बुद्धिपूर्वं सर्वकर्तृत्वात् सर्वज्ञत्वादयो युक्ताः

टीकापक्षे मूलवाक्ययोजनादिप्रकारनिरूपणम्

बुद्धिपूर्वं सर्वकर्तृत्वात् सर्वज्ञत्वादयो युक्ताः

टीकापक्षे "युक्तिश्च | बुद्धिपूर्वं सर्वकर्तृत्वात् सर्वज्ञत्वादयो युक्ताःइतिवाक्ययोजना टीकायामेव व्यक्ता ।

तथाहि-टीका-तर्हि कथमेतत् । इत्थम् । क्षित्यादिकं सकर्तृकं कार्यत्वाद् घटवदिति युक्तिश्च ब्रह्मणस्सगुणत्वेऽस्तीति प्रथमवाक्यार्थः । तत्राशङ्का । नन्वनेन प्रसिद्धकर्तृनिरपेक्षोत्पत्तिकस्यापि क्षित्यादेस्सकर्तृकत्वं सिद्ध्यति । न तु ब्रह्मणसगुणत्वमिति । तत्राह-बुद्धिपूर्वमिति । यया युक्तया सर्वस्य जगतः कर्ता सिद्धस्तस्य सर्वज्ञत्वादयो युक्तास्तयैव युक्त्या सिद्धाः । कुतः ? सर्वकर्तृत्वात् सर्वकर्तृत्वान्तर्गतत्वात्तेषाम् । कथम् । बुद्धिपूर्वं हि कर्तृत्वं भवतीति । इति ननु टीकाकृत्पादयोजनायामपि बहवो दोषा आभान्ति । तथाहि-

१) युक्तिश्चेति प्रतिज्ञाय मूले युक्तेस्स्फुटमनुक्तिः |

२) "हि कर्तृत्वं भवति" इति पदाभाव: ।

३) बुद्धिपूर्वमित्यस्य पृथग्वाक्यत्वम् (वाक्यभेदः) ।

४) सर्वकर्तृत्वादित्यस्य सर्वकर्तृत्वान्तर्गतत्वादित्यर्थे लक्षणाश्रयणम् ।

५) युक्ता इत्यस्य यया युक्त्या सर्वकर्तृत्वं सिद्धं तयैव युक्त्या सिद्धा इत्यर्थकल्पनमिति चेत् । न । क्रमेण सर्वासामपि दोषशङ्कानामत्र सुपरिहारात् ।

तथाहि-अत्रेयमाद्या शङ्का-युक्तिश्चेत्येव कुत उक्तं युक्तिर्विशेषतः कुतो न वचनपथमानीतेति । अत्रेदं समाधानंक्षित्यङ्कुरादिसकर्तृकत्वसाधिका कार्यत्वयुक्तिः प्रसिद्धैवेति न विशेषत उक्तिविषयतां प्रापिता । प्रमाणलक्षणेऽपिविमतं सकर्तृकमित्यत्र सर्वज्ञत्वस्य पक्षधर्मताबलेन सिद्ध्यङ्गीकारादि" त्यत्र कार्यत्वादिति हेतुः प्रसिद्धत्वादेवाचार्यैर्न जगदे । तेनेयं शैली समस्ति भगवत्पादाचार्याणामिति ज्ञायते ।

अपि स्पष्टमुक्तौ महती हानिः काचित्? । न महती ।

अथ कीदृशी ? अल्पा । '

आविपालगोपालाङ्गनं सुप्रसिद्धया कार्यत्वयुक्त्या सेत्स्यमानं सर्वकर्तृत्वमपि न जानन्ति प्रतिवादिनः ... ???, हन्त । तर्हि कीदृशीयं दुर्गति: प्रज्ञायाः प्रतिवादिनामिति प्रज्ञापनं न स्यादिति ।

