पृष्टेनागम एवादौ वक्तव्यस्साध्यसिद्धय

युक्युपेतविमर्शः

अथ *युक्तयुपेतविमर्शः

पृष्टेनागम एवादौ वक्तव्यस्साध्यसिद्धय

(०१) कर्मनिर्णय:-तत्रैक आहुरगुणं ब्रह्मेति । न तद्युक्तं श्रुतियुक्तिविरोधात् ॥

टीका-एतत्समर्थयितुं मायावादिनां विप्रतिपत्तिं तावदुद्भावयति-तत्रेति । तत्रावसरे । एतदुक्तं भवति । ब्रह्म तावन्निर्गुणम् ।केवलो निर्गुणश्च" इत्यादिश्रुतेः । सगुणत्वसाधकप्रमाणाभावाच्च । तस्य चाशेषगुणपूर्तिप्रत्याशा जलाभ्यवहारासमर्थस्य मुमूर्षोश्शष्कुलीभक्षणप्रत्याशायिता । तथा च कथमसिद्धयाऽशेषगुणपूर्त्या ब्रह्मणो महत्त्वसाधनम् । किन्तु सर्वात्मकत्वेनेति । प्रतिविधत्ते-नेति । युक्तशब्दश्शोभनपर्यायः । यथाऽऽह भिक्षुः । तथा च युक्तिविरोधान्न युक्तमिति न साध्याविशिष्टता । युक्त्युपेतमिति व्याख्यानमसत् । प्रमाणाधीनत्वात्प्रमेयसिद्धेः प्रामाणिकमिति वक्तव्यत्वात् । लक्षणायाः प्रयोजनाभावात् । प्रतिज्ञाध्याहारप्रसङ्गाच्च । श्रुतियुक्ति-विरोधादिति तत्र हेतुं वदता ब्रह्मणस्सगुणत्वेऽशेषगुणपूर्णत्वे च प्रमाणसद्भावोऽपि सूचितः । यद्यप्यत्र महतां प्रत्यक्षमपि ग्रहीतुं शक्यते । तथापि तत्सद्भावश्श्रुत्यादिनैव साधनीय इति गौरवान्नोपात्तम् । न त्वभावात् । उत्तरत्र ग्रहणाच्च ।

कर्मविजयः

अत्र युक्त्युपेतमिति यद्युक्तशब्दस्य व्याख्यानं तस्य समर्थनाय केचिदेवं व्याख्यान्ति ।

…………………………………………………………………………………………………………………………………………………………….

युक्त्युपेतमित्यस्य विमर्श: युक्त्युपेतश्च विमर्श इत्यर्थः । एवमुत्तरत्र बुद्धिपूर्वमित्यस्य विमर्श:, बुद्धिपूर्वकच विमर्श इति, मुख्यवृत्तेर्विमर्श: मुख्यवृत्त्या च विमर्शो न तूपचारत इत्यर्थद्वयं बोध्यम् ।

२ ब. गो. खं. चं. ७३,७४

…………………………………………………………………………………………………………………………………………………………….

विमर्शनसौकार्याय स्वण्डार्यचन्द्रिकाया यथाग्रन्थमनुवादः ।

युक्तिरिति साङ्गल्यम् | युक्तिरित्यौचित्यम् । तदेतदाह-न युक्तमिति । असङ्गतमित्यर्थः । अनुचितमित्यर्थः । अथवा मनसो लगनं युक्ति: । न तद् युक्तम् न तन्मनसि लगतीत्यर्थः । शोभनं सुन्दरमित्यादिरार्थिकोऽर्थः । यन्मनसि न लगति न नूनं तच्छोभनं भवितुमर्हतीति ॥

अथवा युक्तिरिति वाचोयुक्तिः । कयाऽपि वाचोयुक्तया आगमेन वा तर्केण वा न तत् साधयितुं शक्यमित्यर्थः ॥

अथवा युक्तिरित्यनुमैव । कथायां श्रुतिरप्यनुमात्वेनैव ह्युपयुज्यते । इदमित्थं भवितुमर्हति, इदं नेत्थम्, इति श्रुतेरिति । तस्मादिदमसदिति वचनस्य पूर्वाग्रहादन्यत् कारणं नोत्पश्यामः ॥

अथ कथमनुमिमीषे ? शृणु सावधानतया । अत्र द्वयी गतिर्भवति । ब्रह्मणोऽगुणत्वं न युक्तम् । तद्वचनस्य श्रुतियुक्तिविरोधादित्येकम् । ब्रह्मागुणमिति वचनं न युक्तम् । ब्रह्मणोऽगुणत्वस्य श्रुतियुक्तिविरोधादिति द्वितीयम् । अथवा न तद् युक्तमिति युक्त्युपेतमित्यर्थः । तस्मादनुपादेयमिति फलितम् । तथाचानुमानम्-ब्रह्मणोऽगुणत्वं नोपादेयम् । तस्य श्रुतियुक्तिविरोधादित्यादिकमूह्यं चतुरमतिभिरिति ॥

युक्तत्युपेतमिति सङ्गत्युपेतमित्यर्थकमिति पक्षस्य निरास:

अत्रोच्यते | प्रथमकल्पे तावद् योगेन युक्तमित्यस्य सङ्गतमित्यर्थमूरीकृत्य न युक्तमित्यस्यासङ्गतमित्यर्थो न्यरूपि । न रूढ्या। अत एव न प्रसिद्धिगोचरोऽयमर्थः । प्रसिद्धिप्रतीपतापात्रमपि । तथा हि प्रयुञ्जतेयद्यपि युक्तोऽयं विषयस्तथापि न सङ्गत" इति । यं विषयं त्वमचकथस्स शोभनस्समीचीनः परं न सङ्गत इति खल्वस्य वाक्यस्यार्थः ।

