वेदवाक्यस्य तु वाचनिकार्थं विना नैवान्यो युज्यते

अथ मुख्यवृत्तिविमर्शः

वेदवाक्यस्य तु वाचनिकार्थं विना नैवान्यो युज्यते
कर्मनिर्णय: : न चैवमादिवाक्यानां स्वार्थे प्रामाण्याभावः । सिद्धार्थे प्रामाण्यस्य साधितत्वात् । अविरोधाच्च । न च बह्वर्थेषु तात्पर्यकल्पने कल्पनागौरवम् । वचनेनैव प्रतीयमानत्वादर्थस्य कल्पनाभावात् । न च वाचनिकार्थस्तात्पर्यार्थ इति विशेषः । तन्मानाभावात् ॥
कर्मनिर्णयटीका-एवमर्थवादानामपि स्वार्थे प्रामाण्यमङ्गीकृत्यैतानि वाक्यानि व्याख्यातानि । ये पुनर्मीमांसकावायुर्वै क्षेपिष्ठा देवते" त्यादीन्यर्थवाद-वाक्यान्युदाहृत्य नैतानि स्वार्थे प्रामाण्यमनुवते किन्तु नियोगापरपर्यायकार्य एव इति निर्णीतवन्तः, तन्मतं दूषयति-न चेति । तथाहि किं सिद्धेऽर्थे वाक्यस्य प्रामाण्याभावादर्थवादानां च स्वार्थास्सिद्धा एवेति तेषां तत्र प्रामाण्याभावः कल्प्यते? किं वा " नेच्छन्दसां कृच्छ्रादवपद्यै" इति व्यतिषक्तशंसनस्य पापहेतुत्वमुच्यते ।अथ यः पाप्मानमपजिघांसुः स्यादि "ति पापनिवृत्तिहेतुत्वमुच्यते । एवमन्यत्रापीति परस्परं प्रमाणान्तरेण च विरोधात् ? अथवा पराङ्गभूतत्वादेषां शंसनादिकर्तव्यतायां तात्पर्यं तावदवश्यमङ्गीकार्यम् । स्वार्थेऽपि तात्पर्याङ्गीकारे कल्पनागौरवप्रसङ्गात्? उताऽम्नायस्य पुरुषप्रयोजनार्थं प्रवृत्तस्य क्रियायामेवानुष्ठानयोग्यायां बोधितायां प्रयोजनं भवति न सिद्धेऽर्थ इति क्रियार्थत्वादर्थवादानां चातदर्थानामानर्थक्य-प्रसङ्गात् ? यद्वा क्रियायामेव प्रतिपादितायां वाक्यस्य पर्यवसानात्तद्रहितानामाकाङ्क्षितापूर्त्या वाक्याभासत्वापातात् ? अथवा वायुक्षेपिष्ठत्वादीनां प्रमाणान्तरप्राप्तत्वेनानधिगतार्थत्वाभावात् ? आद्यं दूषयति सिद्धार्थ इति । द्वितीयमपाकरोति-अविरोधाच्चेति । "नेच्छन्दसामि " त्यादौ यथा न विरोधस्तथोक्तम् । एवमन्यत्रापि विरोधाभावो द्रष्टव्यः । तृतीयं प्रतिषेधति न चेति । बह्वर्थेष्वित्यनेकत्वोपलक्षणम् ।
कुतो नेत्यत आह-वचनेनैवेति । कल्पनायां हि गौरवम् । न चानेकार्थत्वं कल्प्यते । किन्तु प्रमितमेव । शंसनादिकर्तव्यतार्थत्वं तावत्परेणाङ्गीकृतम् | स्वार्थश्च वचनेनैव प्रतीयते । न ह्यस्य शब्दस्यायमेवार्थ इत्यत्र प्रतीतिमपहाय प्रमाणान्तरमस्ति । शब्दानुशासनादीनां च सैव मूलम् । अत एवाहुःप्रयोगमूलं हि व्याकरणमिति । तदेवं स्वार्थस्य वचनेनैव शब्दशक्त्यैव प्रतीयमानत्वेन कल्पनाभावान्न कल्पनागौरवम् । अत्र सर्वत्र वचनशब्देन शब्दशक्तिमात्रमुच्यते । न तु मुख्या शक्तिरित्यवधेयम् ।

नन्वसङ्गतमेतत् । न हि वयमर्थवादानां स्वार्थी वाचनिको न भवतीति ब्रूमः । किन्त्वनेकत्र तात्पर्यकल्पने कल्पनागौरवप्रसङ्गात्तात्पर्यार्थो न भवतीति । तत्र वचनेनैव प्रतीयमानत्वोक्तेः कोऽवसरः? इत्यत आह-न चेति । स्यादेवम् । यदि शब्दशक्तिविषयादन्यस्तात्पर्यार्थो नाम स्यात् । न चैवम् । किन्तु तत्परमुद्देश्यं शब्दशक्तिगोचरो यस्य तत् तत्परं तस्य भावस्तात्पर्यं तस्य विषयस्तात्पर्यार्थ इति शब्दशक्तिगोचर एवोच्यते । कुत इत्यत आह-तदिति । द्विविधा हि शब्दशक्तिः, मुख्यामुख्यभेदात् । मुख्या द्विविधा, योगरूढिभेदात् । तथाऽमुख्यापि लक्षणा गौणीति । एतद्विषयो वाचनिक इत्युच्यते । एतद्व्यतिरिक्तायां तात्पर्यवृत्तौ तद्विषये च मानाभावात् । अन्विताभिधानाङ्गीकारेण वाक्यार्थप्रतीतेरलिङ्गत्वात् । अभिहितान्वयवादिभिरपि वाक्यार्थस्य लाक्षणिकत्वाङ्गीकारादिति ॥

कर्मनिर्णयः :-यत्र वाचनिकार्थादन्यस्तात्पर्यार्थः प्रतीयते लौकिकवाक्येषु न तत्र साक्षाद्वचनं बोधकम् । वचनलिङ्गानुमा हि सा । विरोधादमुख्यवृत्तिर्वा । आप्तत्वनिश्चये । आप्तत्वानिश्चये प्रामाण्यमेव न भवति ।

