स्वयंवा प्राश्निकैर्वादे चिन्तयेत्........
वादेप्राश्निकसापेक्षतानियमविरहः
कथालक्षणपञ्चिका
(टी.) लक्षिता वादजल्पवितण्डाः । तत्र जल्पवितण्डयोरिव वादस्यापि प्राश्निकसापेक्षतां केचिदङ्गीकुर्वते । यथाऽऽहुः, 'स्वपरपक्षसिद्ध्यसिद्ध्यर्थं वचनं वादः । अधिकरणप्रत्यायनं सिद्धय- सिद्धी । अधिकरणमिति प्राश्निकानां सामयिकी सञ्ज्ञा ' इति ।
तान्निराचिकीर्षुराह
कथालक्षणम्
स्वयंवा प्राश्निकैर्वादे चिन्तयेत्........ ॥
प्रमेयमिति शेषः । स्वयं, वादी प्रतिवादिना प्रतिवादी च वादिना इति प्रत्येकं सम्बन्धे- नैकवचनोपपत्तिः । कुतो वादे प्राश्निकानपेक्षा ? तत्राह
कथालक्षणम्
…………………………………………….."तत्वनिर्णयम्॥
॥ उद्दिश्येति शेषः । अयमाशयः, प्राश्निकानां हि' वादस्थानं कथाविशेषव्यवस्थापनं पूर्वोत्तर- वादव्यवस्थापनं विवदमानयोर्गुणदोषावधारणं भग्नप्रतिबोधनं लौकिकनिष्पन्न कथा फलप्रतिपादनं चेत्या- दीनि कर्माणि । एतानि च यत्र वादिनौ आग्रहगृहीतौ कर्तुमशक्तौ तत्र प्राश्निकानामुपयोगः । वादे तु वादिनावेव तत्वनिर्णयकामौ वीतरागतया कर्तुं शक्ताविति किं प्राश्निकैः इति । तत् किं परिवर्जनमेव वादे प्राभिकानां मैवं । दैवादागतानामुपादानमित्युक्तम् ॥ वा प्राश्निकैरिति ॥ एतच्च संवादेन प्रामादिककथाभासशङ्काऽपनोदाय । न तूक्तकर्मकरणायेति ज्ञातव्यम् ।
वादकथायां सभापत्यनपेक्षा
सभापतिस्तु नेष्यत एव । यथाशक्ति यथानियमं मानापमानव्यञ्जनादिकं खलु तस्य कर्म । तत्किञ्चित् वादे नापेक्षितमेव । किञ्चित् स्वयं शक्यते सम्पादयितुमिति ।
जल्पवितण्डयोःसभापत्यादिनियमापेक्षा
कथालक्षणपञ्चिका
(टी.) एतेन जल्पवितण्डयोः सभ्य सभापतिप्राश्निकादिनियतिः सूचिता भवति । तत्रोक्तकर्मणां वादिप्रतिवादिभ्यामेव विजिगीषुतया कर्तुमशक्यत्वादिति ।
कथालक्षणटीकाभावदीपः
( रा. टि.) ॥ यथाहुरिति ॥ तार्किकाः ॥ सिद्ध्यसिद्ध्यर्थमिति । प्राश्निक विश्वासजननार्थं प्राश्निकहृदयङ्गमं वचनं वाद इत्यर्थः । प्रत्यायनं विश्वासकरणमित्यर्थः ॥ सामयिकीति ॥ साङ्के- तिकीत्यर्थः । तत्तत्समयसिद्धेति वा अर्थः ॥ तानिति ॥ प्राश्निक नियमवादिन इत्यर्थः ॥ एकवचनेति || स्वयं इत्येकवचनोपपत्तिरिति भावः ॥ वादस्थानेति । व्यवस्थापनपदं अत्राप्यन्वेति । सत्यत्वमिथ्यात्वसकर्तृ- कत्वाऽकर्तृकत्वादिवादस्थलव्यवस्थापनम् जल्पादिकथाविशेषव्यवस्थापनम् ॥ भमेति ॥ ' अयं पराजित: ' इति ज्ञापनमित्यर्थः । लौकिकं यत् निष्पन्नकथाफलं द्रविणादि तत्प्रतिपादनमित्यर्थः । आदिपदेन पराजितयोः सदसतोः उपेक्षाशिक्षाप्रकारोपदेशनमित्यादि ग्राह्यम् ॥ वादिनाविति ॥ वादिप्रतिवादिनावित्यर्थः ॥ कर्तुमिति ॥ प्रागुक्तकर्माणीति योज्यम् ॥ यथाशक्तीति ॥ निन्द्यो दण्ड्योऽथ वा भवेत् इति वक्ष्यमाणदिशा वा
