वितण्डा तु सतामन्यैः..........
कथालक्षणपञ्चिका
(टी.) वितण्डालक्षणं दर्शयति
वितण्डाकथालक्षणम्
कथालक्षणम्
वितण्डा तु सतामन्यैः..........
कथेत्यनुवर्तते । प्रागिव बहुवचनव्याख्यानम् । अन्यैः असद्भिस्सह । 'फलभेदाभावेन न जल्पात् वितण्डा भिद्यते' इत्येके । तन्निरासाय तुशब्देन व्यवच्छिनत्ति ।
लक्षणस्यअसम्भवशङ्कापरिहारौ
(टी.) ननु तत्वज्ञानयोग्यतालक्षणं सत्त्वं यदि कथकाभिमानसिद्धं विवक्षितं तदा वितण्डाऽनव- काशः । द्वयोरपि स्वाभिमानतस्सत्त्वात् । अथ वास्तवं, तथापि न जल्पवितण्डे तदनिश्वयात् । निश्चये वा न वितण्डा स्यात् । न हि विनिश्चितस्वासाधुभावः परसाधुतां विनिश्चित्य वितण्डायै घटितुमर्हति । नैव दोषः । कथाविशेषव्यवस्थाया वादिप्रतिवादिव्यवस्थायाश्च प्राश्निकविधेयत्वात् । ते च शास्त्रोदितलक्षणैः सच्वासत्त्वे विनिश्चेष्यन्ति । अत एव प्रानिकानां वैष्णवत्वनियमो वक्ष्यते ।
कथालक्षणटीकाभावदीपः
(रा. टि.) ॥ प्रागिवेति ॥ जातावित्यर्थः । सहयोगे तृतीयेति भावेनाह । असद्भिस्सहेति ॥ व्यव- च्छिनत्तीति ॥ जल्पलक्षणमिति योज्यम् । लक्षणस्य असम्भवमाशङ्कय समाधत्ते । नन्वित्यादिना वैष्णव- त्वनियमो वक्ष्यत इत्यन्तेन ॥ वादे विवक्षितसत्त्वव्यावृत्त्यर्थं तत्वज्ञानयोग्यतालक्षणं सत्त्वमित्युक्तम् ॥ सत्त्वा - दिति ॥ तत्वज्ञानयोग्यत्वादित्यर्थः ॥ वास्तवमिति ॥ सत्त्वमित्यनुकर्षः || शास्त्रोदितेति ॥
नियमेन बहिश्चित्ताः ते सन्तो ब्रह्मणि स्थिताः ।
इत्यादिशास्रोदितेत्यर्थः ॥ अत एवेति ॥ साधुत्वादिनिर्णयार्थत्वादेवेत्यर्थः ।
कथालक्षणटीकाविवरणं
(वे. टि.) ॥ प्रागिवेति ॥ सतां अन्यैरिति बहुवचनद्वयं जात्यर्थकं लक्षणयैकैकव्यक्तिमात्रपरमिति व्याख्येयमित्यर्थः ॥ व्यवच्छिनत्तीति ।। जल्पवितण्डामिति शेषः । कथकयोः सदसद्भावो वास्तव एव विव- क्षितः । तन्निश्वयस्तु प्राश्निकानामेव न कथकयोरित्याह ॥ नैष दोष इति ॥ अत एवेति ॥ उक्तरीत्या कथा विशेष व्यवस्थादीनां भक्तिव्यतिरेकेण असम्भवादेवेत्यर्थः ।
||