कर्मनिर्णयटीका :-ननु विषं भुङ्ख, गङ्गायां घोष:, अग्निर्माणवक इत्यादेः प्रयोगान्निषिद्धान्न भोजनवर्जनादिरूपो वाचनिकार्थादन्यस्तात्पर्यार्थः प्रतीयते । किञ्च श्वेतो धावतीत्यादिवाक्यादनेकवाचनिकार्थप्रतीतावपि तात्पर्यार्थ एक एवाङ्गीक्रियते । तत्कथं वाचनिकार्थातिरिक्ततात्पर्यार्थे मानाभाव इत्यत आह-यत्रेति । यत्रोदाहृतेषु लौकिकवाक्येषु वाचनिकार्थादन्यस्तात्पर्यार्थः प्रतीयत इति मन्यसे तत्र तस्यार्थस्य वचनं साक्षाच्छब्दप्रमाणतया बोधकं न भवति । किं तर्हि ? न त्वकरणिका प्रतीतिरुत्पद्यत इत्यत आह-वचनेति । सा निषिद्धभोजनवर्जनादिविषया प्रतीतिर्वचनलिङ्गकानुमा अतो नाकरणिकेति । किमुक्तेषु सर्वेषूदाहरणेष्वेवमेव? नेत्याह-विरोधादिति | मुख्यार्थाङ्गीकारे प्रमाणविरोधात्तत्र लक्षणा गौणी वाऽमुख्या वृत्तिराश्रीयते । विरोधादिति पूर्वत्रापि सम्बध्यते । किमनुमितौ विरुद्धवचनमात्रं लिङ्गम् तथा मुख्यार्थविरोधमात्रं किममुख्यवृत्त्याश्रयणे कारणमित्यत आह-आप्तत्वेति । उभयमपि वक्तुराप्तत्वनिश्चये सति भवति । नोक्तकारणमात्रात् । किमाप्तत्वनिश्चयेनेत्यत आह-आप्तत्वानिश्चय इति । विरुद्धवचनमात्रस्य व्यभिचारित्वेन लिङ्गत्वं न भवति । तथा (च) विरोधमात्रस्य भ्रान्त्यादिमूलत्वसम्भवेन तस्य वाक्यस्यामुख्यार्थप्रत्यायकत्वं न भवति । अत आप्तत्वनिश्चयोऽप्युपसङ्ख्येय इति ।

एतदुक्तं भवति । प्रथमोदाहरणे तावद्या निषिद्धभोजनवर्जनप्रतीतिरुपजायते सा शब्दजैव न भवति । कुतस्तत्र तात्पर्यवृत्तिकल्पना । किन्त्वयमिदानीं महां क्रुद्धो वर्तते आप्तत्वे सति प्रमाणविरुद्धकर्तव्यतावादित्वात् । क्रोधश्चास्य सन्निहितान्निषिद्धभोजनादेव जातः । दृष्टकारणपरित्यागेनादृष्टकल्पनायोगात् । अतो मयेदं न कार्यमित्यस्याभिप्राय इति विशिष्टवचनलिङ्गेन वक्तुराशयोऽनुमीयत एव ।

एवं चतुर्थोदाहरणेऽप्येकार्थनियमनं न वचनसामर्थ्यजम् । तत्र कुतस्तात्पर्यवृत्ति-शब्दस्य कल्प्येत । किन्तु शब्दादर्थद्वयप्रतीतौ वक्तुराप्तत्वे सत्येकस्मिन्नर्थे प्रमाणविरोधं च प्रतीत्य नायमस्य विवक्षित इत्यनुमाय परिशेषाद् द्वितीयोऽङ्गीक्रियते । द्वितीयोदाहरणे लक्षणाख्यवचनवृत्तिरेव । मुख्यार्थबाधादितद्बीजदर्शनात् । तृतीयोदाहरणे च गौणी वचनवृत्तिः । वाच्यार्थविरुद्धत्वादितन्निमित्तसद्भावात् । तदेवं यत्र शाब्दी प्रतीतिस्तत्रास्मदभिमतवृत्तिष्वन्यतमां व्युत्पादयामः । यत्र तदव्युत्पादनं तत्र शाब्दत्वं निराकुर्म इति न तात्पर्यवृत्तिरन्या सिद्ध्यतीति ॥

कर्मनिर्णय:- वेदवाक्यस्य तु वाचनिकार्थं विना नैवान्यो युज्यते ॥

कर्मनिर्णयटीका :- नन्वस्य न्यायस्य वेदेऽपि तुल्यत्वात्लौकिकवाक्येष्विति किमर्थम् ? इत्यत आह-वेदेति । वाचनिकार्थं मुख्यामुख्यवृत्तिलभ्यार्थम् । अन्यः प्रकारः पुरुषाशयानुमानरूपः । अयमभिप्रायः । वेदोऽपौरुषेय इत्यस्माकं परेषां च यद्यपि सम्मतम् । तथापीश्वरवाक्यत्वं समस्तस्यापि वेदस्य वयमङ्गीकुर्मः । न परे। अतोऽस्मन्मते पुरुषाशयानुमानसम्भवेऽपि परमते तु स प्रकारो नैव युज्यते । अतः परमतानुवादपरेयत्र वाचनिकार्थादिति वाक्ये लौकिकवाक्येष्वित्युक्तमिति ।

वेदेऽमुख्यवृत्तिरेव नास्तीति व्याख्यानं तु न बुध्यामहे । तथाहि किं वैदिकानि गौणलक्षणाभिधाशक्तिमन्त्येव न भवन्तीत्यभिप्रायः? उत गौणस्य लाक्षणिकस्य वाऽर्थस्य वेदवाक्यार्थान्वयो नास्तीति ? द्ये लौकिकानां वैदिकानां च शब्दानां भेदाभावाद्वृत्तिभेदकथा वृथा स्यात् । न द्वितीयः ।हृद्यपेक्षया तु मनुष्याधिकारत्वादिति लक्षणायाः, "तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवदिति गौण्याश्च वृत्तेःअङ्गुष्ठमात्रः पुरुषः”, “तत्त्वमसीत्यादौ सूत्रकृताऽङ्गीकृतत्वात् |

तथैव भगवत्पादैर्व्याख्यातत्वात् । " तदन्तस्थत्वापेक्षत्वान्न सुषिरश्रुतिविरोधःइत्यादिभाष्यविरोधाच्च । कथं चस्वातन्त्र्ये च विशिष्टत्वे स्थानमत्यैक्ययोरपि । सादृश्ये चैक्यवाक्सम्यक्सावकाशा यथेष्टत" इत्यादिकं व्याख्येयम् । न चैतत्सर्वं परमतरीत्योक्तमिति वाच्यम्। ज्ञापकाभावात् । अस्य तु वाक्यस्यान्यथा व्याख्यातत्वात्। किञ्च शास्त्रे सहस्रशो वाक्यानि गौणीं लक्षणां च वृत्तिमाश्रित्य प्रवृत्तानि । इदन्त्वेकम् | ततःत्यजेदेकं कुलस्यार्थेइति (ए) तदेवान्यथयितव्यम् | किञ्चअस्माकं परमुख्यार्थ" इति स्वमतत्वेन "गौणाद्यं तदयोगत" इत्याद्यभिहितम्। नचैतत् पुराणादिविषयम् ।अजामेकामिति श्रुतिविचारे पुराणादेरप्रसङ्गात् । " अतो भेदवदेवैताः श्रुतयः प्रवदन्ति हि । पौराणानि च वाक्यानि सादृश्याभेदसंश्रयादि" त्यादौ व्यक्तमेव वचनाच्च । अस्तु तर्हीींश्वरे गौण्याद्यभावपरमेतदिति चेत् । न । अङ्गुष्ठमात्रश्रुतेः सुषिरश्रुतेश्वेश्वर एव लाक्षणिकत्वस्योक्तत्वात् । " प्राज्ञवदि" ति "सर्वं खल्विदं ब्रह्मेति श्रुतेर्गौणत्वेन स्वीकृतत्वादित्यलम् । ननु तात्पर्यवृत्तेरभावे कथं कर्मकाण्डस्य ब्रह्मणि समन्वयः । न हि तत्रोक्तवृत्तिसम्भव इति चेत् । न ।ज्योतिरुपक्रमादि"ति पदसमन्वयस्योक्तत्वात् । वाक्यान्वयपक्षेऽप्यन्विताभिधानस्योक्तत्वेन समाधानादिति संक्षेपः ॥