किञ्च युक्तिश्चेति प्रतिज्ञाय कार्यत्वमिति स्पष्टं कथनेऽपि पुनरशङ्का समुदेष्यत्येव । कार्यत्वेन कर्तृसिद्धावपि कथं तस्य सगुणत्वसिद्धिरिति । तत्परिजिहीर्षन्तो भगवत्पादा यया युक्त्या जगतः कर्ता सिद्धस्तस्य सर्वज्ञत्वादयो युक्तास्तयैव युक्त्या सिद्धाः । कुतः ? सर्वकर्तृत्वान्तर्गतत्वात्तेषामित्यर्थकस्येदानीं परिदृश्यमानस्य वाक्यस्यापि प्रयोगं वितन्वीरनेवेति गौरवं गौरवं स्यात् । कथनसंक्षेपनिर्बन्धिनो गुरुतमस्यागौरवमेव गौरवं हि ।

सर्वकर्तृत्वात्सर्वज्ञत्वादयो युक्ताइति कथने तु कर्तृसाधकं कार्यत्वमेव युक्तितया विवक्षितमित्यपि ज्ञायते, तदुपरि कर्तृसिद्धावपि कथं तस्य गुणाः सेत्स्यन्तीति गुणासिद्धिशङ्कापङ्कसङ्खालनमपि सम्बोभवीतीति लाघवं गौरवं " स्यात् ।

…………………………………………………………………………………………………………………………………………………………………

१ सुप्रसिद्धयुक्तिज्ञानमपि नास्तीत्यहो बुद्धिदारिद्रयं प्रतिवादिनामिति ज्ञापनं कार्यत्वयुक्तेः स्फुटं कथने न सम्भवतीति प्रतिवादिबुद्धिदारिद्र्यज्ञापनासम्भवरूपा अल्पा हानिरस्तीति भावः ।

२ गुरुसम्बन्धि इत्यर्थः ।

३ गौरवप्रदं भूषणमिति यावत् ।

४ गुरुसम्बन्धि इत्यर्थः ।

…………………………………………………………………………………………………………………………………………………………………

द्वितीयशङ्कायाश्च समाधानं-शेष इति । शिष्यमनोव्याकुलतानिरसनकुशलैः कृपालुभी राघवेन्द्रश्रीचरणैः " हि कर्तृत्वं भवतीति शेषोक्ति रित्यभिहितत्वात् ।

तदनेन तृतीयशङ्काऽपि समाहिता वेदितव्या ।

तदयमाशयः पूज्यपरिमळाचार्याणाम् ।

अस्तु 'हि कर्तृत्वं भवती 'ति शेषः । अस्तु च तन्निबन्धनो बुद्धिपूर्वं हि कर्तृत्वं भवतीति वाक्यभेदः । अस्तु वा तयोर्दोषत्वम् । अथापि तयोः पददोषत्वेनाबहुत्वेन चाजघन्यत्वाद् ग्राह्यत्वम् । बुद्धिपूर्वं सर्वकर्तृत्वात् सर्वज्ञत्वादयो युक्ता इत्यस्य मूलवाक्यस्य प्रतीयमानैकवाक्यत्वमादृत्य कृतायां प्राचीनयोजनायां टीकोक्तानामप्रसिद्धविशेषणत्व, विशेषणवैयर्थ्यादीनां चार्थदोषत्वेन बहुत्वेन च जघन्यत्वादग्राह्यत्वम् | पददोषादर्थदोषस्य, अबहुदोषंकपक्षाद्बहुदोषकस्य च जघन्यतायास्सर्वसम्प्रतिपन्नत्वात् ।यत्राल्पीयांसो दोषास्स पक्ष' इति हि परीक्षकाणामैकमत्यम् ।