गुरुदण्डस्तु वाचा स्यात् राजदण्डोऽर्थदेहतः ।
गुरुदण्डोऽप्यर्थतः स्यात् संवादे देहतोऽपि वा ।।
राजदण्डो बलाच्च स्यात् दोषस्य गुरुलाघवात् ।
इति बृहद्भाष्योक्तदिशा वेति भावः ॥ नापेक्षितमिति ॥ जिह्वाच्छेदकाकाङ्कनादिरूपमित्यर्थः ॥ उक्तकर्मणा- मिति || वादस्थानव्यवस्थापनादिकर्मणामित्यर्थः ।
कथालक्षणटीकाविवरणं
(वे. टि.) अनेन प्राश्निकनियमः कथं प्राप्तः इत्यत आह || अधिकरणेति ॥ सिद्धयसिद्धिशब्देन तद्विषयाधिकरणप्रत्यायनं लक्षणया ग्राह्यमित्यर्थः । तथा च प्राश्निकानां खपरपक्षसिद्ध्यसिद्धिज्ञापनार्थं यत् वादिप्रतिवादिवचनं स वाद इति तद्वाक्यार्थः । तत्वनिर्णयस्य चिन्ताकर्मत्वासम्भवात् आह || प्रमेय- मिति ॥ ननु स्वयं वादी प्रतिवादी चेत्युभौ चिन्तयेतामिति द्विवचनेन भाव्यं इत्यत आह ॥ स्वयं वादीति ॥ यत्रेति ॥ जल्पवितण्डयोरित्यर्थः ॥ नेष्यत एवेति || जल्पवितण्डयोरिव अङ्गतयेति शेषः । तेन
गुरुणैव त्ववश्यानां राजा दण्डं प्रयोजयेत् ।
इति ब्रह्मतर्कविरोधो नेति ज्ञेयम् । तत्र अनङ्गभूतस्यैव गुरुणा विज्ञापितस्य राज्ञो दण्डकर्तृताया उक्तत्वात् । व्यञ्जनादिकमित्यत्र आदिपदेन निन्दादण्डादिसङ्ग्रहः ॥ तत्किञ्चिदिति || मानापमानव्यञ्जनमनपेक्षितं, संवाद- करणे निन्दादिकं तु वादे जयिनैव सम्पादयितुं शक्यत इत्यर्थः ॥ सभ्येति ॥ सभ्याः सभायां साधवः
(वे. टि.) सभायां साधुरित्यर्थ ' सभाया यः' इति यप्रत्ययः । प्रश्नकरणशीलः प्राश्निकाः । तदस्य शीलमित्यर्थे ' शिल्पमिति ठक् । प्राश्निकानां कचित् सूक्ष्मे प्रमेये अज्ञाने सति कथकगुणदोषावधारणायोगात् तदा तद्गुण- दोषावधारणार्थं सभ्या अपि वरणीया इति भावेन सभ्यग्रहणम् । यथोक्तं एतदज्ञाने सभ्याश्च इति ।
कथालक्षणपञ्चिका
(टी.)प्राश्निकानांलक्षणंवक्ति
प्राश्निकलक्षणम्
कथालक्षणम्
रागद्वेषविहीनास्तु सर्वविद्याविशारदाः ।
प्राश्निका इति विज्ञेयाः ...........॥
