स्यात्कर्मविजयप्रीतो गुरुहृद्गानगो हरिः । दद्यात्सुज्ञानभक्ती स्वे विरक्तिं विषयेषु च
अनुबन्धः
स्यात्कर्मविजयप्रीतो गुरुहृद्गानगो हरिः । दद्यात्सुज्ञानभक्ती स्वे विरक्तिं विषयेषु च
परमादरष्टीकाकृतां परमगुरुषु
“न तत्त्वमार्गे गमनं विना यदुपजीवनम्”, “कृपालनः स्यान् मयि नित्यमेषां", “ मम पद्मनाभतीर्थामृताब्धिर्भवतात् विभूत्या" इति प्राचीनटीकाकारान् पद्मनाभतीर्थान् स्तुवन्तस्तत्र तत्र तदीयव्याख्यानमनूद्य समर्थयमानाश्च प्राचीनटीकाकारेषु पद्मनाभतीर्थेषु परमादरवन्त श्रीमट्टीकाकृत्पादा इति निश्चप्रचम्' ।
न केवलं पद्मनाभतीर्थेष्वादरातिशयः । किन्तु नरहरितीर्थेष्वपि महानादरष्टीकाकृत्पादानाम् । अत एव जिज्ञासाधिकरणीयस्य " तेनानिष्टं कथं भवेत्” इति वाक्यस्य " तेन + अनिष्टम्” इति पदविभागं कृत्वा स्वयं व्याख्याय, "केचित् "ते तव अनिष्टं कथं न भवेदिति व्याचक्षते " इति नरहरितीर्थानां
………………………………………………………………………………………………………………………………………………………………
१ अधिकं परिशिष्टे द्रष्टव्यम् |
२ केचिच्छब्देन ग्रहणमेवानादरसूचकमिति तु भगवान्भ्रम एव । तथाहि- केचिदित्यादिना पराभिमतमनूद्य क्वचित्सर्वांशेऽभ्युपेयते क्वचिच्चोपपाद्यते क्वचिच्चैकांशेऽभ्युपेयते, क्वचिच्चोदास्यते, क्वचिच्च निराक्रियत इति स्थितिः । यदि केचिदित्यनादरसूचकमेव स्यात्तर्हि निराकार्यांशानुवादप्रसङ्ग एव केचिदिति वक्तव्यं स्यात् । न च तथा शास्त्रेषु दृश्यत इति विदितमेव समेषां विदुषाम् ।
किञ्च स्तुत्यतिरिक्ते गुरुनामग्रहणस्य सम्प्रदाये निषिद्धत्वात् टीकाकृत इति च पद्मनाभतीर्थ-भट्टारकाणामेव ग्रहणात्, नरहरितीर्थमात्रग्रहणस्याभीप्सितत्वे तु तेषां द्वितीयटीकाकारा इत्यादिना ग्रहीतुं शक्यत्वेऽपि अनेकेषामपि व्याख्यातॄणां सञ्जिघृक्षितत्वात् केचिदित्युक्तम् । बहवो हि व्याख्यातारो भवन्ति । (मध्वप्रशिष्या बहवो शिष्या एषां मुहुस्तथा । अलश्चक्ररलं पृथ्वीं सर्वे सद्गुणभूषणाः ।। सदा सकलसच्छास्त्रव्याख्यासौख्यामृताब्धिगाः । सर्वे दुर्वादिदुर्वादकाण्डखण्डनमण्डना || इति म. वि. १६.१३२, १३३) परं केचन निबध्नन्ति केचन न निबध्नन्ति ते सर्वे च टीकाकृतां मनसि परिवर्तन्ते । तेषां सर्वेषां सङ्ग्रहः केचिदिति । परं निबन्धारो नरहरितीर्था इति टिप्पणीकारा: "केचित् नरहरितीर्थाः" इति वदन्ति ।
किञ्च न प्राचीनानां विमर्शस्तत्रानादरहेतुकोऽनादरहेतुर्वा भवति, किन्तु गौरवपूर्वकोऽयमभिप्रायभेदो निवेद्यत इति (खं. चं. पु. ना.-१०) कथयन्तोऽपि केचिदित्यादावनादरभावं प्रकटयन्ति जनेष्विति महदिदं खेदस्थानम् ।
………………………………………………………………………………………………………………………………………………………………