वस्तुतस्तु सम्भवत्येकवाक्यत्वे हि वाक्यभेदस्य दोषत्वम् । न चात्र बुद्धिपूर्वं सर्वकर्तृत्वात्.....इत्यस्यैकवाक्यत्वं सम्भवति । एकवाक्यत्वादरणेन व्याख्याने प्राचीनटीकायां बहूनामप्रसिद्धविशेषणत्वादीनां क्लेशानां पूर्वमेव निरूपितत्वात् । तथा च प्रकृते निर्दुष्टैकवाक्यत्वासम्भवादेव वाक्यभेदोऽङ्गीकृत इति न स दोषो भवति । न वा कश्चित् शेषं दोषत्वेन मनुत" इति ।

एतेनैव चतुर्थशङ्काऽपि समाहिता वेदितव्या । तस्या अपि पददोषत्वात्।

वस्तुतस्तु न शेषकरणं, न वा वाक्यभेदो, न वा लक्षणा | विनैवाध्याहारादिना टीकोक्तयोजनायास्सुसङ्गतत्वात् ।

………………………………………………………………………………………………………………………………………………………………

१ निर्दुष्टैकवाक्यत्वं सम्भवति वाक्यभेदस्य दूकत्वम् । अन्यथा तु वाक्यभेदों न दोषाव इति भावः ।

……………………………………………………………………………………………………………………………………………………………..

तथाहि-बुद्धिपूर्वमित्यस्य बुद्धिप्रभृतीति श्रीनिवासतीर्थैर्व्याख्यानं व्यधायि । तथाच "बुद्धिपूर्वं सर्वकर्तृत्वात् सर्वज्ञत्वादयो युक्ताइत्यस्य बुद्धिपूर्वं-बुद्धिप्रभृति = बुद्धीच्छाप्रयत्नपूर्वकपरिस्पन्दरूपं यत्सर्वकर्तृत्वं तद्रूपत्वात् सर्वज्ञत्वादयो युक्ता युक्तिसिद्धा इत्यर्थः । तथाच सर्वकर्तृत्वपदस्य सर्वकर्तृत्वान्तर्गतत्वरूपार्थे न लक्षणा, नापि " हि कर्तृत्वं भवति" इत्यध्याहार:, अत एव च न वाक्यभेद इति बोद्धव्यम् ।

'बुद्धिपूर्वं हि कर्तृत्वं भवति' इति, 'सर्वकर्तृत्वान्तर्गतत्वात्तेषाम्' इति च कथयितॄणां टीकाकृतां भावस्तु स्फुटीभविष्यति ।

एवं हि योजनायामत्रैवं ङ्के भवतः ।

बुद्धिप्रभृति यत्सर्वकर्तृत्वम्" इत्युक्तत्वात् सर्वकर्तृत्वमेव बुद्धिप्रभृतिरूपं चेत् कर्तृत्वसामान्यं बुद्धिप्रभृतिरूपं न भवति किम् ? इत्येका

कुतश्च बुद्धिपूर्वमित्युक्तमिति चापरा ।

तन्निवृत्तये "बुद्धिपूर्वं हि कर्तृत्वं भवति" इति विवरणं कृतम् ।

अत्र कर्तृत्वमिति कर्तृत्वसामान्यवाचकशब्दप्रयोगेण, प्रकृतत्वात् सर्वकर्तृत्व-शब्दश्श्रीमदाचार्यैर्यद्यपि प्रायुज्यत । तथापि कर्तृत्वसामान्यमेव बुद्धीच्छाप्रयत्नपूर्वकपरिस्पन्दरूपमिति विवक्षितमिति सूचयाञ्चक्रे । तेन प्रथमशङ्कायाः परिहारः समजनि ।

यद् यदभिन्नं तत्तत्साधकप्रमाणसिद्धमिति व्याप्तिबलेन सर्वकर्तृत्वाभिन्नं सर्वज्ञत्वादिकमपि सर्वकर्तृत्वसाधकयुक्तिरूपप्रमाणसिद्धमिति भगवत्पादाचार्याणामाशयः । सर्वकर्तृत्वस्य सर्वज्ञत्वादिभिरभेदे सिद्धे ह्येतत् सम्भवति नान्यथा ।

