कर्मनामा तु भगवान् फलकर्तृत्वतो हरिः

परिशिष्टम्

अथावशिष्टा निरुक्तयः

कर्मनामा तु भगवान् फलकर्तृत्वतो हरिः

११) अपरममुख्यवृत्त्या कर्मपरतया प्रसिद्धस्यापि ब्राह्मणस्य परममुख्यवृत्त्या कर्मनामकविष्णुपरत्वमेवेति सूत्रकार सिद्धान्तः । सर्वकर्मनियामकत्वात्सर्वकर्मकर्तृत्वात् सर्वकर्मकारयितृत्वात् सर्वकर्मज्ञापकत्वात् सर्वकर्मभोक्तृत्वात् सर्वकर्मफलदातृत्वात् सर्वकर्मान्तर्यामिरूपविशेषवत्त्वाच्च कर्मनामको भगवान् । तदिदमपि सर्वयज्ञभुज इत्युपलक्षकपदप्रयोगेणाजिज्ञपन् श्रीमदाचार्याः ।

"स्रष्टा पाता च संहर्ता नियन्ता च प्रकाशिता ।

यतः सर्वस्य तेनाहं सर्वोऽस्मीत्यृषिभिः स्तुतः " ॥ गी. भा. ७.५

इति गीताभाष्योदाहृतनारदीयवचनात्,

स्रष्टृत्वाच्चैव पातृत्वान्नियमाच्च प्रकाशनात् ।

सर्वत्वमुक्तं विष्णोस्तु न तु सर्वस्वरूपतः " ॥ ऐ. भा.द्वि.प्र.प्र. अध्या.

इत्यैतरेयभाष्योदाहृतभारतवचनात्,

"सर्वकामस्सर्वकर्मा सर्वगन्धस्सर्वरसस्सर्वमिदमभ्यात्त

इति अत्रैवोदाहृतच्छान्दोग्य ( ३-२-९ = ३-१४-४ ) वचनात्

"कर्मनामा तु भगवान् फलकर्तृत्वतो हरिः ।

पातनात् पापनामाऽसौ पुनातेः पुण्यनामवान् " ॥ बृ.भा.५-२ इति

बृहदारण्यकभाष्योदाहृतभारतवचनात्

एष पन्था एतत् कर्म"

इत्यैतरेयोपनिषद्वचनात् द्वि. प्रध. प्र. अध्या

"कर्तृत्वात् कर्म मातृतः द्वि.प्र.प्र. अध्या

इत्यैतरेयभाष्योदाहृतप्रमाणवचनात्',

कर्मनामा हस्तगतः कर्मकृत्त्वाज्जनार्दनः " ते. भृगु

इति तैत्तिरीयभाष्योदाहृतयजुः संहितावचनाच्च कर्मनामा विष्णुरिति ज्ञायते ।

तथा च कर्मणः विष्णोर्गुणपूर्णत्वरूपमहत्त्वादिना निर्णयो यस्मादिति कर्मनिर्णय इति निरुक्तिर्लभ्यते, “महद्धि तत्परं ब्रह्म", “अशेषगुणसम्पूर्तेःइत्यनेनाचार्यप्रवचनेन ।

१२) "कर्तृत्वात् सगुणं ब्रह्मे" त्यनेन सृष्ट्यादिकर्मकर्तृत्वात् कर्मणः कर्मनाम्नो हरेस्सृष्ट्यादिकर्तृत्वेन निर्णयो यस्मादिति,

१३) कर्मणः सृष्ट्यादिरूपस्य विष्णुकर्तृकत्वेन निर्णयो यस्मादिति च निरुक्ती सूच्येताम् |

१४)कर्माध्यक्षस्सर्वभूताधिवास" इत्यनेन कर्मणां तत्तज्जीवकृतसुकृतदुष्कृतानां विष्ण्वध्यक्षकत्वेन विष्णुस्वामिकत्वेन निर्णयो यस्मादिति निरुक्तिरसूचि।

१५) अनिर्वचनीयासिद्धेरित्यनेन कर्मणो ज्ञानकर्मणो दृश्यस्याननिर्वचनीयत्वेन निर्णयो यस्मादिति निरुक्तिरसूच्यत ।