व्याख्यानमनूद्य, "तत्र न पादादाविति प्रतिषेधस्य नञा निर्दिष्टमनित्यमिति समाधानमवसेयम्” इति श्रद्धया समर्थयन्ते । केचिदित्यनेन नरहरितीर्था ग्राह्या इति पुत्तिगेमठाधीशानां श्रीनिधितीर्थानां "केचित् =नरहरितीर्थ श्रीमच्चरणा" इति व्याख्यानेनावगम्यते ।
एवं विष्णुतत्त्वनिर्णयटीकायां " ( न च पौरुषेयेण वाक्येन तत्सिद्धिः । अज्ञानविप्रलम्भयोः प्राप्तेः ) न च तदर्थत्वेन सर्वज्ञः कल्प्येत" इति मूलस्य व्याख्यानप्रसङ्गे-"पौरुषेयेण वाक्येन धर्मादिसिद्धिस्तदिति परामृश्यते । सोऽर्थः प्रयोजनं यस्य सर्वज्ञकल्पनस्य तत्तथोक्तम् । तस्य भावस्तत्त्वम् । तृतीया हेतौ । सर्वज्ञकल्पनायाः पौरुषेयवाक्येन धर्मादिनिश्चयः प्रयोजनं यत इति" इति स्वयं “सर्वज्ञकृतवाक्यात् धर्मादिनिश्चय इति न वाच्यम्” इति न्यायरत्नावल्यनुसारेण व्याख्याय “अर्थशब्दो निवृत्तिवचन इति केचित्" इति नरहरितीर्थानां व्याख्यानमनूद्य " तत्र ज्ञानादिप्राप्तिस्तच्छब्देन परामृश्यते । अर्थशब्दश्चावर्तनीयः । तस्यार्थो निवृत्तिः तदर्थः । सोऽर्थः प्रयोजनं यस्य सर्वज्ञकल्पनस्येति" इति सप्रश्रयमुपपादयन्ति |
"अक्षोभ्यतीर्थगुरुणा शुकवच्छिक्षितस्य म" इत्यादिना चाक्ष्योभ्यतीर्थकृतानुग्रहं स्मरन्तश्श्रीमट्टीकाकृत्पादाः प्राचीनेषु सर्वेषु गुरुषु परमादरवन्त इत्यत्र नास्ति संशीतिलेशः । अत एव चात्रापि कर्मनिर्णयटीकायां " प्रणम्य श्रीमदानन्दतीर्थार्यपदपङ्कजे । गुरूणां च यथाबोधं व्याकुर्वे कर्मनिर्णयम्" इत्यत्र गुरूणामिति बहुवचनप्रयोगेण पद्मनाभतीर्थनरहरितीर्थादयस्सर्वेऽपि गुरवो भक्तिपूर्वकत्वरूपप्रकर्षयुतनमनकर्मीकृताः । व्याख्यातं च श्रीनिवासतीर्थैः, “गुरूणां पद्मनाभतीर्थानारभ्य अक्षोभ्यतीर्थपर्यन्तानामिति ।
आनन्दतीर्थभगवद्वचसां विशिष्ट व्याख्यानकर्मणि सुरा अधिकारिणोऽत्र ।
यन्मादृशोऽपि यतते तदतीव हास्यं किन्नाम भक्तिविवशस्य विभूषणं तत् ॥ (त. नि. टीकान्ते) इति
श्रीमदाचार्यवाक्यानां विशिष्टव्याख्याने दक्षिणामूर्तिप्रभृत्युत्तमदेवानामेव योग्यता नास्माकमिति 'भावमाकलयतां,सर्वज्ञकल्पत्वेऽप्यात्मनस्स्वयं मन्दमतितामनुसन्दधतां विनयशिखरमारूढानां श्रीमट्टीकाकृत्पादानां परमादरभाव एव परमगुरुषु विजृम्भते, न कदाप्यवगोरणभाव इति सद्भिर्मनसि कर्तव्यम् । इत्यशेषमतिमङ्गलम् ।
मुख्यवृत्त्या हि टीकेयं युक्त्युपेतेति साधिता । प्रतना बुद्धिपूर्वं हि प्रश्रयेणैव शीलिताः ॥
स्यात्कर्मविजयप्रीतो गुरुहृद्गानगो हरिः । दद्यात्सुज्ञानभक्ती स्वे विरक्तिं विषयेषु च ।।
॥ श्रीकृष्णार्पणमस्तु ॥
………………………………………………………………………………………………………………………………………………………….
१ भावः-मनोवृत्तिविशेषोऽभिप्रायः । अयमर्थः परमादरभाव:, अवगोरणभाव इत्यत्रापि बोध्यः ।
२ गुरुहृद्रो योऽनः मुख्यप्राणस्तद्गत इत्यर्थः । अस्मद्भुर्वन्तर्गतभारतीरमणमुख्यप्राणान्तर्गत इति यावत् ।