शुद्धं प्रमाणं स मे
॥ श्री: ॥
॥ श्रीदिग्विजयमूलरामवेदव्यासा विजयन्ते ॥
शुद्धं प्रमाणं स मे
व्याहृतिः
अथ महानाम्नी ।
छन्द: प्रार्थनासिन्धुशयनस्य । खण्डखाद्यमैतरेयखण्डस्य । अतुलोपसर्गस्स्वर्गतलस्य । सुधासवस्सुरधीराणाम् | स्वर्गभूमिरपवर्गरसिकानाम् | तत्त्वनिष्यन्दोऽमत्तमुनीनाम् ।
भावबन्धुरं स्वभावसुन्दरं च पदमन्दिरम् ।
सेयं वेदसुधासिन्धो नूनं बिन्दवति स्तुतिः ।
गर्तावर्तविवर्ताथैर्नूनं सिन्धवति श्रुतिः ॥
निर्वेदा: पुनरकृतश्रुतिसम्पत्तिमहार्थहीना दुर्ददरिद्रुः । सवेदा अपि मीमांसक दुर्दुरूटाः पुनरनुन्निद्रा इव कर्मकर्मेति श्रुतिभावं व्यतिब्रुवाणाः काणबाणा बभूवुः । व्यतिजघ्नुश्चाम्नायानामैदम्पर्यं यागो याग इत्याहिण्डमानाः पण्डाऽपूर्वभावना: । तदेषां कर्मकरटानामिदं विवर्ताधिष्ठानं पाटयन्निवाचार्यो भगवत्पादश्श्रीमदानन्दतीर्थः प्रकरणरणताण्डवमिदङ्कर्मनिर्णयाख्यन्तनुष्व तनुष्वेति तरसा व्यातेने ।
( नभसि कर्णदत्त्वा )
किमन्ग ?....... किमात्थ ?!!!!
अधुनादः कुत इति..... ? ? श्रृणु ।
वयं हि विकारिणि परुदेवोत्तरापथेनाकारिता आर्यावर्ते नर्मदामुपर्युपर्युपगन्गञ्च सञ्चरन्तः प्रचिचारयिषितं विष्णुसर्वोत्तमत्वं यथाशक्ति निर्वर्त्य निवर्तितुकामाः कलिङ्गान्समगच्छाम । श्रीमदाचार्यान्तेवासिनामस्मत्स्वान्तनिवासिनां श्रीमन्नरहरितीर्थपूज्यपादानामभिजनमाप्य भृशं समतुष्याम । एवमितस्ततः परितः पुरीतटमेवास्मासु यथाप्राचीनाचारञ्चरत्सु चीनमाप्रकोप सहसा समजनि ।
अविहा !!! ततः...?
ततोऽवनीजनिरमणमेव शरणीकुर्वाणा गोदावरीतटचरीं सुवर्णपुरीमुपसर्गतः कर्तुं सवितुर्देवस्य भर्गमन्तेवासिवर्गेस्सह ध्यायन्तोऽध्यवसाम ।
एवमनेहसि याते भूयसि दक्षिणेन षण्मासान् दिनमणिर्दिवमाक्रम्य क्रमितुमुपचक्रमे । चङ्क्रमणश्रान्त्या विश्रान्तक्रान्तावादित्ये तद्गोत्रावतंसपुंसो ज्याजनिजानेरार्यवयदीर्यचर्यस्य श्रीमूलरामस्य भगवतोऽपर्यांयसपर्यायामसुधारणकारणसुधाध्यापनसहितसुहितायामधिघोषञ्जोषञ्जुष्यमाणायामागतो नः कर्णपथमयं वृत्तान्तः ||
अथ कोऽसौ ....... ?
बत....................सोऽसौ !!