अतोऽभेदमुपापीपदन्बुद्धिपूर्वं हि कर्तृत्वं भवति" इत्यनेन । तेन द्वितीयशङ्कायाः परिहारस्समजायत ।

तथाचैवं वाक्यार्थः- सर्वज्ञत्वादय: ( सर्वज्ञत्व, सत्यकामत्व, सत्यसङ्कल्पत्व, समस्तशक्तिसमन्वितत्वसमुदाय:) युक्ता: - लाघवज्ञानसहकारेण सर्वकर्तृत्वसाधिका या कार्यत्वयुक्तिस्तत्सिद्धाः तादात्म्येन बुद्धिपूर्वं सर्वकर्तृत्त्वात्=बुद्धिप्रभृति यत्सर्वकर्तृत्वं तद्रूपत्वादित्यर्थः । यद् यदभिन्नं तत् तत्साधकप्रमाणसिद्धमिति हि सर्वसम्प्रतिपन्नम् । तथाच सर्वज्ञत्वादिधर्मसमुदायस्य सर्वकर्तृत्व-शब्दार्थाभेद उक्ते सर्वज्ञत्वाद्येकैकधर्माणां सर्वकर्तृत्वशब्दार्थान्तर्गतत्वमर्थात् सिद्ध्यत्येव । तथा च यदत्रार्थात्सिद्धं तदेव टीकायामुक्तम् । सर्वकर्तृत्वान्तर्गतत्वादिति । न तु तत्र लक्षणा कृतेति बोध्यम् ।

ननु साक्षात्सर्वकर्तृत्वरूपत्वात् तेषाम्" इत्येव टीकायां कुतो नोक्तमिति चेत्। उच्यते। सर्वकर्तृत्वरूपत्वात् सर्वज्ञत्वादयस्तयैव युक्त्या सिद्धा इत्युक्ते त्वेवं संशयो भवति । किं सर्वज्ञत्वसत्यसङ्कल्पत्वादिसमुदायसिद्धावेव सगुणत्वसिद्धिरुतैकैकगुणसिद्धावपीति । तन्निवृत्तय एकैकगुणसिद्धावेव सगुणत्वसिद्धिरिति बोधनायसर्वकर्तृत्वान्तर्गतत्वात्" इति विवरणं कृतम् । तेन सर्वकर्तृत्वरूपसर्वज्ञत्वादिसमुदायान्तर्गतानां सर्वज्ञत्वादीनां मध्य एकैकगुणस्य सिद्धावपि सगुणत्वं सिद्ध्यतीति ज्ञायते । सर्वज्ञत्वादय इति बहुवचनस्वारस्यानुरोधेन चेदं सिद्ध्यति । अन्यथा समुदायस्य विवक्षितत्वेन सर्वज्ञत्वादिः (समुदायो) युक्त इत्येकवचनं प्रयुज्येत |

अन्तिमशङ्कायास्समाधानं तु- 'घटो रूपीत्याकारकं प्रत्यक्षमस्तीति पूर्वमुक्त्वा तदुपपाद्य, तथा च घटो रूपं च प्रत्यक्षसिद्धमित्युक्ते तत्र प्रत्यक्षपदेन यथा पूर्वप्रसक्तप्रत्यक्षमेव स्वीक्रियते तथाऽत्रापि पूर्वं युक्तिपदेन या युक्तिर्गृहीता तद्युक्तिसिद्धत्वमेव युक्तशब्दार्थ इति ग्रहणाय " यया युक्त्या" इत्यादिशब्दैर्विवृतमेव केवलं, न तु तच्छेषकरणमिति मन्तव्यम् ।

