कर्मविजय
समर्पणम्
कर्मविजय
श्रीमत्परमहंसपरिव्राजकाचार्यवर्यत्वाद्यनेकगुणगणालङ्कृत, श्रीमूलसीतासमेत श्रीमन्मूलरामदिग्विजयरामवेदव्यासदेवदिव्यपादपद्माराधक श्रीमद्वैष्णवसिद्धान्तप्रतिष्ठापनाचार्यश्रीमज्जगद्गुरु श्रीमन्मध्वाचार्यमूलमहासंस्थान श्रीमदुत्तरादिमठाधीशानामस्मत्स्वरूपोद्धारकाणां तत्त्वोपदेशकानां मन्त्रोपदेशदानां श्रीमूलसीतासमेत श्रीमूलरामदिग्विजयरामवेदव्यासादि-पूजनसौभाग्यदानां श्रीमन्यायसुधामण्डनादिग्रन्थनिर्मातॄणां वादाहवसिंहनादानां श्रीमत्सत्याभिज्ञतीर्थकरकमलसञ्जातानां श्रीमत्सत्यप्रमोदतीर्थानां चरणनलिनयोः
तथा तद्वारा
सर्वज्ञकल्पानां निरस्ताशेषकुमतानां मिथ्यासिद्धान्तदुर्ध्वान्तविध्वंसनविचक्षणानामखण्डितवाक्यानामानन्दतीर्थोपदिष्टनारायणाह्वयनिधिप्रदर्शकानां कामित्तार्थप्रदानेकाकूतगर्भितवाचां कामबाणच्छिदां मध्वशास्त्रविजयस्तम्भस्थापकानां श्रीमन्यायसुधाकर्मनिर्णयटीकाद्येकविंशतिग्रन्थप्रभवानां श्रीमट्टीकाकृत्पादानां श्रीमदक्षोभ्यतीर्थकरकमलसञ्जातानां श्रीमज्जयतीर्थपूज्यचरणानां चरणनलिनयोः
तथा तद्वारा
तदन्तर्यामिणां शुद्धप्रमाणानां स्वान्तध्वान्तनिकृन्तने जितमहावैकर्तनांशुव्रजानां निर्दोषाणां तापत्रयोन्मूलने जितचन्द्रचन्द्रिकाणां गाम्भीर्ये जितसिन्धुराजानां भवाटवीनिकृन्तनपटुवाणीकृपाणीचणानां धर्मविज्ञानवैराग्यपरमैश्वर्यशालिनामभ्रमाणां श्रीशपादाम्बुजासक्तानां पापपाटनपण्डितपादपङ्कजरेणूनां बुद्धिशोधकानां सर्वकर्मकर्तृणां सर्वकर्मकारयितॄणां सर्वकर्मस्वामिनां सर्वकर्मसमर्पकाणां सर्वकर्मफलभोक्तृणां सर्वकर्मफलभोजयितॄणां सर्वकर्मप्रेरकाणां सर्वकर्मोद्बोधकानां सर्वकर्मशुद्धिप्रदानां सर्वकर्मसिद्धिप्रदानां सर्वकर्मनिष्ठानां सर्वकर्मसाक्षिणां सर्वकर्मनिष्ठभगवद्रूपोपासकानाम् अशेषनिःसङ्ख्यानादिकालीनधर्माधर्मद्रष्टृणां स्वेच्छयोद्बोधकानां कर्मपाचककपिलोपासकानां श्रीमदानंदतीर्थ श्रीमच्चरणानां चरणनलिनयोः
तथा तद्वारा
तदन्तर्यामिणां विधीशानशक्रपूर्वैः सदा मखैरिज्यमानानां सर्वयज्ञभुजां रमाप्रणयिनां ब्राह्मणोपनिषन्मन्त्रभेदभिन्नाखिलवेदगीष्प्रतिपाद्यानां परब्रह्मणां यज्ञानां यज्ञपतीनां यज्वनां यज्ञाङ्गानां यज्ञवाहनानां यज्ञभृतां यज्ञकृतां यज्ञिनां (यज्ञभुजां) यज्ञसाधनानां यज्ञान्तकृतां यज्ञगुह्यानां कर्मफलोज्झितानां सर्वकर्मफलप्रदानामुपास्यानां श्रीमन्मूलसीतासमेतश्रीमन्मूलरामदिग्विजयरामवेदव्यासवंशरामप्रसन्नविठ्ठलादीनामनन्तगुणपरिपूर्णयोनिर्दोषयोर्जगज्जन्मादिकारणयोश्चरणनलिनराजयोः कर्मविजयकुसुममिदं सभक्तिश्रद्धं ससाष्टाङ्गानन्तनतितति समर्प्यते ।
दिनाङ्कः 8-10-2020
शार्वर्यां, दक्षिणायने, अधिकाश्विने,
कृष्णपक्षे, षष्ठ्यां, बृहस्पतिवासरे ।
टीकाकृदाचार्य सुवर्णसेवासुवर्णभूषा सुवरङ्ग्र्हिपद्मे । समर्पिताऽस्यां हि सुवर्णपुर्यां तस्मादियं सार्थकनामधेया ॥