यत्...“नूनन्निष्कोशींकृताशेषमूलकोशभावविशेषायां निश्चोतच्चूतरसकुल्यातुल्यायां, स्वर्गमितसुधायां, वसुधायां सुधायां, स्फुटत्स्फुटोक्तियुक्तिस्फुलिङ्गरङ्गायां, मूकीकृतघनघोषगङ्गायाम्, अन्धुसिन्धूपहासिगम्भीरान्तरङ्गायां, कृतकुमतरुतभङ्गायां सुरभिताचार्यवचोचाटिकायाण्टीकायामपरितोषात्साम्प्रतङ्कर्मनिर्णयटीकाभावमवकर्णयता प्रथितयशसा विदुषा बन्नञ्जे गोविन्दाचार्येण खण्डार्थनिर्णयापराभिधकर्मनिर्णयस्य खण्डार्थचन्द्रिकानाम्नी व्याख्यायिका काचित्स्वैराचारं विरचिता" इति ॥
ततः..... ?
ततः........पाणिङ्गते च तस्मिन् कर्णेचुरचुरायमाणे ग्रन्थवृत्तान्तं, शुद्धविद्याव्यसनविदूरेऽपि करालेऽस्मिन् कलौ काले क्वचिद् वेदविद्यागन्धोऽद्यापि प्रश्वसितीति धारयत्यसून् कथञ्चित्सौपर्वाणवाणीसौरभः कुसुमकरीरेषु सुतरामिति चाकालिकशम्पाकम्प इव सद्योभिद्यमानमोदबुद्बुदो मनागस्मन्मनोमन्दिरेऽङ्कुरितः ।
परम्............ ।
परम्....!!!!??
परम्..., श्रीमत्पूर्णप्रमतिगुरुकारुण्यसरणिं प्रपन्नान् प्रगुणप्रतनान् परमर्षितुल्यान् श्रीमज्जयतीर्थार्यवर्यानबोधोपहतचेतसो बोधलवदर्पखर्परिता वचसा दुस्तर्पयन्तीति व्यथितक्वथितं नो मनः । " शुद्धं प्रमाणं स मे" इत्यनुयातमध्वगुरुपद्धतीनपि सर्वज्ञकल्पान् गुरून् विद्यार्जितदुर्विलासैर्मुधैवावधीरयन्तोऽहमहमिकया वर्त्मभ्रान्त्या गर्तम्पततोऽमूञ्जनान् सदयम्पश्यतामदूयत नश्चेतः ।
अतस्तदेषान्नु प्रतनवचोवधूटीघाटीशाटीकोटिमेवावलम्ब्याकलितचलितानां, " तत्पथमेवानुपतन्तो विभृशाम तान्प्रतनान्" इत्यसत्पथेऽन्तरिताञ्जनान्निनीषूणां प्रथितमहात्मसु कृतविकृतगहनक्षेपकुहनानां व्यञ्जनारञ्जितभावकरम्बितविडम्बितोक्त्या च निहृवमाचरतामिमां विषमितविमर्शपर्शुकामङ्गपर्येषणया सङ्गमयितुमयम्
आरम्भसंरम्भोऽधुना सङ्गत एवाङ्ग IIII
(स्वगतम्) एवं न्वहो !!......... इदम् । . तर्हि युक्तोयमारम्भः ।
( प्रकाशम् ) बाढम् !!!
ननु भणितचरङ्कर्मनिर्णयमाचार्यो व्यातेन इति । ततस्ततः... ?