किञ्च सङ्गत्युपेतमित्यर्थेऽप्रसिद्धेन युक्त्युपेतशब्देन युक्तशब्दव्याख्यानं प्राचीनैरकारीति केषाञ्चित्समाधानं न समाधानकरम् । यो हि युक्तिशब्दस्य योगेन साङ्गत्यमित्यर्थमवगच्छति स युक्तशब्दस्य सङ्गतमित्यर्थमवगच्छत्येव । यो नावगच्छति तं प्रति तेन शब्देन कृतेऽपि विभजने ' न स भवति प्रयोजनभाजनम् ।

अयुक्तमित्यसङ्गतार्थकं नेति व्यवस्थापयितुम् अनुव्याख्याने क्षत्यधिकरणीयपद्मनाभतीर्थटीकासन्दर्भनिरूपणम्

अपि च श्रीमदाचार्यैरनुव्याख्याने परकृतव्याख्यानस्य क्वचिदयुक्तता भण्यते, क्वचिद्युक्ततायामपि सङ्गतता नास्तीति कथ्यते ।

न च साङ्ख्यनिराकृत्यै सूत्राण्येतान्यचीक्लृपत् ।

भगवान् न ह्यशब्दत्वं प्रधानेऽङ्गीकरोत्यसौ ॥ इति

अत्र श्रीपद्मनाभतीर्थभट्टारकाणां व्याख्यानं सन्यायरत्नावली समस्त्येवम् |

स.र-यदुक्तं कैश्चिदीक्षतेर्नाशब्दमित्यादिश्रुतत्वादित्यन्तसूत्रसन्दर्भेण जगतः प्रधानकारणत्ववादिमतं निराक्रियत इति तदयुक्तमित्याह न चेत्यादिना । यदि प्रधानस्य जगत्कारणत्वमत्र निषिध्यते तर्हिक्षतेर्न प्रधानमिति सूत्रं स्यात्, न त्वीक्षतेर्नाशब्दमिति । न ह्यशब्दपदस्य प्रधाने रूढिरस्ति । शब्दरहितत्वयोगश्चेदसिद्धः। साङ्ख्यैस्तदनभ्युपगमात् । नाप्य श्रौतत्वमेवाशब्दपदोक्तम् । प्रधानस्याजामित्यादिना श्रूयमाणत्वेनाश्रौतत्वस्याभावात् । किञ्च यावच्छब्दावाच्यत्वं यद्वाचानभ्युदितमिति श्रुतिप्राप्तं न परिह्रियते ब्रह्मणि तावद्वेदानां समन्वयप्रतिज्ञाऽसम्भवदर्थत्वेन निराकाङ्क्षा । अतो ब्रह्मणः शब्दगोचरत्वप्रतिपादनमेवात्र पूर्वाधिकरणसङ्गतं, न तु प्रधानस्य जगत्कारणत्वनिषेधः । स च ईक्षतिकर्मव्यपदेशात्स इत्यादौ करिष्यते । " इति ।

………………………………………………………………………………………………………………………………………………………..

१ व्याख्याने

……………………………………………………………………………………………………………………………………………………….

अत्र प्रधानेऽशब्दत्वकथनमयुक्तं प्रधानस्य जगत्कारणत्वनिषेधो युक्तोऽप्यसङ्गत इति कथनेनायुक्तत्वमन्यदसङ्गतत्वमन्यदिति ज्ञायते । तथा चात्र न तद्युक्तमित्यस्य यदि निर्गुणत्वं सत्यत्वेऽपि प्रकृतासङ्गतमित्यर्थः स्यात् तदा निमग्नैव नौर्नारालये ।

प्रकरणपर्यालोचनया न युक्तमित्यस्य असङ्गतार्थकत्वस्य असम्भवप्रदर्शनम्

अपि च प्रकृतेमहद्धि तत् परं ब्रह्म । अशेषगुणसम्पूर्तेःइत्याचार्यपादैरुक्ते सति न वयं मन्यामह एतदिति प्रत्यवस्थानं परेषां सङ्गतमेव । असङ्गतं कुतः । प्रादायि चावतरणिका तथैव तैरेव । अतोऽपि न युक्तमित्यस्यासमञ्जसमित्येव समञ्जसम् ।

किञ्चासाङ्गत्यप्रदर्शनार्थं पूर्वप्रकृतं निरूप्य तेनेदमसङ्गतमिति कथनीयम् । न तु श्रुतियुक्तिविरोधो वक्तव्यः ।

अथ मतम् । श्रुतियुक्तिविरोधादसङ्गतं नामासमञ्जसमित्येवाभिप्राय इति, हन्त तर्ह्यसमञ्जसमित्यशोभनमित्यनर्थान्तरमित्यनर्थान्तरे' निपातः ।

असङ्गतमिति अनुचिततात्पर्यकमिति पक्षस्य दूषणम्

ननु भ्रम एवाभ्रमभवद्भवताम् । यद्वृष्टिधाराक्लिन्ना एवमाक्षिपन्ति । यतो ह्यसङ्गतमित्यस्यानुचितमित्यत्र तात्पर्यमित्यवाच्यत एवास्माभिरिति चेत् । अनुचितमित्यस्य कोऽर्थः । असङ्गतमिति आहोस्विदसमञ्जसमिति | नादिमः । प्रागुक्तदोषपङ्कनिमज्जनात् । तात्पर्यकथनविफलतायाश्च । नान्तिमः । असमञ्जसमित्यशोभनमित्यनर्थान्तरत्वाद्धट्टकुटीप्रभातं प्रसज्येत । तदेवाङ्मयकारि तदेव निराकारीति मा हि भूत् ।

……………………………………………………………………………………………………………………………………………………….