…………………………………………………………………………………………………………………………………………………………………

१ ताम्रपणी-श्रीनिवासाचार्यविरचितायामेतरेयोपनिषद्भाष्यार्थरत्नमालायां- ननु कर्मणाऽन्यत्र मोक्षश्रवणात् तत्प्रसादवैयर्थ्यमित्यत एतदेव कर्मेत्युक्तम् । तद्व्याचष्टे-कर्तृत्वादिति । कर्तृत्वान्मातृत्वात् सर्वज्ञत्वाच्च स एव कर्मेत्यर्थः । कर्मणा मोक्ष इत्यस्यापि सर्वजगज्जन्मादिकारणत्वेन सर्वयोग्यताभिज्ञेन भगवतैव मोक्ष इत्यर्थ इति भावः ।

गुणपूर्णत्वसम्भावनाय जगज्जन्मादिकारणत्वलक्षणमुक्तम्-कर्मेति कर्तृत्वाल्लयकर्तृत्वाच कर्म | "मानं ज्ञानं लयश्चइति वचनात् भाष्ये मातृत्वादित्यस्य लयहेतुत्वादित्यर्थः । इति ।

२ स्वामित्वमत्र फलदातृत्वमिति कर्मनिर्णयटीकाविवृतौ छलारी नरसिंहाचार्याः ।

............................................................................................................................................................

१६) "विदा मघवन् विदा गातुमनुशंसिषो दिशः ।" इत्यस्य 'मघवन् मखपते, विद वेदयेति सामान्यतोऽपेक्षिताऽशेषवेदनमुक्त्वा तात्कालिकापेक्षितार्थं प्रार्थयति गातुं विदेती'ति व्याख्यानेन कर्मणो मखादिकर्मपतित्वात् कर्मनाम्नो विष्णोरेव सकाशान्निर्णयः सामान्यविशेषविषयकज्ञानं समेषां यजमानानां भक्तानामिति निर्णयो यस्मादिति निरुक्तिस्सूचिता भवति ।

१७)आभिष्ट्वमभिष्टिभिः प्रचेतन प्रचेतय । इन्द्र द्युम्नाय न इष एवाहि शक्रः" इत्यस्य 'प्रकृष्टचेतन सर्वज्ञ परमात्मन् । द्युम्नाय ज्ञानाय वित्ताय यशसे वा । इषे अन्नाय च नः प्रबोधये 'ति व्याख्यानेन प्राग्वदेव निर्वचनमसूचि ।

१८) "राये वाजाय वज्रिवश्शविष्ठ वज्रिन्नृञ्जसे । मंहिष्ठ वज्रिन्नृञ्जस आयाहि पिब मत्स्व" । अनेन कर्मणो विष्णोः कर्मत्वेन' कर्माभिमानीन्द्रनियामकत्वेन यज्ञादि-कर्मसम्बन्धिसोमादिहविर्भोक्तृत्वेन च निर्णयो यस्मादिति निर्वचनमसूच्यत ।

..............................................................................................................................................................

१ तपो मे हृदयं ब्रह्म तनुर्विद्या क्रियाऽऽकृतिः । ( भागवते ६-४-४६), शृङ्गाराद्याकृतिगतः क्रियात्मा पाकशासनः । भा.ता. क्रियात्मा कर्मस्वामी-इति सत्यधर्मतीर्थाः । क्रियात्मा क्रियाभिमानी-इति चट्ट वेङ्कटाद्रयः । कर्माभिमानित्वादभिमान्यधिकरणन्यायेन कर्मशब्दवाच्यस्येन्द्रस्य सत्तादेर्नियामकत्वात, "तदधीनत्वादर्थवदिति न्यायेन " यदधीना यस्य सत्ता" इत्युक्तरीत्या कर्मशब्दमुख्यचाच्यः कर्माभिमानीन्द्रनियामकस्तत्त्वेन ।

२ " सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादरः " छा.उ. अ-२, खं-१४.