नववैष्णव सभायामुभाभ्यामसद्भयां विजिगीषया क्रियमाणा पक्षद्वयस्थापनोपालम्भवती प्रतिपक्षस्थापना -: हीना च कथा जल्पो वितण्डा च भवति न वा ? आधे उक्ताधिकारिभेदगर्भलक्षणे तयोरव्यापके सत्कर्तृकत्वा- भावात् । अन्त्ये वक्ष्यमाणे प्रवृत्तिप्रकार भेदगर्भलक्षणे अतिव्यापके इति चेत् अत्राहुः, प्राश्निकाद्यङ्गशून्यतया जल्पाद्याभासत्वेन तयोर्जल्पा दित्वाभावात् । प्राश्निकादिलक्षणाभावेन तदीयसभासदां प्राश्निकादित्वाभावात् । व्यवहारस्तु तदीयगुरुशिष्यादिकर्तृके विचारगोचरे वाक्यप्रबन्धे तत्वनिर्णय फलकत्वाभिमत्या वादव्यवहारवत् सादृश्यमात्रेणैव उपपन्नः । तदिदमभिप्रेत्योक्तं । प्राश्निकानां वैष्णवत्वनियमो वक्ष्यते इति ॥ न च वक्ष्यमाण- लक्षणयोरतिव्याप्तिः त कथात्वगर्भत्वात् । कथात्वस्य चोभयोरन्यतरस्य वा तत्वज्ञानयोग्यता लक्षण वैदुण्यगर्भ - तया विवक्षितत्वात् । अत एव न कथा सामान्यलक्षणस्यापि तत्रातिव्याप्तिरिति ।
जल्पवितण्डयोर्भेदः
कथालक्षणपञ्चिका
(टी.) ननु कथं जल्पवितण्डयोर्भेदः न तावत् फलभेदेन जल्पवत् वितण्डाया अपि ख्यात्या- द्यर्थत्वात् । पाषण्डिपराकरणेन तत्वनिर्णयोऽपि क्वचित् भवतीति चेत् सत्यम्, कचिद्भेदाभावा- पत्तेः । निमित्तैक्याभावेन कथैक्यानुपपत्तेः । नाप्यधिकारिभेदेन निर्निमित्तस्य तस्यैवासम्भवात् 'स्वरूपभेदाभावेsपि वितण्डायां सदसतोरधिकारः' इति वचनानुपपत्तेश्च । सदसन्तौ यां कथां कुरुतः सा वितण्डेति चेन्न । तथा सति पुरुषानन्त्येन कथानन्त्यापत्तेरिति । नैष दोषः । प्रवृत्तिप्रकारभेदेन तद्भेदोपपत्तेः । द्वयोरपि स्वपरपक्षसाधनदूषणवान् जल्पः । वितण्डा तु प्रतिवादिनः स्वपक्षसाधनेन विना परपक्षप्रतिक्षेपमात्रेण पर्यवस्यतीति। अधिकारिभेदस्तूपलक्षणत्वेनोक्तः ।
नन्वेतदप्यसम्बद्धम् | जल्पे हि वादिसाधनप्रतिक्षेपाय प्रतिवादिनोद्भावितं दूषणं यदि लग्नं तर्हि भवादिसाधनं । जितं प्रतिवादिना । निवृत्ता कथा । यदि न लग्नं तर्हि निरनुयोज्यानुयोगेन भग्नः प्रतिवादी । जितं वादिना । निवृत्ता कथा । तत्र द्वयोरपि कास्ति साधनदूषणावकाशः ? एवमेव तत्करणे द्विर्द्धिः एकैकेनैव साधनं दूषणं च किं न कर्तव्यं : मैवम् । कथकशक्तिपरीक्षणार्थत्वाज्ज- ल्पस्य । न च तत् उभयकरणमन्तरेण सम्भवति । न हि वश्चित परप्रहारोऽपि तमप्रहरमाणो युयु- त्सुर्विजयते । नापि स्वात्मानमरक्षन् परप्रघाती विजयी । परन्तु श्लाघ्यस्स्यात् । न च द्विरनु- ष्ठानस्य प्रयोजनमस्ति । प्रत्युत आधिक्येन निग्रहापत्तेः । कथं तर्हि वितण्डायां परप्रतिक्षेपमात्रेण विजय इति चेत् सत्यं, मुख्यविजयाभावेऽपि 'काकोलूकवत् प्रानिकादिकृतसमयवशेनोपपत्तेः । अथ प्राश्निकादयस्तादृशं समयमेव कस्मात्कुर्युः इति चेत् तत्राह
