नृसिंहमखिलाज्ञानतिमिराशिशिरयुतिम् । सम्प्रणम्य प्रवक्ष्यामि कथालक्षणमञ्जसा
श्रीः
अथ श्रीमदानन्दतीर्थ भगवत्पादाचार्यविरचितेषु
दशप्रकरणेषु द्वितीयं कथा लक्षणम्
श्रीजयतीर्थमिक्षुकृतया टीकया समलङ्कृतम्
टीका
मङ्गलाचरणम्
कथालक्षणपञ्चिका
श्रियः कमितुरानम्य चरणाम्बुरुहद्वयम् ।
यथाबोधं विधास्यामः कथालक्षणपञ्चिकाम् ॥
अथ कथां लिलक्षयिषुराचार्यवर्यः प्रारिप्सितप्रकरण परिसमाप्त्यादिप्रयोजनेष्टदेवताप्रणतिनुति- पुरस्सरं विवक्षितमर्थं दर्शयति ॥
कथालक्षणम्
नृसिंहमखिलाज्ञानतिमिराशिशिरयुतिम् ।
सम्प्रणम्य प्रवक्ष्यामि कथालक्षणमञ्जसा ॥ १ ॥
मङ्गलाचरणस्य भक्त्यादियुतस्यैव ग्रन्थसमाप्तिसाधनत्वम्
-इह हि कृतदेवतानतीनामपि या ग्रन्थापरिसमाप्तिस्सा भक्तिश्रद्धाद्यतिशय पूर्वकत्वाभावनिमित्ता न तत्पूर्वकप्रणामस्य प्रारिप्सितपरिसमाप्त्यहेतुतां गमयितुं शक्नोति । न ह्येकदेशव्यभिचारेण सामग्री व्यभिचारिणी स्यात् । अत एव भक्त्याद्यतिशयपूर्वकत्वलक्षणं प्रणामस्य सम्यक्प्रकर्ष शिष्यान् ग्राहयितुं सम्प्रणम्येत्युक्तम् ।
मङ्गलाचरणं विनापि समाप्तिः कारणान्तराधीना
या त्वकृतदेवतानतीनामपि समीहितसिद्धिस्सा कारणान्तरादपि भविष्यति । न ह्येकस्यैकमेव कारणम् ।
श्रीकथालक्षणटीकाभावदीपः
अथ श्रीराघवेन्द्रतीर्थयतिकृतः श्रीकथालक्षणटीकाभावदीपः प्रारभ्यते
हरिः ॐ
इन्दिरारमण नत्वा पूर्णबोधाऽदिकान् गुरून् ।
विवृणोमि यथाबोध कथालक्षणपश्ञ्चिकाम् ॥ १ ॥
सकलवाङ्मनसदेवताया देव्या अपि नतेरावश्यकत्वात् तदुपसर्जनतया भगवन्नतिरूपमङ्गलमाचरन्नेव चिकीर्षितं प्रतिजानीते ॥ श्रियः कमितुरिति ॥ श्रियो लक्ष्म्या । कमितुः पत्युः । ' कामुके कमिताभीक ' इत्युक्तः । पादकमलद्वयं भक्तिश्रद्धापूर्वकं नत्वा कथालक्षणाख्यग्रन्थस्य पञ्चिकां टीकां यथोबोधम् अस्मद्बुद्धि- मनतिक्रम्य अस्मद्बुद्धयनुसारेण करिष्याम इत्यर्थः । यद्वा यथावोधं श्रोतृबुद्धिमनतिक्रम्येत्यर्थः । श्रोतॄणां यथा बोधो भवति तथा विधास्याम इति यावत् । अथ वा ग्रन्थकर्तृबोधमनतिक्रम्येत्यर्थः । तदभिप्रायानुसारेणैव व्याख्यां करिष्याम इति यावत् ।
विधास्याम इति भविष्यदर्थकऌट्प्रयोगेण कियद्दूरे व्याख्यारम्भः ? कदा च करिष्यन्ति ? इति शिष्य - मनसो व्याकुलत्वनिरासायाह ॥ अथेति । आरम्भार्थोऽयमथशब्दः । अथ आरभ्यते व्याख्या इत्यर्थः । अथ वा प्राचीनटीकयैवालं । किं सङ्कुचितेन भवदीयव्याख्यानेन ? इत्यत आह ॥ अथेति ॥ प्रतिवाक्यव्याख्या आरभ्यत इति प्रतिग्रन्थन्याख्यारम्भार्थोऽत्र अथशब्दः । मूलाऽद्यवाक्यव्याख्यारम्भार्थो वा । श्रुतितो मङ्गलप्रयोजनकोऽप्युक्तार्थाभिधायीति ज्ञेयम् । लिलक्षयिषुः लक्षणवत्तया विवक्षुरित्यर्थः । आदिपदेन प्रचयग्रह- णम् । देवताप्रणतिपुरस्सरत्वे प्रारिप्सितपरिसमाप्त्यादिप्रयोजनकत्वमिष्टत्वं चेति हेतुद्वयम् ॥ विवक्षितमर्थ दर्शयतीति ॥ दर्शनकृत्यं श्लोकव्याख्यान्ते वक्ष्यति । यदुक्तं देवताप्रणत्यादेः प्रारिप्सित परिसमाप्त्यादिप्रयोजन- कत्वं, तदयुक्तम् अन्वयतो व्यतिरेकतश्च व्यभिचारादित्याशङ्कय तत्र व्यभिचारोऽन्यनिबन्धनः न देवताप्रणते: तदहेतुत्वनिमित्त इति सम् प्र इत्युपसर्गद्वयोक्त्यभिप्राय विवरणेनाह । इह हीत्यादिना न कस्यैकमेव कारण- मित्यन्तेन । इह लोके इत्यर्थः । कृतेत्यादि बहुव्रीहिः । पुंसामिति योज्यम् । एवमग्रेऽपि ॥ अत एवेति ॥ भक्त्याद्यतिशयपूर्वकप्रणतिरूपसामग्र्याः प्रागुक्तप्रयोजनाव्यभिचारादेवेत्यर्थः ॥ शिष्यान् ग्राहयितु- मिति ॥ अस्माभिरप्येवं कार्यम्' इति शिष्याणां बुद्धिमुत्पादयितुमित्यर्थः । व्यतिरेकव्यभिचारमुद्धरति ॥ या त्वकृतदेवतानतीनामिति ॥ पञ्चपादीकृतामित्यर्थः । यद्वा लौकिकानामित्यर्थः ॥ समीहितेति ॥ शिष्यादि- फलसिद्धिः आरब्धकार्यसिद्धिर्वत्यर्थः । न ह्येकस्येति ॥ त्रैवर्णिकानां दर्शपूर्णमासादिरिव त्रैवर्णिकेत रस् परिचर्यात्मकं कर्म शूद्रस्यापि खभावजम् ।
स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः ।
इति त्रैणिकपरिचर्या तीर्थस्नानादिरपि स्वर्गस्य कारणान्तरं दृष्टमिति इहापि पुण्यतीर्थपुण्यक्षेत्र स्नान दर्शनादि कारणान्तरं समीहितसिद्धिहेतुः कल्प्यतामिति भावः ।
कथालक्षणटीकाविवरणं
मङ्गलाचरणम्
अथ श्रीवेदेशभिक्षुविरचितं कथालक्षणटीकाविवरणं प्रारभ्यते
हरिः ॐ
कमलाकान्तमानम्य पूर्णबोधान् गुरूनपि ।
व्याकरिष्ये यथाबोधं कथालक्षणपञ्चिकां ॥ १ ॥
ग्रन्थादाविष्टविशिष्टदेवताप्रणतिपुरस्सरं चिकीर्षितं प्रतिजानीते ॥ श्रिय इति ॥ कमु कान्तौ कान्तिरिच्छा अस्मात्तृचि इडागमः । आयादय आर्धधातुके वा' इति विकल्पादयभावः । ततश्च कमितुः कामुकस्य । अत एव 'कामुके कमितानुक' इत्यभिधानम् । ग्रन्थारम्भे सकलवाङ्मनस देवतायाः श्रियोऽपि । वन्दनीयत्वात् पृथग्वन्दनानौचित्याच्च सा नरहरि विशेषणत्वेनैव वन्दनीयेत्याशयेन श्रियः कमितुरित्युक्तम् । अनेन वन्द्यत्वप्रयोजकमिष्टत्वं विशिष्टत्वञ्चोक्तमिति ज्ञातव्यम् । श्रियो हि सकलपुरुषार्थप्रदत्वेनेष्टत्वं ब्रह्मादिवि- शिष्टत्वञ्च प्रसिद्धम् । तत्कमितुश्च सुतरामिति । भक्तिश्रद्धातिशयपूर्वकत्वं द्योतयितुं आप्रयोगः कृतः । तादृशनतेरेव फलाव्यभिचारस्य वक्ष्यमाणत्वात् ।
ननु 'आनन्दतीर्थ भगवद्वचसां विशिष्टव्याख्यान कर्मणि सुरा ह्याधिकारिण:' इति स्वेनैव अन्यत्रोक्तत्वात् कथमेतद्व्याख्याने प्रवृत्तिः इत्यत उक्तम् ॥ यथाबोधमिति ॥ सुरा एव अशेषतोऽभिप्रेतार्थव्याख्याने अधिकारिण इति भावः । तथा च व्याख्येयस्य प्रकरणस्य दुर्बोधवह्वर्थता व्याख्येयत्वप्रयोजनिका अनेन सूचितेति ।
पञ्च्यते व्यक्तीक्रियते अनयेति पञ्चिका व्याख्या । पचि व्यक्तीकरण इति धातोः इदित्वान्नुमि मी ए ' बुल्तृचौ ' इति कर्तरि वुल्विधानेऽपि 'कृत्यल्युटो बहुलम्' इति वचनात् अन्येऽपि कृतो यथाप्राप्तमर्थ व्यभि- चरन्ति इत्युक्तत्वात् अकर्तरि च कारके वुल्विधायकात् ' सञ्ज्ञायाम् ' इति सूत्राद्वा करणे ण्वुल्प्रत्यये, 'युवोर- नाकौ' इति अकादेशे कृते, स्त्रीत्वविवक्षायां टापि, 'प्रत्ययस्थात्कात्' इत्यकारस्य इकारे पञ्चिकेति रूपम् । कथा लक्ष्यते अनेनेति कथालक्षण प्रकरणम् । तस्य पञ्चिकेत्यर्थः ।
नन्वाद्यकारिकायां प्रणम्येति क्त्वा 'निर्देशेनोक्तेष्टदेवता प्रणतेर्ग्रन्थारम्भपूर्वकालत्वं प्रयोजनाभावादयुक्त. मित्याशङ्कां परिहरन्नाद्यकारिकामवतारयति ॥ अथेति ॥ ननु अथशब्दो न तावन्मङ्गलार्थः तस्य पर्वमेव कृतत्वात् । वाक्यार्थानन्वयाच्च । नाप्यानन्तर्यार्थः । आचार्यकृतेष्टदेवताप्रणत्यादेः खकृतमङ्गलानन्तर्याभावात् । अन्यस्य च आनन्तर्यावधेरनुपलम्भात् । आरम्भर्थित्वञ्च विधास्याम इत्यनेन गतार्थत्वादयुक्त पू । उत्तरत्र उत्तरानुपलम्भेन 1 निर्देशेनोमिष्टदेवता इति पाठेन भाव्यमिति भाति.
