नाहं कर्ता हरिः कर्ता तत्पूजा कर्म चाखिलम् । तथापि मत्कृता पूजा तत्प्रसादेन नान्यथा
प्राचीनटीकाकाराणां टीकाकृत्पादानां च टीकयो: प्रतीयमानविरोधपरिहारः
नाहं कर्ता हरिः कर्ता तत्पूजा कर्म चाखिलम् । तथापि मत्कृता पूजा तत्प्रसादेन नान्यथा
"प्रपञ्चो भेदपञ्चक" इति प्रकृत्यधिकरणीयानुव्याख्यानव्याख्यानरूपसुधायां “स च जीवेश्वरप्रकृत्यादिनित्यस्वरूपभूतोऽनादिनित्य एवेति नोक्तदोषः । टीकाकारास्तु मन्यन्ते । भेदो नामान्योन्याभावः । स चान्योन्यतादात्म्यापत्त्यैव निवर्तनीयः । प्रतियोग्याप( ग्युत्प) त्तेरेवाभावविपत्तित्वस्य प्रागभावे दृष्टत्वात् । न च कदापि पदार्थानामन्योन्यं तादात्म्यमस्तीत्यनित्यानामपि भेदो नित्य एव" इत्युक्तम् । अत्र स्वयं नित्यस्वरूपभूतभेदस्यैव नित्यत्वमुक्त्वाऽनित्यस्वरूपभूतभेदस्यापि नित्यत्वं कथयतां प्राचीनटीकाकाराणां पद्मनाभतीर्थानां मतं गौरवेणानूदितमेव न निराकृतम् ।
ननु तथापि परस्परं विरोधो भवत्येवेति चेत् । न । “ अनित्यानां हि न सर्वथाऽस्मन्मते नाशः । किन्तु कार्याकारेणैव । कारणात्मना त्ववस्थानमेव तेषाम् | अतोऽनित्यस्वरूपभूतभेदोऽपि कारणात्मनाऽवतिष्ठत इति टीकाकाराणा-मभिप्रायः । इममेवाभिप्रायं सूचयितुं सुधायां प्रकृतिरूपमूलकारणस्वरूपभेदस्य नित्यतोक्ता ।
सुधायामनित्यप्रपञ्चस्वरूपभेदस्यानित्यताङ्गीकारस्तूपादानरूपेण सतो घटस्येव तद्रूपेण सतो भेदस्यापि व्यवहारानुपयोगित्वमभिप्रेत्यैवातो न कोऽपि विरोध इति मन्तव्यम्" इति यादवार्यैरेव स्फुटं विरोधस्य परिहारात् ।
एवं "देहात्मनोरपि एकदेशस्थत्वादिसादृश्यमस्त्येव" इति विष्णुतत्त्वनिर्णयटीकायां प्राचीनटीकाकारा अभ्युपेत्यवादेन व्याचख्युरिति समर्थयमाना एवं तेषां व्याख्यानमन्ववादिषुः । न निराकार्षुः ।
तथाहि- " नन्वहं मनुष्य इति देहात्मविभ्रमस्तावदस्ति । अन्यथा संसाराभावप्रसङ्गात्। देहात्मभ्रमाद्धि रागद्वेषोदयः । ततः पापपुण्यरूपप्रवृत्युत्पादः । तस्मादपूर्वदेहादिलाभः । तेन दुःखप्राप्तिः । तथा चोक्तम्- "नैषां ममाहमिति धीः श्वस्रुगालभक्ष्ये” इति । तत्र यद्यप्यधिष्ठानं प्रधानञ्चास्ति । तथापि सादृश्याभावादुक्तव्याप्तिभङ्ग इति चेत्, किमत्राऽत्मनि देहारोपो देहे वाऽत्मारोप उत भिन्नयोर्देहात्मनोरभेदारोपः । न प्रथमद्वितीयौ । देहात्मनोः प्रातीतिकत्वप्रसङ्गात् । देहाद्यन्तराभावात् । न तृतीय: । आविपालगोपालं देहात्मभेदज्ञानसद्भावस्यान्यत्रोपपादितत्वात् । कथं तर्हि मनुष्योऽहमित्यादिव्यवहार इति चेदुपचारेणेति ब्रूमः । उपचारे किं निमित्तमित्यत आह-देहात्मनोरिति । यथा वस्तुतो भिन्नयोस्तन्तु-पट्योरेकदेशस्थितत्वं भेददर्शनेऽपि स्फुटतरविवेकाभावश्चास्ति तथा देहात्मनोरपीत्यनेन सादृश्येनायं व्यवहारः । ततो भ्रान्तेरभावान्नात्रोक्तव्याप्तेर्भङ्गशशङ्कनीय इति । स्फुटभेदज्ञानाभावादेव संसारोपपत्तिः । किञ्च स्फुटभेदज्ञानेऽपि पुत्रादाविव स्नेहवशाद्रागादिकं सम्भवत्येव । पुराणवाक्यमपि स्फुटभेदप्रतिभासाभावविषयमिति । अन्ये तु देहात्मभ्रममङ्गीकृत्य सादृश्योपपादनार्थमिमं ग्रन्थं व्याचक्षत" इति ।