रागित्वे असन्तमपि पक्षं सन्तम् वदेयुः द्वेषित्वे सन्तमप्यसन्तम् । तुशब्दोऽप्यर्थः । तेन वादिप्रतिवादिनोरन्यतरपरवशत्वादीनां बुद्धिपूर्व वैपरीत्याचरणहेतूनामसद्भावं समुच्चिनोति । सर्व- विद्यापदेन वादिप्रतिवादिदर्शनयोः कथोपयुक्त व्याकरणादीनां च सहः । तदज्ञत्वे अपसिद्धान्ता- द्युद्भावने निर्णयो न स्यात् । वैशारद्यग्रहणेन च पुरोक्तग्रहणावधारणानुवादादिपटुताऽपि सङ्गृह्यते । अन्यथा सर्वविद्याज्ञान वैयर्थ्यापत्तेः । तदेवं ज्ञानतोऽज्ञानतो वा वादिप्रतिवादिनो वैषम्यमनाच- रन्तो 'यथावस्तुवक्तारः प्राश्निका इति विज्ञेयाः ।
ते च कियन्तः इत्यपेक्षायामाह
प्राश्निकसङ्ख्या
कथालक्षणम्
.. .....विषमा एक एव वा ॥ ५ ॥
विषमाः विषमसङ्ख्याकाः ।
यथोक्तं-
रागद्वेषविनिर्मुक्तास्सप्त पञ्च त्रयोऽपि वा ।
यत्रोपविष्टास्सभ्यास्स्युस्सा यज्ञसदृशी सभा ॥
इति ।
विषमसङ्ख्याकत्वे हि तेषामेव परस्परविरोधे सति बहूनां संवादेन निर्णयः स्यात् ।
तथा चोक्तं द्वैधे बहूनां वचनम् || इति||
प्राश्निकस्यैकत्वेतल्लक्षणम्
कथालक्षणपञ्चिका
(टी.) नन्वेवं चेत् एक एव इत्यनुज्ञानं कथ ? संवादाभावेन तत्कृतकथानिर्णये अनाश्वा-
सादित्यत आह
कथालक्षणम्
अशेषसंशयच्छेत्ता निस्संशय उदारधीः ।
एकश्चेत् प्रानिको ज्ञेयस्सर्वदोषविवजितः ॥ ६ ॥
अत्र आद्येन विशेषणेन भग्नप्रतिबोधनादौ सामर्थ्याऽतिशयो दर्शितः । द्वितीयेन विशेषणेन सिद्धान्तद्वयरहस्यवेदित्वाद्यतिशयः, तृतीयेन परोक्तग्रहणादिपाटवातिशयः, चतुर्थेन रागादीनाम- शेषतोऽभावः । ततश्च प्राश्निकलक्षणातिशयसम्पत्त्या निःशङ्कमुभाभ्यां निश्चितश्चेदेको वा प्राश्नि- कोऽङ्गीकार्य एवेत्युक्तं भवति ।
विशेषणान्तरमाह
विष्णुभक्तिपराणामेवप्राश्निकत्वयोग्यता
कथालक्षणम्
एको वा बहवो वा स्युर्विष्णुभक्तिपरास्सदा ।
विष्णुभक्तेःप्राश्निकगतगुणकारणत्वम्
रागादिराहित्यवत् विष्णुभक्तेः प्राश्निकत्वोपयोगं न पश्याम इत्यत आह
कथालक्षणम्
विष्णुभक्तिर्हि सर्वेषां सद्गुणानां स्वलक्षणम् ॥ ७ ॥
हिशब्दो हतौ । सन्तो गुणा येषां पुसां ते सद्गुणाः । स्वलक्षणं अव्यभिचारिलक्षणम् । इदमुक्तं भवति, यतः प्राश्निकैर्हि कथकयोः सदसद्भावं विविच्य सतोर्जल्पः सदसतोर्वितण्डा दातव्या । तत्रापि असतः खपरपक्षसाधनदूषणलक्षणं वादित्वं, सतस्तु परपक्षप्रतिक्षेपलक्षणं प्रतिवा- दित्वं व्यवस्थापनीयम् | असतो जये सति उदासितव्यम् । सतो जये सति सम्पूर्णसम्माननाय घटनीयम् । अन्यथा पाषण्डिनिरासाभावेन वितण्डावैयर्थ्यप्रसङ्गात् । न चैते कथाविशेषव्यवस्थाप- नादयो गुणाः तेषां विष्णुभक्तिं विना सम्भवन्ति । अतः प्राश्निकत्वोपयोगिगुणकारणत्वात् तेषां विष्णुभक्तिर्विधीयत इति ।
विष्णुभक्तेःप्रानिकगतगुणकारणत्वम्
कथालक्षणटीकाभावदीपः