ततः.... सत्स्वपि समर्थेष्वर्थिशिष्येषु “ व्याख्यास्यत्येष..........." इति स्वफक्किकाशयविशदने स्वयं भगवत्पादैरेव घनान्त: करणकरुणया सकलसमक्षं पुरैव नियुक्ताष्टीकालोके सुगृहीतनामधेया विरक्तमूर्धन्या धन्यसंन्यासिनो यतिकुलमणयस्तत्रभवन्त श्रीमज्जयतीर्थपूज्यचरणा भगवत्पादकृतकर्मनिर्णयस्य मर्मप्रकाशिनीं, धर्मपरायणानां चित्ततोदापनोदिनीं विनोदिनीं धवलधवलामेकां मल्लिकावल्लीनिभां टीकामतल्लिकामसोषत |
तामेनां सुगन्धिमल्लिकामप्युष्णोष्णकया सिञ्चन्तस्सूनाप्रसूनमिव, कण्टकरुचिक्रमेलका मधुमोचामिव केचित्ते नाभिनन्दन्ति । सुस्वरितवीणामिव मधुरमधुरं मञ्जुलन्च निनदतीमुपश्रुत्युपलाल्यामप्यपश्रुतिभिरपघ्नन्ति ।
अथापि रोचयामो वयं मनसाऽमीषामुपदशमि दशायामपि व्याख्याव्यवसायव्यसनिनां पदविन्यासप्रौढिमानं मञ्जुभाषामधुरिमाणञ्च ।
परं...., न तन्मात्रं पर्याप्तङ्गम्भीरापारशास्त्राकूपारपास्तरणे तत्पङ्क्तिपर्यालोचने च । तत्र हि-निस्सीमाध्ययनसचिवगम्भीरालोचनं, मौलगूढार्थस्य ग्रहणं युक्त्या विवेचनं, चिरन्धारणन्चेति प्रधानम्बीजम् । यच्चाधुना नरमात्रजनानान्दुर्लभमिति तु न तिरोहितमात्मावमर्शवताम्पुंसाम् । तदिदं परं सर्वं व्याख्यानैपुण्यपुण्यबीजं वैराग्यभाग्येषु तपोतिशयमहिमवत्सु टीकाकृत्सु समूढमिव दृढन्निरूढमूलम् । अनितरसाधारणी हि "धारणमातृका" टीकाकृताम् । अन्यूनानतिरिक्तभाषित्वं युक्तिसहविचारशालित्वं यथासिद्धान्तं विषयोपपादकत्वं, चितोचितपदपुङ्खैस्सन्दर्भनिरूपकत्वञ्चेति निखिलापेक्षितनवनवोन्मेषप्रतिभावैभवं टीकाकृतोऽन्यत्र प्रायो विरळं, न क्वापि सुलभं, किं बहुना नास्त्येवाप्रतनजनेषु । स्थाने खलु 'बहु व्याहरताऽनेन न किञ्चिदपशब्दितम्' इति मनोरमरामवचनमेतेष्वपि ।
( अस्तु तत्तथा }
अथ कास्ता अपश्रुतय: ?
इमास्ता: पुनरपश्रुतयः ।
इयमाद्या
नाह नामग्राहं कर्मनिर्णय इति प्रबन्धाऽधिकारी, यदयञ्जयतीर्थमुनिस्स्वनासान्यासेन तन्नाम व्यतिचक्र इति ” ।
अथ द्वितीया
“नालाभिषत मूलकोशा इति " ।
तृतीया पुनः
परमगुरोरवगोरणमिति च " ।
ता एता अपश्रुतयस्तदस्मिन् भावप्रकाशिकापरनामककर्मविजयस्य प्रथमनिनादे पर्याप्तप्रमाणवीणोपवीणनेन सौस्वर्यपथमानीताः ।
……………………………………………………………………………………………………………………………………………………..
१ नावालम्बिषतेत्यपि ।
……………………………………………………………………………………………………………………………………………………..
तत्रादौ तृतीया । सा पुनरतिहेया ।
तथाहि प्राचीनटीकाकारेषु परमादरष्टीकाकाराणाम् । तत्र हि मङ्गलपद्ये गुरूणामिति बहुवचनमेवाक्षिप्रतिफलितं साक्षिभूतम् । तस्य हि श्रीनिवासतीर्थीय एवं व्याख्यानमुपलभ्यते । "पद्मनाभतीर्थानारभ्याक्षोभ्यतीर्थपर्यन्तानाम्” इति ॥ तेन स्फुटष्टीकाकृतां श्रीनरहरितीर्थेष्वादरः' ।
यदीयव्याख्यानोल्लेखबलात् " प्रतना अवगूर्णाष्टीकाकृता" इति कोकूयते, तेनैव प्रतना परमादरेण संस्मृता इति तु कथं विस्मर्यते ? |
तदियं रीतिरेषां कस्य वा गुणरागिणो जनस्य मनसि " दोषों ह्यविद्यमानोपि तचित्तानां प्रकाशते " इति सूक्तेस्स्थानन्न कल्पयति ? | अवगोरणमवगोरणमित्यन्विष्यान्विष्य पश्यन्ति हृष्यन्ति च स्फीतालोकमध्यमध्यासीनमिव लोचनगोचरमादरभावं पश्यन्तोऽपि न पश्यन्ति । अहो विस्मृतिचातुरी तुरीयवयसि ।
किञ्च-
" तस्माद्वन्द्याश्च पूज्याश्च ब्रह्माद्या ज्ञानयोजकाः ।
गुरुत्वेन क्रमादेव विशेषेणैव केशवः ।
आरभ्य स्वगुरुं यावद्विष्णुरेवोत्तरोत्तराः "
टी-यत एवमसदर्धकथने महाननर्थः तस्मात्प्राभादिकापराधपरिहाराय च “प्राचीनव्याख्यातृवन्दनं कार्यमित्याह । तस्मादिति । इत्यृग्भाष्यस्य टीकामवलोकयतोऽमत्सरमनसः कस्य वा मनसि "अवगूर्णा: पतनाष्टीकाकृता" इति दुर्भावलवतुमुलतरङ्गोऽपि जनितुमलम् ???