(वे. टि.) प्रश्नार्थत्वमपि । इति चेत् उच्यते । आचार्यः इष्टदेवताप्रणतिनुतिपुरस्सरंवि वक्षितमर्थं दर्शयतीत्युक्ते, ननु कथाप्रतिपादकेऽस्मिन् ग्रन्थे कथैव वक्तव्या । किमेतदिष्टदेवता प्रणत्या दिकमसङ्गतमुच्यते ? अत उक्तं ॥ अथ कथां लिलक्षयिषुरिति ॥ अनन्तरं कथां लिलक्षविषुरित्यर्थः । ग्रन्थोपयुक्त मिष्टदेवताप्रणत्यादिकमादावुक्त्वा पश्चात् कथां लिलक्षयिषुरिति यावत् । तथा च देवताप्रणत्यादेः ग्रन्थोपयुक्तस्यैवात्र वचनात् नासङ्गतिरिति भाव इति । प्रतिग्रन्थव्याख्यारम्भार्थोऽयमथशब्द इत्यन्ये ।
जिनक यद्यपि नुतेः प्राथम्यात् अश्याच्तरत्वाच्च नुतिप्रणतीत्येव वक्तव्यम्, तथाप्यत्रोक्तायाः प्रणतेः प्राधान्येन नुतेश्च तदर्थतया प्राप्ताया गुणत्वेन 'समुद्राश्राद्ध' इत्यादिसौत्रप्रयोगेण अल्पाच्तरनियमस्य प्रायिकत्वाच्च प्रणतिनुतीति युक्तमित्यबधेयम् ।
ननु तवाप्रत्ययाभिप्रेतमिष्टदेवताप्रणतेः प्रारिप्सितपरिसमाप्तिप्रयोजनत्वमयुक्तम् । कादम्बर्यादावन्वय- व्यभिचारादित्याशङ्कापरिहारार्थं सम् प्र शब्दप्रयोग इति वक्तुमाह ॥ इह हीति । न ह्येकदेशेति ॥ अत्र एक- देशशब्दो विशिष्टशरीरान्तर्गतैकदेशपरः । मेलनार्थक सामग्रीशब्दो विशिष्टपरः । तथा च विशेष्यादिरूपस्य विशिष्टैकदेशस्य व्यभिचारेण विशिष्टमपि न व्यभिचरतीत्यर्थः । दण्डमात्रस्य कोमलत्वाद्यवस्थायां घटव्यभिचारित्वेऽपि दृढत्वविशिष्टस्य तदभावादिति हिशब्देन सूचयति । अत एवेति ॥ अन्वयव्यभिचारपरिहारस्य सूचनीयत्वादे- वेत्यर्थः ॥ प्रणामस्येति ॥ नतेरित्यर्थः ॥ तथा च नतेभक्तिश्रद्धा पूर्वकत्वं प्रकर्षः । तदतिशयपूर्वकत्वं सम्यक्- प्रकर्षः तमित्यर्थः ॥ शिष्यान् ग्राहयितुमिति ॥ श्रद्धाद्यतिशयपूर्वकेष्टदेवतानतिरेव प्रारिप्सितपरिसमाप्त्यादि- साधनं । न नतिमात्रमिति शिष्यान् ग्राहयितुमित्यर्थः । अनेन प्रणामस्याभिमतफलसाधनत्वे स कर्तव्यः । तत्क- थनं तु किम् ? इत्याशङ्काऽपि निरस्तेति ज्ञातव्यम् ।
प्रमत्तनास्तिकादिकृतग्रन्थे देवतावन्दनादेरभावेऽपि समाप्तेर्दृष्टत्वात् व्यतिरेकतो व्यभिचारस्तु न दोषः । अतस्तत्परिहारो मूले न केनापि सूचित इत्याशयेनाह || या त्विति । कारणान्तरादिति ॥ जन्मान्तरानुष्ठित- मङ्गलजन्यात् गङ्गास्नानादिजन्याद्वा अदृष्टविशेषरूपादित्यर्थः । अविगीतशिष्टाचारानुमितश्रुत्यादिना प्रणामा- देरभिमतसमाप्तिहेतुतानिश्चये तदभावे अभावः तृणारणिमणिन्यायेन समाप्तेरनेककारणकत्वकल्पको भविष्यती- त्यभिप्रायः । अतो नान्योन्याश्रय इति ध्येयम्
नृसिंहनतिस्तुत्योस्तत्वज्ञानसाधनत्वम्
कथालक्षणपञ्चिका
(टी.) कथां विवक्षतस्तत्फलस्य अज्ञाननिवृच्युपलक्षिततत्त्वज्ञानस्य निष्पादकत्वेन नृसिंहस्तुति- खसरोचितेति तथैव विशिष्टि ॥ अखिलेति ॥ अखिलानि च तान्यज्ञानानि च अखिलाज्ञा- नानि । अखिलाज्ञानानि तिमिराणीव अखिलाज्ञानतिमिराणि । अशिशिरा अशीता दुतिरस्येति नृसिंहन तिस्तुत्योस्तत्वज्ञानसाधनत्वम्
(टी.) अशिशिरधुतिरादित्यः । अखिलाज्ञानतिमिरनिरसने अशिशिरखुतिरिव अखिलाज्ञानतिमिराशि- शिरद्युतिः तम् । गम्यमानत्वात् निरसनपदाप्रयोगः । यथा अश्वयुक्तो रथोऽश्वरथ इति ।
कथात्रयमपितत्वज्ञानसाधनम् यद्यपि जल्पवितण्डे ख्यात्याद्यर्थे तथापि तत्वज्ञानपरिपन्थिपाषण्डादिनिरसनाङ्गे च भवतः । तत्र प्रधानत्वादुत्तरमेव प्रयोजनं विवक्षित्वा कथामार्गत्रयस्याप्यज्ञाननिरसनमेवप्रयोजनमभिप्रेत्येद-कीमुदितम् ।