कर्मविजयः-

नच वाचनिकार्थस्तात्पर्यार्थ इति विशेष इति आचार्यवाक्यस्य वाचनिकपदघटकवचनपदस्य टीकादभिप्रेतार्थवर्णनपूर्वकं खं. चं. काराभिप्रेतार्थस्य दूषणोपक्रमः

अर्थवादानां प्राशस्त्यमात्रे तात्पर्यं न स्वार्थ इति पूर्वपक्षे सति स्वार्थेऽपि तात्पर्यं वरीवर्तीति विवरीतुं प्रावर्तिष्ट "न चैवमादिवाक्यानामि"त्यादि वाक्यजातम् । तत्रन च वाचनिकार्थस्तात्पर्यार्थ इति विशेषःतन्मानाभावादि" त्यत्र वाचनिकशब्दघटकवचनपदेन शब्दशक्तिमात्रमुच्यते न मुख्या शक्तिरिति टीकाकृत्पादा अभिप्रयन्ति । कैश्चित्तु वचनशब्देन ' मुख्यवृत्तिरेवाग्राहि । न तन्मनोग्राहि । गङ्गायां मीन इत्यत्र गङ्गाशब्दस्य शक्यार्थे प्रवाहे यथा तात्पर्यं स्वीक्रियते तथैव गङ्गायां घोष इत्यत्र गङ्गाशब्दस्य लक्ष्यार्थे तीरे, पतिव्रतायां प्रयुक्तस्य गङ्गाशब्दस्य गौणार्थे पावित्र्येण गङ्गासदृश्यां स्त्रियि च तात्पर्यं स्वीक्रियते । तथा च तात्पर्यार्थो न केवलं शक्यार्थः, किन्तु लक्ष्यार्थो गौणार्थोऽपीति

………………………………………………………………………………………………………………………………………………………………

इदं चात्रादाववश्यमवधेयम् । नच वाचनिकार्थस्तात्पर्यार्थ इति विशेष इत्यारभ्य वेदवाक्यस्य तु.... इतिपर्यन्तमेकमपि वाक्यं सावतरणं सुसङ्गतं वा न व्याख्यायि तैः । न बैकस्यापि पदस्यार्थः, तत्कृत्यं वा स्पष्टं निरूपितम् । न वा तेषां वाक्यानामर्थ स्पष्टं निरूपितः । अत एव नास्माभिर्विमर्शविस्तरः कृतः । अथापि बहुधा तद्वाक्यावलोकने सति प्रतीतस्सम्भावितोऽर्थः शिष्यमनोमालिन्यनिरासार्थं किञ्चिदिवात्र निराक्रियत इति ।

पदे हि तात्पर्यरूपमर्थप्रतिपादकत्वं यदस्ति सा वृत्तिरित्युच्यते । प्रतिपादकत्वं नाम प्रतिपत्तिजनकत्वम्(न्या.दीपे) प्रतिपत्तिजननशक्तिरिति यावत् । सा वृत्तिरूपा शक्तिस्त्रिविधा | अभिधा गौणी लक्षणा चेति । तत्राद्या मुख्या द्वितीयतृतीये त्वमुख्ये । अभिधा पुनस्त्रिविधा | योगो रूढिः योगरूढिश्चेति । तथा च वृत्तिरूपशक्ति योगो रूढिः (योगरूढि) गौणी लक्षणेति चतुर्विधा पञ्चविधा वा । तादृशवृत्तिरूपा मुख्यामुख्यसाधारणी प्रतिपत्तिजननशक्तिरेवात्र वचनशब्देन मूले विवक्षितेति शब्दशक्तिपदेन टीकाकृद्भिरुक्तम् । खं.चं.कारैस्तु वचनशब्देन मुख्यवृत्तिरूपा शक्तिरेव स्वीकृता न तु मुख्या मुख्यसाधारणी प्रतिपादकत्वशक्तिरिति विवेक: ।

पाश्चात्ये वाके-२३५ ' खण्डार्थचन्द्रिकायान्त्वान्तं वाचनिकमिति मुख्यार्थमाहेति व्याचख्यौ मम गुरु'रिति कथनाद् तदीयव्याख्यानदर्शनेनापि तथाऽवगमादयं दोष उदभावि ।

……………………………………………………………………………………………………………………………………………………………….

समपद्यत । सत्येवं "न वाचनिकार्थस्तात्पर्यार्थ इति विशेष" इति वाक्यस्थवाचनिकपदप्रकृतिभूतवचनपदं केवलं शक्तिवृत्तिपरमिति कथं व्याख्यायते ।

बहूनां वाचनिकार्थानां तात्पर्यार्थेन निगमनमिति खं. चं. मतमनूद्यअप्रसक्तशङ्कासमाधनरूपत्वं तस्य दर्शयितुं प्रकृतपूर्वपक्षिमतमुक्त्वा तर्केण तद्दूषणम्

नन्वत एव तैर्व्याख्यायि २" तात्पर्यार्थ एव हि वाचनिकोऽर्थः । यत्र बहवो वाचनिकार्थास्तत्र तात्पर्यार्थेनैव वाचनिकार्थो हि निगम्यत इति" इति चेत् । नेदं सङ्गच्छते । बहुषु वाचनिकार्थेषु कोऽर्थो ग्राह्य इति पूर्वं प्रश्नस्य प्रसक्तत्वे तदीयं व्याख्यानं सङ्गच्छेत । न प्रासन्जि तथा प्रश्नः प्राक् । प्राशस्त्यं यदि वाचनिकार्थ इति मीमांसका अङ्ग्यकरिष्यन् तर्हि प्राशस्त्यमपि वाचनिकार्थः पापपरिहारकत्वादिलक्षणस्वार्थोऽपि वाचनिकार्थ इति तयोर्मध्ये को ग्राह्य इति प्रश्न उदभविष्यत् दा यस्तात्पर्यार्थस्स एव वाचनिकार्थो गृह्येतेति निगमनं समगंस्यत । न च मीमांसकाः प्राशस्त्यं वाचनिकं मन्यन्ते किन्तु लक्ष्यमेव ।

बहूनां वाचनिकार्थानामेकस्यैव तात्पर्यार्थेन निगमनमिति खं. चं. व्याख्याने शक्यार्थलक्ष्यार्थयोरुभयोरपि तात्पर्यार्थत्वप्रतिपादकमूलविरोधोद्भावनम्

किञ्च न केवलं तदीयं व्याख्यानं न सङ्गच्छते किन्तु विरुणद्धि च मूलम् ।

……………………………………………………………………………………………………………………………………………………………….