मं-४ । छा. उ. भा एकत्र सर्वगन्धादिना चिदानन्दादिसर्वगन्धादिरूपत्वमुच्यते । अन्यत्र तद्भोक्तृत्वम् । प्रभवादेः सत्ताप्रतीत्यादिकारणत्वात् तद्भोक्तृत्वाच प्रभव इत्यादि । तथा च श्रुति:-"सर्वकर्मा सर्वकाम"इत्यादिगीताभाष्ये च।७-६ ।

अत्रेदमवधेयम्-यद्यपि हविरादिभोक्तृत्वमस्यां श्रुतौ "सर्वकाम" इति शब्देन प्रतिपादितम् । "ननु कामो नामेच्छाऽपरनामकोऽभिलाषः स च न भोग्य इत्यतो विवक्षितं कामशब्दार्थमाह-काम्यन्त इतीति । "काम्यन्त इति कामाः द्रव्याणि" । (प्र.दी) द्रव्याणि हविः पुषप्फलादीनि" इति भावरत्नकोशे सुमतीन्द्रतीर्थेव्याख्यानात् । तथापि कामशब्दवाच्यहविरादिभोक्तृत्वात् काम इत्युच्यते यथा, तथा कर्मसम्बन्धित्वात् (कर्मकर्मत्वात्=कर्म देवतोद्देशेन द्रव्यत्यागरूपयागलक्षणं कर्म, तत्कर्मत्वात् तद्विषयत्वात्) कर्मपदलक्ष्यं हविरादि तद्भोक्तृत्वात् कर्म इत्यप्युच्यत इति वक्तुं शक्यते । तत्र हविरादि कामपदेन गृहीतम् । अत्र कर्मपदेनेति विशेषः ।

……………………………………………………………………………………………………………………………………………………………….

१९)विदा रायस्सुवीर्यमि... "त्यादिना मन्त्रेण तद्भाष्येण च कर्मणो विष्णोः कर्मत्वेन दैवमानुषवित्तसुवीर्यादिरूपकर्मफलदातृत्वेन' निर्णयो यस्मादिति निर्वचनं सूचितम् ।

२०)यो मंहिष्ठो मघोनाम्...इत्यनेन कर्मणो ज्ञानकर्मत्वयोग्यस्य सर्वस्य निर्णयो ज्ञानं विष्णोरिति निर्णयो यस्मादिति निर्वचनं सूचयाञ्चक्रे ।

२१)तमूतये हवामहे..." इत्यनेनापि रक्षा, भिप्रायसिद्धि,शत्रुपापाज्ञानादिनिवारणरूपेश्वरदत्तफलवत्त्वेन कर्मणो यज्ञादिरूपस्य निर्णयो यस्मादिति निर्वचनं सूचनभाजनतामगात् ।

२२) "इन्द्रं धनस्य सातये..." इत्यनेने श्वरप्रत्तदैवमानुषवित्तादिफलवत्त्वेन कर्मणो यज्ञादिरूपस्य निर्णयो यस्मादिति निर्वचनं सूचनभाजनतां प्रापत् ।

२३)सुम्न आधेहि नो वसो..." इत्यनेन भगवदनुगृहीतसुखरूपफलवत्त्वेन कर्मणो यज्ञादिरूपस्य निर्णयो यस्मादिति निर्वचनं सूचनगोचरतामगात् ।

२४)" नूनं तन्नन्यं सन्यसे..." इत्यनेन कर्मणो गुरुजीवस्य सकाशात् कर्मणः शिष्यजीवस्य कर्मणः सकलवेदादिगतस्तुतिकर्मणो विष्णोः निर्णयो ज्ञानमुत्पद्यत इति निर्णयो यस्मादिति निर्वचनं सूचनगोचरतां प्रापत् ।

………………………………………………………………………………………………………………………………………………………………

अथवा सर्वकर्मेत्यत्र कर्मपदेन यज्ञादिकर्म विवक्षित्वा तद्भोक्तृत्वं कथितम् । यज्ञादिभोक्तृत्वं न केवलं यज्ञादिक्रियाभिव्यक्तानन्दानुभववत्त्वं किन्तु यज्ञसम्बन्धिहविरादिभोक्तृत्वमपि । ई. भा. टी.-टिप्पण्यां सत्यप्रज्ञतीर्थेः यज्ञशब्दव्याख्यानप्रसङ्गे "यद् अस्ति यज्ञजातं तत्सर्वं जानाति रसनेन्द्रियेण साक्षात्करोति भुङ्ग इति यावदिति यज्ञ इत्युक्तं भवतीति व्याख्यानात् । इति