१ योऽर्थस्तेषामङ्गीकार्यत्वेन नोद्दिष्टस्सोऽनर्थः । तदन्तरे तन्मध्ये निपातस्तस्याङ्गीकार इति यावत् ।

……………………………………………………………………………………………………………………………………………………..

प्रसङ्गादसमञ्जसाशोभनशब्दयोरपर्यायत्वमाक्षिप्य पर्यायत्वसमर्थनम्

अथ मतम् । नेदमनुमतमसमञ्जसमित्यशोभनमिति 'सहप्रयोगानर्हाविति । असमञ्जसमित्यस्य सम्मत्ययोग्यमित्यर्थः । " सम्मतमञ्जसा तत्वमत्रे " ति व्याक्शासीद्भानुजीदीक्षितोऽमरव्याख्यायां रामाश्रमीनाम्यां समञ्जसशब्दम् । अशोभनमित्यस्यासुन्दरमित्यर्थः । "सुन्दरं रुचिरं चारु सुषमं साधु शोभनम् । कान्तं मनोरमं रुच्यं मनोज्ञं मञ्जु मञ्जुलमि त्यमरो यत इति चेत् ।

सत्यम्। यद्यपि सुन्दरशब्दपर्यायः शोभनशब्दः साधुशब्दोऽपि । तथापि सौन्दर्यं न लावण्यमात्रम् | "इच्छा विषयसौन्दर्याघीने "त्यादिप्रयोगेषु विषय-सामान्यालिङ्गिततया सौन्दर्यं व्यपदिशन्ति यतः । सुन्दरश्शब्दः, साधुशब्दः, शोभनश्शब्द इति श्रवणयोग्यः, श्रवणरमणीय इत्यर्थे प्रयुज्यते । सुन्दरं रूपं, साधु रूपं शोभनं रूपमिति दर्शनयोग्यं चक्षूरमणीयमित्यर्थे प्रयुज्यते । एवं कस्मिंश्चिद्विषये विवादे सतीदं साधु शोभनमित्युक्ते योग्यमङ्गीकारस्येत्यर्थः । असाध्वशोभनमित्युक्तेऽयोग्यमङ्गीकारस्येत्यर्थः । तदिदमैकार्थ्यमागतं सम्मत्ययोग्यार्थकासमञ्जसशब्दाङ्गीकारायोग्यार्थकाशोभनशब्दयोरिति सर्वं चतुरस्रम् ।

न तन् मनसि लगति इति विकल्पनिरास:

नापि " न तद्युक्तमित्यस्य न तन्मनसि लगतीत्यर्थो मनसि लगति । युक्तिर्योगस्सम्बन्धो लगनमित्येव लभ्यते । न तु मनसीति । योग्यतयाऽध्याहार इति न व्याहर्तव्यम् । कृतमध्याहारमध्यविहारेण । न तच्छोभनमित्येव शोभनम् । नासावार्थिकार्थ इति व्यजिज्ञपाम ।

……………………………………………………………………………………………………………………………………………………………

१ पर्यायौ

…………………………………………………………………………………………………………………………………………………………..

युक्तिरिति वाचोयुक्तिरिति पक्षनिरास:

"युक्तिरिति वाचोयुक्तिः । कयापि वाचोयुक्त्याऽऽगमेन वा तर्केण वा न तत् साधयितुं शक्यमिति तृतीयः पक्षोऽपि न कक्षीकरणयोग्यः । अत्रापि वाच इत्यध्याहारहारो गलमलङ्करोति तेषाम् । एतावताप्यनुपादेयमिति परमसाध्याध्याहारस्त्वसाध्यपरिहारः ।

युक्तिरित्यनुमैवेति पक्षे साध्यपरिष्कारपूर्वकमनुमानं विमृश्य पूज्यपरिमळाचार्याशयस्य निर्दुष्टत्वसमर्थनम् ।

नापि "युक्तिरिति अनुमैव । कथायां श्रुतिरम्यनुमानत्वेनैव ह्युपयुज्यते । इदमित्थं भवितुमर्हति इदं नेत्थम् इति श्रुतेरितीति चतुर्थः कल्पः कल्पते । कल्पेऽस्मिन्श्रुतियुक्त्युपेतं ने 'ति साध्यं व्यवरिष्टेष्टस्तद्विनेयः कश्चित् । तथा गुणत्वं न श्रुतियुक्त्युपेतं श्रुतियुक्तिविरोधादित्यनुमानं पर्यवसायि । न चैतद्युक्तम् | श्रुतियुक्तिविरोधेऽपि प्रबलश्रुतियुक्त्युपेतत्वसम्भवात् । ननु प्रबलतम श्रुतियुक्ति-विरोध एवाविवक्षिष्टाऽतः सावकाशत्वादिना दुर्बलश्रुतियुक्त्युपेतत्वेऽपि नेष्टकुङ्गलं मायावादिनो विकसतीति फल्यतेऽस्मन्मनोरथद्रुमेणेति चेत्। न। तथा सति प्रबल श्रुतियुक्तिविरोधात् स्वसाधकतोपेतश्रुतियुक्त्युपेतं न भवतीति कथितं स्यात् । प्रत्यक्षस्य च प्रसक्त्यभावादप्रामाणिकत्वमेव साधितं स्यात् । न तु केवलं प्रतिज्ञातं स्यात्। तथा च कथमुत्तरत्र निर्गुणत्वविषये प्रमाणमाशङ्क्य तत्प्रतिविधानं

…………………………………………………………………………………………………………………………………………………………….