नच वाचनिकार्थस्तात्पर्यार्थ इति विशेष इति मूलस्य मिथो वाचनिकार्थत्वतात्पर्यार्थत्वयोस्समनियता व्याप्तिरिति न लेशतोऽपि तयोः परस्परं भेदोऽभिप्रेत इति टीकाकृतः । अत एव वैश्शक्यलक्ष्यगौणार्थानां तात्पर्यार्थानां प्रतिपादकत्वरूपशक्तिप्रतिपाद्याधैर्वाचनिकार्थेस्सममभेद इत्यर्थपरतया वाक्यमिदं व्याख्यातम् | यदि मुख्यवृत्तिप्रतिपाद्यमात्रं वाचनिकार्थस्तर्हि लक्ष्यार्थगोणार्थयोरसङ्ग्रहात् तात्पर्यार्थत्वेन प्रसिद्धयोरनयोर्वाचनिकार्थेन सममभेदाभावात् 'न.....विशेष ' इति कथं वाचनिकार्थतात्पयांर्थयोर्मिथोऽभेदी मूलाभिप्रेतस्सङ्गच्छत इति भावः ।

तात्पर्यार्थ एव हि वाचनिकोऽर्थः । यत्र बहवो वाचनिकार्थास्तत्र तात्पर्यार्थेनैव वाचनिका हि निगम्यत इति । खं. चं. १७८

……………………………………………………………………………………………………………………………………………………………….

तथाहि - "कल्पनागौरवं नास्ति । प्राशस्त्ये लक्षणया प्रमिते यथा तात्पर्यं प्रमीयते तथा शक्तिवृत्या प्रतीयमाने स्वार्थे तात्पर्यं प्रमीयत एवेति न किञ्चित्कल्प्यत इति कुतः कल्पनागौरवमितिकथनार्थं प्रावर्तिषत कर्मनिर्णयकाराः । यद्यनेकेषु वाचनिकार्थेषु (शब्दार्थेषु) एक एवार्थो ग्राह्य इति निगमनप्रतिपादकतया प्रकृते व्याख्यानं क्रियेत तदा कथं न विरोधः'

स्वोक्तार्थे एव सकृदुच्चरितः... इति न्यायस्य प्रवृत्तिं, तस्य शास्त्रविषयत्वाभावं चाभिप्रयत: खं.चं.कारस्य व्याख्यानं प्रकृते शास्त्रप्रस्तावादसङ्गतमिति दूषणम्

नन्वत एव "अत एवाऽभाणकः प्रवृत्तःसकृदुच्चरितः शब्दः सकृदेवार्थं गमयतीति । सकृदुच्चरितोऽनेकार्थः शब्दो यत्र वक्तुस्तात्पर्यं तमेकमेवार्थं गमयतीति व्याख्यायायं न्यायः लोकव्यवहारविषयः । न काव्यविषयः । नापि शास्त्रविषयइत्यभिप्रायोऽकथ्यत तैः । तथा च प्रकृते शास्त्रीयव्यवहारे वाचनिके स्वार्थे प्राशस्त्ये च तात्पर्यस्वीकारेऽपि न विरोध इति चेत् । न । एवं सति तदुक्तोऽर्थो न प्रकृतसङ्गतः । नेदानीं लौकिको व्यवहारः प्रास्तावि । नापि बहवो वाचनिकार्थाः (तदाशयानुसारेण मुख्यवृत्तिलभ्यार्थाः) प्रास्तूयन्त । स्वार्थस्य वाच्यत्वात् प्राशस्त्यस्य लक्ष्यत्वात् । तथा च स्वयमसङ्गतं व्याख्याय महदकौशलमापादितं भगवत्पादेषु ।

………………………………………………………………………………………………………………………………………………………………….

एक एव हि तात्पर्यार्थ इति मीमांसकैरुक्तस्य निराकृत्यै, वचनेनैव प्रतीयमानानां बहूनामपि तात्पर्यार्थतेति वक्तुं प्रवृत्तस्याचार्यवाक्यस्य, एक एव तात्पर्यार्थ इति व्याख्याने कथं मूलविरोधी न स्यादिति भावः ।

अत एवाऽभाणकः प्रवृत्तः "सकृदुचरितः शब्दः सकृदेवार्थं गमयतीति । सकृदुच्चरितोऽनेकार्थः शब्दो यत्र वक्तुस्तात्पर्यं तमेकमेवार्थं गमयति.... एतेन ज्ञायते सकृदुचरितः शब्दः सकृदेवार्थं गमयतीत्ययं न्यायः लोकव्यवहारविषयः । न काव्यविषयः । नापि शास्त्रविषयः । खं.चं. १७८

…………………………………………………………………………………………………………………………………………………………………

उक्तखं.चं.व्याख्यानस्य यथाश्रुतमूलपदाननुगुणताप्रदर्शनम्

न केवलमसङ्गतमयुक्तं च तदीयं व्याख्यानं पदाननुगुणत्वात् ।बहुषु वाचनिकार्थेषु तात्पर्यार्थो ग्राह्य" इति वाचोयुक्तिर्यद्यभविष्यत्तर्हि तदीयं व्याख्यानमनुगुणभावमभजिष्यत् । नास्ति तथा । बहुषु वाचनिकार्थेषु तात्पर्यार्थभूतो वाचनिकार्थ एव ग्राह्य इति व्याख्यानं तैः कृतम् । तेन वाचनिकार्था बहवस्तात्पर्यार्थ एक इति सामान्यविशेषभावोऽलाभि । सति सामान्यविशेषभावरूपे विशेषे, न विशेष इति कथं युज्यते ।

ननु वृक्षः शिंशुपेति प्रयुज्यत इति चेत् । को नेत्याह । प्रयुज्यतामत्रापि वाचनिकार्थस्तात्पर्यार्थ इति । न तु " इति न विशेष" इति । न प्रयुञ्जते हि 'वृक्षः शिंशुपेति न विशेष' इति ।

श्रीमट्टीकाकृत्पादीयव्याख्यानस्य स्फुटाबाधितसङ्गतिमत्त्वप्रदर्शनम्

श्रीमट्टीकाकृत्पादीयव्याख्याने तु सङ्गतिस्स्फुटाऽबाधिता च ।

तथाहि-प्राशस्त्ये स्वार्थे च तात्पर्यकल्पने कल्पनागौरवं पूर्वपक्षी उदबीभवत्। वचनेनैव प्रतीयमानत्वादर्थस्य कल्पना नावकाशमासादयतीति श्रीमदाचार्या न्यरूरुपन् । पुनस्सोऽशङ्किष्ट प्रतीयतां वचनेन स्वार्थः कुतस्तत्र तात्पर्यमहं स्वीकुर्यामिति। तदा समादधुर्भगवत्पादाचार्याःन च वाचनिकार्थ-स्तात्पर्यार्थ इति विशेषइति । योऽर्थो वचनात् प्रतीयते शक्त्या लक्षणया गौण्या वा स एव तात्पर्यार्थो भवति । वृत्तित्रयान्यतमसहकृतवचनप्रतिपाद्यादन्यस्तात्पर्यार्थ इत्यत्र नास्ति मानमित्यगादिषुः "तन्मानाभावादि" ति ।

