विरोधाऽसङ्गतिन्यूनतुष्णीम्भावाऽदिकैजितः भवेज्जल्पे, वितण्डायां न्यायो जल्पवदीरितः

जल्पेपराजयकारणम्

कथालक्षणपञ्चिका

(टी.) जल्पे च 'यावत् परो जितः' इत्युक्तं । तत्र जल्पे कः पराजयहेतुः इत्यपेक्षायां

आह

कथालक्षणम्

विरोधाऽसङ्गतिन्यूनतुष्णीम्भावाऽदिकैजितः॥१९॥
भवेज्जल्पे.................................

(टी.) आदिपदेन संवादाऽधिक्ययोः ग्रहणम् ।

वितण्डायां पराजयकारणम्

प्रसङ्गात् वितण्डायां निग्रहादिकं अतिदिशति

कथालक्षणम्

........वितण्डायां न्यायो जल्पवदीरितः ।
वितण्डायां च इत्येतवता पूर्णे यत् अधिकमुपादत्ते तेन जल्पे यावत् परो जितः
इत्युक्तप्रवृत्तिप्रकारपर्यवसानयोरपि अतिदेशो लभ्यते ।

अन्यथाप्रकृतत्वात्निग्रहस्थानमात्राऽतिदेशो विज्ञायेत । ततश्च स्वपक्षस्थापनां विना जल्पवदेव वितण्डा इत्युक्तं भवति ।

जल्पवितण्डयोः पराजितस्य कृत्यम्

विरोधादि प्राप्तवतो जल्पवितण्डयोः कि कार्य : इत्यपेक्षायां आह

कथालक्षणम्

संवादे दण्डयता न स्यात् वितण्डाजल्पयोरपि ॥ २० ॥

पराजितत्वमात्रस्यात्………………………….
विरोधाऽदिषु प्राप्तनिग्रहस्थानविषये वितण्डायां जल्पे च यदि वादी प्रतिवादी वा संवादं कुरुते तदा नासौ सभापतिना दण्ड्यः । किन्तु : खण्डिताहङ्कारतया अपमानविषय एव स्यात् ।

जल्पवितण्डयोः प्राप्ततिग्रहस्थानानङ्गीकर्तुः कर्तव्यम्

यदि आग्रहवशात् प्राप्तेऽपि दोषे न संवादं करोति तत्राह

कथालक्षणम्

……………………………………………………………………निन्द्यो दण्ड्योऽपि वाऽन्यथा ।

वाशब्दो दोषतारतम्येन निन्दादण्डयोः व्यवस्थितविभाषायां वर्तते । अपिशब्दो दण्डेऽपि  निन्दासमुच्चये ।

कथालक्षणटीकाभावदीपः

(रा. टि.) निग्रहादिकमिति ॥ प्रवृत्तिप्रकार आदिपदार्थः ॥ संवादं कुरुत इति ॥ ' भवत्ययं दोषः' इति अनुमतिं कुरुत इत्यर्थः । खण्डिताहङ्कारतयेति । खपरपक्ष स्थापनदूषणसङ्कल्पभ्रंशवत्तया इत्यर्थः ।

कथालक्षणटीकाविवरणं

(वे. टि.) ॥ निग्रहस्थानमात्रातिदेश इत्यत्र अतिदेशशब्देन अनुकर्षणं विवक्षितं इति ज्ञातव्यम् । ततोऽपि दोषाऽधिक्ये कर्तव्यं अपिशब्दसूचितं ।। दण्डेपीति ॥

प्राश्निकानामपराधः

कथालक्षणपञ्चिका

(टी.) वादिप्रतिवादिनोः निग्रहस्थानचिन्ताप्रसङ्गात् प्राश्निकापराधं अपोहमुखेन सूचयति

कथालक्षणम्

अनुवादाऽदिराहित्य नैव जल्पेऽपि दूषणम् ॥ २१ ॥

एवकारी हेतु सूचनार्थः ।

एके मन्यन्ते, प्राश्निकैः वायुक्तस्य प्रतिवादिनं प्रति, प्रतिवाद्युक्तस्य च वादिनं प्रति अनुवादः करणीयः । अप्रतिबुद्धौ च वादिप्रतिवादिनौ बोधनीयौ । तदकरणे तेषां अपराध इति । तदेतत् जल्पे वितण्डायामपि अनुवादाऽदिराहित्यं प्राश्निकानां न दूषणम् अनुवादाद्यभावेऽपि वादिप्रतिवादिभ्यां जल्पवितण्डयोः प्रवर्तयितुं शक्यत्वेन तस्य तदकर्मत्वात् । किं नाम : प्रागुक्तस्वकर्माननुष्ठानमेव प्राश्निकानां अपराध इति मतान्तरनिरासाय अपोह इति ज्ञातव्यम् ।