कर्तृत्वात्सगुणं ब्रह्म पुरुषं पुरुषर्षभम्
कर्मविजयः
अथ बुद्धिपूर्वविमर्शः
'कर्तृत्वात्सगुणं ब्रह्म पुरुषं पुरुषर्षभम्' इति भागवते ॥
कर्मनिर्णयः :-युक्तिश्च | बुद्धिपूर्वं सर्वकर्तृत्वात् सर्वज्ञत्वादयो गुणा युक्ताः । 'कर्तृत्वात्सगुणं ब्रह्म पुरुषं पुरुषर्षभम्' इति भागवते ॥
कर्मनिर्णयटीका :-इदानीं ब्रह्मणस्सगुणत्वे युक्तिं चाह- युक्तिश्चेति । अनेन सार्वज्ञादिगुणोपेतं बुद्धिपूर्वं सर्वकर्तृत्वात् । न यदेवं न तदेवं यथा यज्ञदत्त इति केवलव्यतिरेक्यनुमानमुक्तमिति व्याचक्षते । तत्तु न बुध्यामहे । अप्रसिद्धविशेषणत्वात् । तददूषणत्वेऽपि बुद्धिपूर्वमिति विशेषणस्य व्यर्थत्वात्। अदृष्टद्वारा कर्तृषु जीवेषु व्यभिचारस्य सर्वग्रहणेनैव परिहृतत्वात् । सम्भूतेषु व्यभिचारस्यानाशङ्कनीयत्वात्। कालादिव्यवच्छेदार्थं बुद्धिपूर्वमिति विशेषणमिति चेत् । न । तस्य कर्तृग्रहणेनैव निरस्तत्वात् । बुद्धिपूर्वप्रवृत्तिर्हि कर्तृत्वमित्युक्तत्वात् । अत एव चादृष्टद्वारा कारणेषु जीवात्मसु न प्रसङ्गः । कारणत्वमिह कर्तृत्वं विवक्षितम् । ततः कालादौ प्रसङ्गः । तन्निवृत्तये बुद्धिपूर्वमिति विशेषणमिति चेत् । न । वाचकग्रहणेनैवाप्रसङ्गे गौणं प्रयुज्य व्यभिचारपरिहाराय विशेषणपूरणे प्रयतमानस्याकुशलत्वप्रसङ्गात् । स्वरूपासिद्धिश्च कथं परिहरणीया? यो हि ब्रह्म निर्गुणं मन्यते स कथं तस्य बुद्धिपूर्वं सर्वकारणत्वं मन्येत ? “स तपस्तप्त्वा इदं सर्वमसृजत” इत्यादिश्रुत्या हेतुसिद्धिरिति चेत्, तर्हि हेतुसिद्धावेव सगुणत्वसिद्धेरनुमेयाभावः । सार्वज्ञादिसिद्ध्यर्थमनुमानमिति चेत् । न । तस्याप्रसक्तत्वात् । सर्वकर्तृत्वशब्दार्थान्तर्गतत्वेन साध्याविशिष्टत्वदोषाच्चेति ।
तर्हि कथमेतत् ? इत्थम् । क्षित्यादिकं सकर्तृकं कार्यत्वाद्धटवदिति युक्तिश्च ब्रह्मणस्सगुणत्वेऽस्तीति प्रथमवाक्यार्थः । तत्राशङ्का- नन्वनेन प्रसिद्धकर्तृनिरपेक्षोत्पत्तिकस्य क्षित्यादेस्सकर्तृकत्वं सिध्यति न तु ब्रह्मणस्सगुणत्वमिति ।तत्राह- बुद्धिपूर्वमिति । यया युक्त्या सर्वस्य जगतः कर्ता सिद्धस्तस्य सर्वज्ञत्वादयो युक्तास्तयैव युक्त्या सिद्धाः । कुतः ? सर्वकर्तृत्वात् । सर्वकर्तृत्वान्तर्गतत्वात्तेषाम् । कथम् ? बुद्धिपूर्वं हि कर्तृत्वं भवतीति ।
एतदुक्तं भवति । सर्वस्य कर्ता तावदनुमानेन सिद्धः । तस्य चैकत्वं प्रथमप्राप्तत्वात्कल्पनालाघवादनेकत्वे प्रमाणाभावाच्चाङ्गीकार्यम् । स च ब्रह्मैव । “यतो वा इमानि भूतानि जायन्ते " इत्यादिश्रुतेः । अन्यत्रासम्भवाच्च । कर्तृत्वं च कार्यकारकक्रियाफलाभिज्ञानतदिच्छाप्रयत्नपूर्वकः स्पन्दः । ततः सर्वकर्तेत्युक्ते सर्वज्ञस्सत्यकामस्सत्यसङ्कल्पस्समस्तशक्तिसमन्वित एवोक्तो भवतीति कथं नानेन ब्रह्मणस्सगुणत्वसिद्धिरिति । अत्रैव पुराणसम्मतिमाह- कर्तृत्वादिति । कर्तृत्वेन सगुणत्वलाभादित्यर्थः । न केवलं सगुणं किन्तु ब्रह्म पूर्णम् । पुरुषमिति भगवतो नाम सङ्कीर्तनम् । पुरुषत्वोक्त्याऽस्मदादिसालक्षण्यं प्राप्तम् । तत्परिहारायोक्तम् पुरुषर्षभमिति । तदुपपादनाय कर्तृत्वात् सगुणं ब्रह्मेति । स सङ्गत्येति द्वितीयान्वयः ॥
कर्मविजयः
आधिक्यग्रस्तत्वप्रायपाठपर्यालोचनाभ्यां प्रतनव्याख्याने श्रुतमूलवाक्यस्य अन्यथाविन्यासापरत्युद्भावनम्
प्रतने प्रथने "ब्रह्म सार्वज्ञादिगुणोपेतं बुद्धिपूर्वं सर्वकर्तृत्वादि ” त्यनुमानं विवक्षाविषयः । अस्मिन् पक्षे "युक्तिश्चे"त्यस्य मौलवाक्यस्यानन्तरं “बुद्धिपूर्वं सर्वकर्तृत्वमिति वाचोयुक्तिर्युक्ततरा प्रथमान्तान्वयस्वारस्यात् । न तु बुद्धिपूर्वं सर्वकर्तृत्वादिति । हेतुश्चेति कथने तत्सङ्गच्छते स्म ।
………………………………………………………………………………………………………………………………………………………………….
१ प्राचीनटीकायामित्यर्थः ।
२ पञ्चम्यन्तं लिङ्गवचनं हेतुरिति हेतुलक्षणाभिधानात् ।
………………………………………………………………………………………………………………………………………………………………….
किञ्चास्मिन्पक्षे " युक्ता” इत्यधिकम् । "युक्तिश्च बुद्धिपूर्वं सर्वकर्तृत्वं सर्वज्ञत्वादिषु गुणेष्वित्येव पर्याप्ततां भजते हि । तद्यथा न पर्वतोऽग्निमानित्याह कश्चन । तं प्रति न तद्युक्तं युक्तिविरोधात् । युक्तिश्च धूमवत्त्वमित्येव वक्तव्यं न तु धूमवत्त्वात् पर्वतेऽग्निर्युक्त इति ।
युक्ता युक्तिसिद्धत्वेन प्रतिज्ञातास्सर्वज्ञत्वादयो धर्मा बुद्धिपूर्वं सर्वकर्तृत्वादिति हेतुना सिद्धा भवन्तीति कथञ्चिन्मूलयोजनासम्भवेऽपि युक्ता इति विशेषणं न प्रयोजनभागिति तु निष्टङ्कितम् ।
अपि च पूर्वं “तथाहि श्रुतिरिति प्रतिज्ञाय " सत्यं ज्ञानम्...इत्यादिके”त्येव वाक्यसरणिर्दृष्टिसरणिमेति । नं तु " इति श्रुता गुणा” इति श्रुतम् । तत्प्रायपाठादपि युक्ता इति पदं पदं न प्रपद्यतेऽत्र ।
टीकाकृतां पक्षे वाक्ययोजनादिप्रकारस्तु परिशिष्टे द्रष्टव्यः ।
सिद्धान्तेऽदूषणस्याप्यप्रसिद्धविशेषणत्वस्यासिद्धिसङ्कीर्णतादशायां दोषत्वोपपत्तिरिति उपपादनपूर्वकं प्रकृते तदुद्भावनाभिसन्ध्युद्घाटनम्
अथ भावयामः क्लेशानर्थसंस्पृष्टान् यानुदभावयन्त श्रीमट्टीकाकृत्पादाः प्राचीनयोजनायाम् ।
ब्रह्म सार्वज्ञादिगुणोपेतं बुद्धिपूर्वं सर्वकर्तृत्वात् । न यदेवं न तदेवं यथा यज्ञदत्त इति केवलव्यतिरेक्यनुमानमत्र विवक्षितमिति प्राचीनाः । अप्रसिद्ध विशेषणत्वमिति टीकाकृत्पादाः ।
नन्वप्रसिद्धविशेषणत्वं न सिद्धान्ते दूषणम् । " आश्रयव्याश्रयासिद्धी साध्यासिद्धिश्च दूषणम्। केषाञ्चिन्न च ते दोषा व्याप्तौ सत्यां कथञ्चने” ति भक्तिपादीयानुव्याख्यानोक्तेरिति चेत् ।
………………………………………………………………………………………………………………………………………………………….
१ नावकाशं लभत इत्यर्थः ।
…………………………………………………………………………………………………………………………………………………………
सत्यम् । तथाप्यस्त्यत्र विशेषः । अप्रसिद्धविशेषणत्वस्य दूषणत्वं नास्तीति कथयन्तश्चतुर्धा विकल्प्य " साध्यविशेषणाप्रसिद्धौ तेन साधनस्य व्याप्तिप्रतीत्यनुपपत्तिप्रसङ्गादिति तृतीयं विकल्पं "व्याप्तिश्च व्यतिरेकेण तत्र तैश्चावगम्यत" इत्यनुव्याख्यानेन निराकृषताचार्यपादाः । तदिदं सुधायामेवं व्याख्यायि । जीवच्छरीरं सात्मकं प्राणादिमत्त्वाद, भूरितरेभ्यो भिद्यते गन्धवत्त्वाद्, ईश्वरः सर्वज्ञः सर्वकर्तृत्वादित्याद्यनुमानेषु पक्षादिप्रविभागात्प्राक् पक्ष एवावगता व्याप्तिस्तत्रैव विप्रतिपत्त्योपदर्शयितुमशक्या व्यतिरेकेणोपपाद्यत इति । उदाहरण-त्रयेsपि पक्षेषु लिङ्गान्युभयवादिसिद्धानि । अन्यथा तत एवानुमानं दुष्टत्वं लभते । " तदन्यस्य सिद्धतैव हि साधिका" इत्यनुव्याख्यानोक्तेः । केवलव्यतिरेकिस्थले पक्षादन्यत्र साध्यस्य प्रसिद्धिदुर्विधत्वात् ' 'प्राणादिमत्त्वं सात्मकत्वेन व्याप्तं', 'गन्ध इतरभेदव्याप्तः’,'सर्वकर्तृत्वं सर्वज्ञत्वेन व्याप्तं तदभावव्यापकाभावप्रतियोगित्वादिति व्यतिरेकव्याप्त्याऽन्वयव्याप्तिसाधनेऽपि साऽन्वयव्याप्तिः पक्षान्तर्भावेनैव सिद्ध्यति गत्यन्तराभावात् । अविनाभावस्यैव व्याप्तित्वेऽपि यत्र समानदेशत्वान्तर्भावेणैवाविनाभावस्तत्र यत्किञ्चिदेकाधिकरणान्तर्भावेनैव व्याप्तेरवगन्तव्यत्वात्तस्य च पक्षातिरिक्तस्य प्रकृतेऽभावात् । तत्र चेद्धेतुर्न सम्मतः प्रतिवादिनस्तर्हि नानेनानुमानेनापि व्याप्तिस्तं प्रति सिद्धयति । "व्याप्तिश्च व्यतिरेकेण तत्र तैश्चावगम्यत" इति व्याप्तिप्रतीत्यनुपपत्त्यभावादप्रसिद्धविशेषणत्वं न दूषणपदवीमधितिष्ठतीत्यनुव्याख्युराचार्याः ।
…………………………………………………………………………………………………………………………………………………………….