कथालक्षणम्
..............तत्वमेषुनिगृहितम् ।
कर्तव्यमिति शेषः । यतोऽसत्सु सता तत्वं निगूहितं कर्तव्यं, अन्यथा प्रत्यवेयात् । साधने च प्रकाशनं प्रसज्येत । अतोऽसदुपालम्भेनैव प्राश्निकादयः सतो विजयमनुजानन्ति । जल्पे तु द्वयोरपि सत्वेन मुख्यस्यैव विजयोपायस्यानुष्ठानसम्भवेन स्वपरपक्षसाधनोपालम्भाभ्यामेव विजयं नियच्छन्तीति ।
कथालक्षणटीकाभावदीपः
(रा. टि.) तुशब्देन व्यवच्छिनत्ति इत्युक्तं । तत्र आक्षिपति ॥ नन्विति ॥ क्वचिदिति । वितण्डा- विशेष इत्यर्थः ॥ निमित्तैक्येति ॥ जल्पादिव्यावृत्तस्य वितण्डाकथामात्रानुवृत्तस्य वितण्डापदप्रवृत्तिनिमित्तस्य
(रा. टि.) एकस्य अभावेन इयं सर्वाऽपि वितण्डेति वितण्डाया एकत्वादित्यर्थः । निर्निमित्तस्येति ॥ कथा- भेदो हि अधिकारिभेदे निमित्तं, तस्यैवाऽभावे तन्निमित्तो जल्पवितण्डयोरधिकारिभेदः कथं स्यात् ? निर्निमित्त- त्वादित्यर्थः ॥ स्वरूपेति ॥ वितण्डायाः जल्पात् विविक्तस्वरूपाभावादित्यर्थः ॥ अधिकारिभेदस्त्विति ॥ सतां जल्प इति सतामन्यैः इति च मूलकृता अधिकारिभेदस्तु प्रवृत्तिप्रकारभेदोपलक्षणत्वेनोक्त इत्यर्थः । प्रवृत्ति- प्रकारभेदो न सम्भवतीति शङ्कते ॥ नन्वेतदपीति ॥ मुख्यविजयेति ॥ द्वयोः खपरपक्षसाधनदूषणरूपे - त्यर्थः ॥ काकोलूकवदिति ॥ तयोरन्योन्यं वाऽत्मरक्षणपरघातुकत्वयोरभावेऽपि उलूकस्य का कहत्येव परसा- धनदूषण स्थैर्य सद्भावमात्रेण जयादेः प्रानिकसभ्यसभापतिपरिकल्पित सङ्केतवशेनोपपत्तेरित्यर्थः ।
अथ इति शङ्काद्योतको निपातः ॥ तादृशमिति ॥ वादवत् जल्पे द्वयोरपि खपरपक्षसाधनदूषणाभ्यां जयः वितण्डायां अन्यतरस्य परपक्षदूषणेनैव जयः इत्येवंरूपं समयमित्यर्थः ॥ नियच्छन्ति ॥ नियतं कुवन्तीत्यर्थः ।
कथालक्षणटीकाविवरणं
(वे. टि. ) तत्वमेषु निगूहितं इति मूलमवतारयितुं शङ्कते ॥ ननु कथमित्यादि ॥ कचिदिति ॥ या वितण्डयान तत्वनिर्णयः किन्तु ख्यात्यादिकमेव भवति तस्यामित्यर्थः । फलाभेदेन क्वचिद्वितण्डायां जल्पाभेदमापाद्य तत्वनिर्णयख्यात्या दिरूपो भय कलिकायामपि वितण्डायां न कथैक्यं स्यात् फलैक्या भावा- दित्याह || निमित्तैक्याभावेनेति ॥ तथा च व्यतिरेकतोऽन्वयतश्च व्यभिचारात् न फलभेद: कथाभेदप्रयो- क्याभविनति ॥ तथा च व्यतिरेकतोऽन्वयतश्च व्यभिचारात् फलमदः कथ जक इति भावः ।
