तः पलायन्तेत्युक्त्वा तदुत्तरश्लोके-
सोऽपृच्छत् तमथ महाहृयोपसर्गा यत्रोक्ता मनुचरणोपसृज्यरूपाः ।
तस्यार्थं वचनचयस्य तं ब्रुवाण स्स्थैर्यार्थं सपदि स लेखयाम्बभूव ॥ ४५ ॥
इत्यत्र पुनस्ते पण्डिता आगत्य तत्रैव कर्मार्थे बह्वृचब्राह्मणे वर्तमानस्य "महानाम्नीनामुपसर्गानुपसृजती” त्यादिखण्डान्तरस्यार्थमप्राक्षुः । तस्याप्यर्थं श्रीमदाचार्या विस्पष्टं न्यरूरुपन् | स्थैर्यार्थं लेखयाम्बभूवुश्चेत्युक्तम् ।
अत्र यद्यपि नारायणपण्डिताचार्यैस्स्पष्टं ग्रन्थस्य नाम न निरदिश्यत । तथापि पूर्वतमश्लोके बह्वृचब्राह्मणं कर्मार्थश्रुतिपदेन कथयद्भिस्तदेकदेशस्योत्तरश्लोकोक्तस्य खण्डान्तरस्यार्थः कर्मैवेति समसूचि । कर्मार्थश्रुतिः- बह्वृचब्राह्मणम्-ऐतरेयब्राह्मणम् । तदेकदेशत्वादेव खण्डोऽपि कर्मार्थः । खण्डार्थस्तर्हि कर्मेति समपद्यत । खण्डार्थभूतस्य कर्मणो निर्णयो यतोऽस्माद् ग्रन्थाद्भवति तस्मादयं ग्रन्थः कर्मनिर्णयः, खण्डार्थनिर्णयः, खण्डार्थ' इत्यन्वर्थनामानि ग्रन्थकर्तृभि-भगवत्पादैरेव कृतानि भजत इति नारायणपण्डिताचार्याभिप्रायो विज्ञायते ।
कर्मनिर्णयनाम्नः प्राधान्यस्य, खण्डार्थनिर्णयनाम्नः प्रासङ्गिकत्वस्य च प्रतिपादनम्
किञ्चानेन कथाप्रसङ्गेन, कर्मकाण्डे विद्वद्भिरुजेर्यपण्डितैर्यतिरयं कर्मकाण्डं न जानातीति तत्रैवैनं जेष्याम इति इत्याशया खण्डव्याख्याने प्रेरितत्वात्, श्रीमदाचार्यैरपि स्वस्य कर्मकाण्डनिर्णयवत्त्वज्ञापनद्वारा तेषां तदाशां दूरीकृत्य कर्मकाण्डयथार्थनिर्णयोत्पत्तय एव खण्डव्याख्याने प्रवृत्तत्वात् खण्डार्थ-व्याख्यानस्य प्रासङ्गिकत्वेन, पृच्छकानामुजेर्यपण्डितानां प्रवक्तॄणां ग्रन्थकर्तॄणामाचार्याणां च खण्डार्थव्याख्याने प्रधानोद्देशाभावादुभयोरपि कर्मनिर्णय एव प्रधानोद्देशभावाच्च कर्मनिर्णय नामैव प्रधानं=पृच्छकप्रवक्तृप्रधानान्तर्यानुगुणम्, खण्डार्थनिर्णय इति तु नाम प्रसङ्गानुगुणमिति स्फुटं विज्ञायते । तथाचास्य ग्रन्थस्याचार्यकृतान्वर्थकानेकनामवत्त्वं स्फुटमेव' ।
……………………………………………………………………………………………………………………………………………………………
१ तत्संयोजनप्रकारश्च श्रीमध्वाचार्यैः खण्डार्थाख्यप्रकरणे स्वयमेवोक्तः । वेदा. टि । सु-१६ श्र.४५ १ २ अत एव एकैकमूलकोशलेखका एकैकं नाम भगवत्पादकृतमेव स्वीचक्रुः । पद्मनाभतीर्थीयाद्यनेकमूलकोशानुसारेण श्रीमट्टीकाकृत्पादाः कर्मनिर्णय इति हृषीकेशतीर्थीयमूलकोशानुसारेण पलिमारुमठाधीशार श्रीरघुवर्यतीर्थाः स्वण्डार्थनिर्णय इति विष्णुतीर्थीयमूलकोशानुसारेण सोदेमठाधीशा वेदाङ्गतीर्थाः खण्डार्थ इति ।
............................................................................................................................................................