अथ वा वादफलं अज्ञाननिरसनं प्राधान्यज्ञापनाय स्वशब्देनोपादाय ख्यात्यादिकमितरफलमुप- लक्ष्य तस्य निष्पादकत्वेन परदेवता स्तूयते ।
एक अज्ञातज्ञानं संशयविपर्ययादिव्युदासः ज्ञातस्थिरीकरणं च वादफलानि । जल्पवितण्डयोव पाषण्डप्रसञ्जितसज्जनसंशय विपर्यासनिरासः । संशयादयोऽपि तत्वज्ञानविरोधित्वेन अज्ञानान्युच्यन्ते । अतः कथात्रय निरसनीयाज्ञानबाहुल्यमभिप्रेत्य अखिलेत्युक्तम् ।
श्रीकथालक्षणटीकाभावदीपः
(रा. टि.) तत्फलस्य तत्वज्ञानस्येत्युच्यते । मूले त्वज्ञाननिरासफलत्वमेव भाति । तत् कथमेवं स्तुतिरवसरप्राप्ता ? इत्यत आह ॥ अज्ञाननिवृत्त्युपलक्षितेति ॥ तत्वज्ञानप्रदत्वमेव तेन विवक्षितमिति भावः ॥ तथैव विशिनष्टीति । तत्वज्ञाननिष्पादकत्वेन विशेषणयुक्तं करोतीत्यर्थः ॥ गम्यमानत्वादिति ॥ निरसन पदाप्रयोगेऽपि तदर्थस्य समासेन प्रतीयमानत्वात् तत्पदाप्रयोग इत्यर्थः ।
कथाफलस्य तत्वज्ञानस्येत्ययुक्तं । तस्य वक्ष्यमाणदिशा वादकथामात्र फलत्वादित्याशङ्कय समाधत्ते ॥ यद्यपीत्यादिना ॥ उत्तरमेवेति ॥ पूर्वतनादुत्तरं तत्वज्ञानमेवेत्यर्थः ॥ अज्ञाननिरसनमेवेति ॥ तदुपलक्षित- तत्वज्ञानमेव प्रयोजनमभिप्रेत्य अखिलेत्यादि विशेषणमुक्तमित्यर्थः ॥ स्वशब्देनेति ॥ वाचकशब्देनेत्यर्थः । इतरफलं जल्पवितण्डाफलं । तस्य निष्पादकत्वेनेति ॥ अखिल ज्ञानतिमिरा शिशिरधुतिं ख्यात्यादिपदं इत्यपि ज्ञेयमिति भावः । अखिलेत्यस्यार्थमाह || अज्ञातेत्यादिना ॥
कथालक्षणटीकाविवरणं
टि.) आनन्दादिमहागुणत्वादिना स्तुतिमपहाय अखिलेत्यादिस्तुतिकरणे निमित्तमाह ॥ कथा- मिति ॥ नित्यसंसारितमो योग्यगताज्ञाननिरासकत्वाभावात् षष्ठीसमासोऽनुपपन्न इत्याशयेनाह || अखिलानि चेति ॥ तिमिराणीवेति ॥ सम्यग्ज्ञानप्रतीपत्वादित्यर्थः ॥ अशीतेति ॥ उष्णेत्यर्थः ॥ गम्यमानत्वादिति ॥ गम्यमानार्थत्वादित्यर्थः । ' गम्यमानार्थानामप्रयोगः' इति काशिकोक्तेरिति भावः ।
(वे. टि.) ॥ यद्यपीति ॥ तथा च अज्ञाननिवृत्त्युपलक्षिततत्त्वज्ञानस्य न कथा सामान्य फलत्वमिति भावः | पाषण्डादीत्यत्र आदिपदेन हैतुकपरिग्रहः । यद्यपि जल्पो न पाषण्डिनिरसनहेतुः । सन्मात्राधिकारिकत्वात् तथापि पाषण्डादिपदेन तन्मतमुपलक्ष्यते । तथा च एकसता पाषण्डिमतावलम्बिना द्वितीयस्य सत्सिद्धा- न्तावलम्बिनसतो या कथा भवति स जल्पः । स च पाषण्डादिनिरसनहेतुर्भवत्येव उभयोस्सत्सिद्धान्तावलम्बने कथाप्रवृत्तेर सम्भवादित्याशयः ।
तर्हि ख्यात्यादिनिष्पादकत्वेनापि नृसिंहस्तुतिः कर्तव्येत्यत आह ॥ तत्रेति ।। प्रधानत्वादिति ॥ मोक्षोपयोगित्वेनेति शेषः । उत्तरं उद्देशख्यात्यनन्तरभावि ॥ कथामार्गत्रयस्यापीति । यथाह अक्षपादः
तत्वाध्यवसाय संरक्षणार्थं जल्पवितण्डे बीजप्ररोहार्थं कण्टकशाखावरणवत् । इति ।
ननु जल्पवितण्डयोः अज्ञाननिरसनस्य आनुषङ्गिकत्वेऽपि न वादवत् तत्फलकत्वं । तदुद्देशेन सर्वत्र तदप्रवृत्तेः । तथा च कथं तस्य 'कथात्रयफलकत्वेनाभिप्रेतता ? इत्यखरसादाह ॥ अथ वेति ॥ संशयादयो- पीति ॥ संशयविपर्ययज्ञानभ्रंशा इत्यर्थः ।
प्रतिज्ञान्यूनतादोषपरिहार:
कथालक्षणपञ्चिका
(टी.) प्रवक्ष्यामीति प्रशब्देन उद्देशविभागपरीक्षाद्युपयोगिसाहित्यलक्षणं 'लक्ष्यवचनस्य प्रकर्षमपि विवक्षितं द्योतयति । तेन न प्रतिज्ञान्यूनता शङ्कनीया ।