लक्ष्यार्थगौणार्थयोरनुमेयत्वं, न तु शाब्दत्वमित्यभिप्रायस्य तयोश्शाब्दत्वप्रत्यायकानुव्याख्यानविरोधप्रदर्शनम्

लक्ष्यस्य गौणस्य चानुमेयत्वमेवाभ्युपगम्यते' न शाब्दत्वमिति चेत्, तर्हि व्यङ्ग्यस्यानुमेयत्वाङ्गीकारेण यथा व्यञ्जनावृत्तिः पृथङ् न परिगण्यते तथा लक्ष्यगौणयोरप्यनुमेयत्वे. लक्षणावृत्तिगौणीवृत्ती अपि न परिगण्येयाताम् । परिगण्येते च ते ततो न तयोरनुमेयत्वमिति ।

ननु कुत्र परिगण्येते ते इति चेत्, श्रूयताम्उपलक्षणा च गौणी च तिस्रः शब्दस्य वृत्तयइत्यनुव्याख्याने, तस्माद्विष्णौ परममुख्यवृत्तिरेव शब्दस्यार्थान्तरे तु मुख्यमात्रवृत्ति:, लक्षणावृत्तिः, गौणीवृत्तिरिति तिस्रो वृत्तयो भवन्ती " ति सन्यायरत्नावल्यामपीति ।

लक्ष्यार्थगौणार्थयोरानुमानिकत्वमाचार्यैरेव प्रतिपादितमिति पूर्वपक्षिणो मतमुपन्यस्य यथाटीकमेव आचार्याशयस्य सुसङ्गतत्वप्रतिपादनम्

ननुयत्र वाचनिकार्थादन्यस्तात्पर्यार्थः प्रतीयते लौकिकवाक्येषु न तत्र साक्षाद्वचनं बोधकम् । वचनलिङ्गानुमा हि सा । विरोधादमुख्यवृत्तिर्वा" इति श्रीमदाचार्या एव लक्ष्यार्थगौणार्थयोरानुमानिकत्वं प्रत्यपीपदन् । अस्माभिस्तस्य समर्थने को दोष इति चेत् । न । अयमाशयश्श्रीमदाचार्याणाम् । सर्वथा तात्पर्यवृत्तिरिति पृथङ्नास्ति । यत्र विषं भुङ्खेत्यादौ निषिद्धभोजनवर्जनप्रतीतिरुपजायते तत्र सा शब्दजैव न किन्त्वानुमानिकीति कुतस्तत्र तात्पर्यवृत्तिकल्पना । गङ्गायां

…………………………………………………………………………………………………………………………………………………………………

यद्यप्यत्र तद्वाक्यावलोकन एवमर्थस्तदभिप्रेत इति तु न स्फुटं प्रतीयते । अथापि कस्याप्यर्थस्यात्र स्पष्टमकथनादू, एवमर्थो यद्यभ्युपगम्यते तवायं दोषः कथित इति बोध्यम् । अत एव अभ्युगम्यते चेदित्युक्तम् । एतेन अनुक्तोपालम्भोऽयमिति शङ्का परास्ता ।

………………………………………………………………………………………………………………………………………………………………...

घोषः, अग्निर्माणवक इत्यत्र गङ्गातीरप्रतीतिरग्निसदृशप्रतीतिश्च लक्षणावृत्त्या गौणीवृत्त्या च सम्भवत इति तत्रापि न तात्पर्यवृत्तिः कल्पनीयेति ।

लक्ष्यार्थगौणार्थयोः शाब्दत्व एव 'विरोधादमुख्यवृत्तिर्वा ' इतिमूलस्थ 'वा' शब्दस्य विवक्षितार्थे सङ्गतिसम्भवप्रदर्शनम्

एवंव्याख्यान एवविरोधादमुख्यवृत्तिर्वे" ति व्यवस्थितविकल्पबोधक-वाशब्दघटितवाक्यं सङ्गच्छते । न तु लक्षणागौणीस्थलयोरप्यानुमानिकत्वपरतया व्याख्याने । ननु कथं तर्हि, “आप्तत्वनिश्चये । आप्तत्वानिश्चये प्रामाण्यमेव न भवतीति वाक्यशेषेणानुमानिकत्वं प्रागुक्तसर्वस्थलेषु प्रतीयत इति चेत् । न । यत्र वक्तुराप्तत्वं निश्चितं तत्रैवानुमानं वा कार्यममुख्यवृत्तिर्वा स्वीकार्या । आप्तत्वानिश्चये त्वप्रामाण्यमेव तस्य वाक्यस्याङ्गीक्रियेत । न त्वनुमानममुख्यवृत्तिर्वेत्येव वाक्यशेषस्य तात्पर्यं न तु सर्वत्रानुमानिकत्वस्वीकारे । तथा सति विरोधादमुख्यवृत्तिर्वेत्यस्य वैयर्थ्यमलङ्कारस्स्यात् । गङ्गायां घोष इत्यादावमुख्यवृत्तिस्स्वीकार्येत्यत्राप्तत्वं लिङ्गतयोपयुज्यताम् | तीराद्यर्थप्रतीतिस्तु वृत्तिसहकृतशब्दजैव ।

खं.चं.पक्षेपि 'विरोधादमुख्यवृत्तिर्वा इत्यत्र वाशब्दस्य आशयान्तरेण वैयर्थ्याभावमाशङ्क्य तदाशयान्तरस्य विकल्पपूर्वकं दूषणम्

ननु न तत्पक्षेऽपि वाशब्दस्य वैयर्थ्यम् । २" यत्र सपदि बोधः तत्र नानुमा । किन्तु रूढलक्षणा वा गौणी वा वृत्तिरिष्यत इति" वाशब्दो व्यापारयाञ्चक्र इति चेत् । न । तत्र तावद् गौणीत्यरूढगौणी विवक्षितोत रूढगौणी।नाद्यः ।

…………………………………………………………………………………………………………………………………………………………………

विषं भुङ्खेत्यादावनुमानमेव । गङ्गायां घोष इत्यादावमुख्यवृत्तिरेव ।परमुभयत्राप्याप्तत्वनिश्चयः कारणमिति भावः ।

यत्र सपदि बोधः तत्र नानुमा । किन्तु रूढलक्षणा वा गौणी वा वृत्तिरिष्यते । स्वं. चं. १७९

.................................................................................................................................................................