एवन्नाम हि स्वगुरुमारभ्य सर्वोऽपि ज्ञानजनको वन्दनीय इत्यृग्भाष्यस्य भावङ्कलयतान्तत्रभवताण्टीकाकृतान्न स्वप्नेऽपि परमगुरोरवगोरणानाम सम्भवति ।
…………………………………………………………………………………………………………………………………………………………….
१ अयमादर एव युक्त्युपेतमिति व्याख्यानमसत्' इत्यत्र असत्=अविद्यमानमिति नो बोधयतीव ।
२ अत एवोत्तरत्रोभयत्रापि " न बुध्यामहे" "न बुध्यामहे" इति गौरववचनं स्वरसं सङ्गच्छते ।
…………………………………………………………………………………………………………………………………………………………….
नतरां " न शब्दान्धी गाढा:..." "न वैदुष्यभ्रान्त्या..." "यन्मादृशोऽपि यतते..." इति विनयशिखरमारूढानामन्यतोऽस्मिन्विषये शिक्षणीयमस्ति । नहि शफरशिशुः केनापि तरणेन करणीयः ।
आद्यद्वयन्त्वतिबालिशम् । न निरासायासमपेक्षते । तथापि पाक्षिकोऽपि... इति न्यायेन “खल्लु कुशङ्किनां शङ्कामपि कृत्वा ” इति शिष्यबुद्धिस्थैर्याय, टीकावलोकनसुगमोऽपि प्रमाणसम्प्लवोऽत्र क्रोडीकृत्यैकत्र तुन्दपरिमृजमन्दानुजिघृक्षया निरूपितः ।
अथ च, यदेते प्रतनव्याख्याने टीकाकृदुद्भावितान् क्लेशान् खण्डार्थचन्द्रिकया वारितान्मत्वा टीका निरस्तानिरस्तेति क्ष्वेडन्तस्सम्भ्रम्य विजजृम्भिरे, तदमीषां फल्गुप्रयासः फलेग्रहिर्नाभूत् ।
न लोमाप्यहीयत टीकायाः । न हीयते । न हास्यते वा । टीकादुर्गो ध्वस्त इति तु भगवान्भ्रम एवायमायुष्मतामित्यञ्जसाऽऽवेदितम् |
अयि विबुधा अवधत्त !!!
न केवलमदसीयप्रवचनव्याख्यया युक्तत्याकरयुतष्टीकाकृदादृतः क्रमो दुर्निराकरः, अपि तु मूलभावोऽपि युक्ततया हृदयङ्गमतां नासादयति । तत्र तु...... टीकाम् अदसीयञ्चेत्युभयमपि सममेव परिशीलयतां विदुषां कषधिषणैव प्रमाणम् ।
" वाचनिकार्थग्रन्थसन्दर्भ एव तत्र प्रथमं निदर्शनम् ”
इत्यशेषं विशेषशेषावेशवतष्टीकाकृतो वचनं प्रत्यक्षरं प्रतिपदं ......... अतिमङ्गलम् ।
श्रीमदुत्तरादिमठाधीश श्रीसत्यात्मतीर्थविरचितः
उत्तरदिमटः
इत्यनेकनारायणस्मृतयः