अत्र अन्ये इत्यनेन पद्मनाभतीर्थादयो गृहीता इति राघवेन्द्रश्रीचरणाः । नरहरितीर्था गृहीता इति श्रीनिवासतीर्थाः । नारायणपण्डिताचार्या अपीति सुवर्णनिकषकाराः कुम्भकोणानन्दतीर्थाचार्याः । तथाच सर्वेषामपि प्राचीनानां व्याख्यानान्यभ्युपेत्यवादेन प्रवृत्तानि न स्वमतानुसारेणेति न तेषां देहात्मैक्यभ्रमनिषेधपरानुव्याख्यानविरोध इति सश्रद्धं प्रतिपादयन्ति ।
…………………………………………………………………………………………………………………………………………………………………
१ देहात्मत्वं यदि न तत्प्राप्तं प्रत्यक्षतः क्वचित् । मम देह इति होव न देहोऽहमिति प्रमा... जातमात्रा मृगा.... यदा देहान्तरज्ञानं देहेक्यावसितिः कुतः । इतिभक्तिपादीयानुव्याख्यानविरोधः ।
…………………………………………………………………………………………………………………………………………………………………
ननु प्रकृत्यधिकरणे "टीकाकारास्तु" इति यथा सादरं नामनिर्देशः कृतस्तथाऽत्र कुतो न कृतः । “अन्ये तु” इति कुत उक्तमित चेत् । श्रुणु । नात्र अन्ये इत्यस्य स्वयूथ्येभ्यो भिन्ना इत्यर्थः । किन्तु “प्रोक्ता अन्येनैव सुज्ञानाय प्रेष्ठ” इति (का.अ-१ब्रा-५म-९) काठकोपनिषदि वर्तमानस्यान्यशब्दस्य,“अन्यो भगवानन्योऽहमित्यजानन्ननन्य" इति पूर्ववाक्यभाष्यानुसारेण अन्यो भगवान्, अन्योऽहमिति जानन्नन्य इति यथाऽर्थस्स्वीक्रियते तथाऽत्रापि अन्य इत्यस्य अन्यत्वज्ञानिनो जीवब्रह्मभेदज्ञानिनो 'देहात्मभेदज्ञानिनश्च सुज्ञानदानसमर्थाः प्राचीनास्स्वयूथ्या एव महानुभावा इत्यर्थः ।
`अवश्यञ्चैतदेवं विज्ञेयम् । पूर्वं " प्रपञ्चो यदि विद्येत ” इति श्रुतेः पराभिप्रेतार्थं प्रपञ्चमिथ्यात्वं निराकृत्य " जीवेश्वरभिदा चैव" इत्यादिपरमश्रुतिसंवादेन भेदपरत्वं समर्थितम् । ततः प्रपञ्चस्य भ्रान्तिकल्पितत्वं सदृशस्य सत्यस्य प्रधानस्याभावे नोपपद्यते । न च सत्यं सदृशं प्रधानं त्वयाऽङ्गीक्रियते । अतो भ्रान्तिकल्पितत्वमपि प्रपञ्चस्य नाङ्गीकर्तुं शक्यत इति न प्रपञ्चमिध्यात्वं श्रुत्यर्थ इत्युक्तम् ।
ननु देहात्मैक्यभ्रमस्सादृश्याभावेऽपि भवतीति शङ्कायां वस्तुतो देहात्मैक्यभ्रमस्सिद्धान्ते नास्ति । परमतानुसारेण देहात्मैक्यभ्रमाङ्गीकारेऽप्येकदेशस्थत्वादि-सादृश्यस्य सत्त्वादेव भ्रान्तिर्भवति न तु सादृश्याभावेऽपीति प्राचीनटीकाकाराणामाशयः ।
………………………………………………………………………………………………………………………………………………………………..
१ अन्यो भगवान्, अन्योऽहमिति जीवात्मपरमात्मान्यत्वज्ञानिनो यथा अन्य इत्युक्ताः, एवमेव देहात्मान्वत्वज्ञानिनोऽपि अन्य इति अत्र विवक्षिता इति भावः । तेन प्राचीनानां व्याख्यानस्याभ्युपगमवादत्वं स्फुटीकृतं भवति ।
२ अस्य अन्ये इत्यौपनिषदशब्देन कथनमेवौचित्यं भजते हीति' । इत्युत्तरत्रान्वयः ।
………………………………………………………………………………………………………………………………………………………………...