१ तदेतदुभयमुक्तमिव टीकायाम् । प्रतिज्ञाध्याहारप्रसङ्गाच्च इति । न तद्युक्तमिति प्रतिज्ञायां युक्त्युपेतमिति तद्व्याख्याने च मनसीति वाच इति च, अध्याहारप्रसङ्गादिति ।

२ तथाहि तद्वाक्यम्-"युक्तिरित्यनुमैव । तत्रास्ति कश्चन विशेषः । युक्तिरिति श्रुतिरपि पृष्टेनागम एवादौ वक्तव्यः सिद्धये' इति श्रुतिरेव लिङ्गत्वेन वक्तव्यमादौ । नतु श्रुतिव्यतिरिक्तं लिङ्गम् । तेन श्रुतियुक्त्युपेतं नेति साध्यम् । ताभ्यां विरोधादिति हेतु: ।" इति खण्डार्थचन्द्रिकापाश्चात्ये वाके (खं, चं.पा. वाके)- २३१

………………………………………………………………………………………………………………………………………………………………

सङ्गतिपदमधिरोहेत् । यदि केवलं प्रतिज्ञातं स्यात्तदा शङ्कासमाधाने स्यातामेवोपपन्ने इत्यत्र नास्त्युदरदरः ।

अत एवोक्तं राघवेन्द्र श्रीमच्चरणैः 'न चैको देव' इत्यादिना निर्गुणत्वे पराभिमतप्रमाणस्याशङ्क्यमानत्वात् कथमप्रामाणिकत्वोक्तिरिति । तमेतमविज्ञाय राघवेन्द्रश्रीमच्चरणानामाशयं यत्केनचिदुक्तं "पूर्वपक्षी अज्ञानेन निर्गुणत्वे श्रुतिं प्रदर्शयतीत्येतावन्मात्रेणाप्रामाणिकत्वं न प्रतिज्ञातव्यमिति तु न रोचत इति" तदतिमन्दमतिसाहसञ्च ।

कथालक्षणादिप्रमाणणै: कथायामपि श्रुतेश्श्रुतित्वेनैव प्रमाणतयोपन्याससमर्थनम्

यदत्राभाणि 'श्रुतिरप्यनुमात्वेनैवोपयुज्यत इति न तत् प्रमाणि । आगम आगमत्वेनैव प्रमाणतां भजते कथायामपि । अत एव "पृष्टेनागम एवादौ वक्तव्य-स्साध्यसिद्धयइति सङ्गच्छते । ननु 'साध्यसिद्धय' इति कथनमेव मथनायतेऽभीप्सितस्यागमस्याप्यनुमानत्वरूपामृतस्य सिद्धय इति चेत् । न । साध्यपदस्य प्रतिपाद्यप्रमेयपरत्वात् । ब्रह्म जगत्कारणं 'स इदं सर्वमसृजते 'ति श्रुतेरिति पञ्चमीप्रयोगेण श्रुतेरनुमात्वमिति त्वतिमन्दम् * ।

……………………………………………………………………………………………………………………………………………………………….

१ संशयभयम् ।

२ स्वसाधकतोपेत श्रुतियुक्त्युपेतं नेत्यनेनाचार्यैः, निर्गुणत्वविषये परेणाशङ्कयमानानां प्रमाणानां दौर्बल्ये साधिते सति न केवलं निर्गुणत्वविषये श्रुत्युपन्यासेन पूर्वपक्षी कृती स्यात् । किन्तु श्रुतेः साधकत्वोपयुक्तप्राबल्यं साधनीयम् । न च तदुत्तरत्र दृश्यत इति भावः ।

३ अपिच पूर्वपक्षी अज्ञानेन निर्गुणत्वे श्रुतिं प्रदर्शयतीत्येतावन्मात्रेणाप्रामाणिकत्वं न प्रतिज्ञातव्यमिति तु न रोचत इति' खं. चं.पा. वाके २३२

४ अयं भावः । श्रुतिरप्यनुमात्वेन प्रयुज्यत इत्यस्य श्रुतेरनुमात्वेनैव प्रामाण्यम्, नागमत्वेन' इत्यर्थस्तु सर्वथा न सम्भवति । बहुप्रमाणविरोधात् वैशेषिकमतप्रवेशापत्तेश्च ।

नन्वत एवोक्तं कथायां (वादप्रक्रियायां ) इति । तथाहि तत्र "पृष्टेनागम एवादी वक्तव्य-साध्यसिद्धय इति कथालक्षणे स्वाभिमतसाध्यसिद्धय आगम एवादौ वक्तव्य इत्युक्तम् | 'ब्रह्म जगत्कारणमिति वादिनोक्ते, कुत इति प्रतिवादिना पृष्टे, स्वाभिमतसाध्यसिद्धये वादिना स इदं सर्वमसृजतेतिश्रुतेरित्येव प्रयुज्यते । तथा च परार्थानुमाने 'पर्वतो वन्हिमानि 'ति प्रतिज्ञातार्थे पर्वतवह्निसम्बन्धे, 'धूमादिति पञ्चम्यन्तहेतुवाक्येन यथा धूमस्य लिङ्गत्वेन ( अनुमात्वेन, युक्तित्वेन) समर्पणम्, एवं 'ब्रह्म जगत्कारणमिति प्रतिज्ञातार्थे 'स इदं सर्वमसृजतेतिश्रुतेरि 'तिपञ्चम्यन्तद्धेतुवाक्येन श्रुतेरपि लिङ्गत्वेन (अनुमात्वेन) समर्पणमिति तस्यापि वादप्रक्रियायामस्त्यनुमात्वमित्यर्थ इति चेत् |