लक्षणास्थल आनुमानिकत्वं स्वीकृत्य गौणीस्थले तत्त्यागे कारणानिरूपणात्' । न द्वितीयः । रूढगौणीरूढलक्षणास्थलेऽप्याप्तत्वनिश्चयोऽपेक्ष्यत एव । अत एव बालेन चित्रलिखितसिंहं निशाम्य सिंहोऽस्तीति व्याहारे भ्रान्तोऽयं बाल इत्येव भ्राजते निर्णयोऽभ्रान्तनां वृद्धानाम् । आप्तत्वाऽप्रत्ययात् । एवमेव राजाऽयं गच्छतीत्यत्राप्यप्रतीताप्तभावबालादिकर्तृकप्रयोगे । न तु रूढगौण्या रूढलक्षणया वा प्रयुक्तोऽयं शब्द इति मन्यन्ते । तथा च तत्राप्याप्तत्वनिश्चयलिङ्गक तात्पर्यानुमितिव्यवधानमस्तीति सपदि बोधः कथमुक्तः ।

गौणीलक्षणास्थलयोर्वैषम्येन व्याख्याने बीजाभावप्रदर्शनपूर्वकं टीकाकृत्पादीयव्याख्यानमेव वचनभन्ग्यन्तरेण आश्रितं भवतीति कथनम्

ननु प्रतीते मुख्यार्थे तात्पर्यं न किन्तु तदतिरिक्ते तात्पर्यमित्येतावानंशो ऽनुमानेन गम्यते। अमुख्यार्थविशेषप्रतीतिस्त्वमुख्यवृत्तिसहकृतशब्दजैवेति विवक्षया सपदि बोधः कथित इति चेत् । सममेतद् गौणीलक्षणास्थलयोरपीति कुतो वैषम्येन व्याख्यानम् | अस्तु तत्राप्येवमेवेत्यङ्गीकारे गङ्गायां घोष इत्यादिषु सर्वत्रामुख्यवृत्तिः, विषं भुङ्खेत्यादिषु ध्वनितार्थस्थलेषु चानुमानमित्यायात् । तदिदं टीकाकृत्पादीयं व्याख्यानमेवेति तदेव समञ्जसम् ।

सिंहावलोकनन्यायेन पुनः वाचनिकार्थशब्दस्य शक्यार्थमात्रपरत्वे बाधकप्रदर्शनपूर्वकं टीकापक्षे दोषाभावनिरूपणम्

किञ्चास्मिन् प्रकरणे वाचनिकशब्दस्य केवलं मुख्यार्थपरत्व उत्तरत्र " न च कारणं किञ्चिद्वाचनिकानां बहूनामप्यर्थानां त्यागे । प्रतीयमाने तु विरोधे तदन्योऽर्थः

…………………………………………………………………………………………………………………………………………………………………

गङ्गायां घोष इत्यादावरूढलक्षणास्थले तीराद्यर्थप्रतीतेरानुमानिकत्वं स्वीकृत्य, अग्निर्माणवक इत्यादावरूढगौणीस्थले सदृशार्थप्रतीतेस्तत्त्यागे कारणानिरूपणादित्यर्थः ।

सपदि बोध इत्यस्य कथञ्चित् पारिभाषिकतामुपेत्येवं विकल्पितम् । वस्तुतस्त्वयुक्तमेवेति भावः ।

…………………………………………………………………………………………………………………………………………………………………

स्वीकार्यः । वाचनिक एवे" त्यत्रापि मुख्यार्थ एव स्वीकार्यो न लाक्षणिकादिरमुख्यार्थ इति स्यात् । न चेष्टापत्तिरिति युक्तम् । अमुख्यार्थस्य तैरप्यभ्युपगमात् । यदि प्रतीयमाने तु विरोधे वाचनिक( तदाशयानुसारेण मुख्य) एवार्थस्स्वीकार्यस्तर्हि लाक्षणिकार्थगौणार्थयोर्दत्तजलाञ्जलिता स्यात् ।

नन्वत्र वाचनिकार्थानां मुख्यवृत्तिलभ्यार्थानां बहूनां प्रसङ्गे, विरोधे सति विरुद्धं परित्यज्याविरुद्धः वाचनिक एव स्वीकार्य इति कथितम् । सर्ववाचनिकार्थस्वीकारे विरोधे भासमाने लाक्षणिकाद्यर्थोऽपि स्वीकार्य इत्याशय इति चेन्, न स शब्देन भासते वाचनिकशब्दस्य मुख्यवृत्तिमात्रपरत्वमिति तत्पक्षे ।विरोधे तदन्योऽर्थः स्वीकार्यः वाचनिक एवेत्यवधारणविरोधात् ।

टीकाकृत्पादपक्षे न कश्चन क्लेशः । वाचनिकशब्दस्य मुख्यामुख्यवृत्तिलभ्यार्थपरत्वात् । वाचनिकार्थस्यैकस्य प्रमाणविरुद्धत्वे तदन्यो विरुद्धादन्योऽविरुद्धोऽर्थो स्वीकार्यः । सोऽपि वाचनिक एव अभिधागौणीलक्षणारूपवृत्तित्रयान्यतमसहकृतशब्दलभ्य एव । न तु तात्पर्यवृत्तिलभ्य इत्यर्थः ।'

……………………………………………………………………………………………………………………………………………………………….

१ प्रसङ्गाद् विश्वस्मादिन्द्र उत्तर' इत्यादौ परस्परविरुद्धमुख्यार्थद्वयघटितस्थले ग्राह्यार्थनिर्णायकस्य भगवत्पादोदाहृतप्रमाणस्यार्थोऽत्र निरूप्यते । प्रथमप्रतीतस्य मुख्यार्थस्य प्रमाणविरुद्धत्वे तदविरुद्धो गौणार्थो वा लाक्षणिकार्थो वा गृह्यत इत्यत्र न विवादः । यत्र तु द्वयोरपि मुख्यार्थत्वं तत्र कथम्? | यस्य समभिव्याहृतपदार्थान्वयो विरुद्धस्स त्याज्यो, यस्याविरुद्धस्स ग्राह्य इति चेत् । न । द्वयोरपि परस्परविरुद्धत्वे कथम्? । तद्यथाविश्वस्मादिन्द्र उत्तर" इत्यत्रेन्द्रशब्देन विष्णुरूपं मुख्यार्थं स्वीकृत्य तस्य सर्वोत्तमत्वरूपेऽर्थ उक्त इन्द्रशब्दस्य पुरन्दररूपो योऽपरो मुख्यार्थस्तत्सर्वोत्तमत्वरूपो योऽर्थो वाक्याल्लभ्यते तद्विरोधः । एवमेवेन्द्रशब्देन पुरन्दरं स्वीकृत्य तत्सर्वोत्तमत्त्व उक्ते विष्णुसर्वोत्तमत्वरूपो योऽन्यों मुख्यार्थस्तद्विरोधः । अनयोरपि यो मुख्यतरस्स ग्राह्य इत्यपि वक्तुं न शक्यते । योगरूढ्योरुभयत्र भावेन द्वयोरपि साम्यादित्याशङ्कां परिजिहीर्षन्त श्रीमदाचार्या आगममुदाजहु:- मुख्यार्थानां चेति । "मुख्यार्थानां च सर्वेषां तारतम्यं विद्यते । तत्रापि परमो मुख्यो वाच्योऽशेषरवैर्हरिः । तत्तन्मुख्याविरोधेन तदन्यार्थस्य सङ्ग्रहः । स्वतो मुख्यविरोधे तु त्याज्योऽन्योऽर्थोऽस्विलेष्वपि । इति सर्वत्र नियमः शब्दार्थज्ञानभूमिषु" इति । अयमस्यागमस्याशयः । न मुख्यार्थेषु सर्वेषु साम्यम् । किन्तु तारतम्यस्ति । तत्रापि परममुख्यो हरिस्तदनन्तरमितरे रमादयः क्रमश इति वस्तुस्थितिः । मुख्यार्थयोः परस्परं विरोधे तत्तदपेक्षया यो मुख्योऽर्थस्तदविरोधेनापरममुख्यार्थो ग्राह्यः । परममुख्यार्थविरुद्धोऽपरममुख्यार्थस्त्याज्यः । तद्यथा "विश्वस्मादिन्द्र उत्तरइत्यत्रेन्द्रशब्दस्य, पुरन्दररूपापरममुख्यार्थस्य स्वतो मुख्येन विष्णुरूपेण परममुख्यार्थेन विरोधे पुरन्दररूपोऽर्थस्त्याज्य इति ।