१ अत्र यादुपत्यम्-स्वशरीरे प्रत्यक्षेणान्यत्र चोपदेशादिनाऽवगतसात्मकत्वेन पुंसा भूयोदर्शनादिना धूमाग्न्योरिव प्राणादिमत्त्वसात्मकत्वयोरपि जीवच्छरीरेष्ववगताऽपि व्याप्तिस्सात्मकत्वे विप्रतिपन्नं परं प्रति नोपदर्शयितुं शक्येत्यर्थः।
२ प्रसिद्धिदारिद्र्यादित्यर्थः ।
……………………………………………………………………………………………………………………………………………………………
यद्यन्यतरासिद्धिसाङ्कर्यादप्रसिद्धविशेषणत्वे व्याप्तिप्रतीत्यसम्भवस्तर्हि तस्य दोषत्वमेवेति हार्दम् । दोषान्तरासङ्कीर्णस्याप्रसिद्धविशेषणत्वस्यादूषणत्वाददूषणत्ववादः । प्रकृते च निर्गुणत्ववादिनः प्रतिवादित्वादन्यतरासिद्धिसत्त्वादप्रसिद्धविशेषणत्वे व्याप्तिप्रतीत्यसम्भवात् तस्य दूषणत्वमेव ।
एतेनाप्रसिद्धविशेषणत्वं दूषणत्वेनोक्त्वा “ तददूषणत्वेऽपीत्यादिनोत्तरत्र दोषान्तरकथनापेक्षयाऽनुक्त्वैवाप्रसिद्धविशेषणत्वं विशेषण वैयर्थ्यादिदोषकथनं ज्यायः प्रक्षालनादितिन्यायादिति निरस्तम् | प्रकृते तस्य दूषणत्वे, तददूषणत्वेऽपीति कथमचकथंष्टीकाकारा इति चेदभ्युपेत्यवादेनेति गृहाण ।
असिद्धिसाङ्कर्यादस्य दोषत्वेऽसिद्धिरेवोद्भाव्यतां किमनेनेति मा शङ्किष्ठाः । उदभाव्येव साप्युपरिष्टात् । कृतं तर्हि तयैव । न । केवलमसिद्ध्या पक्षधर्मताऽभावेऽपि व्याप्तिस्सम्भाव्येत । असिद्धिसध्रीचीनस्याप्रसिद्धविशेषणत्वस्य सत्त्वे तु व्याप्तिरपि न सम्भवतीति विशेषसत्त्वात् ।
असिद्धिसाहित्येनाप्रसिद्धविशेषणत्वं दूषणमिति स्फुटं कुतो नाभ्यधिषत टीकाकारा इति चेत् । अवगच्छ गाम्भीर्यं टीकायाः । उत्तरत्र " हेतुसिद्धावेव सगुणत्वसिद्धेरनुमेयाभाव” इति कथनेन सर्वकर्तृत्वरूपहेतोरपि गुणत्वेन सगुणत्वरूपसाध्यरूपतया पर्यवसानस्य लाभेन हेतुरपि सर्वकर्तृत्वं विशेषणपदेनैव विवक्षाञ्चक्र इत्यप्रसिद्धविशेषणत्वमित्यनेनैव साध्याप्रसिद्धिः, पक्षे हेतोरप्रसिद्धिरपि न्यरूपीति ।
………………………………………………………………………………………………………………………………………………………….
१ समुचितदंशवृत्तित्वस्यैव हेतोस्स्वीकारादिति भावः ।
………………………………………………………………………………………………………………………………………………………….
बुद्धिपूर्वं सर्वकर्तृत्वादिति प्राचीनाभिमतहेतुघटक विशेषणस्य व्यभिचारवारकत्वमेवाश्रयणीयमिति प्रतिपादनम्
व्यभिचारावारकत्वेऽप्यसिद्धिवारकतया सार्थक्यसम्भवादिति कश्चिदाह' । कस्तस्याशयः । प्रकृते व्यभिचारावारकत्वेऽप्यसिद्धिवारकत्वमस्तीति वा प्रकृते व्यभिचारवारकत्वेऽपि सर्वत्र व्यभिचारवारकत्वेनैव सार्थक्यं प्रदर्शनीयमिति नियमो नास्तीति वा । नाद्यः । प्रकृते तदभावात् । न हि सर्वकर्तृत्वादित्युक्तेऽसिद्धिः । ब्रह्मणस्सर्वकर्तृत्वात् ।
नन्वन्यतरासिद्धिः, नाङ्गीकुर्वते हि सर्वकर्तृत्वं प्रतिवादिन इति चेत्, सत्यम् | परं न सा बुद्धिपूर्वमिति विशेषणेऽपि विशोषणमाप्नोति । मा हि सम्भून्नाङ्गीकरोति सर्वकर्तृत्वमङ्गीकरोति च बुद्धिपूर्वं तदिति । न चागमाग्निर्विशोषयति तामिति वाच्यम् । कृतं तर्हि बुद्धिपूर्वमिति विशेषणेन । न द्वितीयः । सँव्वदामहे यतः । मा वाचि तथा टीकाकारैर्नियमः । प्रकृतेऽसिद्धिवारकत्वप्रसक्त्यभावाद् व्यभिचारवारकत्वमेव वक्तव्यम् । तदपि चेन्नास्ति, नास्ति तर्ह्यवैयर्थ्यमित्येवाशय्यते ।किञ्चान्ततस्तैरपि' जडप्रकृतौ व्यभिचारवारकतयैव सार्थक्यमुपापादि बुद्धिपूर्वमिति विशेषणस्य ।
………………………………………………………………………………………………………………………………………………………..
१ व्यभिचारवारकं विशेषणं यथा व्याप्तिग्रहौपयिकमिति सार्थकमेवमेवासिद्धिवारकमपि व्याप्तिग्रहं सहकरोति । अतोऽसिद्धिवारकमपि सार्थकम् । स्वं. चं.पा. बाके २३२
२ न हि सम्भवतीत्यर्थः ।
३ तच सर्वकर्तृत्वं जडे प्रकृतावपि गतम् । उपादानतया तस्या अपि सर्वकर्तृत्वात् । तद्व्यावृत्त्यर्थं बुद्धिपूर्वमित्युपस्कर्तव्यम् । खं चन्द्रिकायां तत्पा. शके च- २३३
…………………………………………………………………………………………………………………………………………………………
बुद्धिपूर्वं सर्वकर्तृत्वादिति हेतौ दलकृत्यचिन्तापूर्वकं व्यभिचारस्यासम्भवदुक्तिकत्वप्रदर्शनेन बुद्धिपूर्वमित्यस्य टीकोक्तवैयर्थ्यस्थैर्यप्रतिपादनम् | अर्थसङ्कोचेन सार्थक्ये मूलकृतोऽकुशलत्यप्रसङ्गोद्भावनं च
केवलं कर्तृत्वादित्युक्ते कुलालादौ घटादिकर्तृत्वे सत्यपि सार्वज्ञाद्यभावाद् व्यभिचारः । तत्परिहारहेतवे बुद्धिपूर्वमिति विशेषणमिति चेत् । न । बुद्धिपूर्वमिति विशेषणे प्रत्तेऽपि कुलालादौ व्यभिचारपरिहारो न भवति । कुलालादेरपि बुद्धिपूर्वं घटादिकर्तृत्वात् । अथ बुद्धिपूर्वं सर्वकर्तृत्वादिति हेतुरुच्यते । घटादिकर्तृत्वेऽपि कुलालादेस्सर्वकर्तृत्वाभावान्न व्यभिचार इति चेत्तर्हि सर्वग्रहणेनैव व्यभिचारस्य परिहृतत्वाद्बुद्धिपूर्वमिति विशेषणं न सार्थक्यं भजते । नन्वदृष्टद्वारा सर्वकर्तृत्वं जीवेष्वस्तीति व्यभिचारः । तन्निवृत्तये बुद्धिपूर्वमिति विशेषणमिति चेत् । न । अष्टद्वारा बहुतरकार्यकर्तृत्वेऽपि जीवानां सर्वकर्तृत्वं न सम्भवति । तदभोग्यस्य तददृष्टजन्यत्वाभावात् । तथा च सर्वग्रहणेन व्यभिचारः परिह्रियत एवेति बुद्धिपूर्वमिति विशेषणमनपेक्षितमेव । एकैकस्य जीवस्य सर्वकर्तृत्वाभावेऽपि सम्भूय जीवानां सर्वकर्तृत्वाद् व्यभिचारो भवत्येवेति बुद्धिपूर्वमिति विशेषणं सार्थकमिति चेत् । न । एकनिष्ठसर्वकर्तृत्वस्य सार्वज्ञादिसिद्ध्यङ्गत्वेनाभिप्रेततया सम्भूय सर्वकर्तृत्वमादाय व्यभिचारोक्तेरनभिप्रेतदूषणोक्तित्वेनासङ्गतेः । सम्भूयापि जीवानां रमामात्रभोग्यानन्दादिपदार्थकर्तृत्वाभावेनानैकान्तिकताऽभावाच्च । सर्वशब्द-सङ्कोचेनानैकान्तिकतायां सम्भूय सङ्कुचितसर्वज्ञत्वस्यापि जीवेषु सम्भवेन पुनर्व्यभिचाराप्रचार एव । न च सर्वपदग्रहणेऽपि कालादौ सर्वकारणे व्यभिचारो दुष्परिहर इति बुद्धिपूर्वमिति विशेषणं सार्थकमिति वाच्यम् । जडे तस्मिन् कारणत्वसत्त्वेऽपि कर्तृत्वाभावादेव व्यभिचारपरिहारात् । "बुद्धिपूर्वप्रवृत्तिर्हि कर्तृत्वमिति निश्चितमित्यनुव्याख्यानोक्तेः । न चेह कारणत्वमात्रं कर्तृत्वमिति विवक्षित्वा कालादौ व्यभिचारमाशङ्क्य तत्परिहारार्थं बुद्धिपूर्वमिति विशेषणमिति वाच्यम् । बुद्धिपूर्वप्रवृत्तिरूपमुख्यकर्तृत्वविवक्षयैव व्यभिचारपरिहारसम्भवे गौणं कर्तृत्वं विवक्षित्वा विशेषणपूरणे प्रयतमानस्याकुशलत्वप्रसङ्गात् ।
निर्दोषोपपत्तिरनुमेत्यत्रेव सर्वकर्तृत्वादित्यत्रापि गौणकर्तृत्वविवक्षया व्यभिचारसम्भवेन विशेषणसार्थक्यशङ्कापुरस्सरं बहुलप्रयोगभावाभावाभ्यां वैषम्येन तदसम्भव इति समाधानम्