१ " कर्मनामा तु भगवान् फलकर्तृत्वतो हरिः । पातनात् पापनामाऽसौ पुनातेः पुण्यनामवान्" इति बृहदारण्यकभायोदाहृतभारतवचनात् कर्मफलदातृत्वात् कर्मनामा विष्णुः ।

२ "करोऽस्मिन् मीयत इति कर्म जीव उदाहृत" इति गीतातात्पर्यादाहतनारदीयवचनात् कर्मशब्दो जीववाच्यपि ।

…………………………………………………………………………………………………………………………………………………………..

२५)आयोमन्याय मन्यवे ..." इत्यनेन कर्मणां यज्ञादीनां निर्णयो ज्ञानमेव फलमिति निर्णयो यस्मादिति निर्वचनं सूचनगोचरतामनायि ।

२६) " प्रचेतन प्रचेतय" इत्यारभ्य" इत्युपसृजति" इत्यन्तेन कर्मणो मन्त्रोपसर्जनरूपस्य निर्णयो यस्मादिति निर्वचनं सूचनगोचरतां लेभे ।

२७) एवं ज्ञात्वा हरिं तं च कर्म कुर्वन्न जायते" इत्यनेन कर्मणो विष्णोः कर्मत्वेन क्रतुरूपकर्मनिर्मापकत्वेन । उपलक्षणमेतत् । गुणान्तरविशिष्टत्वेन च निर्णयो ज्ञानं, कर्मणः कर्मकर्तुर्जीवस्यावश्यकमिति निर्णयो यस्मादिति निर्वचनं सूचनगोचरतामलब्ध ।

२८) प्रप्र वस्त्रिष्टुभमिषम् ..." इत्यनेन, कर्मणो विष्णोः कर्मार्थं यज्ञसिद्ध्यर्थं कर्मणः शंसनकर्मणस्त्रिष्टुभाख्यान्नस्य विषये निर्णयो ज्ञानपूर्वकेच्छा भवतीति निर्णयो यस्मादिति निर्वचनेन सूचनगोचरताऽलाभि ।

२९)नदं` व ओदतीनाम् ..." इत्यनेन कर्मणां स्वाहाकारवषट्कारहन्तकारस्वधाकारयुतानां देवमनुष्यपितृसम्बन्धिनां विष्णुनियम्यवायुनियम्यवेदप्रतिपाद्यत्वेन निर्णयो यस्मादिति निर्वचनं सूचनपात्रतां प्रापत् ।

३०)ता अस्य सूददोहसः..." इत्यनेन कर्मणे कर्मफलप्रदत्वात् सूददोहश्शब्दवाच्यमुख्यप्राणान्तर्गतभगवत्प्रीत्यर्थं कर्म यज्ञाङ्गसोमसवनादि कर्मेति निर्णयो यस्मादिति निर्वचनं सूचनपात्रतामलब्ध |

३१) " अर्चत प्रार्चत..." इत्यनेन कर्मणो यज्ञादिरूपस्यार्चनस्याल्पाधिकारिकर्तव्यत्वेन, अज्ञजनशिक्षणार्थं ज्ञानिभिरपि कर्तव्यत्वेन निर्णयो यस्मादिति निर्वचनं सूचनपात्रतामगात् ।

३२)अर्चत प्रार्चत...इत्यनेनैव कर्मणः प्रार्चनस्य ज्ञानध्यानादिरूपस्योत्तमाधिकारिकर्तव्यत्वेन निर्णयो यस्मादित्यपि निर्वचनं सूचनपात्रतामगमत् ।

३३) तत्रैवश्रेयान् द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप " इति भगवद्वचनोदाहरणेन कर्मणो द्रव्ययज्ञस्य ज्ञानयज्ञादधमत्वेन निर्णयों यस्मादिति, ज्ञानयज्ञस्य वा द्रव्ययज्ञोत्तमत्वेन निर्णयो यस्मादिति निर्वचनं सूचनपात्रतामगच्छत् ।