अत्र पृच्छामः । किंपृष्टेनागम एवादौ वक्तव्यस्साध्यसिद्धय" इति कथालक्षणे साध्यसिद्धय इति कथनात्, साध्यपदस्य चानुमेयपरत्वात्तत्साधनाय प्रयुक्तस्यागमस्याप्यनुमात्वमित्यभिप्रायः, किंवा 'पञ्चम्यन्तं लिङ्गप्रतिपादकं हेतुरिति वचनात् श्रुतेरितिपञ्चम्यन्तपदप्रयोगेण हेतुवाक्यत्वात् तदर्पितस्यागमस्यानुमात्वमिति । नाद्यः । तत्र साध्यपदस्य प्रतिपाद्यप्रमेयपरत्वेनाभिप्रेतार्थासाधकत्वात् । तदेतत् कथालक्षणभावमाकलयतां स्फुटमेवेति न विशद्यते ।

द्वितीयेऽपि श्रुतेरितिपञ्चम्यन्तपदार्पितत्वादागमस्यानुमात्वम् उत हेतुवाक्यार्पितत्त्वात् । नाद्यः | कुतो (कस्मात्) घटो जायत इत्यत्रोत्तरतयोक्त' दण्डादि' तिपञ्चम्यन्तपदार्पितस्य दण्डस्याप्यनुमात्वापत्तेः । द्वितीये पृच्छामः । कथमवगतं श्रुतेरित्यस्य हेतुवाक्यत्वमिति । पञ्चम्यन्तत्वादिति तु पूर्वोक्तरीत्या व्यभिचारि। लिङ्गार्पकत्वादिति त्वन्योन्याश्रयग्रस्तम् । अस्य हेतुवाक्यत्वे सिद्धे तदर्पितस्यागमस्यानुमात्वम् (लिङ्गत्वम्), आगमस्य चानुमात्वें सिद्धे तदर्पकस्यास्य हेतुवाक्यत्वमिति । धूमस्य च व्याप्यत्वेन लिङ्गत्वं सिद्धमिति तदर्पकस्य धूमादित्यस्य हेतुवाक्यत्वम् । अत एव व्याप्तिबोधनायोदाहरणवाक्यमुच्यते प्रयोक्राऽनुपदम् ।

किञ्च धूमादित्युक्ते कथं धूमस्य साधकत्वं प्रत्यक्षत्वागमत्वयोरभावादिति भावेन पृष्टे प्रत्यक्षत्वागमत्वयोरभावेऽपि व्याप्यत्वेन (लिङ्गत्वेन, अनुमात्वेन ) तस्य साधकतेति ग्राहयितुं व्याप्तिप्रदर्शकमुदाहरणवाक्यं यथा प्रयुज्यते, एवं यद्यागमस्याप्यनुमात्वेन साधकत्वमभिमतं स्यात्तदा कथं श्रुतेस्साधकत्वमिति प्रतिवादिना प्रष्टव्यम्, वादिना च व्याप्तिप्रदर्शकमुदाहरणवाक्यं वक्तव्यम् । परन्तु न तथा पृच्छति प्रतिवादी, न वा तथोत्तरयति वादी । उभयोरप्यागमत्वेनैव श्रुतेस्साधकत्वमित्यस्य सम्मतत्वात् |

किञ्च वादिना स्वाभिमतप्रमेयसिद्धय आगम उक्तः । तदा प्रतिवादिना किं कार्यमिति शङ्कायामुक्तमाचार्यैःअन्यार्थ एवागमस्य वक्तव्यः प्रतिवादिना" इति । तदनेनावगम्यत 'आगमस्यागमत्वेनैव साधकतामभ्युपगम्य वादिप्रतिवादिनोः प्रवृत्तिरिति ।

किंच व्याप्त्या स्वसाध्यसाधकं लिङ्गम्, शक्त्यादिनाऽर्थप्रतिपादक आगमः, तत्र यथा स्वसाध्ये लिङ्गात्मकस्य धूमस्य प्रत्यक्षत्वागमत्वयोरसम्भवः, एवमागमात्मिकायाश्रुतेरपि स्वप्रतिपाद्ये प्रत्यक्षत्वानुमात्वयोरसम्भव एव ।

किञ्च पर्वतो वह्निमानिति प्रतिज्ञातार्थे धूमादितिवाक्येन धूमो लिङ्गत्वेन समर्प्यते, तत्रैवाप्तवाक्यादित्युक्त आप्तवाक्यत्वेनैवाप्तवाक्यं समर्प्यते न लिङ्गत्वेन तत्रैव प्रत्यक्षादित्युक्ते प्रत्यक्षत्वेन प्रत्यक्षं समर्प्यते न लिङ्गत्वेन, एवं ब्रह्म जगत्कारणमिति प्रतिज्ञातार्थे श्रुतेरित्यनेन श्रुतित्वेनैव श्रुतिस्समर्प्यते न सर्वथा लिङ्गत्वेनेति सर्वानुभवसिद्धम् ।