तत्र मुख्यविरोधेन तदन्यार्थस्य सङ्ग्रहः इति प्र.पाठः प्रामादिक इति बन्नंजे गोविन्दाचार्यस्स्वसम्पादिते सर्वमूलपुस्तके व्यलेखि । अत्र प्रचलितपाठ इति कथनेनेदं वाक्यं टीकाकारैष्टिप्पणीकारैश्च परिगृहीतमिति न मन्तव्यम् । टीकायां वा टिप्पणीषु वाऽदर्शनात् । परम्परायां प्रचलितेषु बहुषु हस्तलिखितेषु [तच्चित्राणि अन्ते द्रष्टव्यानि पु. १०२] "तत्तन्मुख्याविरोधेन" इति पाठस्यैव दर्शनाच्च |

अत्र केचित्तत्पाठसमर्थकाः :-"तत्र मुख्यविरोधेन तदन्यार्थस्य सङ्ग्रहः" इति पाठो यदि क्वचित्स्यात् तर्ह्यपि न तस्य प्रामादिकत्वम् । तथाहि योजनाअखिलेषु वाक्येषु शब्दार्थज्ञानप्रसङ्गेष्वेवं व्यवस्था । यत्र मुख्यार्थाङ्गीकारे प्रमाणविरोधस्तत्र तेनैव निमित्तेनाविरुद्धस्यामुख्यार्थस्य स्वीकारः । यत्र मुख्यार्थयोरेव परस्परविरुद्धत्वं तत्र मुख्यार्थेष्वपि तारतम्यसत्त्वेन, स्वतः=स्वापेक्षया मुख्यार्थविरुद्धमपरममुख्यार्थं परित्यज्य यथासम्भवं परममुख्यार्थ एव ग्राह्य इति । अस्मिन्पाठे "पूर्वायोगे परग्रह" इति " तथाप्येतद्विरोधे तु तद्वाचित्वमपोद्यत" इतिप्रथमाध्यायचतुर्थपादीयानुव्याख्यानगतवाक्यद्वयोक्तप्रमेयद्वयमपि सङ्गृहीतं भवति ।

तत्तन्मुख्याविरोधेन तदन्यार्थस्यसङ्ग्रह " इति पाठे यद्यपि मुख्यार्थयोर्विरोधे कथं निर्णय इति प्रश्नस्योत्तरं लभ्यते । "तथाप्येतद्विरोधे तु तद्वाचित्वमपोद्यत" इत्यनुव्याख्यानाशयः "स्वतो मुख्यविरोधे तु त्याज्योऽन्योऽर्थोऽखिलेष्वपीत्यनेन सङ्गृहीतः । "अविरोधे तु बह्वर्था एतन्मूलतया मताइत्यनुव्याख्यानाशयस्तु " तत्तन्मुख्याविरोधेन तदन्यार्थस्य सङ्ग्रहइति वाक्येन सङ्गृहीतः । तथापि "पूर्वायोगे परग्रह" इत्यनुव्याख्यानोक्तं प्रमेयं न सङ्गृहीतं भवति । नन्वसङ्ग्रहो गुण एव । मुख्यार्थयोर्विरोधे कथमिति प्रश्नस्यैव प्रसक्तत्वात् । मुख्यार्थविरोधे कथमिति प्रश्नस्यानुदितत्वात् । "द्वयोरपि मुख्यत्वादि"ति टीकयाप्येतदेव ज्ञायत इति चेत् । सत्यम् । तथाप्यखिलेषु (वाक्येषु) शब्दार्थज्ञानभूमिष्विति पदानां स्वारस्यानुरोधेन न केवलं मुख्यार्थयोर्विरोधप्रसङ्गे यो निर्णयस्तस्यैव वक्तव्यत्वं किन्तु मुख्यार्थविरोधप्रसङ्गेऽपि यो निर्णयस्तस्यापि वक्तव्यत्वं स्वीकर्तव्यम् | एवंसतिपूर्वायोगे परग्रहइत्यस्यासग्ग्रहो न गुणः किन्तु दोष एव । तर्हि टीकाकारैरवतरणिकायां कुतो नोक्तमिति न शङ्कनीयम् । मुख्यार्थविरोधेऽमुख्यार्थग्रहणं "प्रतीयमाने तु विरोधं तदन्योऽर्थः स्वीकार्य" इत्याचार्यवाक्येनेवालाभि । तत्र जिज्ञासाविशेषोऽपि नोदैत्। प्रसिद्धत्वादस्य न्यायस्य । तथा च, यद्यपि प्रमाणचने मुख्यार्थविरोधे को ग्राह्य इति शङ्कायास्तथा मुख्ययोरेव विरोधे को ग्राह्य इति शङ्कायाश्च परिहारी दृश्यते । तथापि द्वितीयस्या एव शङ्काया उत्कटत्वात् तत्परिहारकतयैवावतारितं टीकाकारैरिति समाधानसम्भवादित्यभिप्रयन्ति ।

…………………………………………………………………………………………………………………………………………………………………

यत्र वाचनिकार्यादन्यः...इति वाक्यपटक" लौकिकवाक्येषु" इत्यस्य कृत्यमुक्त्वा, रूढियोगौ विना कश्चित्... वेदवाक्यस्य तु वाचनिकार्थं... इति वाक्ययोः भिन्नविषयकत्वसमर्थनम्