ननु निर्दोषोपपत्तिरनुमानमित्यत्रोपपत्तिशब्देनैव मुख्यार्थविवक्षायां निर्दोषोपपत्तिलाभसम्भवेऽप्यमुख्यार्थं विवक्षित्वोपपत्त्याभासस्यापि प्रसक्तौ तद्वारणाय निर्दोषग्रहणं दृष्टम् । तद्वदत्रापि कुतो न स्यादिति चेत् । न । वैषम्यात् । तत्र निर्दोषत्वमनन्तर्भाव्य, ‘समीचीनो हेतुरनैकान्तिको हेतुरित्यादिवद्' 'व्यभिचरितोपपत्तिरन्यभिचरितोपपत्तिरि' त्यादिबहुलप्रयोगदर्शनाद्रूढलक्षणादिना तत्र तथाभावसम्भवेऽपि बुद्ध्याद्यनुपरक्तकारणत्वमात्रार्थे कर्तृशब्दस्य बहुलप्रयोगाभावान्न तथाभावस्सम्भवति। बहुलप्रयोगाभावेऽप्यमुख्यवृत्त्या तद्ग्रहणे च प्रयोजनं वाच्यम् । विना प्रयोजनममुख्यवृत्त्याश्रयणे च टीकोक्ताकुशलत्वप्रसङ्गानिस्तारः ।
किञ्च तत्रारूढलक्षणाद्याश्रयणेऽपि उत्तरत्रानुमानदोषनिरूपणाय पातनिकार्थ- तया निर्दोषग्रहणस्य तत्र सार्थक्यवदत्र सार्थक्यादृष्टेश्व |
गीतातात्पर्योदाहृतं कर्तृत्वं गौणम्, अनुव्याख्यानोक्तं च प्रधानमिति विषयोपक्षेपपूर्वकं सर्वकर्तृत्वादित्यत्र प्रधानस्यैव बाधकाभावाद् विवक्षेति व्यभिचाराभावसमर्थनम्
एतेनैव यदत्राभ्यधायि" सर्वकर्तृत्वं जडप्रकृतिमप्यलङ्करोतीत्यनैकान्तिकता
..................................................................................................................................................................
१ सर्वकर्तृत्वं जडप्रकृतावपि प्रतिपादयन्ति वेदन्तिनः । न तस्यां सार्वज्ञम् । अतो बुद्धिपूर्वमिति । ....पश्यतु गीतातात्पर्ये तृतीयाध्याये कर्तृत्वं द्विविधं प्रोक्तं विकारश्च स्वतन्त्रता । विकारः प्रकृतेरेव विष्णोरेव स्वतन्त्रता । इति पैङ्गीश्रुतिमुदाजहार भाष्यकार: । तत्रैवोत्तरत्र " यस्मात् स्वतन्त्रकर्तृत्वं विष्णोरेव न चान्यगम् । तदधीनं स्वतन्त्रत्वं स्वावरापेक्षैव तु । जीवस्य विकृतिर्नाम कर्तृत्वं जडसंश्रयम् ।
............................................................................................................................................................
प्रसज्यते । सा मा प्रसञ्जीति बुद्धिपूर्वमिति विशेषणम् । 'कर्तृत्वं द्विविधं प्रोक्तं विकारश्च स्वतन्त्रता | विकारः प्रकृतेरेव विष्णोरेव स्वतन्त्रते 'ति गीतातात्पर्ये योदाजह्रे पैङ्गीश्रुतिस्सा, यच्च तत्रैवोदाहृतं यस्मात्स्वतन्त्रकर्तृत्वमित्यादिब्रह्मतर्कवचनं तच्च जडप्रकृतयेऽपि कर्तृत्वं जगदात्मना विकाररूपं विश्राणयामास यत” इति, तदपि निरस्तम् । .
विकाराकारं कर्तृत्वं प्रकृतिमप्यध्यास्त इति गीतातात्पर्यनिर्णय औच्यतेति युक्तमुक्तम् । परन्तु तदमुख्यम् । 'बुद्धिपूर्वप्रवृत्तिर्हि कर्तृत्वमिति निश्चितमि' त्यनुव्याख्युर्हि भगवत्पादाचार्याः । निश्चितपदस्वारस्यानुरोधेन चेतनगतस्य बुद्धिघटितकर्तृत्वस्यैव मुख्यत्वमाचार्याभिप्रेतमिति स्फुटम्। 'बुद्धिपूर्वप्रवृत्तिर्हि कर्तृत्वम्। न ह्यसतो बुद्ध्यादि सम्भवतीति व्यवृण्वंश्च पद्मनाभतीर्थभट्टारकाः । मुख्यामुख्ययोरसति बाधके मुख्यमेवोपादीयेतेति तु निष्टङ्कितम् ।
प्रकृते च न वर्तते बाधकमिति मुख्यमेव कर्तृत्वमाशयिषताशेशावतारा: श्रीमदाचार्यचरणा इत्यभिप्रायन् टीकाकृत्पादाः |
अनेकैः प्रमाणैर्बुद्धिपूर्वप्रवृतिरूपकर्तृत्वं मुख्यं विकाररूपकर्तृत्वममुख्यमिति प्रतिपाद्य व्यभिचारचोदनस्य तत्परिहारप्रयत्नस्य चायुक्तत्वसमर्थनम् ।
किञ्च शास्त्र इतरव्यपदेशादिसूत्रेषु जीवस्य कर्तृत्वं निषिध्यते,
……………………………………………………………………………………………………………………………………………………………..
पुमान्दोग्धा च गौर्दोग्नी स्तनो दोग्धेतिवत्क्रमात् । " ब्रह्मतर्कवचनेनापि प्रकृतिः कर्त्रीति न्यरूप्यानन्दतीर्थमुनिना ॥ खं. चं.पा.वा.- २३३
१ प्रकृतेर्जगदात्मना विकारोऽपि कर्तृत्वम्, तच्चैतच्छ्रुत्यादिसम्मतमिति चाभ्युपेत्यंदमुक्तमित्येतदुत्तरत्र स्फुभविष्यति ।
२ आशा भारती, ‘प्राणो वा आशाया भूयानिति' श्रुतेः । तदीशो मुख्यप्राण:, तदवतारा इत्यर्थः ।
३ जीवकर्तृत्वपक्षश्रुतिप्राप्तो विस्तरान्निराक्रियते । २-९-२२ सूत्रे भाष्यम् ।
चेतनत्वेप्यश्मादिवदस्वतन्त्रत्वात् स्वत: कर्तृत्वानुपपत्तिर्जीवस्य । २-१-२४ सूत्रे भाष्यम् ।
……………………………………………………………………………………………………………………………………………………………..
'रचनानुपपत्त्यादिसूत्रेषु च प्रकृत्यादिजडस्यापि । तद्वाक्यावलोकने चेदं स्फुटं विज्ञायते यद्बुद्धिपूर्वप्रवृत्तिरूपं कर्तृत्वमेव मुख्यम् | विकाररूपकर्तृत्वममुख्यमिति ।
तथाहि-यत्र यत्र जीवस्य कर्तृत्वं निषिध्यते तत्र सर्वत्रापि स्वत: कर्तृत्वं नास्तीति कर्तृत्वस्य सत्त्वेऽपि स्वातन्त्र्यं नास्तीत्याद्येवोच्यते । न तु सामान्यतो 'जीवो न कर्ते 'ति कर्तृत्वं नास्तीति । कुत एतदिति वाच्यम् ।
'जीवो न कर्ते 'ति सामान्यत उक्ते, कर्तृशब्देन हि बुद्धिपूर्वप्रवृत्तिरूपयोः स्वतन्त्रकर्तृत्वपरतन्त्रकर्तृत्वयोरुभयोरप्यस्ति प्रसक्ति: । अतः प्रसक्तयोरुभयोरपि नेत्यनेन निषेधः कृत इति प्रतीतिस्स्यात् । तद्वारणाय स्वत इति, स्वातन्त्र्यमिति वा विशेषणमुपादीयत इति चेत् ।
एवं तर्हि तद्वदेव यदि विकाररूपकर्तृत्वस्यापि कर्तृशब्दमुख्यार्थत्वं स्यात्तदा तस्यापि कर्तृशब्देन प्रसक्तत्वात् स्वतन्त्रकर्तृत्वस्य जीवेऽभावबोधनाय स्वतइत्यादिविशेषणवद् विकाररूपकर्तृत्वस्याप्यभावबोधनाय विशेषणं किञ्चिदुपादद्यात् । न च क्वापि तादृशं विशेषणमुपादीयते । न वा विकाररूपकर्तृत्वं नास्तीति पृथगुच्यते । ततोऽवगम्यते विकाररूपकर्तृत्वममुख्यमिति । अत एव च सामान्यत उक्तेन कर्तृशब्देन न तस्य ग्रहणप्रसक्तिरिति ।
एवमेव यत्र जडस्य कर्तृत्वं निषिध्यते तत्र सामान्यतः ' अचेतनं कर्तृ न भवती' त्येवोच्यते । न तु 'स्वतन्त्रं कर्तृ न भवती 'ति 'बुद्धिपूर्वं कर्तृ न भवती 'ति
………………………………………………………………………………………………………………………………………………………..
१ अचेतनस्य स्वतः प्रवृत्त्यनुपपत्तेर्नानुमानपरिकल्पितं प्रधानं जगत्कर्तृ । २.२.१ सूत्रे भाष्यम् । आनुमानं-अनुमानपरिकल्पितं न जगत्कर्तृ । कुतः ? स्वतन्त्रप्रवृत्तिर्हि रचना नाम । त.प्रदी स्वतः प्रवृत्तिमदेव हि कर्तृ भवति । न च प्रधानस्य स्वतः प्रवृत्तिर्युक्ता अचेतनत्वाद् घटवत् । त प्रका रचनानुपपत्तेस्तन्न सर्वज्ञानुमागतम् । अचेतनं जगत्कर्तृ.... इति । अनुव्याख्यानम् । प्रधानं जगत्कर्तृ न भवति । इति सन्यायरत्नावली
………………………………………………………………………………………………………………………………………………………..