अत एव (अध्याहारवाक्य भेदयोरभावादेव) अवतरणिकाटीकादि सङ्गच्छते । 'तथाहि-यद्यत्र 'हि कर्तृत्वं भवती 'ति शेष इति टीकाभिप्रेतस्स्यात् तर्हि तत्र वाक्यभेदोऽपि टीकाभिप्रेत इति वक्तव्यम् । बुद्धिपूर्वमित्याद्येकं वाक्यम् । सर्वकर्तृत्वात्...इत्याद्यपरं वाक्यमिति । तथा सति बुद्धिपूर्वमित्येतदवतरणिकायामुक्ता शङ्का ' नन्वनेन प्रसिद्धकर्तृनिरपेक्षोत्पत्तिकस्यापि क्षित्यादेस्सकर्तृकत्वं सिद्ध्यति । न तु ब्रह्मणस्सगुणत्वमित्येवंरूपा, न तेन हि कर्तृत्वं भवतीतिशेष-विशिष्टेनापि बुद्धिपूर्वमिति प्रथमवाक्येन परिह्रियते । येन च सर्वकर्तृत्वात्..... इत्यादिद्वितीयवाक्येन सा परिह्रियते तद्वाक्यस्य चावतरणिका नोक्तेत्यसङ्गति-स्स्यात् । अतस्सम्पूर्णं तदेकमेव वाक्यमिति टीकाभिप्रेतमिति विज्ञायते । तेन च सम्पूर्णेन वाक्येन तस्याश्शङ्कायाः परिहारादवतरणिका सङ्गच्छते ।

किञ्चबुद्धिपूर्वमितीत्येव प्रतीकग्रहणेन समग्रं वाक्यं व्याख्यायि, न तु सर्वकर्तृत्वादितीति पृथक्प्रतीकं जगृहे । वाक्यभेदे च पृथक्प्रतीकग्रहणं स्यात् ।

किञ्च प्रथमवाक्यार्थ इत्युक्त्वा, द्वितीयवाक्यार्थ इति कण्ठतोऽकथनेऽपियया युक्त्याइत्यादिनोक्तो द्वितीयवाक्यार्थ इति स्वीकार एवान्ते " भवतीतिइत्यत्रेतिपदमन्वितं भवति । अन्यथा तदनन्वितं स्यात् ।

……………………………………………………………………………………………………………………………………………………………

१ प्रतीतिसौकार्याय पुनरत्र टीकावाक्यान्युद्धियन्ते ।

टीका-तर्हि कथमेतत् । इत्थम् । क्षित्यादिकं सकर्तृकं कार्यत्वाद् घटवदिति युक्तिश्च ब्रह्मणस्सगुणत्वेऽस्तीति प्रथमवाक्यार्थः । तत्राशङ्का । नन्वनेन प्रसिद्धकर्तृनिरपेक्षोत्पत्तिकस्यापि क्षित्यादेस्सकर्तृकत्वं सिद्ध्यति । न तु ब्रह्मणस्सगुणत्वमिति । तत्राह बुद्धिपूर्वमिति । यया युक्त्या सर्वस्य जगतः कर्ता सिद्धस्तस्य सर्वज्ञत्वादयो युक्तास्तयैव युक्तया सिद्धाः । कुतः ? सर्वकर्तृत्वाद् सर्वकर्तृत्वान्तर्गतत्वात्तेषाम् । कथम् । बुद्धिपूर्वं हि कर्तृत्वं भवतीति । इति

…………………………………………………………………………………………………………………………………………………………….

किञ्च मूलावलोकनेयुक्तिश्चइतिबुद्धिपूर्वं सर्वकर्तृत्वादित्यादि" च वाक्यद्वयमिति स्फुटं प्रतीतिर्जायते । यदि वाक्यत्रयमिति टीकाकृन्मतं स्यात् तर्हि प्रथमवाक्यार्थ इतिवद् द्वितीयवाक्यार्थ इति तृतीयवाक्यार्थ इति च टीकायां स्फुटमुच्येत । नाभिहितं च तथा । तेन चावगम्यते प्रथमवाक्यार्थातिरिक्तोभवतीतिइतिशब्दपर्यन्तं कथितः परिशेषाद् द्वितीयवाक्यार्थ एवेति सिद्धत्वात्कण्ठतो नोक्तमिति । वाक्यत्रयमिति नाभिप्रेतं टीकाकृतामिति च ।