अभ्युपेत्यवादस्य चेदं प्रयोजनं यत्प्रागुक्तस्य समर्थनम् । तथाच देहात्मैक्यभ्रमाङ्गीकारेऽपि सादृश्येन विना सोऽपि न भवतीति सर्वत्र भ्रमस्थले सादृश्यमङ्गीकार्यमेव । प्रकृते च सदृशस्य सत्यस्य प्रपञ्चस्याभावात् भ्रान्त्यनुपपत्तेः प्रपञ्चमिध्यात्वमनुपपन्नम् । अत एव प्रपञ्चमिथ्यात्वं न श्रुत्यर्थः किन्तु प्रागुक्तजीवेश्वरभेदादिनित्यत्वमेव श्रुत्यर्थ इति समर्थितं प्राचीनटीकाकारैरभ्युपेत्यवादेन ।
तथाचास्मिन् जीवेश्वरभेदनित्यत्वसमर्थनप्रसङ्गे प्राचीनटीकाकाराणां जीवेश्वरभेदज्ञानिन इत्यर्थे वर्तमानेन अन्ये इत्यौपनिषदशब्देन कथनमेवौचित्यं भजते हीति । एवं च सादरमेव निर्देशः कृत इति निश्चितु |
किञ्चान्याभिप्रायमाश्रित्य कथनेनान्यैः कथितमिवाभवत् । यथा हि लोके सर्वदा युक्तमेव वदन्देवदत्तो यदाऽन्योक्तमयुक्तमनुवदति तदा वदन्ति नेदं देवदत्तो वदति किन्त्वन्य एव कश्चन वदतीति । देवदत्तकर्तृककथनस्य प्रत्यक्ष-सिद्धत्वेऽपि तस्य स्वाभिप्रायकथनरूपत्वाभावाभिप्रायेण, अन्यो वदतीति यथा प्रयुज्यते तथा प्रकृतेऽपि प्राचीनटीकाकाराभिप्रायाभावविवक्षया अन्याभिप्रायकथनविवक्षया अन्ये इति पदप्रयोगस्साधुः ।
एवमन्यत्राप्यविरोधोऽवगन्तव्य इति सर्वमवदातम् ॥
॥ इति श्रीमदुत्तरादिमठाधीश श्रीमत्सत्यात्मतीर्थविरचितः कर्मनिर्णयटीकाभावप्रकाशिकापराभिषः खण्डार्थचन्द्रिकाविमर्शात्मकः कर्मविजयः समाप्तः ॥
" नाहं कर्ता हरिः कर्ता तत्पूजा कर्म चाखिलम् । तथापि मत्कृता पूजा तत्प्रसादेन नान्यथा ॥
तद्भक्तिस्तत्फलं मह्यं तत्प्रसादः पुनः पुनः । कर्मन्यासो हरावेवं विष्णोस्तृप्तिकरस्सदा ॥
अनेन भावि यत्पुण्यं तदाप्नोतु गुरुर्मम ||
॥ श्रीकृष्णार्पणमस्तु ॥
गम्भीरापारशास्त्राकूपारपारतरणे तत्पङ्ग्तिपर्यालोचने च निस्सीमाध्ययनसचिवगम्भीरालोचनं, मौलगूढार्थस्य ग्रहणं, युक्त्या विवेचनं, चिरन्धारणन्चेति प्रधानम्बीजम् । यच्चाधुना नरमात्रजनानान्दुर्लभमिति तु न तिरोहि॑तमात्मावमर्शवताम्पुंसाम् । तदिदं परं सर्वं व्याख्यानैपुण्यपुण्यबीजं वैराग्यभाग्येषु तपोतिशयमहिमवत्सु टीकाकृत्सु समूढमिव दृढन्निरूढमूलम् । अनितरसाधारणी हि "धारणमातृका" टीकाकृताम् |
अन्यूनानतिरिक्तभाषित्वं युक्तिसहविचारशालित्वं यथासिद्धान्तं विषयोपपादकत्वं, चितोचितपदपुन्जै:स्सन्दर्भनिरूपकत्वञ्चेति निखिलापेक्षितनवनवोन्मेषप्रतिभावैभवं टीकाकृतोऽन्यत्र प्रायां विरळं, न क्वापि सुलभं किं बहुना नास्त्येवाप्रतनजनेषु । .....
न लोमाप्यहीयत टीकायाः । न हीयते । न हास्यते वा ।