वस्तुतस्तु धूमादित्यनेनापि धूमः प्रमाणत्वेन समर्प्यते न तु लिङ्गत्वेन । प्रतिज्ञातार्थे प्रमाणजिज्ञासया हि कुत' इति पृष्टम् । अतः प्रश्न सामानाधिकरण्याय पञ्चम्यन्तप्रयोगेण धूमादित्यादिनोत्तरं प्रमाणमेवोच्यते । तस्य च प्रामाण्यं लिङ्गत्वेनेति तु तत्तत्पदार्थस्वरूपनिबन्धनम् । न तु वाक्याधीनम् । एवमाप्तवाक्यादिति, प्रत्यक्षादिति श्रुतेरिति वा पञ्चम्यन्तप्रयोगेणाप्तवाक्यादिकं प्रमाणत्वेनैव समर्प्यते न तु लिङ्गत्वेन तस्य च प्रामाण्यमागमत्वेन प्रत्यक्षत्वेनेत्यादि तु तत्तत्पदार्थस्वरूपनिबन्धनम्, न वाक्याधीनमिति ।

किंच कथमत्र श्रुतिर्ब्रह्मणो जगत्कारणत्वे युक्तित्वेन प्रमाणतयोपन्यस्यते ? श्रुतेर्ब्रह्मजगत्कारणत्वव्याप्यत्वाभावात् । ननुयत् श्रुत्युक्तं तत्सत्' इति व्याप्तिरस्तीति चेत् । किं तया प्रकृतानुपयुक्तया । नह्यनया श्रुतेर्ब्रह्मजगत्कारणत्वव्याप्यत्वं सिद्ध्यतीति यत्किञ्चिदेतत् ।

किञ्चास्तु वा ज्ञातताया ज्ञानरूपत्वमिव श्रुतत्वस्यापि श्रुतिरूपत्वम् । तेन स्वप्रतिपाद्यार्थसत्यत्वाङ्गीकार्यत्वादी श्रुतत्वस्य युक्तित्वेन प्रामाण्येऽपि स्वप्रतिपाद्यार्थे तु श्रुतेयुक्तित्वेन प्रामाण्यं नैव सम्भवतीत्यावेदितमेव ।

किञ्च यदाचार्यवचनं श्रुतेर्युक्तिरूपत्वे प्रमाणतयोपन्यस्तं, "पृष्टेनागम एवादौ वक्तव्यः साध्यसिद्धये" । इति, तत्रैव एवकारेण प्रथमं युक्त्युपन्यासो न कर्तव्य इत्यभिधाय उत्तरार्धे तत्र प्रमाणमुच्यते " नैषा तर्केणापनेया मतिरित्याह हि श्रुतिरिति । यद्यत्रागमस्य युक्तित्वेनैव प्रामाण्यं न त्वागमत्वेनेत्यभिमतं स्यात्तर्ह्याचार्याणां स्ववचनव्याघातस्स्यात् । 'स्वयमेव प्रथमं युक्तिर्न वक्तव्येत्युक्त्वाऽऽगमो युक्तित्वेन वक्तव्य इत्याहे 'ति । आगमरूपा युक्तिरेव वक्तव्या न तदतिरिक्ता इतित्वागमस्य युक्तित्वसिद्धयुत्तरकालीनमिति नात्रावकाशमर्हति ।

किंच ब्रह्म जगत्कारणं स इदं सर्वमसृजतेति श्रुतेरिति वादिना प्रयुक्ते युक्तावाग्रहवान् प्रतिवादी वदति, ननु भो जानामि श्रुतिं युक्तिरुच्यतामिति । यद्यत्र श्रुतिशश्रुतित्वेन न प्रमाणतयोपन्यस्ता किन्तु युक्तित्वेन तदा प्रतिवादिवचनस्यासङ्गतत्वापत्तिः । तदुत्तरतया च वादी 'कार्यत्वादि' युक्तित्वेन न ब्रूयात् । युक्तिरेवोक्तेति च ब्रूयात् । न तथा ब्रवीति, ब्रवीति च कार्यत्वादियुक्तम् । तेनावगम्यते वादिना न श्रुतिर्युक्तित्वेन प्रयुक्ता, न वा प्रतिवादिना युक्तित्वेन गृहीतेति ।

किञ्च वादिना श्रुतिर्यद्यनुमात्वेन प्रयुक्ता तर्हि प्रतिवादिनो, धूमाद्वह्निमनुमिनोमीतिवत्, आगमाद्ब्रह्मणो जगत्कारणत्वमनुमिनीमीत्यनुव्यवसायस्स्यादित्याद्यनेकदोषभूषितत्वात् श्रुतित्वेनैव श्रुतेः प्रमाणतयोपन्यासात् सर्वथा युक्तित्वप्रसक्त्यभावाद्युक्तिशब्देन श्रुतिरपि गृह्यत इत्यसम्भवदुक्तिकमित्यलमिति ।