एकस्यैव ग्रन्थस्य नैकनामकृतेः शास्त्रवाङ्मयप्रसिद्धत्वप्रदर्शनम्
नन्वेकस्यैव ग्रन्थस्यानेकानि नामानि ग्रन्थकृत्कृतानि कुत्रापि न दृश्यन्त इति चेत् । न । बहुत्र दर्शनात् । तथाहि-स्वयं भगवान् व्यास एव “महत्त्वाद्भारवत्त्वाच्च महाभारतमुच्यत" इति निर्वचनपूर्वकं महाभारतेति नामोक्तत्वा "भारतं सर्ववेदाश्च”,“शास्त्रेषु भारतं सारमित्यादिषु बहुषु स्थलेषु भारतेति नामोक्त्वा “ततो जयमुदीरयेदित्यत्र जयेति नामाप्यभिदधौ ।
इमं सत्सम्प्रदायपथमेवानुपतन्तश्श्रीमदाचार्या अप्यनुव्याख्यानस्य अनुभाष्यमित्यपि नाम चक्रुः । तदेतदुभयनाम्नस्स्वकृतत्वज्ञापनायैव न्यायविवरणे “कृत्वा भाष्यानुभाष्येऽहमपि वेदार्थसत्पतेः । कृष्णस्य सूत्रानुव्याख्यासन्यायविवृतिं तथा । करोमि ....इति” प्रतिजज्ञिरे । अत्र पूर्वार्धे अनुभाष्येत्यनेन उत्तरार्धे अनुव्याख्येत्यनेन चानुव्याख्यानमेकमेव ग्रन्थं स्वीकुर्वन्तो नामद्वयस्यापि स्वकृतत्वं ज्ञापयन्ति। अन्यथा भाष्यानुव्याख्ये इति पूर्वत्र, सूत्रानुभाष्य..... इति वोत्तरत्रावक्ष्यन् । अत एव ह्याचार्यकृतानामनेकग्रन्थानामप्यनेकनामवत्त्वं प्रसिद्धम् ।
इममेव च सत्सम्प्रदायमनुसरद्भिर्नारायणपण्डिताचार्यैरपि स्वकृतस्य सुमध्वविजयव्याख्यानस्य द्वे नामनी अकारिषाताम् । “भावप्रकाशनम्" इति " भावदीप " इति च । “भावप्रकाशनमिदं हरये नमोऽस्तु ” इति सुमध्वविजयटीकान्ते, “व्यधित भावदीपाह्वयम्” इति प्रमेयनवमालिकायां स्वयं नारायणपण्डिताचार्यैरेवाभिधानात् ' । भावप्रकाशनमिति तैरुल्लेखे कृतेऽपि भावप्रकाशिकेत्येव प्रसिद्धिरस्ति ।
……………………………………………………………………………………………………………………………………………………………..
१ अयं विषयो बन्नञ्जे गोविन्दाचार्यैरपि भावप्रकाशिकापादटिप्पण्यामुक्तः । तथाहि तद्वाक्यम्-अस्या भावप्रकाशिकाया भावदीप इति च नामान्तरम् । स्वयमेवाह हि प्रमेयनवमालिकायाम् । व्यधित भावदीपाह्वयम् इति । इति
…………………………………………………………………………………………………………………………………………………………….