केचित्तु तत्व निर्णय फलिकाया वितण्डाया जल्पात् भेदे सिद्धे तज्जात्याक्रान्तत्वेन ख्यात्याद्यर्थवित - डाया अपि जल्पात् भेदः सिद्ध्यति इत्यत आह || निमित्तैक्याभावेनेति ॥ निमित्तसाजात्याभावेन कथा- साजात्यनुरित्यर्थः । तथा च ख्यात्याद्युद्दश्य ककथायां वित्तण्डात्वजात्याक्रान्तत्वमेव नेति भाव इत्याहु: ॥ निर्निमित्तस्येति ॥ तथा च अधिकारिभेदे स्वरूपभेदः प्रयोजकः । तस्मिंश्चाधिकारिभेद इत्यन्योन्याश्रय इति भावः । ननु स्वरूपभेदे नाधिकारिभेदः प्रयोजकः । किन्तु ? फलभेदादिकमन्यदेव । अतो नान्योन्याश्रय इत्यत आह || स्वरूपभेदाभाव इति ॥ उपलक्षणमेतत् । स्वरूप भेदाभावे जल्पस्येदं फलं वितण्डायास्त्वन्यदिति वचनानुपपत्तेश्चेत्यपि द्रष्टव्यम् । ननु वितण्डायां सदसतोरधिकारो जल्पे च सतोरेवेति न वचनविन्यासः, येन स्वरूपभेदोऽधिकारिभेदश्च प्रयोजकस्स्यात् । किन्तु ? सदसन्तौ यां कथां कुरुतः सा वितण्डेत्यादिरूप एव । तथा च अधिकारिभेद एवं स्वरूपभेदप्रयोजकतया प्राप्त इत्याशङ्कते ॥ सदसन्ताविति ॥ इदमुपलक्षणम् । सन्तौ यां कथां कुरुतः स जल्प इत्यादि द्रष्टव्यम् ॥ तथा सतीति ॥ स्वरूप भेदाभावेऽप्यधिक। रिभेदमात्रेण कथा भेदे इत्यर्थः ॥ प्रवृत्तिप्रकारभेदे नेति ॥ तत्वमेषु निगूहितं इत्युतर- वाक्ये वितण्डायां प्रतिवादन: स्वपक्षस्थापनाहीनतया समयकरणे निमित्तं वदता अयं प्रवृत्तिप्रकारभेदः सूचित इति ज्ञेयम् ।
(वे. टि.) ननु तर्हि अप्रकाश्य स्वसिद्धान्तं इत्यनुव्याख्यान इवात्रापि वितण्डाप्रवृत्तिप्रकार एव वक्तव्यः सतामन्यैः इत्यधिकारिभेदः किमर्थमुक्तः इत्यत आह || अधिकारिभेदस्त्विति ॥ अधिकारिभेदवचनं उक्तस्य सर्वस्य प्रवृत्तिप्रकारभेदस्य उपलक्षकमित्यर्थः ॥ क्वास्ति साधनदूषणेति ॥ प्रतिवादिनः साधनावकाशः, वादिनो दूषणावकाश इत्यर्थः । ननु प्रतिवादिनो जितत्वे पराजितत्वे वा तेन स्वपक्षसाधनं क्रियतां । को दोषः? इत्यत आह || एवमेवेति ॥ फलसिद्ध वपीत्यर्थः ॥ काकोलूकयुद्धवदिति ॥ सप्तम्यर्थे वतिः । तथा च यथा रात्रौ काकोलूकयुद्धे प्रसक्ते तत्र स्वात्मानमरक्षतोऽपि काकस्य उलूकघाति वितण्डायां प्रतिवादिन: स्वपक्षसाधनाभावेऽपि परप्रतिक्षेपमात्रेण विजय इत्यर्थः ।