वोच्यते । यदि च विकाररूपकर्तृत्वस्यापि कर्तृशब्दमुख्यार्थत्वं स्यात्तर्हि ' अचेतनं प्रधानं न जगत्कर्तृ ' इति सामान्यत उक्ते सति प्रधाने विकाररूपकर्तृत्वमपि नास्तीति प्रतीतिस्स्यात् । तद्वारणाय 'बुद्धिपूर्वं कर्तृ न भवतीति विशेषणमुपादद्यादेव । न च क्वापि प्रधानस्य कर्तृत्वनिषेधप्रसङ्गे तादृशं विशेषणमुपादीयते । तेन स्फुटमिदं यद् विकाररूपकर्तृत्वममुख्यमिति ।
किञ्च यदि विकाररूपकर्तृत्वस्यापि कर्तृशब्दमुख्यार्थत्वं स्यात्तदा 'प्रधानं न जगत्कर्तृ'इति सामान्यत उक्ते सति ननु कथं नेत्युच्यते? विकाररूपकर्तृत्वस्य स्वयमाचार्यैरङ्गीकारादिति शङ्कित्वा, विकाररूपकर्तृत्वस्य सत्त्वेऽपि बुद्धिपूर्वप्रवृत्तिरूपकर्तृत्वं नास्तीति समाधातव्यं स्यात् । न चैवंविधे शङ्कासमाधाने कुत्रचिदुपलभ्येते । तेनापीदं विज्ञायते यद् बुद्धिपूर्वप्रवृत्तिरूपं कर्तृत्वमेव मुख्यम् । न विकाररूपकर्तृत्वमिति ।
किञ्चाचार्यैर्भाष्यानुभाष्यादिषु 'प्रधानं न जगत्कर्तृ ' इत्येवोच्यते न पुनः 'प्रधानं न जगत्कारणमिति । तत्कुत इति वाच्यम् । नन्वाचार्यैरपि प्रधानस्य जगत्कारणत्वमुपादानकारणत्वरूपमङ्गीक्रियत एव । तत्कथं सामान्यतो 'जगत्कारणं ने'ति वक्तुं शक्यमिति चेद् हन्त तर्हि विकाररूपं जगत्कर्तृत्वमपि प्रधानस्य भगवत्पादैरङ्गीकृतमिति कथं सामान्यतः 'प्रधानं न जगत्कर्तृ' इति वक्तुं शक्यम् । ननु च सामान्यतः 'प्रधानं कारणं नेत्युक्ते कारणशब्देनोपादानकारणत्वनिमित्तकारणत्वयोरुभयोरपि प्रसक्त्योभयोरपि प्रधाने निषेध इति प्रतीतिस्स्यात् । तत्प्रतीतिर्मा भूदिति 'न जगत्कारण' मित्यनुक्त्वा 'न जगत्कर्तृ ' इत्युच्यत इति चेदेवन्तर्हि सामान्यत उक्तेन 'कर्तृ' शब्देन नास्त्युभयोर्बुद्धिपूर्वप्रवृत्तिविकारयोः प्रसक्तिरित्येवायातम् । तथा चागत्या बुद्धिपूर्वप्रवृत्तिरूपकर्तृत्वस्य कर्तृशब्दमुख्यार्थत्वमत एव च प्रसिद्धत्वमत एव चास्यैव ग्रहणं सामान्यत उक्तेन कर्तृशब्देनेति, विकाररूपकर्तृत्वस्य च कर्तृशब्दामुख्यार्थत्वमत एव चाप्रसिद्धत्वमत एव चास्याग्रहणं सामान्यत उक्तेन कर्तृशब्देनेत्येवैष्टव्यं भवति । तदेवं प्रकृतेऽपि सर्वकर्तृत्वादित्युक्तेऽमुख्यत्वादेव न विकाररूपकर्तृत्वस्य प्रसक्तिरिति न व्यभिचारचोदना तत्परिहारप्रयत्नश्च सङ्गच्छेते इति ।
किञ्च ' जगज्जन्मादिकारणत्वस्य ब्रह्मलक्षणस्य प्रकृतावतिव्याप्तिमाशङ्कय निमित्तकारणत्वविवक्षया परिहारवत्, जगज्जन्मादिकर्तृत्वरूपस्य विष्णुलक्षणस्य प्रकृतावतिव्याप्तिः कुतस्सूत्रकारादिभिर्न शङ्कितेति वाच्यम् | उपादानकारणत्वस्यापि कारणशब्दमुख्यार्थत्वादस्त्यतिव्याप्तेः प्रसक्ति: । अतस्तद्वारणाय प्रयतनीयम् | विकाररूपकर्तृत्वस्य त्वमुख्यत्वान्न कर्तृशब्देन ग्रहणमिति न प्रसक्तिरतिव्याप्तेरित्येव वक्तव्यम् । तथा च विकाररूपकर्तृत्वस्यामुख्यत्वादेव प्रकृतेऽपि कर्तृशब्देन तस्याप्रसक्तेर्व्यभिचारचोदनं तत्परिहारप्रयत्नश्च सर्वथाऽसङ्गत एव ।
किञ्च पाशुपताधिकरणे सम्बन्धानुपपत्तेरिति सूत्रे अशरीरत्वतस्तस्य सम्बन्धो जगता क्वचित् | कर्तृत्वेन न युज्येत.... (अनु) अशरीरत्वात्तस्य जगता सम्बन्धो न युज्यते कर्तृत्वेन मृतपुरुषवत् (भाष्य) इति "शिवो न कर्ता अशरीरत्वादि "त्यनुमानमुक्तमाचार्यैः । यदि च विकाररूपकर्तृत्वमपि मुख्यम्, अत एव च सामान्यत उक्तेन कर्तृपदेन तस्यापि ग्रहणं स्यात्तर्हि प्रकृतौ व्यभिचारः स्यात् । अकर्तृत्वरूपसाध्यस्याभावेऽपि अशरीरत्वस्य सत्त्वात् । तथा च व्यभिचरितं हेतुं ब्रुवाणस्याचार्यस्याकौशलप्रसङ्गः स्यात् । न चाचार्यस्य सर्वथाऽकौशलं सम्भावितम् । अतो नास्ति व्यभिचार इति वाच्यम् । तदर्थं च नास्ति सामान्यत उक्तेन कर्तृपदेन विकाररूपकर्तृत्वस्य ग्रहणप्रसक्तिरिति स्वीकर्तव्यम् । तदर्थं च विकाररूपकर्तृत्वममुख्यमित्येवाकामेनाप्येष्टव्यम् ।
किञ्चेदं वाच्यम् | जीवस्य कर्तृत्वप्रतिपादके “कर्ता शास्त्रार्थवत्त्वादिति सूत्रे सामान्यत उक्तेन कर्तृशब्देन विकाररूपकर्तृत्वस्य प्रसक्तिरस्ति न वेति । आद्ये जीवे जगदात्मना विकाररूपकर्तृत्वमस्तीति प्रतीतिस्स्यात् । तद्व्यावृत्त्यर्थं सूत्रकृता भाष्यकृता सर्वेष्टीकाकारैर्वा न प्रयतितमित्यकौशलप्रसङ्गः । द्वितीये विकाररूप-कर्तृत्वस्य सूत्रकारेण भाष्यकारादिभिश्च स्वयमङ्गीकारात् कुतो न प्रसक्तिरिति वाच्यम्। अमुख्यत्वादिति चेत्तर्हि प्रकृतेऽपि सर्वकर्तृत्वादित्युक्ते विकाररूपकर्तृत्वस्यामुख्यत्वादेवाप्रसक्तिरिति तद्वारणाय बुद्धिपूर्वमिति विशेषणमिति कथन्नाम वक्तुं शक्यम् । न हि कोऽपि 'अयं सिंहः क्रूरो भवितुमर्हति सिंहत्वादि'त्युक्ते चित्रलिखितसिंहे व्यभिचारमाशङ्क्य तत्परिहाराय विशेषणदाने प्रयतते ।
अथ मतम् । विकाररूपकर्तृत्वं मुख्यमपि प्रकृते 'कर्ता शास्त्रार्थवत्त्वादि 'ति सूत्रे "ज्ञोऽत एव" इति पूर्वस्मात् ( २ - २ - १८) सूत्रात् जीवार्थकं 'ज्ञ' इतिपदं वर्तते । जीवप्रकरणं चेदम् । अतो 'ज्ञः कर्ता' इत्युक्ते जीवः कर्तेत्युक्तं भवति । कर्तृशब्दस्य जीवविशेषणतयाऽत्र कथनाज्जीवगतकर्तृत्वस्यैव प्रसक्तिः । न तु विकाररूपस्येति । तर्ह्यत्रापि ब्रह्मण: पक्षतया प्रसक्तत्वात्तद्विशेषणतयैव कर्तृत्वस्योपादानाच्चेतनगतं बुद्धिपूर्वप्रवृत्तिरूपं कर्तृत्वमेव प्रसक्तं न विकाररूपमिति न तदादाय व्यभिचारचोदना सङ्गच्छते । नतरां बुद्धिपूर्वमिति विशेषणस्य सार्थक्यकथनं च ।
वस्तुतस्तु कर्तृत्वं द्विविधं प्रोक्तमिति पैङ्गीश्रुतिवाक्यं 'विकृतिर्नाम कर्तृत्वं जडसंश्रयमिति ब्रह्मतर्कवचनं वा जीवस्वामिकं यद् बुद्ध्यादिरूपं कर्तृत्वं तस्य प्रकृतिविकारताप्रतिपादनपरं न तु प्रकृतेर्यो जगदात्मना विकारस्तस्यकर्तृतारूपत्वप्रतिपादनपरम् । तदेतदनुपदमेव निरूप्यते । तथाचैतद्वाक्योदाहरण-पूर्वकं व्यभिचारचोदनादिकमयुक्तमेव ।
'कर्तृत्वं द्विविधमिति कर्तृत्वविभागप्रतिपादकपैङ्गितिश्रुतेः सप्रमाणमभिसन्धिनिरूपणम्
तथाहि तदयं 'कर्तृत्वं द्विविधमित्यादिपैङ्गिश्रुत्यर्थ:
कर्तृत्वं द्विविधं प्रोक्तं विकारश्च स्वतन्त्रता ।
विकार: प्रकृतेरेव विष्णोरेव स्वतन्त्रता । इति
चेतनगतमेव कर्तृत्वं द्विविधं प्राकृतमप्राकृतं चेति । तत्राप्राकृतं स्वेच्छाधीनप्रवृत्तिमत्त्वरूपं सर्वदा भगवत एव । तदिदमुक्तं 'विष्णोरेव स्वतन्त्रतेति' । मुक्त्यनन्तरं जीवान्तरस्यापि । संसारे तु ईशकोटिव्यतिरिक्तसर्वचेतनानां प्राकृतमेव प्रकृतिविकारो बुद्धीच्छाप्रयत्नपूर्वकपरिस्पन्दरूपम् । तथा च जीवस्य यत्कर्तृत्वं (जीवस्वामिकं बुद्धीच्छाप्रयत्नपूर्वकपरिस्पन्दरूपम्) तत्प्रकृतेर्विकारभूतम् । तदेव च प्रकृतेः कर्तृत्वमित्युच्यते । तदिदमुक्तं 'विकारः प्रकृतेरेवेति' । तद्यथा छेदनकरणस्यापि परशोर्देवदत्तकरणत्वव्यवहारो 'देवदत्तस्य करणं परशुरिति । यथा च देवदत्तभोगायतनत्वाद्देहस्य, 'देवदत्तस्य देह' इति व्यवहारः, एवं तस्यैव पञ्चभूतविकारत्वात् ‘भूतपञ्चकस्य देह' इत्यप्युच्यते । नैतावता भूतपञ्चकस्य पृथग्देह उक्तो भवति । एवमेव देवदत्तस्य (देवदत्तस्वामिकं ) यत्कर्तृत्वं तस्य चान्त:करणादिप्रकृतिविकारत्वात् प्रकृतेः कर्तृत्वमिति व्यवह्रियते । नैतावता प्रकृतेः पृथक् कर्तृत्वमुक्तं भवति । अन्यथा जीवकर्तृत्वस्यात्रानुक्तेर्न्यूनता स्यात् ।
………………………………………………………………………………………………………………………………………………………….