तमेतं सत्सम्प्रदायमनुवर्तयन्तश्श्रीमट्टीकाकृत्पादा अप्यनुव्याख्यानव्याख्यानस्य “विषमपदवाक्यार्थविवृतिरि" ति " न्यायसुधे" ति च नाम चक्रुरित्यवधेयम् । एवमेव तत्सम्प्रदायमनुसरद्भिर्बहुभिरपि ग्रन्थकृद्भिः स्वग्रन्थस्य नैकानि नामानि चक्रिर इति प्रसिद्धमेवेत्यलम् ।
महाजनपरिगृहीतत्वलिङ्गेन "कर्मनिर्णय "नाम्न आचार्यकृतत्वसमर्थनम्
०४) अपि च अणुमध्वचरिते कर्मनिर्णय इति नाम दृश्यते । "आगत्य भारतस्याथ तात्पर्यं कर्मनिर्णयम्” इति । इदमणुमध्वचरितं वायुपुराणोक्तमिति केचित् । हृषीकेशतीर्थकृतमिति केचित् । अनेन कर्मनिर्णय इति नाम वायुपुराणकर्तुर्व्यासस्य वा हृषीकेशतीर्थानां वा सम्मतमिति ज्ञायते ।
०५) अपि च व्यासराजश्रीमच्चरणा ग्रन्थमालिकास्तोत्रे “कर्मनिर्णयनामानं ग्रन्थं न्यायार्थबृंहितमिति स्फुटमुद्धोषयामासुः । तथा तर्कताण्डवे विधिवादेऽपि "अत एव कर्मनिर्णये लिङाद्यर्थस्त्विष्टसाधनत्वमेवेति, लिङादेस्त्विष्टसाधनतार्थत्वेनैव कृतार्थत्वमिति चोक्तमिति निरूपयामासुः ।
०६) अपि च वादिराजश्रीमच्चरणैर्युक्तिमल्लिकायां फलसौरभे " यजत्रा याजकास्सर्वे यज्ञेषूक्तिविशारदम् । सुखेन भरितास्सन्तो दृष्ट्वा श्रुत्वा च तद्वचः । प्रमदन्ति प्रहृष्यन्ति कर्मनिर्णयकोविदम्” इति स्पष्टं कर्मनिर्णयशब्दः प्रयुयुजे ०७) अपि च रघूत्तमतीर्थ श्रीमच्चरणैः, राघवेन्द्र श्रीमच्चरणैः, सत्यनाथतीर्थ श्रीमच्चरणैः, सत्यधर्मतीर्थ श्रीमच्चरणैः, श्रीनिवासतीर्थैः, छलारि नरसिंहाचार्यैः,
……………………………………………………………………………………………………………………………………………………………..
१ बन्नञ्जे गोविन्दाचार्यास्तु " अस्य कर्ता न ज्ञायते । हृषीकेशतीर्थैरेव रचितमिति वदन्ति" इति बृहतीप्रकाशनतो मुद्रिते प्रमेयनवमालिकानाम्नि पुस्तके चरमभागे मुद्रितस्याणुमध्वचरितस्य पादटिप्पण्यामलिखन् ।
…………………………………………………………………………………………………………………………………………………………….
व्यासतत्त्वज्ञतीर्थानां पूर्वाश्रमपितृपादैर्वेङ्कटनरसिंहाचार्यैस्तथाऽन्यैरपि बहुभिर्व्याख्यानकारैरन्वर्थकतरं कर्मनिर्णयेति नामैव स्वीचक्रे' |
०८) (क) अपि च सुरोत्तमतीर्था वादिराजतीर्थ श्रीचरणानां पूर्वाश्रमानुजा भण्डारकेरिमठाधीशा युक्तिमल्लिकाफलसौरभस्य ६६६ श्लोकस्य व्याख्याने “शवसा कठिणब्राह्मणखण्डार्थकथनरूपकर्मनिर्णयाख्यग्रन्थश्रवणजनितसुखेन प्रमदन्ति प्रकर्षण सन्तोषं कुर्वन्तीति । 'छन्दः खण्डार्थवादी जितकुमतिकुल' इत्यणुमध्वविजयवचनात्प्रसिद्धोऽयमर्थ " इत्यवादिषुः । छन्दः खण्डार्थवादीत्यणुमध्वविजयवचनमुदाहृत्यापि कर्मनिर्णयाख्येत्यगद्गदमगादिषुः ।
(ख) अपि च विश्वपतितीर्थाः पेजावरमठाधीशा "युक्ताया युक्तिमालाया” इति सुमध्वविजयपञ्चदशसर्गीयनवतितमश्लोकीयव्याख्याने "तथा च श्रीमदाचार्यकृतग्रन्था” इति सर्वेषामाचार्यकृतानां ग्रन्थानां नामानि वदन्तः कर्मनिर्णय इत्येवावदन् ।
……………………………………………………………………………………………………………………………………………………...