उद्देशादीनां लक्षणाङ्गत्वेन लक्षणस्यैव स्वशब्देनोपादानम्
'न चैवमुद्देशादीनां सर्वेषामपि वक्तव्यत्वे प्राप्ते व्यर्थ लक्षणस्यैव स्वशब्देनोपादनमिति वाच्यम् । कथां खलु सजातीयविजातीय समस्तवस्तुव्यावृत्ततया व्यवहारयितुमिदमारभ्यते । व्यावृत्तव्यव- हारश्च साक्षाल्लक्षणाधीन । सास्नादिमत्त्वं प्रतीत्य हि गवि गोव्यवहारं कुर्वते । अनुद्दिश्य लक्षण- कथनायोगात् लक्षणोत्युपयोगित्वमुदेशस्य । अविभक्तस्य विशेषोद्देशासम्भवात् विभागस्यापि लक्षणाङ्गत्वमेव । लक्षणं च अनुमानतया व्यवहृतिहेतुः । न हि तस्य व्याप्तिपक्षधर्मता लक्षण परीक्षा- मन्तरेण तद्भावो निश्चीयत इति परीक्षापि लक्षणाङ्गमेव । तदेवं लक्षणस्य प्राधान्यज्ञापनाय स्वशब्दे- नोपादानं, इतरस्य तदङ्गताद्योतनाय प्रशब्देन सङ्ग्रह इति ।
कथालक्षणटीकाभावदीपः
(रा. टि.) ॥ उद्देशेति ॥ उद्देशविभागपरीक्षादिरूपं यदुपयोगि तत्साहित्यलक्षणं प्रकर्ष लक्षणोक्ते- विवक्षितं द्योतयतीत्यर्थः । तदुपयोगोऽग्रे व्यक्तः ॥ तेनेति ॥ प्रशब्देन उद्देशाद्युक्तेद्यतनेन अग्रे वक्ष्यमाणोद्देश- विभागादेरत्राप्रतिज्ञा तत्वरूपन्यूनतादोषो नेत्यर्थः । स्वशब्देनेति ॥ वाचकशब्देनेत्यर्थः । लक्षणस्य प्रधानत्वात्
(रा. टि.) उद्देशादेस्तदङ्गत्वात् स्वशब्दप्रशब्दाभ्यां तयोरुपादानमिति प्रधानगुणभावोपपादन पूर्वमाह ॥ कथां खल्वित्यादिना प्रशब्देन सङ्ग्रह इत्यन्तेन ॥ व्यवहारयितुमिति ॥ शिष्यैरिति योज्यं ॥ इदमिति ॥ प्रकरणमित्यर्थः । लक्षणाधीनो लक्षणज्ञानाधीन इत्यर्थः । उद्देशादिव्यावृत्यर्थं साक्षादिति । तद्व्यनक्ति ॥ सास्नात् दिमत्वमिति ॥ विशेषोद्देशासम्भवादिति । तत एव विशेषलक्षणोक्तेरसम्भवात् परम्परया विभागस्य विशेष- रूपलक्षणाङ्गत्वमित्यर्थः ॥ परीक्षामन्तरेणेति ॥ अव्याप्त्यादिशून्यत्वरूपयुक्त्यनुसन्धानात्मक परीक्षामन्तरेण तद्भावोऽनुमानभाव इत्यर्थः । ' अयं गोपदवाच्यः सास्नादिमत्वात् यन्नैवं तन्नैवम् यथा अश्वादि:' इति व्यतिरे- क्यनुमानभावो वा, य: सास्नादिमान् स गोपदवाच्यः यथा प्रागाप्तोपदिष्टगोपिण्ड इति, व्यतिरेकेण महिष्यादिवच इत्यन्वयव्यतिरेकिभावो वा न हि निश्चीयत इति भावः ।
कथालक्षणटीकाविवरणं
(वे. टि.) ननु प्र अञ्जसा शब्दयोरन्यतरस्य वैयर्थ्यमित्याशङ्कापरिहाराय प्र पदेन विशेषोद्देशादिपरिग्रह- ॥ द्योतयतीति ॥ आहेत्यर्थः । उपसर्गाणां वाचकत्वस्य सिद्धान्तितत्वात् । अत एव वक्ष्यति प्रशब्देनोक्तत्वा- इति । पररीत्या वेदं ॥ वक्तव्यत्व इति । 'प्रतिवाक्य इति शेषः । 'लक्षणवाचका साधारणशब्देनेत्यर्थः व्यवहारयितुमित्यत्र व्यवहारपदेन ज्ञानमपि विवक्षितमिति ज्ञातव्यं । एवमुत्तरत्रापि ॥ लक्षणाधीन इति ॥ लक्षण- ज्ञानाधीन इत्यर्थः ॥ लक्षणाङ्गत्वमेवेति ॥ विशेषलक्षणाङ्गत्वमित्यर्थः । तद्भावोऽनुमानभावः ॥ परीक्षापीति ॥ लक्षण सौष्ठवपरीक्षापीत्यर्थः ।
ग्रन्थस्यगतार्थताशङ्कानिरासः
कथालक्षणपञ्चिका