१ विभागबोधकेऽस्मिन् वाक्ये स्वतन्त्रताप्रतिद्वन्द्वितया प्राकृतविकारस्य ग्रहणात्स्वतन्त्रताया अप्राकृ॒तत्त्वं विज्ञायत इति भावः ।
२ जगदात्मना विकारस्य कर्तृतारूपत्वमिति भाव: ।
३ उक्तरीत्या विभागपरत्वाकथन इत्यर्थः ।
………………………………………………………………………………………………………………………………………………………….
तदिदमभिप्रेत्यैवेदं वचनं ब्रह्मतर्कवचनञ्च जीवकर्तृत्वप्रसङ्ग एवोदाहृतमाचार्यैः । तदनेन वचनेन जीवकर्तृत्वस्य प्राकृतसत्त्वादिगुणोपादेयत्वं, प्राधान्येन भगवत्कर्तृत्वनिमित्तकत्वं चोक्तं भवति ।
तथा च प्रकृतेर्जगदात्मना विकारस्य कर्तृतारूपत्वस्यात्रानुक्तेरेतद्वाक्योदाहरणपूर्वकं व्यभिचारचोदना सर्वथाऽयुक्तैव ।
जगदात्मना विकारस्य कर्तृत्वरूपत्वेऽपि तस्य कर्तृशब्दमुख्यार्थत्वेऽपि गीतातात्पर्यवचनविरोधादेव प्रकृते तस्य ग्रहणासम्भवप्रतिपादनपूर्वकं टीकोक्तविशेषणवैयर्थ्यस्य सुस्थिरत्वप्रदर्शनम्
अस्तु वा प्रकृतेर्जगदात्मना विकारोऽपि कर्तृत्वम्, अस्तु वा तस्य विकाररूपकर्तृत्वस्यापि श्रुत्युक्तत्वात् कर्तृशब्दमुख्यार्थत्वम् । अथापि यद्वचनबलात्प्रकृतेरपि
………………………………………………………………………………………………………………………………………………………….
१ इदमेव चात्र वक्तव्यम् । जीवस्य अहमेव कर्तेत्ययं भ्रम एव कर्तृत्वस्य प्रकृत्युपादेयत्वेन जीवोपादेयत्वाभावात्, कर्तृत्वमुख्यस्वातन्त्र्यस्य च भगवन्निष्ठत्वेन तन्मुख्यस्वातन्त्र्यस्य जीवेऽभावाच्च । अथापि प्राकृतसत्त्वादिगुणोपादेयस्य भगवन्मुख्याधीनस्य बुद्धीच्छाप्रयत्नपूर्वकपरिस्पन्दात्मकस्थ कर्तृत्वस्य भगवद्दत्तस्वामित्वमात्रेण जीवस्य कर्तृत्वमिति बोधयितुं हि गीताया: प्रवृत्ति: । तद्विषय एव हि पैङ्गीश्रुतिवाक्यं ब्रह्मतर्कवचनं च प्रमाणतयोदाहृतम् ।
अत एव हि "प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । अहङ्कारविमूढात्मा कर्ताहमिति मन्यते” । इत्यस्य श्लोकस्य गीतातात्पर्यादिप्रदर्शितोऽर्थो गीताविवृतौ पूज्यपरिमालाचायैरेवं निरूपितः । स्फुटत्वात् तद्वाक्यान्येवोद्भियन्ते । गीता. वि. अत्र प्रकृतिशब्देन जीवस्वभावेश्वरजडप्रकृतयो ग्राह्याः । प्रकृतेः-प्रकृष्टकृतिमत्त्वहेतुना प्रकृतिपदवाच्यस्य हरे; गुणैः- इच्छाज्ञानप्रयत्नादिरूपगुणैः धर्मै: स्वतन्त्रैः तथा प्रकृतेः- उत्तममध्यमाधमरूपजीवराशिस्वभावस्य गुणैः-अनुगुणैः तत्त्वज्ञानमिश्रज्ञानमिध्याज्ञानादिरूपधर्मैरीशाधीनैः, तथा प्रकृते:-जड़प्रकृतेः सम्बन्धिभिः गुणैः-तत्कार्यभूतैः सत्त्वरजस्तमोगुणैः प्रकृतेः विकारभूतैः देहेन्द्रियान्तःकरणरूपगुणैः क्रियमाणानि सर्वशः कर्माणि-साधुकर्ममिश्रकर्मासाधुकर्माणि प्रति अहंकारविमूढात्मा सन् कर्ताहं-स्वतन्त्रकर्ताहमिति मन्यते । ईश्वरः स्वतन्त्रकर्ता सन् स्वज्ञानेच्छादिना स्वाधीनकर्ता त्रिविधजीवस्वभावमनुसृत्य प्रकृतिविकारजीवकरणैः प्रकृतिकार्यसत्त्वादिगुणरूपोपादानकारणेन कर्म कारयति । तत्क्रियमाणकर्मणामहमेव स्वतन्त्रकर्तेत्यात्मानमज्ञो जनो मन्यत इत्यर्थः । इति ।
विकाररूपकर्तृत्वमस्तीत्याद्यभिधीयते तत्रत्यगीतातात्पर्यवचनविरोधादेव विकाररूपकर्तृत्वस्य नात्र ग्रहणप्रसक्तिरित्यवधेयम् ।
तथाहि-गीता-" यस्मात् स्वतन्त्रकर्तृत्वं विष्णोरेव नचान्यगम् । तदधीनं स्वतन्त्रत्वं स्वावरापेक्षैव तु । जीवस्य विकृतिर्नाम कर्तृत्वं जडसंश्रयम् । पुमान्दोग्धा च गौर्दोग्धी स्तनो दोग्धेतिवत्क्रमात् ।" इतिब्रह्मतर्कवचनादीश्वरजीवप्रकृत्यादीनां कर्तृत्वमकर्तृत्वं च विभागेन ज्ञातव्यं सर्वत्र । इति
गी. ता. टीका-यत्रेश्वरादीनां कर्तृत्वमुच्यते तत्रेश्वरस्य स्वतन्त्रकर्तृत्वमित्यादि विभागेनैव ज्ञातव्यम् | यत्रेश्वरादीनामकर्तृत्वमुच्यते तत्रेश्वरस्य परतन्त्रकर्तृत्वमस्वीयं नास्तीत्यादि विभागेनैव ज्ञातव्यम् । न तु यत्र कर्तृत्वमुच्यते तत्र सर्वेषां स्वतन्त्रकर्तृत्वमेव, यत्राकर्तृत्वमुच्यते तत्र सर्वेषां सर्वथाकर्तृत्वराहित्यं ज्ञातव्यम् । इति
भावदीप:-इत्यादिविभागेनेति । यत्र जीवस्यैव कर्तृत्वमुच्यते तत्र पराधीनकर्तृत्वं यत्र प्रकृतेरेव कर्तृत्वमुच्यते 'कार्यते ह्यवशः कर्म सर्व: प्रकृतिजैर्गुणैरित्यादौ तत्र विकाररूपं कर्तृत्वमिति ध्येयम् । इति
तदयं ग्रन्थसन्दर्भः |
" मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा ।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥ " गी. ३ - ३०
इत्यस्य व्याख्यानम्
" नाहं कर्ता हरिः कर्ता तत्पूजा कर्म चाखिलम् ।
तथापि मत्कृता पूजा तत्प्रसादेन नान्यथा ।।
तद्भक्तिस्तत्फलं मह्यं तत्प्रसादः पुनः पुनः ।
कर्मन्यासो हरावेवं विष्णोस्तृप्तिकरस्सदा ॥ इति
अत्र हि 'नाहं कर्ता' इति जीवस्य कर्तृत्वाभाव उच्यते । 'हरिः कर्ता' इति हरेरेव कर्तृत्वमुच्यते । 'मत्कृता' इति जीवस्यापि कर्तृत्वमस्तीत्युच्यते ।
“प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । " गी ३ - २७ इति
"कार्यते ह्यवशः कर्म सर्व: प्रकृतिजैर्गुणैः । " गी ३- ५ इति च
पूर्वत्र प्रकृतेरेव कर्तृत्वमुच्यते । कथमिदं सर्वं विरुद्धमुच्यत इति शङ्कायामुक्तम्-यस्मात् स्वतन्त्रकर्तृत्वमित्यादि । तदनेन सर्वेषामपि कर्तृत्वमस्तीति सिद्धम् । परं शङ्काया उत्तरं न प्राप्तम्, अत उक्तमाचार्यैः । इतिब्रह्मतर्कवचनादित्यादि ।
तस्य चायमर्थः-सत्यम् । ईश्वरजीवप्रकृत्यादीनां कर्तृत्वमकर्तृत्वं चास्तीति, अत एव क्वचित्तेषां कर्तृत्वमुच्यते क्वचिदकर्तृत्वमुच्यत इति च । परं यत्र यत्र कर्तृत्वमुच्यते तत्र सर्वत्रापि, स्वतन्त्रकर्तृत्वमेव ग्राह्यमिति न मन्तव्यम् । किन्तु यत्रेश्वरस्यैव कर्तृत्वमुच्यते तत्र स्वतन्त्रकर्तृत्वमेव (अन्यानधीनस्वेच्छाधीन-प्रवृत्तिरूपं ) ग्राह्यम् । यत्र जीवस्यैव कर्तृत्वमुच्यते तत्र पराधीनं कर्तृत्वं (अन्याधीनस्वेच्छाधीनप्रवृत्तिरूपं ) ग्राह्यम् । यत्र पुनः प्रकृतेरेव कर्तृत्वमुच्यते तत्र विकाररूपं तद् ग्राह्यमिति ।
एवं यत्रेश्वरस्याकर्तृत्वमुच्यते तत्र पराधीनं विकाररूपं च कर्तृत्वं नास्तीति, यत्र जीवस्याकर्तृत्वमुच्यते तत्र स्वतन्त्रं विकाररूपं च कर्तृत्वं नास्तीति यत्र
…………………………………………………………………………………………………………………………………………………………….