१ रघूत्तमतीर्थाः रूढियोगी विना इत्यस्य कर्मनिर्णयटीकायां न केवलो रूढो नापि केवलो यौगिकोऽस्तीत्यर्थ इति मुख्यवृत्तिद्वयसमुच्चयपरत्वेन व्याख्यातत्वात् ।
(तत्त्वप्रकाशिकाभावबोधः पृथगुपदेशाधिकरणम् )
राघवेन्द्रस्वामिनः व्याख्यास्यामि यथाबोधं कर्मनिर्णयपञ्चिकाम्
सत्यनाथतीर्थाः कर्मनिर्णयटीकाया भावं वक्ष्यामि शक्तितः ।
सत्यधर्मतीर्थाः कर्मनिर्णयटीकायां लक्षणाया अपि भगवन्निष्ठत्वोक्तेः । श्रीपादपादुकास्तोत्रव्याख्याने ।
श्रीनिवासतीर्थाः कर्मनिर्णयसट्टीकां व्याख्यास्येऽहं स्वशक्तितः ।
छलारि कर्मनिर्णयसट्टीकां व्याख्यास्येऽहं यथामति ।
नरसिंहाचार्याः
वेंकटनरसिंहाचार्याः निर्मलत्वाय मनसः कर्मनिर्णयपन्चिकाम् ।
(ग) अपि चानन्दनिधितीर्थाः पुत्तिगेमठाधीशा इमं ग्रन्थं लिखित्वा अन्ते-
कर्मनिर्णयः समाप्तः । श्रीकृष्णविठ्ठलहयग्रीवार्पणमस्तु ।
अशेषमन्त्रोपनिषत्पुराणवेद्यस्य प्रीत्ये तुरगाननस्य |
व्यलेखि खण्डार्थविनिर्णयोऽलं निध्युत्तरानन्दपदाभिधेन ॥
इति नामद्वयमपि निर्दिशन्ति । [ एतत्पत्रचित्रं परिशिष्टे द्रष्टव्यम् 102 ]
'रघुवर्यतीर्थेभ्यः प्राचीना विश्वपतितीर्थसुरोत्तमतीर्थानन्दनिधितीर्थादयो महाज्ञानिनस्तुळुलिपिपरिज्ञानपरिपूर्णा अत एवावलोकिततुळुलिपिनिबद्धविविधमूलकोशा अपि कर्मनिर्णयेति नामोदघोषयन् । तथा च विमर्शनशीलैर्व्याख्याकुशलैर्विबुधयतिमणिभिरुल्लिखितत्वेन कर्मनिर्णयनाम्न आचार्यकृतत्वमवसीयत इति सर्वमवदातम् |
“कर्मनिर्णय" नाम्न एव टीकाकृता स्वीकारे प्रयोजनकथनम्
ननु तर्हि सत्स्वप्यनेकेषु नामसु कर्मनिर्णयनाम्न एव स्वीकारे कः प्रयोजनविशेष इति चेत् । श्रुणु । खण्डार्थनिर्णय इत्येवोक्तौ न ज्ञायते कस्य खण्डस्यार्थो निर्णीयतेऽत्रेति । कस्यचित्खण्डस्यार्थो निरणीयतात्रेत्येव ज्ञायते । कर्मनिर्णय इत्युक्तौ तु कर्मैव निरणाय्यत्रेति व्यक्तमेवावगम्यते । ननु तथापि खण्डार्थभूतस्य
………………………………………………………………………………………………………………………………………………………….