………………………………………………………………………………………………………………………………………………………………

अनुष्याख्वानादिदिशाऽऽगमस्यागमत्वेनैव प्रामाण्यं न तु लिङ्गत्वेनेति प्रतिपादनम्

किञ्चानुव्याख्यानेप्रारम्भाद्याश्च युक्तयः । आगमार्थावसित्यर्था नियत-व्याप्तयोऽखिलाइत्युक्त्वा "वाक्यं प्रकरणं स्थानं समाख्या च तथाविधाइत्यवोचन्भगवत्पादाचार्याः । प्रमाणलक्षणे च "समाख्यावाक्यप्रकरणस्थानानि चोपपत्ति(लिङ्गपा) विशेषाःइति । अत्रोभयत्रापि श्रुतेरग्रहणात् श्रुते श्रुतित्वेनैव निर्णायकत्वं, न तु लिङ्गत्वेनेति सिद्ध्यति । अत एवोक्तं वामनाधिकरणचन्द्रिकायाम् | “अत्र श्रुतिः स्वनिर्णेये श्रुतित्वेनैव निर्णायिका । वाक्यादि तु अनुमानत्वेन | अत एव "वाक्यं प्रकरणं स्थानं समाख्या च तथाविधा" इत्यनुव्याख्यानेसमाख्यावाक्यप्रकरणस्थानानि चोपपत्तिविशेषा" इति प्रमाणलक्षणे च वाक्यादीनामेव लिङ्गतोक्ता । न तु श्रुतेः । लिङ्गस्य त्वनुमानत्वमविप्रतिपन्नमिति न लिङ्गं तत्रोक्तमिति ।

यद्यप्यत्र श्रुतिरिति वाचक शब्द एव विवक्ष्यते । तथापि 'तुल्यन्यायेनागमस्याप्यागमत्वेनैव निर्णायकत्वं न तु लिङ्गत्वेनेति समसैत्सीत् ।

उपक्रमादीनां विप्रतिपन्नार्थे लिङ्गत्वेऽपि स्वार्थे त्वागमत्वमेवेत्यन्यदेतत् ।

न चात्राप्युपक्रमादिरूपा विप्रतिपन्नार्थे लिङ्गरूपा एवागमा युक्तिपदेन प्रतिपाद्यन्त इति वाच्यम् । तदतिरिक्तानां साक्षादगुणत्वप्रतिपादकानामागमानामनिषेधप्रसङ्गकृत्याऽऽस्कन्देत ।

……………………………………………………………………………………………………………………………………………………………….

१ अयं भाव: वाचकशब्दरूपायाश्रुतेश्श्रुतित्वेनैव निर्णायकत्वं न तु लिङ्गत्वेनेति । 'शब्दादेव प्रमित' इति सूत्र ईशानो विष्णुर्वामनशब्दादितिपञ्चम्यन्तपदसमर्पितस्यापि वामनशब्दस्य श्रुतित्वेनैव (चाचकत्वेनैव) निर्णायकत्वं न तु लिङ्गत्वेनेत्यभिहितम् । तत्समानन्यायाद् ब्रह्म जगत्कारणं स इदं सर्वमसृजतेति श्रुतेरिति पञ्चम्यन्तपदसमर्पितस्याप्यागमस्यागमत्वेनैव निर्णायकत्वम् न त्वनुमात्वेनेत्यवधेयमिति ।

२ अयं भावः । तन् न युक्तमित्युक्ते युक्तमित्यस्य युक्त्युपेतमिति व्याख्यानं युक्तिशब्देन युक्तित्वोंपत-

…………………………………………………………………………………………………………………………………………………………….

एतेन" श्रुतिलिङ्गवाक्यानां ज्ञापकत्वम् । उपक्रमोपसंहारयोः श्रुतत्वे तन्निश्चायकतया लिङ्गत्वम्, अन्यत्र चेत्प्रकरणनिश्चायकत्वेनेति वामनाधिकरणीयायां तत्त्वप्रकाशिकायां श्रुतेरप्युप-क्रमोपसंहारयोश्श्रुतत्व उपक्रमादिनिश्चायकतया लिङ्गत्वं स्वीकृतमतो युक्तमुक्तं युक्तिशब्देन श्रुतिरपि गृहीते 'ति निरस्तम् । साक्षाद्विप्रतिपन्नार्थनिष्ठायाश्श्रुतित्वेनैव निर्णायिकाया अनिषेधप्रसङ्गात् । साक्षाद्विप्रतिपन्नार्थनिष्ठत्वे श्रुत्यादित्वेनैव

प्रतिज्ञाध्याहारप्रसङ्गादित्यत्र प्रतिज्ञापदप्रयोगमर्मप्रकाशनपूर्वकं 'न तद्युक्तं श्रुतियुक्तिविरोधादि त्यत्र टीकाया अकलङ्कित्वप्रदर्शनम्

अस्तु वा कथञ्चिद् युक्तिशब्दश्श्रुतियुक्त्युभयपर इति तथापि ततः किमित्यनुयोगे नोपादेयमिति परमसाध्यमध्याहार्यमेव । तदिदं दूषणमुदजीघटनेव टीकाकृत्यादा "प्रतिज्ञाध्याहारप्रसङ्गाच्चे "ति ।

यदत्रोक्तं केनचित् ' "प्रतिज्ञैकदेशे साध्ये प्रतिज्ञाशब्दप्रयोक्तारं श्रीजयतीर्थमुनिमेवास्कन्दते स्वायत्ते शब्दप्रयोगे इति दोष" इति । तन्न । भावानवबोधात् । तथाह्यत्रावहितमनोभिरिदं ध्यायेत । न तद् युक्तं श्रुतियुक्तिविरोधाद्' इति मूलवाक्यमस्ति । अत्रैवं योजना कार्या तैः । यतो न तद्युक्तमतो न तद् विद्यत

……………………………………………………………………………………………………………………………………………………………...