२ वस्तुतस्तुपक्षे यत्र प्रकृतेः कर्तृत्वमुच्यते तत्र जीवगतं कर्तृत्वं प्रकृतिविकारभूतमित्यर्थ इति पूर्वमेवावोचाम । एवं जीवस्याकर्तृत्वमपि कर्तृत्वेन स्वयं परिणामाभाव इति प्रकृतेरकर्तृत्वमपि बुद्धयादिस्वामित्वाभाव इति च बोध्यम् ।
…………………………………………………………………………………………………………………………………………………………….
प्रकृतेरकर्तृत्वमुच्यते तत्र स्वतन्त्रं पराधीनं च बुद्ध्यादिरूपकर्तृत्वं नास्तीति मन्तव्यमिति न कुत्रापि कश्चन विरोध इति ।
तदनेन स्पष्टमभिहितमाचार्यैः । यत्र प्रकृतेः कर्तृत्वमुच्यते तत्र विकाररूपं कर्तृत्वं ग्राह्यं न तु प्रसिद्धं बुद्ध्यादिरूपं कर्तृत्वमिति । परं यत्र सामान्यतः कर्तृत्वमुच्यते तत्र सर्वत्राप्यनुव्याख्यानोक्तं बुद्धिपूर्वप्रवृत्तिरूपमेव ग्राह्यमिति ।
अत एव हि "कर्तृत्वं द्विविधं प्रोक्तमिति पैङ्गीश्रुतिवाक्यं, “ यस्मात् स्वतन्त्रकर्तृत्वमि”त्यादिब्रह्मतर्कवचनं चाचार्यैर्विशिष्य ईश्वरजीवप्रकृत्यादीनां कर्तृत्वप्रसञ्जकगीतावाक्यसन्दर्भ एवोदाहृतम् । “बुद्धिपूर्वप्रवृत्तिर्हि कर्तृत्वमिति निश्चितम् ।” इति तु " तन्मनोऽकुरुत" इति सामान्यत: कर्तृत्वप्रसङ्ग उक्तम् ।
तदेतदतिक्रम्य सामान्यतः कर्तृत्वादित्युक्तेऽपि जगदात्मना विकाररूपकर्तृत्वमादाय व्यभिचारं चोदयतस्तत्परिहारार्थं च बुद्धिपूर्वमिति विशेषणमाचार्यैः कथितमिति यथाकथाच कथयतः खण्डार्थचन्द्रिकाकृतः कथमाचार्यवचनविरोधो न स्यात् ।
तथा च सामान्यत: कर्तृत्वादित्युक्ते लोकवेदोभयप्रसिद्धस्य बुद्ध्यादिरूप-कर्तृत्वस्यैव ग्रहणप्रसक्तिर्न तु विकाररूपकर्तृत्वस्य प्रकृते च ब्रह्मण: पक्षत्वेन तदनुगुणस्य चेतनसम्बन्धिकर्तृत्वस्यैव हेतुगतकर्तृत्वपदेन प्राप्तत्वेन विकाररूप-कर्तृत्वस्य सुतरामप्रसक्तेश्च तदादाय व्यभिचारचोदनस्याप्रसङ्गात्तत्परिहारार्थं बुद्धिपूर्वमिति विशेषणमिति स्वं. चं. वचनं गीतातात्पर्यभावानवबोध निबन्धनमित्यवधेयम् ।
प्रकृते कर्तृत्वादित्यनेन विकाररूपकर्तृत्वे गृहीतेऽपि प्रकृतेः सर्वकर्तृत्त्वाभावादेवाव्यभिचार इति प्रतिपादनपूर्वकं टीकोक्तदोषयोः सुस्थिरत्वप्रतिपादनम्
अस्तु वा सर्वकर्तृत्वादित्यत्र कर्तृत्वपदेन विकाररूपकर्तृत्वस्य ग्रहणमत्रेति । अथापि नानैकान्तिकता कान्ता । तथाहि सर्वकर्तृत्वादिति हेतुगतसर्वपदेन किं सङ्कोचेनाभूत्वाभवनरूपोत्पत्तिमतां पदार्थानां ग्रहणं, किंवाऽसङ्कोचेन पराधीनविशेषाप्तिरूपोत्पत्तिमतां सर्वेषाम् । आद्ये यद्यप्यभूत्वाभवनरूपोत्पत्तिमतां पदार्थानां साक्षात्परम्परया वा प्रकृतिविकारत्वेन प्रकृतेस्तादृशसर्वपदार्थोपादानकारणत्वरूपस्य सर्वकर्तृत्वस्य सत्त्वेन व्यभिचारस्सम्भवतीति तद्वारणाय बुद्धिपूर्वमिति विशेषणमिति कथनं युज्यते, तथाप्यनेनानुमानेन ब्रह्मणोऽभूत्वाभवनरूपोत्पत्तिमत्सर्वपदार्थज्ञानसाधनसम्भवेऽपि न सिषाधयिषितस्य निरुपचरितसर्वपदार्थज्ञानस्य साधनं सम्भवति । निरुपचरितसार्वज्ञस्यासिषाधयिषितत्वे त्वस्यानुमानस्य केवलव्यतिरेकित्वभङ्गः । द्वितीयप्रवृत्तिविशेषाया रमाया अपि तादृशसर्वपदार्थकर्तृत्वस्य तादृशसर्वपदार्थज्ञानस्य च सत्त्वात् । द्वितीये रमादीनां यस्सिसृक्षादिरूपो विशेषस्तदुपादानकारणत्वरूपस्य तत्कर्तृत्वस्य प्रकृतावभावादेव न व्यभिचारः । न वा तद्वारणाय बुद्धिपूर्वमिति विशेषणमिति ।
तस्मात्सुष्टृक्तं- 'बुद्धिपूर्वमिति विशेषणस्य व्यर्थत्वादि' ति, 'वाचकग्रहणेनैवाप्रसङ्गे गौणं प्रयुज्य व्यभिचारपरिहाराय विशेषणपूरणे प्रयतमानस्याकुशलत्वप्रसङ्गादिति च ।
प्रवृत्तिरूपकर्तृत्वस्य बुद्धिघटितत्वे कर्तृत्वस्य बुद्धिव्याप्तत्वाभिधायिसुधाविरोधमाशङ्कय प्रतिवाद्यादिमतमनुसृत्यैव कर्तृत्वस्य बुद्धिव्याप्तत्वाभिधानम्, न तु सिद्धान्तेऽपि तत्तथेति प्रदर्शनम्
ननु यदनुव्याख्यानवाक्यमुपजीव्य बुद्धिघटितकर्तृत्वस्य मुख्यत्वाद्युच्यते तद्वाक्यव्याख्यानसुधैव कर्तृत्वस्य बुद्धिघटितत्वं विरुणद्धि । एवं हि तत्र फक्किकाः ।
सुधा- “अत्र बुद्धिपूर्वप्रवृत्तिरित्येतद्बुद्ध्या विविच्य व्याख्येयम् । तथा हि । स्यात्कर्तृनिषेधैकस्वरूपत्वयोरविरोधः, यदि तृतीयादिविषयत्वमेव कर्तृत्वं स्यात् । न चैतदस्ति । अपि तर्हीींच्छाप्रयत्नादिरूपा प्रवृत्तिरेव । सर्वैरपि परीक्षकैस्तस्या एव कर्तृत्वेन निश्चितत्वात् । प्रकरणाच्चैतदेव निश्चितम् । अत्रैव हि विप्रतिपत्तिर्नान्यत्र । सा चेयं प्रवृत्तिर्बुद्धिपूर्वा बुद्धिव्याप्ता । कार्यायाः प्रवृत्तेर्बुद्धिकारणकत्वात् । अकार्यायाश्च बुद्धिव्यभिचाराद्यदर्शनात् । न च कर्तृत्वापरपर्यायायाः प्रवृत्तेर्व्यापिका बुद्धिरभावे सम्भवति । ततो व्याप्यं कर्तृत्वमपि न सम्भवत्येवेति कथं कर्तृत्वनिषेधैकस्वरूपत्वयोर्न विरोध इति । अत्रेच्छाप्रयत्नादिरूपायाः प्रवृत्तेरेव कर्तृत्वस्वरूपत्वमुक्त्वा तस्याः प्रवृत्तेर्बुद्धिव्याप्तत्वमुक्तम् । न तु कर्तृत्वस्यैव बुद्धिघटितत्वमिति चेद्
अस्तु ततः किम् ? न हि चेतनगतकर्तृत्वस्य बुद्ध्यघटितत्वे प्रकृतेर्जगदात्मना विकारस्य कर्तृत्वरूपत्वं वा, तस्य मुख्यत्वं वा प्रकृते तस्य विवक्षितत्वं वा सिद्ध्यति । प्रकृत उपयोगाभावेऽपि 'सर्वकर्तृत्वशब्दार्थान्तर्गतत्वेन साध्याविशिष्टत्त्वदोषाच्चे'ति टीकोक्तान्तिमदोषस्यासम्भवदुक्तिकत्वमिति शङ्कितुर्गूढाभिसन्धिस्तु सुधाभावनिरूपणेनानुपदमेव निवार्यते ।
तथाहि-तदयं भावस्सुधायाः । सर्वैः परीक्षकैर्नैयायिकादिभिः प्रतिवादिभिः प्रागभावकर्तृत्ववादिभिश्च कर्तृत्वमिच्छाप्रयत्नादिरूपा प्रवृत्तिरेवेति निरचीयत । तस्याश्च बुद्धिव्याप्तत्वाद्बुद्धिरहिते प्रागभावे परीक्षकाङ्गीकृतेच्छाप्रयत्नादिरूप-प्रवृत्तिरूपं कर्तृत्वमपि प्रतिवादिना त्वयाऽङ्गीकर्तुं न शक्यत इति प्रतिवादिनं प्रति कथयितुमेव बुद्ध्या विविच्य बुद्धिप्रवृत्तिहींति वाक्यं व्याख्यायत टीकाकृत्पादैः प्रतिवाद्यादिमतानुसारेण । न तु सिद्धान्तेऽपि बुद्धिं विनाकृत्येच्छाप्रयत्नादिरूपायाः प्रवृत्तेरेव कर्तृत्वमित्यभिप्रेत्येति । अत एवोत्तरत्र “ अत्र कर्तृत्वानुवादेन बुद्धिपूर्वप्रवृत्तिरिति व्याख्यानादि "त्युक्तम् ।
प्रसङ्गादसदधिकरणीयानुव्वाख्यानसुधायाः "कर्ता बुद्धिमानिति शेष" इत्यादिरूपायाः परमतानुसारेण प्रवृत्तिकथनम् ।