१ अथ चात्र पृच्छामः । खण्डार्थनिर्णयनाम्नः कथमाचार्यकृतत्वं निधीयते ? इति । रघुवर्यतीर्थ-र्लिखितत्वादिति त्वपर्याप्तम् । तैरेव कृत्वा लिखितमिति वदन्तं प्रति किमुत्तरम् ? ननु हृषीकेशतीर्थमूलकोशानुसारेण केवलं लिपिकृतस्ते न नामकरणाधिकारिण इति चेत् । श्रीमट्टीकाकृत्पादा अपि पद्मनाभतीर्थीयाद्यनेकमूलकोशानुसारेण परिशुद्धं व्याख्यातार एव केवलमिति समस्समाधिः । अथ च हृषीकेशतीर्थैरेव कृत्वा लिखितमित्याक्षिपन्तं प्रति किमुत्तरम् । अयि भो.... तेऽपि लिपिकृत एव न नामकरणाधिकारिणः, तत्कथमनर्थसाधनं तत्कुर्वन्तीति चेत्समस्समाधिः । यत्किञ्चिदन्यथा. संस्थमन्यथाज्ञातमेवानर्थकारणं किमुतान्यथाकरणमिति तत्त्वमनुसन्दधानाष्टीकाकृत्पादाः कथं नामान्तरं कुर्युरित्यलम् ।
………………………………………………………………………………………………………………………………………………………
०५) मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा" इत्यादेरुदाहरणेन स्वातन्त्र्याभिमानपरित्यागपूर्वकं कर्तव्यत्वेन कर्मणो निर्णयो यस्मादिति निरुक्तिं वेदयामासुराचार्यश्रेष्ठाः ।
०६) " श्रद्धावन्तोऽनसूयन्त" इत्यादेरुदाहरणेन श्रद्धापूर्वकं कर्तव्यत्वेन कर्मणो निर्णयो यस्मादिति निरुक्तिं वेदयाम्बभूवुराचार्यपुङ्गवाः ।
०७) "परं भावमजानन्तो मम भूतमहेश्वरम्" इत्यादेरुदाहरणेन भगवत्स्वातन्त्र्यज्ञानपूर्वकं कर्तव्यत्वादिना कर्मणो निर्णयो यस्मादिति निरुक्तिं व्यजिज्ञपन्नाचार्यकुञ्जराः ।
०८) "विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणमि " त्यादेरुदाहरणेन भगवदायत्तफलसम्बन्धवत्त्वेन कर्मणो निर्णयो यस्मादिति निरुक्तिं ज्ञापयाम्बभूवु-राचार्यव्याघ्राः;
" यत्सम्बन्धेन कर्माणि फलवन्ति भवन्ति हि । यस्सर्वकर्मणां कर्ता तस्मै भगवते नमः ॥”
इत्यन्ते कथयन्तर श्रीमट्टीकाकृत्पादाः,
" यदापादनरूपाणि कर्माणि निखिलान्यपि । कर्मणां फलदाता यस्तस्मै श्रीपतये नमः ॥"
इति वदन्तो राघवेन्द्र श्रीमच्चरणाश्च ।
०९) “यदेव विद्यया करोति श्रद्धयोपनिषदा" इत्यादेरुदाहरणेन योग्यतानुसारेण कर्तव्यत्वेन कर्मणो निर्णयो यस्मादिति निरुक्तिं ज्ञापयाम्बभूवुराचार्यशार्दूलाः ।
१०) " निराशीर्निर्ममो भूत्वा" इत्यादेरुदाहरणेन फलापेक्षया विना कर्तव्यत्वेन कर्मणो निर्णयो यस्मादिति निरुक्तिं ज्ञापयाञ्चक्रुराचार्यर्षभा इति दिकू' ।
तदेवं प्रागुक्तनिरवकाशप्रमाणैः, श्रीमदाचार्यैरेव कर्मनिर्णय इति नाम चक्र इति, अत एव तत्सम्प्रदायप्राप्तमिति च समसैत्सीत् । तथा कर्मनिर्णय इति नाम निरुक्ताभिर्निरुक्तिभिरत्यन्तमन्वर्थकं बह्वर्थकमिति च निरधारीत्यलम् ।
॥ इति नामजिज्ञासा ॥
…………………………………………………………………………………………………………………………………………………………
१ इतः परमुत्तरत्रानेकाभिर्निरुक्तिभिः प्राय एतद्ग्रन्थोक्तसर्वार्थसङ्ग्राहकत्वमस्य नाम्नः प्रदर्शितम् । तथापि दशेति पूर्णमुद्दिष्टमिति दशैव इह निवेशिताः । शिष्टाः परिशिष्टे निवेशिताः । जिज्ञासुभिस्तत्रैव ता अनुसन्धेयाः ।