(रा. टि.) अप्यर्थः तुशब्दोऽनुक्तसमुच्चयार्थ इत्याह ॥ तेनेति ॥ तुशब्देनेत्यर्थः । अन्यतरः परः तद्वशत्वेत्यर्थः । आदिपदसङ्गाद्यं कियत् ? इत्यतोऽवच्छेदकमाह ॥ बुद्धिपूर्वमिति ॥ बुद्धिपूर्ववैपरीत्या चरण- हेतूनां धर्माणामित्यर्थः ॥ द्वैधे बहूनां वचनमिति । प्राश्निकानां द्वैविध्ये बहूनां वचनं ग्राह्यमित्यर्थः ॥ प्राश्निक- लक्षणातिशयेति ॥ लक्षणरूपातिशयेति वा लक्षणादध्यतिशयेति वार्थः । उभाभ्यां वादिप्रतिवादिभ्याम् || विशेषणान्तरमिति ॥ प्राश्निकानामिति योज्यम् । तावता भक्तेः उपयोगाप्रतीतेः आह || इदमुक्तमिति ॥ हिशब्दार्थमाह ॥ यत इति ॥ तस्य न चैतै गुणा विष्णुभक्ति विना सम्भवन्ति यतोऽत इत्यनेनाऽऽन्वयः ॥ प्राश्निकत्वोपयोगीति || प्राश्निकत्वोपयोगिनो ये प्रागुक्तगुणाः कथाविशेषव्यवस्थापनादयः तेषां कारण- त्वेनेत्यर्थः । इतिपदस्य ' इदमुक्तं भवति' इति पूर्वेणान्वयः ।
कथालक्षणटीकाविवरणं
(वे. टि.) तुशब्द लब्धार्थः ज्ञानत इति । रागद्वेवविहीना इत्येतल्लब्धार्थ : अज्ञानत इति । बुद्धिपूर्व - कत्वाभावादित्यर्थः, स्वभावादिति यावत् ॥ सर्वविद्याविशारदा इत्येतल्लब्धार्थो यथावद्वस्तु वक्तार इति ।
रागद्वेषादिना वैषम्यवन्त इति प्रतीतिनिरासाय आह । विषमसङ्ख्याका इति ॥ विष्णुभक्तेः गुणलक्ष- णत्वासम्भवात् आह । सन्तो गुणा येषामिति ।। अव्यभिचारीति ॥ प्राश्निकत्वोपयोगि समस्त गुणाव्यभिचारीत्यर्थः || स्वपरपक्षसाधनदूषणलक्षणमिति ॥ न च वितण्डायां प्रतिवादिना स्वपक्षस्य असाधनात् कथं वादिनः परपक्ष- दूषणं ? इति शङ्कनीयम् । प्रतिवादिना परिगृहीतस्य वादिस्थापनाप्रमाणदूषणस्यैवात्र परपक्ष पदेन विवक्षितत्वात् । पक्ष परिग्रह ' इति हि धातुत्र्याख्यानम् ॥ वितण्डावैयर्थ्यप्रसङ्गादिति । वितण्डा हि परघातमात्रार्था । तण्ड्यते हन्यते अनयेति योगात् । ' तडि ताडन ' इति धातोः 'गुरोश्च हल:' इत्यकारप्रत्ययः । ' असाधार- येन व्यपदेशा' इति परघातुकत्वं प्रतिवादिन एव, तस्मिन्नेव तान्त्रिकाणां वैतण्डिकत्वव्यवहारात् । घातश्च पाषण्डिनामेव नसतां,
न निगृह्य कथां कुर्यात् विप्र......
इति निषेधात् । एवं च असतो जये सज्जनावमानाय पाषण्डिसम्मानाय च घटनायां पाषण्डिगर्ववर्धनात् सज्जनमानभङ्गाच्च वितण्डा व्यर्था विपरीतफला स्यात् । सज्जनस्य जये सति पाषण्डिदण्ड विशिष्टसज्जनसन्मा- नाय अघटनायां पाषण्डिगर्वनिर्वापणस्य सज्जनाभिमानव्यञ्जनस्य च फलस्य अनिष्पत्त्या वितण्डा व्यर्था विगत - प्रयोजना स्यादित्यर्थः ।