(टी.) स्यादेतत्, नैयायिकादिभिरेव कथालक्षणस्योक्तत्वात् किमनेन ? अन्यथा शब्दानुशास- नादिकमपि कर्तव्यं स्यात् इत्यत उक्तम् ॥ अञ्जसेति ॥ स्वकीयवचनाञ्जस्यस्य प्रशब्देनोक्तः त्वात् अन्योक्तीनामनेन अनाञ्जस्यमुपलक्षयति । तच्चोत्तरत्र प्रदर्शयिष्यते । विरुद्धोक्त्योरन्यतराञ्जस्यमि- तरानाञ्जस्येन व्याप्तमिति लक्षणाबीजम् । न चास्मदायत्ते वाग्व्यवहारे किमित्यवाचकं प्रयोक्ष्यामह इति वाच्यम् । स्वतन्त्रप्रयोग एव प्रयोजनान्वेषणात् । अयं तु लौकिकः प्रयोगः । दृश्यते हि सुकुमारो- क्तिष्वेकप्रशंसनमितरापकर्षद्योतनार्थमिति । ननु किमनया प्रतिज्ञया ? यावता उत्तरग्रन्थ एव स्वकीयकथालक्षणविवक्षां ज्ञापयिष्यति । किं तया ज्ञापितया ? इति । सत्यं, प्रकरणस्य गतार्थता- शङ्कानिरासार्थं तावत् अञ्जसा इति वक्तव्यम् । न चैतत् कथालक्षणं प्रवक्ष्यामीत्युक्तिमन्तरेण समर्थ स्यात् । न च मुख्यार्थद्वारमन्तरेण लक्षणा लभ्यते इति अन्यार्थमेवैतत्प्रतिज्ञानम् ।
कथालक्षणटीकाभावदीपः
(रा. टि.) || शब्दानुशासनादिकमिति ॥ शब्दानां प्रकृतिप्रत्ययविधानादिरूपं व्याकरणव्युत्पाद्यं तर्कशास्त्र व्युत्पाद्य पदार्थनिरूपणं चेत्यर्थः ॥ उत्तरत्रेति ॥ विदुषामिति पदकृत्योक्तिप्रस्ताव इति भावः ॥ विरुद्धो- क्त्योरिति ॥ ग्रन्थकृदुक्ति परोक्त्योरित्यर्थः । लोके चैत्रमैत्रोक्त्योरिवेति भावार्थ: । अञ्जसा वक्ष्मामीत्युक्ते सति एतदुक्तिविरुद्धोक्तेरनाज्जस्यं लोकसिद्धव्याप्तिरूपसम्बन्धेन लक्षणया लभ्यते । मुख्यार्थस्य प्रशब्देनोक्त- तया पौनरुक्त्यबाधितत्वादिति भावः । नन्वथापि
मुख्यार्थबाधे तद्योगे रूढितोऽथ प्रयोजनात् ।
इत्युक्तेरिह लक्षणायां किं प्रयोजनम् ? इति भावेन शङ्कते ॥ न चेति ॥ किमितीति ॥ कस्मादित्यर्थः । कस्य प्रयोजनस्यार्थ इति यावत् ॥ स्वतन्त्रेति ॥ स्वमात्रपरिकल्पितलाक्षणिकप्रयोग इत्यर्थः । लौकिको लोक- सिद्धः ॥ यावतोत्तरग्रन्थ इत्यादि । यस्मात् उत्तरग्रन्थो वादो जल्प इत्यादिरित्यर्थः । ज्ञापयिष्यतीति ॥ तत्वोद्योतादिप्रकरणान्तर इवेति भावः ॥ तयेति ॥ विवक्षयेत्यर्थः ॥ गतार्थतेति ॥ परोक्तकथालक्षणादिनेति भावः । अञ्जसेति वक्तव्यमिति ॥ परोक्तानाञ्जस्यलक्षकपदं तावद्वक्तव्यमित्यर्थः । प्रवक्ष्यामीत्युक्तिमन्त- रेणेति || आञ्जस्यरूपप्रकर्षयुक्ततया वक्ष्यामीत्युक्ति विनेत्यर्थः । समर्थ निराकांक्षमित्यर्थः । कुतो न समर्थ- मित्यत आह । न चेति ॥ प्रवक्ष्यामीति स्वोक्तेरान्जस्यरूपमुख्यार्थे कथिते पुनरज्जसेतिपदं मुख्यार्थे स्वस्य पौनरुक्त्यबाधिते सति खोवत्याञ्जस्यरूपमुख्यार्थद्वारा 'तद्विरुद्धोक्तेरनाञ्जस्यव्याप्तिरूपसम्बन्धेन लक्षकं सत् तत्र समर्थ स्यादित्यञ्जसेति पदेन परोक्तानाञ्जस्य लक्षण लाभाय प्रवक्ष्यामीत्युक्तमित्यर्थः । शिष्यमनस्समाधानायेति परिहारान्तरं व्यक्तमिति नोक्तम् ।
कथालक्षणटीकाविवरणं
(वे. टि.) इदानीं अञ्जसा इत्यस्य कृत्यं वक्तुमाह ॥ स्यादेतदित्यादि ॥ लक्षणस्येति ॥ लक्षणादेरि- त्यर्थः ॥ स्वकीयलक्षणवचनाञ्जस्यस्येति ॥ अनेम मुख्यार्थे पुनरुक्तिप्रसङ्गरूपं बाधकं लक्षणाबीजमुक्तमिति ज्ञातव्यम् ॥ उत्तरत्रेति ॥
वादजल्पवितण्डानामिति शुद्धं स्वलक्षणम् ।
इत्यादावित्यर्थः । तत्र उपपत्या ब्रह्मतर्कसम्मत्या च स्वलक्षणादेः साधुत्वोक्त्या परोक्तलक्षणाद्यसा- धुतायाः सूचनादिति भावः । लक्षणा बीजमित्यनन्तरं शक्यसम्बन्धरूपमिति शेषः ॥ स्वतन्त्रप्रयोग एवेति ॥ सजातीयोच्चारणमनपेक्ष्यैव क्रियमाणप्रयोग इत्यर्थः । अभिनव प्रयोग इति यावत् । अरूढ- लक्षणायामिति भावः ॥ लौकिक इति ॥ निरूढ इत्यर्थः । रूढलक्षणायां न प्रयोजनापेक्षेति भावः ॥ तयेति ॥ विवक्षयेत्यर्थः । समर्थ अबाधितार्थं योग्यतावदिति यावत् ॥ ननु अञ्जसा इत्यस्य अन्योक्त्यनाञ्जस्योपलक्षकत्वात् तथोक्तिमन्तरेणापि तत् समर्थं स्यादित्यत आह ॥ न च मुख्यार्थेति ॥