एवमेव " उत्पत्तिनाशकारी च बुद्धिमान् दृश्यते क्वचित् । तद्दृष्टान्तेन सर्वत्र कर्ता किं नानुमीयत" इत्यत्रापि “कर्ता बुद्धिमानिति शेषः । अन्यथाऽभावकर्तृत्ववादिनं प्रति सिद्धसाधनताप्रसङ्गादिति सुधापङ्क्तिरपि योजनीया । प्रतिवादिना बुद्धिरहितस्यापि प्रागभावस्य कर्तृत्वाङ्गीकारात् सिद्धसाधनतापरिहाराय परमतानुसारेणैव बुद्धिमानिति शेषकरणम् । न तु वस्तुगतिमनुरुध्येति ।
प्रमाणलक्षणादिवाक्योदाहरणपूर्वकं सिद्धान्ते कर्तृत्वस्य बुद्धिघटितत्वं प्रतिष्ठाप्य असदधिकरणसुधायाः प्रतिवादिमतेनैव प्रवृत्तत्वसमर्थनम्
अभिप्रेतं चेदं कर्तृत्वस्य बुद्धिघटितत्वं श्रीमदाचार्याणाम् । “विमतं सकर्तृकम् इत्यत्र सर्वज्ञत्वस्य पक्षधर्मताबलेन सिद्ध्यङ्गीकारादि" ति स्पष्टं प्रमाणलक्षणे कथनात् ।
अत एव " यद्यपि कार्यत्वं सकर्तृकत्वमात्रेण व्याप्तं तथापि भूभूधरादिपक्षधर्मताबलेन सर्वज्ञमेव कर्तारं गमयति । उपादानादिविषयज्ञानवत एव कर्तृत्वादिति तट्टीकायां व्याख्यातम् ।
अत एव सन्यायरत्नावलीवाच्यपि बुद्धिघटितमेव कर्तृत्वं प्रदर्शितमित्यवाच्येव । अत एव तत्व निर्णयटीकायां सकर्तृकम्-उपादानविषयकबुद्धिमत्पूर्वकमिति व्याख्यातम् ।
अत एव तत्त्वोद्योतटीकायामपि-" न हि क्षित्यादिकर्तृताव्यतिरिक्तमीश्वरत्वं सिषाधयिषितम् । यदर्थं पुनरारम्भो भविष्यति । सर्वज्ञत्वादेरपि तदन्तर्भावादि" त्युक्तम् ।
अत एव शास्त्रयोनित्वाधिकरणीयसुधायां- “क्षित्यादीनां कर्तत्येतदन्तर्गतमेव सर्वज्ञत्वादिकं न यत्नान्तरमपेक्षते । निमित्तोपादानफलाद्यभिज्ञस्य तदनुगुणेच्छा-प्रयत्नवत एव कर्तृत्वादि "त्युक्तम् ।
अत एवासदधिकरणीयचन्द्रिकायामपि "न तृतीयादियोगित्वं कर्तृतेह विवक्ष्यते । किन्तु ज्ञानादियोगित्वं तच्चाभावे न युज्यते ।” इति ज्ञानघटितमेव कर्तृत्वं सिद्धान्तरीत्या व्यासराजतीर्थ श्रीमच्चरणैः प्राकाशि।
तथाच सिद्धान्ते कर्तृत्वस्य बुद्धिघटितस्यैव स्वीकारादसदधिकरणीयसुधा प्रतिवाद्यादिमतेनैव प्रवृत्तेति बोध्यम् ।
कर्मनिर्णये बुद्धिघटितकर्तृत्वाङ्गीकर्तृमायावादिन एवं प्रतिवादित्वेनास्य परमतानुसारेण प्रवृत्तेरनाशङ्कनीयत्वप्रदर्शनम्
न चात्रापि प्रतिवादिमतानुसारेण बुद्धिपूर्वमिति विशेषणमिति वाच्यम् । प्रकृते प्रतिवादिभिर्मायावादिभिर्बुद्धिघटितस्यैव कर्तृत्वस्याङ्गीकारात्' । । अपरब्रह्मणि
………………………………………………………………………………………………………………………………………………………….
१ च.सू.शां.भा.जन्माद्यधिकरणे-अस्य जगतो नामरूपाभ्यां व्याकृतस्यानेककर्तृभोक्तृसंयुक्तस्य प्रतिनियतदेशकालनिमित्तक्रियाफलाश्रयस्य मनसाप्यचिन्त्यरचनारूपस्य जन्मस्थितिभङ्गं यतः सर्वज्ञात् सर्वशक्तेः कारणाद्भवति तद्ब्रह्येति वाक्यशेषः ।
भामती-अत्र नामरूपाभ्यां व्याकृतस्येति चेतनभावकर्तृकत्वसम्भावनया प्रधानाद्यचेतनकर्तृकत्वं निरुपाख्यकर्तृकत्वं च व्यासेधति । यत् खलु नाना रूपेण च व्याक्रियते तच्चेतनकर्तृकं दृष्टं यथा घटादि । विवादाध्यासितं च जगन्नामरूपव्याकृतं तस्माच्चेतनकर्तृकं सम्भाव्यते । चेतनो हि बुद्धावालिख्य नामरूपे घट इति नाम्रा रूपेण च कम्बुग्रीवादिना बाह्यं घटं निष्पादयति । अत एव घटस्य निर्वत्र्त्यस्याप्यन्तः सङ्कल्पात्मना सिद्धस्य कर्मकारकभावशे घटं करोतीति । यथाहुः
……………………………………………………………………………………………………………………………………………………………
कुलालादौ च बुद्धिघटितकर्तृत्वस्याङ्गीकारेऽपि शुद्धे ब्रह्मणि तादृशस्यानङ्गीकार इति चेत् । कस्तव लाभ: ? । प्रत्युत शुद्धब्रह्मणि बुद्धिघटितकर्तृत्वस्याभावेन स्वरूपासिद्धिर्दृढीकृता ।
कर्तृत्वस्य बुद्धिघटितत्वे प्रकृत्यधिकरणानुव्याख्यानविरोधमाशङ्कय समाधानपरसुधाशयवर्णनपूर्वकं कर्मनिर्णयप्रसङ्गस्य वैषम्यप्रदर्शनम्
अथापि स्यात् । “अपादानतया विश्वकर्तृत्वं बुद्धिपूर्वकम् । उक्तं भाल्लविशाखायां I ब्रह्मतर्के च सादरमि”ति प्रकृत्यधिकरणीयानुव्याख्याने कर्तृत्वं बुद्धिपूर्वकत्वेन विशेषितम् । तेन कर्तृत्वं बुद्ध्यघटितमिति सिद्ध्यतीति । न स्यात् । सुधैव समाधत्त यतः ।
सुधा- “तथापि बुद्धिपूर्वकमिति व्यर्थम् । कर्तुर्बुद्धिमत्त्वनियमादिति । मैवम् । अशेषविशेषज्ञानस्य विवक्षितत्वादिति ।
अयमाशयः । यद्यपि कर्तृत्वान्तर्गततया बुद्धिमत्त्वमलाभि । तथापि न कुलालादिसाधारणं सामान्यज्ञानमेव भगवति, किन्त्वशेषविशेषज्ञानमपि भगवन्तमलङ्करोतीति ज्ञापयितुं बुद्धिपूर्वकमिति विशेषणम् । व्यर्थं सत्किञ्चिज्ज्ञापयतीति न्यायात्। तथा च कुलालादिविलक्षणं भगवतो जगत्कर्तृत्वं निरूपयितुं तत्र विशेषणं सार्थकमिति ।
नचात्रापि तथैवास्त्विति वाच्यम् । निर्गुणतानिराकृतेरेवात्र प्रस्तावात् । सामान्यज्ञानघटितकर्तृत्वसिद्धावपि निर्गुणत्वं पलायते हि ।
…………………………………………………………………………………………………………………………………………………………….
बुद्धिसिद्धन्तु न तदसदिति । तथाचाचेतनो बुद्धावनालिखितं करोतीति न शक्यं सम्भावयितुमिति भावः ।
…………………………………………………………………………………………………………………………………………………………….
अनुव्याख्यानप्रसङ्गतौल्यात्, विपक्षे बाधकप्रदर्शनपूर्वकं बुद्धिघटितत्वस्यैव अङ्गीकार्यत्वप्रतिपादनम्
ननु प्रथमसूत्रगतब्रह्मशब्दोक्तगुणपूर्णत्वसम्भावकत्वेन जन्मादिसूत्रे कर्तृत्वमुपक्षिप्तम् । तत्र विप्रतिपत्तावसदधिकरणे गुणपूर्णत्वसम्भावकं कर्तृत्वं "बुद्धिपूर्वप्रवृत्तिर्ही” ति निरुक्तमिति 'प्रासङ्गिकमिति चेत् । तर्हि प्रकृतेऽपि तदाशयानुसारेण गुणपूर्णत्वसमर्थनायैव कर्तृत्वरूपयुक्तेरुपन्यासात् कर्तृत्वस्य बुद्धिपूर्वप्रवृत्तिरूपत्वमेवोररीक्रियेतानुव्याख्यानोक्तम् । न तु गीतातात्पर्यनिर्णयोक्तम् ।
अन्यथा सर्वत्र बुद्धिपूर्वमिति कर्तृत्वं विशेषणीयं स्यात् । न चैवमस्तीति पूर्वमेवाभिहितम् । अत एव 'कर्तृत्वात्सगुणं ब्रह्मेति भागवतेऽपि न भागवत्ता बुद्धिपूर्वमिति विशेषणस्य । तदुदाहरन्त शश्रीमदाचार्याः कर्तृत्वं मुख्यमेवात्र विवक्षाञ्चक्र इति प्रातिष्ठिपन् ।
एतेन " यच्चोक्तं सर्वकर्तृत्वं जडेऽपि गतमिति 'सार्वज्ञादिकं सर्वकर्तृत्वान्तर्गतमिति साध्याविशिष्टते 'ति तु न प्रसरत्येवेति तदपि निरस्तम् । इयता महता प्रबन्धेन मुख्यस्यैव कर्तृत्वस्याचार्याभिप्रेतत्वस्य समर्थितत्वात् । निरूपयिष्यते चेदमग्रे |
……………………………………………………………………………………………………………………………………………………………..