श्रुतिरपि गृह्यते चेदप्येवं साधितं भवति । ब्रह्मणोऽगुणत्वम् अगुणत्वे श्रुत्यन्तरस्य तात्पर्यनिर्णायकोपक्रमादिरूपश्रुत्युपेतं साक्षात्स्वसाधकयुक्त्युपेतं च न भवति, श्रुतियुक्तिविरोधादिति । तथा च साक्षादगुणत्वाप्रतिपादकानाम् उपक्रमादिलिङ्गरूपत्वेन केवलं तात्पर्यनिर्णायकानामागमानां निषेधेऽपि साक्षादगुणत्वप्रतिपादकानां निष्कलं निष्क्रियं केवलो निर्गुणश्चेत्यादीनामागमानामनिषेधप्रसङ्गात् । तथा च सर्वथाऽप्रामाणिकत्वस्याप्यप्रतिज्ञातत्वप्रसङ्गः । तथा चासाधितेनाप्रामाणिकत्वेन कथमनुपादेयत्वसाधनं सम्भवतीत्यालोच्यं चतुरमतिभिरिति ।

'तेन स्वायत्ते शब्दप्रयोगे इति दोषोऽपि नास्मान् स्पृशति । अपि तु प्रतिज्ञैकदेशे साध्ये प्रतिज्ञाशब्दप्रयोक्तारं श्रीजयतीर्थमुनिमेवास्कन्दतेऽयं दोषः । स्वं. चं.पा. वाके- २३१

……………………………………………………………………………………………………………………………………………………………

इति, अथवाऽसमञ्जसमिति, अथवाऽनुपादेयमिति । अत्र यद्यपि तदिति धर्मिवाचकं पदं जागर्ति। अतो न विद्यत इत्यादिसाध्यपदमेवाध्याह्रियेत । तथाप्यध्याहृत-साध्यपदार्थेनान्वयार्थं तदित्यस्यावृत्तिः कार्या । तथा च न केवलं साध्यपदाध्याहारो विधीयेत किन्तु तदित्यावर्त्येतापीति सूचयितुकामाश्श्रीमज्जयतीर्थगुरुसार्वभौमाः प्रायुञ्जत सार्थकं लाक्षणिकं प्रतिज्ञापदमिति नः प्रतिज्ञापदम् । तत्प्रत्तप्रेक्षः प्राज्ञः प्रजानाति, “यदि केवलं साध्यपदाध्याहारोऽविवक्षिष्यत' तर्हि तथैव प्रायोक्ष्यत न प्रायोजि तथा । प्रायुज्यत च प्रतिज्ञापदम् । तेनेदं सिध्यति, यत्कृतेऽपि साध्यपदाध्याहारे यथा प्रतिज्ञारूपता स्यात् तथा तच्छब्दस्यावर्तनेनान्वयो विधीयेतेति" ।

ननु न तच्छब्दस्यावृत्तिः कर्तव्या । तद्यतो न युक्तमतोऽनुपादेयमिति सकृत्प्रयुक्तस्यैवान्वयसम्भवादिति चेत् । न । लिङ्गपक्षसम्बन्धबोधनाय प्रयुक्तस्तच्छब्दस्साध्यपक्षसम्बन्धबोधनाय पुनरावर्तनीय एव । भिन्नदेशयोरपि व्याप्यव्यापकभावस्य लिङ्गलिङ्गिभावस्य चाङ्गीकारिणां मते प्रकृते समानदेशत्वान्तर्भावेन व्याप्यव्यापकभावो लिङ्गलिङ्गिभावश्च विवक्षागोचर इति प्रदर्शनार्थं सुतरामावर्तनमनिवर्तनम् । तथा च युक्तमित्यस्य युक्त्युपेतमिति व्याख्याने टीकाप्रदर्शितक्लेशानां

…………………………………………………………………………………………………………………………………………………………….

वच-परिभाषणे इत्यस्मात् सन्नन्तात् कर्मणि लृङ् ।

अत्र केचिट्टीकानुयायिनः यतो न तद्युक्तमतोऽनुपादेयमिति योजना ह्यत्र विवक्षणीया । तथात्वे तु, प्रतिज्ञायां-"न तद्युक्तमिति" प्रतिज्ञात्वेन सम्मतायाम्, तदनुपादेयमिति प्रतिज्ञान्तरविवक्षया हेतुरूपत्वसम्पादनार्थं यत इति अध्याहारप्रसङ्गाच्च इत्यर्थे तु मुख्यार्थस्यैव प्रतिज्ञाशब्दस्य स्वीकार्यत्वादिति, अथवा प्रतिज्ञायामध्याहारः प्रतिज्ञाध्याहारः । प्रतिज्ञायां-प्रतिज्ञात्वेन कल्पनीयायां धर्मिवाचकशब्दो जागर्ति । साध्यपदस्याध्याहारः कर्तव्य इति लभ्यते । तेन न लक्षणेति च वदन्ति ।

क्लेशस्यात्मधर्मत्वेऽप्यर्थधर्मत्वेन व्यवहारस्तु आत्मधर्मभूताया आकाङ्क्षायाः पदमाकाङ्क्षत इति पदधर्मत्वव्यवहारवदवगन्तब्य: ।

.............................................................................................................................................................

सर्वथाऽपरिहारात्परिहारभ्रान्त्या 'प्राचीनानां विमर्शपरा टीका पूर्वाग्रहपूरितेति कथनं टीकाभावानवबोधनिबन्धनमित्यवधेयं सूरिभिरित्यलम् ॥

॥ इति युक्त्युपेतविमर्शः ॥

………………………………………………………………………………………………………………………………………………………..

१ तस्मादिदमसदिति वचनस्य पूर्वाग्रहादन्यत् कारणं नोत्पश्यामः । स्वं. चं. ७३