३४) " अवस्वराति गर्गरो..." इत्यनेन कर्मणो ब्रह्मप्रतिपादकत्वेनानुसंहितवेद-मन्त्रपठनपूर्वकं कर्तव्यत्वेन निर्णयो यस्मादिति निर्वचनं सूचनपात्रतामैत् ।

३५) " आ यत् पतन्त्येन्यः..." इत्यनेन कर्मणां सर्वकर्मणां इन्द्रनामकविष्णो-रुदकपानार्थं नद्यः प्रवहन्ति तदापतनजन्यघोषश्चेन्द्रनामकविष्णुवाचक इत्यनुसन्धानपूर्वकं नदीस्नानतीरवासादिनाऽचञ्चलीकृतमनोभिः कर्तव्यत्वेन निर्णयो यस्मादिति निर्वचनं सूचनपात्रतामनायि ।

३६)यो व्यतीरफाणयत्..." इत्यनेन कर्मणां यज्ञादीनां भगवत्तत्त्वज्ञानादौ शक्तिप्रेरणार्थं भगवत्प्रवर्तिता ये तत्त्वाभिमानिदेवास्तदुपेतमनआदिकत्वरूप-फलवत्त्वेन निर्णयो यस्मादिति निर्वचनं सूचनपात्रतामविन्दत ।

३७)क्को नेता तदिद्वपुः ..." इत्यनेन कर्मणो जगत्सृष्ट्यादिकर्मकर्तृत्वात् कर्मनाम्नो विष्णोः,कर्मत्वेन सृष्ट्यादिकर्माश्रयत्वात् कर्मनामकदेहरूपत्वेन निर्णयो यस्मादिति निर्वचनं सूचनपात्रतामविन्दत् ।

३८)अतीदु शक्र ओहत..." इत्यनेन कर्मणां मोक्षप्रतिबन्धकानां वेदवाक्य-श्रवणादिनैव पच्यमानानां भगवता बादरायणेन भिद्यमानत्वेन निर्णयो यस्मादिति निर्वचनं सूचनपात्रतां विविदे ।

३९) तेनैव कर्मणां जीवानामज्ञानादिनिवर्तनपूर्वकं भगवता स्वात्मानं प्रति प्रापितत्वेन निर्णयो यस्मादिति निर्वचनं सूचनपात्रतां विवेद |

४०)अर्भको न कुमारक..." इत्यनेन कर्मणः श्रुत्यादिविहितसर्वकर्मकर्तृत्वात् जीवैस्तत्तद्योग्यसर्वकर्मणां कारयितृत्वाच्च कर्मनाम्नो ब्रह्मणो वायोश्च निर्णयः स्वयोग्यसर्वज्ञानाभिव्यक्तिर्यस्मादिति निर्णयो यस्मादिति निर्वचनं

सूचनपात्रतामवित्त ।

४१) विलोमश्शत्रुजयकृत्संसर्गः पापनाशनः । यथास्थितश्श्रीकरस्स्यात् स्वाध्यायश्शंसनेऽपि च" इत्यनेन कर्मणो विलोमतया मन्त्रपठनरूपस्य यजमानसम्बन्धिशत्रुजयकृत्त्वेन,

४२) संसृष्टतया पठनरूपस्य कर्मणो यजमानसम्बन्धिपापनाशकत्वेन,

४३) यथास्थितपठनरूपस्य कर्मणो, होतुः श्रीकरत्वेन निर्णयो यस्मादिति निर्वचनं सूचनपात्रतामवेदिष्ट |

४४)घ्यायन् कर्माण्यकृत्वापि मुच्यते सर्वपातकैः" इत्यनेन निर्णयो ध्यानरूपं ज्ञानमपि कर्म कर्मसदृशं कर्मवत् पापपरिहारकमिति निर्णयो यस्मादिति निर्वचनं सूचनपात्रतामविदत् ।

४५) " न चैवमादिवाक्यानां स्वार्थे प्रामाण्याभावः" इत्यादिना कर्मणां लक्षणया कर्मसम्बन्धिनामर्थवादवाक्यानां कर्मणां प्रतिपादनकर्मणां प्रतिपाद्यानामिति यावद्, अनेकत्वेन स्वार्थप्राशस्त्यरूपानेकात्मकत्वेन निर्णयो यस्मादिति निर्वचनं सूचनपात्रतां जगाम ।