ननु कथन्तर्हि राघवेन्द्रश्रीमच्चरणानां 'कर्तृत्वं भवतीति शेषोक्तिरित्युक्तिरिति चेत्, न स्मरति भवानुक्तार्थस्य । उक्तमुत्तरं पूर्वमेव राघवेन्द्र श्रीमच्चरणाशयाविष्कारपूर्वकम् |

नन्वथापि कथं राघवेन्द्र श्रीमच्चरणानां पक्षेऽवतरणिकाटीकासङ्गत्यादिरिति चेदनवगततद्व्याख्यानभावानां स्यादियमाशङ्का । परं सूक्ष्मदृष्ट्याऽवलोकनेऽवगम्यते तैरेव स्वव्याख्यान उक्तमुत्तरम् ।

तथाहि-तद्व्याख्यानम्-बुद्धिपूर्वमितीति वाक्यप्रतीकम्, बुद्धिपूर्वमित्यादीत्यर्थ इति ।

तदयमर्थः । यद्यपि पूज्यपरिमळाचार्याणां पक्षे बुद्धिपूर्वमित्येकं वाक्यं, तदुत्तरं सर्वकर्तृत्वात् सर्वज्ञत्वादयो युक्ता इत्यपरं वाक्यम् । तथापि मूलावलोकने तु समग्रं तदेकमेव वाक्यमिति प्रतीयते । तथा च मूलावलोकने सति सम्पूर्णं यदेकं वाक्यमिति प्रतीयते तेन चावतरणिकोक्तायाशङ्काया 'नन्वनेन प्रसिद्धकर्तृ-निरपेक्षोत्पत्तिकस्यापि क्षित्यादेस्सकर्तृकत्वं सिद्ध्यति । न तु ब्रह्मणस्सगुणत्वमिति' इत्येवंरूपाया उत्तरं लभ्यत एवेति नावतरणिकाटीकाऽसङ्गतिः । मूले प्रतीयमानस्य वाक्यस्य हि टीकाकृता अवतरणिका वक्तव्या भवति । न तु तत्र यो वाक्यभेदष्टीकाकृता कल्पितस्तस्य । अथापि तस्यापि अवतरणिकाकुतः, कथं" इति टीकायामुपलभ्यत एव ।

अत एव-मूलावलोकने सम्पूर्णस्यैकवाक्यत्वावगमादेव पृथक् सर्वकर्तृत्वादिति प्रतीकाग्रहणमपि युज्यते ।

क्षित्यादिकं सकर्तृकं कार्यत्वाद् घटवदिति युक्तिश्च ब्रह्मणस्सगुणत्वेऽस्तीति प्रथमवाक्यार्थ इतिवन्न द्वितीयवाक्यार्थ इति स्पष्टमभ्यधायि । तत्र यथा भवतीति इत्यन्तिमेतिशब्दस्य द्वितीयवाक्यार्थ इत्यध्याहृत्यान्वय उपपाद्यते बुद्धिपूर्वं सर्वकर्तृत्वात्.. इत्यादेस्सम्पूर्णस्यैकवाक्यत्वाङ्गीकारिभिरेवं तस्य भिन्नवाक्यत्वाङ्गीकारिभिरपि उत्तरवाक्यार्थः (उत्तरयोर्वाक्ययो:- बुद्धिपूर्वमित्यस्य सर्वकर्तृत्वात् सर्वज्ञत्वादयो युक्ता इत्यस्य च अर्थ: ) इति ग्रहणेनापि अन्तिमेतिशब्दान्वयस्सूपपाद इति, इतिशब्दानन्वयदोषोऽपि नास्तीति ॥

॥ इति टीकापक्षे मूलवाक्ययोजनादिप्रकारनिरूपणम् ॥