१ अपि च प्रथमसूत्रे ब्रह्मशब्दोक्तगुणपूर्णत्वसम्भावकत्वेन जन्मादिसूत्रे कर्तृत्वमुपक्षिप्तम् । तत्र विप्रतिपत्तावसदधिकरणे गुणपूर्णत्वसम्भावकं कर्तृत्वं निरुक्तमिति प्रासन्गिकमिति न व्याहतभाषित्वं तत्ववादाचार्यस्य । खं. वं.पा.वा. २३४
अभ्युपेत्य च प्रासङ्गिकत्वमयं पक्षो दूष्यते । वस्तुतत्त्वं तु सूत्रभाष्यानुभाष्यादीनि तद्व्याख्यानानि च प्रेक्षमाणानां प्रेक्षावतां सुगममेवेति न पुनस्तदत्र विशद्यते । गीतातात्पर्ये च जगदात्मना विकाररूपं कर्तृत्वमुक्तमिति चाभ्युपेत्येदमुक्तम् ।
२ गीतातात्पर्योक्तस्य विकाररूपकर्तृत्वस्यापि मुख्यत्व इत्यर्थः ।
३ भागोऽस्यास्तीति भागवान्, तस्य भावो भागवत्ता |
४ “सर्वकर्तृत्वं जडेऽपि गतमिति सार्वज्ञादिकं सर्वकर्तृत्वान्तर्गतमिति साध्याविशिष्टते 'ति तु न प्रसरत्येव" । खं. चं.पा. वा- २३४
…………………………………………………………………………………………………………………………………………………………………
बुद्धिघटितकर्तृत्वस्य मुख्यस्यैव विवक्षितत्वे पूर्वोक्तातिव्याप्तिशङ्कासमाधानयोरप्रसक्तिमाशङ्क्य तयोरभ्युपेत्यवादेन प्रवृत्तत्वकथनम्
ननु मुख्यमेव कर्तृत्वं यदि विवक्षाविषयताभाजनं तर्ह्यदृष्टद्वारा कर्तृत्वमादाय जीवेष्वतिव्याप्तिरेव न प्रसक्तिगोचरः । अदृष्टद्वारा कारणत्वेऽपि तेषां कार्यकारक-क्रियाफलाभिज्ञानतदिच्छाप्रयत्नपूर्वकस्पन्दरूपकर्तृत्वाभावादेवातिव्याप्तेर्निरसनादिति चेत् । सत्यम् । अभ्युपेत्यवादेन पूर्वमदृष्टद्वारा बहुतरकर्तृत्वेऽपि न सर्वकर्तृत्वं जीवानामित्यवोचाम । वस्तुतस्तु कुलालादिजीवानां घटादिकतिपयनिरूपितमुख्यकर्तृत्वेऽप्यदृष्टद्वारा बहुतरकारणत्वेऽपि बहुतरकर्तृत्वं नैवास्ति । सर्वकर्तृत्वं तु दूरतो ऽपास्तमित्येव सिद्धान्तः ।
बुद्धिपूर्वं सर्वकर्तृत्वादिति हेतोः श्रुतिसिद्धत्वेऽनुमेयाभावकथनपूर्वकंदार्ढ्याय युक्तिरिति पक्षस्य साध्याविशिष्टतोद्भावनेन निराकरणम्
यो हि ब्रह्म निर्गुणं मन्यते स कथं तस्य बुद्धिपूर्वं सर्वकारणत्वं मन्येत । 'स तपस्तप्त्वा इदं सर्वमसृजते 'त्यादिश्रुत्या हेतुसिद्धिरिति चेत्तर्हि हेतुसिद्धावेव सगुणत्वसिद्धेरनुमेयाभावः । सगुणत्व एव हि विवादः । कर्तृत्वमपि ज्ञानादिगुणघटितमेव । तथा च कर्तृत्वसिद्धौ सगुणत्वमेव सिद्धमिति नास्ति साध्यम्' ।
किञ्च यदवोचद् भागवतोक्तमेवात्र निर्दिष्टमिति न स्वरूपासिद्धेरवकाशोऽस्ती'ति तदपि, भागवतेनैव सगुणत्वमप्यागतमिति टीकाकृत्पादोक्तानुमेयत्वाभावरूपदूषणलङ्घने न जङ्घालम् ।
…………………………………………………………………………………………………………………………………………………………..
१ यद्यपि सिद्धसाधनता न स्वार्थानुमाने दोषः । परार्थानुमानेऽप्यपक्षत्वापादकतया न दोषः । अनुमितिविषयः पक्ष इति सिद्धान्तंऽभ्युपगमात् । तथापि परार्थानुमाने "सिद्धसाधकोऽसङ्गत" इति प्रमाणलक्षणोक्तरीत्याऽसाङ्गत्यापादकतया दोष एव ।
२ भागवतोत्तमेवात्र निर्दिष्टमिति न स्वरूपासिद्धेरवकाशोऽस्ति । खं. चं.पा.वा.- २३४
…………………………………………………………………………………………………………………………………………………………..
ननु श्रावयतु श्रुतिस्सगुणत्वमथापि युक्तिर्दार्ढ्यम् प्रापयति तस्यैवेति को दोष इति चेदत्रेदं बोद्धव्यम् । श्रुत्या सिद्धं कर्तृत्वं हेतुक्रियते चेद् दृढमेव सिद्धमित्यङ्गीकुर्याः | अपरथा सन्दिग्धासिद्धिः प्रादुःष्यात् । अतो मा दार्ढ्यार्थं युक्तिमुखं निरीक्षिष्ठाः । अथ श्रुतिसिद्धे हढेऽपि सगुणत्वेऽतिदाढर्याय युक्त्युक्तिर्युक्तेति मन्यसे तर्हि मृग्यतां साध्यादन्या युक्तिः । न तु साध्याविशिष्टा । प्रकृते कर्तृत्वरूपा युक्तिरेव सगुणत्वरूपसाध्यात्मिका । सैव श्रुतिसिद्धा ।तयैव कर्तृत्वरूपयुक्त्या सगुणत्वं साध्यते चेन्न दार्ढ्यम् लभ्यते । श्रुतिसिद्धत्वे यावान् लाभो न ततोऽधिकः प्राप्तः ।
उक्तसाध्याविशिष्टताया: सामान्यविशेषभावेनासम्भवमाशक्य सत्यपि तस्मिन्, "वृक्ष: शिंशुपात्वादित्यस्मात् प्रकृतहेतोर्विलक्षणतया साध्याविशिष्टताया दुर्वारत्वसमर्थनम्
ननु कथं साध्याविशिष्टता वृक्षत्वशिंशुपात्वयोरिव सामान्यविशेषभावसद्भावादिति चेत् । सत्यम् । तथापि विशेषः कश्चन दृश्यते ।
तथा हि-पुरोवृत्तिपदार्थे वृक्षो वा घटो वेति विशये, वृक्षः शिंशुपात्वादिति शिंशुपात्वरूपविशेषेण सिद्धेन वृक्षत्वरूपसामान्यमसिद्धं साध्यते । वृक्षत्वशिंशुपात्वयोर्धर्मयोर्भिन्नत्वात् (सविशेषाभिन्नत्वात्) । प्रकृते यत्किञ्चिद्गुणवत्त्वरूपसगुणत्वस्यैव साध्यत्वेन कर्तृत्वस्यापि यत्किञ्चिद्गुणघटितत्वेन साध्यरूपत्वात् साध्याविशिष्टताऽपरिहार्या ।
ननु कथं तर्हि भवता साध्यते ? न मया साध्यते कर्तृत्वेन सगुणत्वम् । सर्वकर्तृत्वान्तर्गततयैव सर्वज्ञत्वादिगुणवत्त्वं सिद्ध्यतीत्युच्यते ।
ग्रन्थत्रकृतक्रमनिरूपणेन पूर्वपक्षिणः सगुणत्व एव विवाद इति प्रदर्शनपूर्वकं ब्रह्मणोऽनन्तगुणत्वानुमानस्याप्रसक्तत्वसमर्थनम्
यदन्यदुक्तं “सगुणत्वे हि विवादप्रसक्तिः नत्वनन्तगुणत्वेऽतोऽप्रसक्तभाषणमिदमनन्तगुणसिद्ध्यर्थमनुमानमिति तु " अतोऽनन्तगुणो भगवान्नारायण इति सिद्धमिति भाष्यविरुद्धमिति नादर्तव्यमिति । नादर्तव्यं तत् ।
तथाहि-अत्रायं क्रमः- “महद्धि तत्परं ब्रह्म । अशेषगुणसम्पूर्तेः” । इति श्रीमदाचार्याः प्रतिजज्ञिरे । ततः "तत्रैक आहुरगुणं ब्रह्मेति” पूर्वपक्षमन्ववादिषुः ।
अनेनेदं स्फुट्यभवन्न सगुणत्वं स्वीकृत्याशेषगुणपूर्णत्वमाचिक्षिपुः पूर्वपक्षिणः किन्तु सगुणत्वमेवेति । सगुणत्वमेव तर्हि साधनीयतामीप्सतीति निर्गुणत्वमेव "न तद्युक्तमित्यत्र तत्पदेन परामृश्य न युक्तमिति निषिध्य तत्र श्रुतियुक्तिविरोधादिति हेतुमभिधाय तथाहीत्यादिना श्रुतियुक्ती प्रदर्शयाञ्चक्राते इति ।
तथा च पूर्वपक्षिभिरुक्तस्यागुणत्वस्य निराकृत्यै सगुणत्वमेव श्रुतियुक्तिभ्यां साधनीयम् । साधिते च सगुणत्वे निर्गुणत्वरूपबाधकाभावात् प्रागशेषगुणसम्पूर्तेब्रह्मणो महत्त्वं यदुक्तं तत्साधिष्ठमेवेति “ अनन्तगुणो भगवान् नारायण इति सिद्धमि”त्युपसञ्जहुः, न त्वनन्तगुणत्वं युक्त्या साधयामासुः । अनन्तगुणत्वप्रतिपादिकारश्रुतीरपि सगुणत्वसमर्थनायैवोदाहार्षुरिति टीकोक्तं सर्वमतिनिर्दुष्टमिति सिद्धम् ॥
॥ इति बुद्धिपूर्वविमर्शः ॥
…………………………………………………………………………………………………………………………………………………………
१ सगुणत्वे हि विवादप्रसक्तिः नत्वनन्तगुणे अतोऽप्रसक्तभाषणमिदमनन्तगुणसिद्ध्यर्थमनुमानमिति तु "अतोऽनन्तगुणो भगवान् नारायण इति सिद्धमिति भाष्यविरुद्धमिति नादर्तव्यम् । खं. चं.पा.वा. - २३४ २ यदि चानन्तगुणपूर्णत्वमनया युक्त्यापि साधयामासुरित्यङ्गीक्रियते तदा बुद्धिपूर्वमितिविशेषणवैयर्थ्यस्यानुमानप्रयोक्तुरकुशलत्वस्य च प्रसङ्गादिति भावः ।