४६)यत्र वाचनिकार्थादन्यस्तात्पर्यार्थः प्रतीयते लौकिकवाक्येषु न तत्र साक्षाद्वचनं बोधकम् । वचनलिङ्गानुमा हि सा " इत्यनेन विषं भुङ्खेत्यादौ कर्मणो ज्ञानकर्मणो निषिद्धान्नभोजनवर्जनादेरनुमेयत्वेन तात्पर्यवृत्तिसहकृतवाक्यजन्यबोधाविषयत्वेन च निर्णयो यस्मादिति निर्वचनेन सूचनपात्रता प्रापि ।

४७)विरोधादमुख्यवृत्तिर्वा" इत्यनेन कर्मणोऽग्निर्माणवको, गङ्गायां घोष इत्यादौ ज्ञानकर्मणो गौणीलक्षणारूपामुख्यवृत्तिसहकृतशब्दजन्यबोधविषयत्वेन तात्पर्यवृत्तिसहकृतवाक्यजन्यबोधाविषयत्वेन च निर्णयो यस्मादिति निर्वचनेन सूचनपात्रता प्रापे |

४८) " वाचनिकानां तु बहूनामप्यविरोधे स्वीकार्यता" इत्यादिना कर्मणां वचनजन्य-प्रतीतिकर्मणामविरोधे बहुत्वेन निर्णयो यस्मादिति निर्वचनेन सूचनपात्रता प्राप्यत ।

४९)रूढियोगौ विना कश्चिन्नैवार्थो वेदगो भवेद्" इत्यनेन कर्मणां वेदजन्य-प्रतीतिकर्मणां योगरूढत्वेन, केवलयौगिकत्वाभावेन, केवलरूढत्वाभावेन, केवललाक्षणिकत्वाभावेन केवलगौणत्वाभावेन च निर्णयो यस्मादिति निर्वचनेन सूचनविषयता प्रापि ।

५०) " प्रतीयमाने तु विरोधे तदन्योऽर्थः स्वीकार्यः । वाचनिक एव ।" इत्यनेन, कर्मणां वचनजन्यप्रतीतिकर्मणां विषये निर्णयो "विरोधे प्रतीयमाने मुख्यामुख्यवृत्तिसहकृतवचनलभ्य एवाविरुद्धोऽर्थः स्वीकार्यइत्याकारको यस्मादिति निर्वचनेन सूचनविषयता प्रापे ।

५१) "मुख्यार्थानां च सर्वेषां तारतम्यं च विद्यत" इत्यनेन कर्मणां मुख्यवृत्तिसहकृतवचनजन्यप्रतीतिकर्मणां तारतम्यवत्त्वेन निर्णयो यस्मादिति निर्वचनेन सूचनविषयता प्राप्यत ।

५२) "स्वतो मुख्यविरोधे तु त्याज्योऽन्योऽर्थोऽखिलेष्वपिइत्यनेन कर्मणां मुख्यवृत्तिसहकृतवचनजन्यप्रतीतिकर्मणां विषये, “परस्परविरोधे परममुख्यार्थो ग्राह्योऽपरममुख्यार्थस्त्याज्य" इत्याकारको निर्णयो यस्मादिति निर्वचनेन सूचनविषयताऽलाभि ।

५३) " न च क्रियायामेव प्रयोजनं न सिद्ध इति युक्तम्" इत्यनेन, कर्मणः पराभिप्रेतकार्यमात्रस्य सप्रयोजनज्ञानविषयत्वाभावेन निर्णयो यस्मादिति निर्वचनेन सूचनविषयताऽलभ्यत |

५४) "ज्ञानमात्रेऽपि महाप्रयोजनदर्शनात् पितृजीवनादिवाक्ये" इत्यनेन कर्मणः सिद्धिकर्मणः सिद्धस्यापि समहाप्रयोजनज्ञानविषयत्वेन निर्णयो यस्मादिति निर्वचनेन सूचनविषयता लेभे ।