(वे. टि.) मुख्यार्थान्वये तात्पर्याभावेऽपि सुकुमारोक्तिष्विव लक्षणालाभार्थ मुख्यार्थान्वय आवश्यकः । अन्यथा मुख्यार्थान्वयप्रतीत्यभावे मुख्यार्थबाधानुपस्थित्या लक्षणैव न स्यादिति भावः ।
ग्रन्थस्य विषयादिसमर्थनम्
कथालक्षणपञ्चिका
(टी.) साधनचतुष्टयसम्पन्नस्याधिकारिणोऽपवर्गाय परमात्मतत्वज्ञानमुत्पादयितुं प्रवृत्तस्य आम्नायस्य इतिकर्तव्यताभूतों हि न्यायो वेदान्ते व्युत्पादितः । स च परार्थः । प्रश्नोपक्रमप्रतियो- गिनि एककर्तृके विचारे विविच्य प्रवर्तनीयः । दूषणोपक्रम प्रतियोगिनि अनेककर्तृके कथानाम्नि प्रवर्त्य विवेचनीयः । कथां च व्युत्पादयतोऽस्य प्रकरणस्य वेदान्ताङ्गतया तत्प्रयोजनादिनैव प्रयोज- नादिमत्ता सिद्धैवेत्यनवद्यम् ॥ १ ॥
कथालक्षणटीकाभावदीपः
(रा. टि.) विषयादिशून्यत्वात् नेदमारभ्यम् इत्याशङ्कां परिहर्तुमुपोद्घातमाह ॥ साधनचतुष्टये त्या- दिना विवेचनीय इत्यन्तेन ॥ नित्यानित्यवस्तुविवेको वैराग्यं शमदमादिसम्पत्तिः मुमुक्षा चेति परमात्म- तत्वज्ञानसाधनचतुष्टयसम्पन्नस्य अत एवं अधिकारिणः । साधनचतुष्टयसम्पत्तिरूपाधिकारवत इत्यर्थः । इति - कर्तव्यताभूतः अङ्गभूतः तदर्थनिर्णायकत्वात् । न्याय उपक्रमादिरूपयुक्तिः । वेदान्ते ब्रह्ममीमांसायां । तन्न्याय- व्युत्पादनं कथायां तत्वज्ञानाद्यर्थमिव स्वार्थं करिष्यतीत्यत आह । स च परार्थ इति । तत्प्रवृत्तिप्रकारं कथा- वैलक्षण्यद्योतनायाह || प्रश्नेति ॥ प्रश्नरूपोपक्रम एव प्रतियोगी विरोधी निवर्त्यो यस्य तस्मिन् विचारे । प्रश्नो- नोपक्रम्य तदुत्तररूपतया एकेनैव प्रवर्तिते वेदान्तरूपे शास्त्रे विविच्य प्रागेव आभासविविक्ततया निर्णीय प्रवर्त- नीयो न्यायः ।
ननु तत्वे न्यायमुक्त्वा लक्षणाऽदिना तद्विवेचनं कार्य
मानन्यायैस्तु तत्सिद्धैमीमांसा मेयशोधनम् ॥
इत्युक्तेरित्यत आह । दूषणेति ॥ दूषणेत्यादि पूर्ववत् बहुव्रीहिः । विचार इति विशेष्यपदमाकृष्यते । वाद्युक्तसाधनस्य प्राथम्येऽपि प्रतिवादिनोक्तदूषणस्य प्राथम्यात् दूषणोपक्रमेत्युक्तम् ॥ विवेचनीय इति ॥ आम्नायेतिकर्तव्यतारूपो न्याय इत्यनुषज्यते । आभासविविक्तत्वेन शोधनीय इत्यर्थः ।
अस्त्वेवं पुमर्थहेत्वाम्नायेतिकर्तव्यता रूपत्वं वेदान्तस्येव वादादिकथारूपविचारस्य । एतावता अस्य प्रकरणस्य किमायातम् ? इत्यत आह || कथां चेति ॥ वेदान्ताङ्गतयेति ॥ तत्र निर्दिष्टन्यायविचारपरकथा- लक्षणनिरूपण परत्वादस्येति भावः ॥ तत्प्रयोजनादिनेति ॥ न्यायविवेचनमुखेन परमात्मतत्वज्ञानरूपावान्तर- प्रयोजनद्वारा अपवर्गः प्रयोजनं परमात्मैव विषयः साधनचतुष्टयवानधिकारी प्रकरणस्य परमात्मतत्वस्य च विषयविषयिभावः तत्वज्ञानस्य अपवर्गस्य जन्यजनकभावस्सम्बन्ध इति भावः ॥ अनवद्यमिति । साङ्गदेव- तानतिरूपमङ्गलाचरणहीनतादोषेण प्रतिज्ञान्यूनतादोषेण स्वशब्देनोद्देशादेरनुपादानदोषेण गतार्थतादोषेण लक्षणाप्रयोजनहीनत्वदोषेण विषयादिहीनतादोषेण च रहितमिदं प्रकरणमित्यर्थः ॥ १ ॥
कथालक्षणटीकाविवरणं