यच्चलौकिकवाक्येष्वियं व्यवस्थेत्युक्त्वा वैदिकव्यवहारे तु सर्वत्र मुख्यवृत्तिं स्वीकृत्यैवामुख्यवृत्तिरुपादीयते । न तु केवला लक्षणा गौणी चेत्युक्तं तद्यद्यपि समञ्जसम् । अत्रोदाहृत" रूढियोगौ विना कश्चिन्नैवार्थो वेदगो भवेदितिब्रह्मतर्कवचनस्य पृथगुपदेशाधिकरणीयतत्त्वप्रकाशिकायां तथापिव्याख्यानात् । तथापि पूर्वंयत्र वाचनिकार्थादन्यस्तात्पर्यार्थः प्रतीयते लौकिकवाक्येषु न तत्र साक्षाद्वचनं बोधकम् । वचनलिङ्गानुमा हि से" त्यत्र लौकिकवाक्येष्विति किमर्थं प्रायुज्यतेति शङ्का भवति । तस्याः परिहारो विधीयेत । स चेत्थम् । यदि परमतानुवादपरेयत्र वाचनिकार्थादिति वाक्ये "लौकिकवाक्येष्विति नोच्येत तर्ह्यत्र वचनलिङ्गानुमेत्यमुख्यवृत्तिरिति कथ्यमानो द्विविधोऽपि परिहारो लौकिकवैदिकोभयविधवाक्यसम्बन्धीति विज्ञायेत । तन्मा विज्ञायि । स्वमते सर्वस्य वेदस्येश्वरोच्चरितवाक्यत्वेन पुरुषाशयानुमानरूपप्रकारस्य वेदे सम्भवेऽपि परमते न सम्भवति । परैरीश्वरवाक्यत्वानङ्गीकारात् ।

तदिदमुक्तंवेदवाक्यस्य तु वाचनिकार्थं विना नैवान्यो युज्यते। वेदवाक्यस्य मुख्यामुख्यवृत्तिलभ्यार्थं विनाऽन्यः प्रकारः=पुरुषाशयानुमानरूपो नैव युज्यत

………………………………………………………………………………………………………………………………………………………………….

इयं लोकव्यवहारे व्यवस्था । अथ वैदिकव्यवहारप्रकारमाह । केवलोन्य: गौणलक्षणारूप: ।....... इत्यादि खं. चं. १७९

२. केवलो योग:, केवला रूढिः केवललक्षणा, केवगौणी च वेदे नास्तीत्यर्थपरतया व्याख्यानादित्यर्थः ।

अयं भावः । वेदवाक्यस्य तु वाचनिकार्थं विना.... इत्यस्य तदर्थ एवात्र प्रमाणतयोदाहृतत्वेन स्वं. चं. काराभिमतस्य रूढियोगी विना कश्चिन्नैवार्थो.... इति ब्रह्मतर्कवचनस्य च योऽर्थः स्वं. चं. कारैरुक्तः स ब्रह्मतर्कवचनार्थतया पृथगुपदेशाधिकरणटीकोक्त एव नापूर्वः परं प्रकरणशुद्धया सङ्गततया मूलवाक्यानि व्याख्यातुं प्रवृत्तैष्टीकाकारैः कर्मनिर्णयटीकायां ब्रह्मतर्कवचनस्य न सोऽर्थ उक्तः । तदर्थनिरूपणस्य प्रकृते सङ्गत्यभावात् । वेदवाक्यस्य तु.......इति आचार्यवाक्यस्य तु न सोऽर्थः सम्भवतीत्याद्यत इति ।

………………………………………………………………………………………………………………………………………………………………….

इति। अतः परमतानुवादपरे वाक्ये लौकिकवाक्येष्वित्युक्तम् । तेनोत्तरवाक्येऽपि कथ्यमानं परिहारद्वयं लौकिकवाक्यसम्बन्धीति ज्ञायमानत्वान्नानुपपत्तिः ।

यद्यस्य वाक्यस्यैवमर्थो नोच्येत तर्हि तस्याशङ्कायास्समाधानं न लभ्येत । तस्माट्टीकाकृत्पादोक्तरीत्यैव व्याख्यानं युक्तम् ।

रूढियोगी समुचितौ विना केवलरूढः केवलयौगिक: केवललाक्षणिकः केवलगौणो वाऽर्थो वेदे नास्तीति प्रमेयस्य प्रतिपादनाय तु "रूढियोगौ विनेत्यादिप्रमाणवाक्यमुत्तरत्र जागर्त्येव ।

किञ्च यदिवेदवाक्यस्य तुइति वाक्यस्याप्ययमेवार्थोऽभिप्रेतस्स्यात् तर्ह्येतद्वाक्याव्यवहितोत्तरमेव तदुदाह्रियेत । तस्मादपि भिन्नविषयत्वमनयोर्वाक्ययोस्सिद्ध्यति ।

प्रकृतसन्दर्भोचिततया वेदवाक्यस्य तु . इत्यत्रवाक्यपदप्रयोगाभिसन्ध्युद्घाटनपूर्वकं टीकाकृत्पादाशयदूषणासम्भवप्रदर्शनम्

किञ्च यदि योगरूढं विना केवलयौगिकादिरर्थो वेदे नास्तीत्यबुबोधयिषिष्यद् भगवत्पादाचार्यस्तर्हि " वेदस्य तु" इति वावैदिकस्य शब्दस्य " इति वा प्रायोक्ष्यत, न तुवेदवाक्यस्य तुइति वाक्यपदम् । न हि योगरूढेः केवलयोगादेर्लक्षणादेर्वा वाक्ये प्रसक्तिरस्ति । पदवृत्तयो हि वृत्तयोऽस्मदभिमता योगादयो लक्षणादयश्च । न वाक्यवृत्तयः । अत एवैतदर्थके' "रूढियोगौ विना कश्चिन्नैवार्थो वेदगो भवेत् । तत्रापि यौगिको मुख्यस्सर्वत्रास्ति स वैदिक" इतिप्रमाणवचनेऽपि वेदवैदिकशब्दावेव दृश्येते न तु वेदवाक्यशब्दः । तथाचात्र

………………………………………………………………………………………………………………………………………………………………….

बुध-अवगमन इति भ्वादेः णिजन्तात् सन् तदन्तात् लृङ् । बोधयितुमैषिष्यदित्यर्थः ।

योगरूढं विना केलयौगिकादिरर्थो वेदे नास्ति इति ।

.................................................................................................................................................................

वेदवाक्यस्य तु इतिवाक्यशब्दप्रयोगेण ज्ञायते वाक्यवृत्तिसम्बन्धिविचार एवात्र निरूप्यत इति । तात्पर्यवृत्तिर्हि वाक्यवृत्तिः । सा च परैरङ्गीकृतेत्यादिः टीकोक्तार्थ एवात्र विवक्षित इति ।

किञ्च नञ्सहितो विनाशब्दोऽविनाभावं वक्तीत्युक्तम् । अस्तु तथा । परन्तु नञ्सहितविनाशब्दस्य प्रकृते "वेदेऽमुख्यवृत्तिरेव नास्तीति प्राचीनटीकावाक्येऽसत्त्वात् कथमिदं समर्थनम् ?? कथन्तरां वा टीकाकृत्पादाशयदूषणं भवति ?? इति तु न बुध्यामहे ॥

तदेवं टीकोपात्तमूलव्याख्यारीतिरनाविलधवलेति यथामति प्रादर्शि ।

ग्रन्थव्याख्यानरीतिर्हि जयतीर्थार्यदर्शिता ।

हृद्यानवद्यभावाढ्या रम्यैवात्र न संशयः ॥

॥ इति मुख्यवृत्तिविमर्शः ॥