५५) ध्यानं त्वखिलकर्मभ्यो ध्यानाच्च ज्ञानमुत्तमम्" इत्यनेन, “अशेषकर्मपूगोऽपि न विष्णुध्यानलेशभाक् । तच्च ध्यानं हरेर्ज्ञानकोट्यंशाय न पूर्वते" इति कर्मविवेके" इत्यनेन च कर्मणो ज्ञानाधमध्यानाधमत्वेन निर्णयो यस्मादिति निर्वचनेन सूचनविषयता विविदे |

५६) एतादृशनिर्णयजनकप्रमाणवाक्यस्य कर्मविवेकनामकग्रन्थस्थत्वात् तादृश-निर्णयजनकस्यास्यापि ग्रन्थस्य कर्मनिर्णय इति तद्गन्थनामसदृशं नामेति समसूच्यत ।

५७) " न च कर्ममात्रे पर्यवसितिर्वेदस्य" इत्यनेन कर्मणः कार्यमात्रस्य निराकाङ्क्षताहेतुभूतप्रतिपादनविषयत्वाभावेन निर्णयो यस्मादिति निर्वचनं समसुसूचन्नाचार्यवर्याः ।

५८) "सुखज्ञानस्यैव प्रयोजनत्वात् । अतस्सिद्धस्यैव प्रयोजनत्वं सिद्धम्" इत्यनेन कर्मणोऽपि सिद्धिकर्मणस्सिद्धस्यापि निराकाङ्क्षताहेतुभूतप्रतिपादनविषयत्वेन निर्णयो यस्मादिति निर्वचनं सूचयाम्बभूवुराचार्यसाराः ।

५९)भाक्तं वाऽनात्मवित्त्वात् तथाहि दर्शयतिइतिसूत्रोदाहरणेन कर्मणां जिज्ञासुकृतसकामकर्मणां मन्वन्तरपर्यन्तामृतत्वरूपस्वर्गसाधनत्वेन,

६०) कर्मणां जिज्ञासुकृतनिष्कामकर्मणां मोक्षहेतुज्ञानसाधनत्वेन,

६१) कर्मणां ज्ञानिकृतनिष्कामकर्मणां मोक्षैकदेशानन्दाभिवृद्धिसाधनत्वेन निर्णयो यस्मादिति निर्वचनं सूचयाञ्चक्रुराचार्यरसाः ।

६२)अपाः पूर्वेषां हरिव...इत्यादिना कर्मण इज्यत्वेन कर्मसम्बन्धिनो विष्णोः, कर्मत्वेन हविट्वेन कर्मसम्बन्धित्वात् कर्मशब्दलक्ष्यो यस्सोमः, लक्षितलक्षणया तत्पानं कर्म तत्कर्तृत्वेन, कर्म सोमपानरूपं कर्म तत्कर्तृत्वेनेति वा निर्णयो यस्मादिति निर्वचनमसूचयन्नाचार्यमचर्चिकाः ।

६३) 'अपाः पूर्वेषामिति ब्राह्मणोदाहृतर्ग-व्याख्यानव्याजेन ब्राह्मणं संस्मारयन्त्यः कर्मणः, अपाः पूर्वेषामित्येतयर्चा यजनरूपस्य शस्त्रसमाप्यनन्तरं कर्तव्यत्वेन निर्णयो यस्मादिति निर्वचनं,

६४) कर्मणः षोडशीक्रतोस्सवनत्रयगतभगवद्रूपविशेषप्रसादसाध्यत्वेन इन्द्रनामकभगवत्प्रसादसाध्यत्वेन च निर्णयो यस्मादिति च निर्वचनं ज्ञापयामासुराचार्यमतल्लिकाः ।

६५)विहृतपक्षे तुइत्यादिना कर्मणो विहरणस्य निर्णयो यस्मादिति निर्वचनं बोधयामासुराचार्यर्षभाः ।

तदेवं कर्मनिर्णयनाम निरुक्ताभिरनेकविधाभिर्निरुक्तिभिरत्यन्तमन्वर्थकमिति बह्वर्थमिति च निरधारि । एतावत्य एव निरुक्तय इति न मन्तव्यम् । दिग्दर्शनमात्रमेतत् । तथाच प्राय एतद्ग्रन्थोक्तसर्वार्थसङ्घाहकत्त्वेन टीकाकारैः कर्मनिर्णय इति नामैव स्व्यकारीत्यवधेयम् ॥

॥ इति निरुक्तयः ॥