(वे. टि.) ननु इदमनारम्भणीयं प्रयोजनशून्यत्वात् इत्यतोऽस्य प्रकरणत्वात् प्रकरणस्य शास्त्रैकदेश- सम्बन्धित्वात् तत्प्रयोजनादिनैवास्यापि प्रयोजनादिमत्त्वं सिद्धमिति शास्त्रस्य तावत्प्रयोजनादिकं दर्शयति ॥ साधनचतुष्टयेति ॥ नित्यानित्यवस्तुविवेकः इहामुत्र फलभोगविरागः शमदमादिसम्पत्तिः मुमुक्षा चेति साधनचतुष्टयम् । अत्र अपवर्गायेति परमप्रयोजनोक्तिः । तत्वज्ञानमुत्पादयितुमित्यवान्तरप्रयोजननिर्देशः । परमा- त्मतत्वज्ञानेत्यनेन परमात्मतत्वं विषयो दर्शितः । स्वयं च तदविषयकस्य शब्दस्य तद्विषयकज्ञानजनकत्वा- योगात् । वेदान्ते ब्रह्ममीमांसायां । इदानीं शास्त्रसम्बन्धमस्य वक्तुमाह ॥ स चेत्यादिना ॥
ननु वेदान्त एव सर्वस्य वक्तव्यस्य न्यायप्रकारस्योक्तत्वात् न तत्रावशिष्टं किञ्चिदस्ति यद्युत्पादकत्वेन कथाया वेदान्ताङ्गत्वं स्यात् इत्यत आह || स चेति । न्यायो द्विविधः स्वार्थः परार्थश्च । तत्र परोपदेशान- पेक्षस्स्वार्थः, तदपेक्षः परार्थः । सोऽपि द्विविध: स्वपक्षसिद्ध्यर्थः परपक्षनिरासार्थश्चेति भावः ॥ विविच्येति ॥ स्वयमेव दूषणान्याशङ्कय तेभ्यो विविच्य प्रवर्तनीय इत्यर्थः । तत्र दूषणं वक्तुरन्यस्याभावात् ।
नन्वेवं परार्थत्वव्याघात इत्यत उक्तम् || प्रश्नोपक्रमेति ॥ उपक्रमत इत्युपक्रमः पचाद्यच् । प्रश्नस्योपक्रमः प्रश्नोपक्रमः शिष्यः । स एव प्रतियोगी बोध्यो यस्मिन् स तथोक्तः । तथा चैककर्तृकविचारस्य शिष्यानु- जिघृक्षया प्रवृत्तत्वात् तस्य च प्रश्नमात्रकरणे समर्थस्य दूषणोद्भावने असमर्थत्वात् खयमेव दूषणाम्याशङ्कय तानि परिहृत्य प्रवर्तनीय इत्यर्थः ।
इदं च प्रायिकं न नियतं, एककर्तृकेऽपि विचारे न्यायं प्रवर्त्य तत्र स्वयमेव दूषणान्याशङ्कच तेभ्यो विवेचनस्यापि क्वचिद्दर्शनात् ।
पूर्वं न्यायमुक्त्वा पश्चादूषणविवेचने तेन व्यवधानात् अल्पज्ञशिष्यमुद्दिश्य पुनर्न्यायो वक्तव्यः । तथा च गौरवं । पूर्वमेव दूषणानि परिहृत्य न्यायवचने तु लाघवम् इत्यभिप्रायेणेदमुक्तमित्यप्याहुः ।
न च पूर्व न्यायानुक्तौ निराश्रयदूषणं शङ्कार्हमेव नेति युक्तम् । कृतकत्वादिलिङ्गस्वरूपाश्रयस्यैव दूषणस्य प्रसक्तस्योद्धारसम्भवात् । न च पूर्वं सर्वदूषणोद्धारे अनुमानस्य शिष्येण ज्ञातुं शक्यत्वात् पुनस्तं प्रति न्यायवचनं व्यर्थमिति शक्यम् । पञ्चावयवाद्युपेतस्य परोपदेशात्मकन्यायस्यैव परं प्रति सम्यग्बोधकतया तदनुजिघृक्षया अनन्तरं तस्यावश्यं वाच्यत्वात् ।
अनेककर्तृके प्रवर्त्य विवेचनीयत्वे हेतुर्दूषणोपक्रमेति । पूर्ववदुपक्रमशब्दार्थः । तथा च दूषणस्यों- पक्रमः प्रतिवादी स प्रतियोगी यस्मिन् स तथोक्तः । आदौ वादिना न्याये उक्त प्रतिवादिना तत्र दूषणो- द्भावने कृते पश्चात्तत्परिहारः कर्तव्यः पूर्ववत् । आदावेव दूषणोद्धारे अप्राप्तकालत्वं अर्थान्तरत्वं वा स्यादिति भावः ।
(वे टि.) ततश्चायमर्थ:, यद्यपि वेदान्ते भगवता शिष्यानुजिघृक्षया स्वयमेव दूषणान्याशङ्कय तेभ्यो विविच्य न्यायो व्युत्पादितः, तथाऽपि प्रतिपक्षस्थितेन विजिगीषुणा अन्येन प्रतिवादिना स्वमनीषयोद्भावित दूषणेभ्यो विवेकोऽन्येन कृतः क्रियते च कथायां । अतः कथाया वेदान्तव्युत्पादित एव न्याये उक्तप्रतिवाद्युद्धावितदूषण- परिहारात्मकत्वात् नियमेन प्रथमप्रवर्तनीयत्वरूपेत्थम्भाववत्त्वाच्च तदङ्गत्वमिति । कथारूपवाक्यस्य विचारविषय- कत्वात् तद्विचारत्वोक्तिरिति ज्ञातव्यम् ॥ १ ॥